बोधसार · अध्याय 14.9
[प्. 296-]
भूमिकाशास्त्रार्थनिर्णयः ।
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।
तावती साधकावस्था तारतम्येन योगिनाम्
पञ्चमीं तु समारभ्य सिद्धावस्थैव सा त्रिधा ।
तिसृणामप्यवस्थानां दृष्टान्तोऽत्र निरूप्यते
सुषुप्तेः प्रथमावस्था तस्यां यत्सुखमाप्यते ।
सुषुप्तेर्या घनावस्था तस्यामपि तदेव हि
सुखं घनसुषुप्तौ तत्सुखं गाढसुषुप्तके ।
तुर्यायामपि सप्तम्यामानन्दानुभवः समः
तथा य एव पञ्चम्यां षष्ठ्यामपि स एव हि ।
तुर्यायामपि सप्तम्यां ब्रह्मानन्दः स एव हि
अभ्यासतारतम्येन तारतम्ये चिरस्थितौ ।
अपरोक्षानुभूतेस्तु तारतम्यं मनाङ्ग हि
नास्वादिता सिता यावत्तावन्नास्वादितैव सा ।
एकदास्वादिता चेत्सा नैव नास्वादिता भवेत्
जाता चेत्सा तु जातैव जातु नाजाततां भजेत् ।
कथं भूयो भ्रमत्येष भ्रान्तिरेव गता यदि
अथ कश्चिद्विशेषः ।
तुरीया प्रथमाभासे विद्युदाभासलक्षणा ।
ततश्चञ्चलदीपाभा ततो निश्चलदीपवत्
सूर्यप्रभावच्च ततः सप्तमी चिरवर्त्तिनी ।
उदयास्तविहीना सा दिनपक्षर्त्तुवत्सरम्
पुष्कला निश्चला पूर्णा परमानन्दसुन्दरी
येषां ध्यानकलायां च लीयन्ते गुणपङ्क्तयः ।
येषां कृपाकटाक्षेण सद्यो मुक्तिरवाप्यते
पञ्चमीमथवा षष्ठीं सप्तमीं वा समाश्रिताः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
पूर्वावस्थाचतुष्के ये स्थिता देहं विहाय ते ।
पुनर्देहान्तरं प्राप्य ब्रह्माभ्यासं प्रकुर्वते
योगभ्रष्टास्त उच्यन्ते क्रमेण ब्रह्मगामिनः ।
योगिनो योगसिद्धाश्च दत्ताद्या जनकादयः
ईश्वरानुग्रहं प्राप्ता अर्वाचीनाश्च के चन ।
स्वरूपानुभवं प्राप्ता मुक्तास्ते सर्व एव हि
सुषुप्तौ केचिदाश्वस्ताः केचिद्घनसुषुप्तके ।
केचिद्गाढसुषुप्तौ च सर्वेषाममृतं समम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0