बोधसार · अध्याय 15
[प्. 305-]
अवस्थाव्यवस्था ।
अथावस्थाव्यवस्थाख्यं किञ्चित्प्रकरणं शृणु ।
यस्मिन्परीक्षिते सम्यक्परीक्ष्यं नावशिष्यते
जाग्रत्स्वप्नः सुषुप्तिश्च तथा मूढसमाधिता ।
मूर्च्छा मृत्युस्तुरीयञ्चेत्यवस्थाः सप्त कीर्तिताः
जाग्रत्स्वप्नः सुषुप्तिश्च व्यक्ता मूढसमाधिता ।
मूर्च्छा मृत्युस्तुरीयं च व्यक्ता नित्यानुभूतितः
उक्तं मूढसमाधानं भवप्रत्ययसंज्ञकम् ।
पुराऽसंप्रज्ञातनामसमाधेर्भेदवर्णने
तत्समाधिस्थिता जित्वेन्द्रादीन्स्वर्गेशतां ययुः ।
मृत्युर्मूर्च्छा प्रसिद्धेति तुरीयमभिधीयते
वेदान्तसंप्रदायेन निदिध्यासनदार्ढ्यतः ।
परमात्मनि चित्तस्य लयस्तु तुर्यमुच्यते
तत्र साक्षात्कृतं ब्रह्म मूलाविद्याविनाशकृत् ।
तत्र प्रश्नः ।
स्वप्नजागरयोस्तुल्यः संसाराडम्बरो मुने
तर्हि केन विशेषेण संज्ञाभेदस्तयोर्वद ।
अत्रोत्तरम् ।
जानीहि प्रथमं तात भेदं विस्मृतिबोधयोः
स्वप्नजागरयोर्भेदं पश्चाज्ज्ञास्यसि तं शृणु ।
विस्मृतिर्यन्न भासेत बोधो मिथ्यात्वनिश्चयः
जागरानन्तरं निद्रा तत्र स्वप्नो यदा भवेत् ।
स्वप्ने स्याज्जागराभानं न तु जागरबोधनम्
जागरोऽयं तु मिथ्येति बुद्धिः स्वप्ने न वर्तते ।
किन्तु जागरविस्मृत्या स्वप्ने स्वप्नार्थदर्शनम्
स्वप्नस्यैतन्निजं रूपं जागरस्याधुना शृणु ।
स्वप्नस्यानन्तरं तात जागरो हि यदा भवेत्
स्वप्नमिथ्यात्वबुध्याऽऽत्मस्वप्नबोधस्तदा भवेत् ।
अन्यच्च ।
स्वप्ने तु यादृशी तात भवेज्जागरविस्मृतिः
जागरे तादृशी नास्ति स्वप्नसंसारविस्मृतिः ।
जागरे स्मर्यते स्वप्नस्तस्य मिथ्यात्वदर्शनम्
स्वप्ने न स्मर्यते जाग्रन्न तन्मिथ्यात्वदर्शनम् ।
अनेनातिविशेषेण स्वप्नजागरयोर्भिदा
अथ प्रश्नान्तरम् ।
ननु मूढसमाधौ च मूर्च्छामृत्युसुषुप्तिषु ।
तुरीये च न दृश्यश्रीस्तर्हि तेषां भिदा कुतः
अत्रोत्तरम् ।
सिद्धिकामनया यैस्तु तप उग्रं कृतं महत् ।
देहोऽपि विस्मृतस्तैस्तु क्रिमिकीटादिभक्षितः
नेयं मूर्च्छा न रोगोऽयं न मृत्युर्जीवनादयम् ।
सुषुप्तानन्दविरहान्न सुषुप्तिरिति स्फुटम्
स्वरूपलाभविरहान्मूढत्वान्न तुरीयकम् ।
दृश्यभानं तु नास्त्यासु तावता न कृतार्थता
व्युत्थानानन्तरं तेषां सम्सारोऽपि यदास्थितः ।
यदात्मदर्शनं नास्ति संसारोऽबाधितस्ततः
कथयाम्यत्र दृष्टान्तं सावधानमनाः शृणु ।
स्वप्ने तु विस्मृतं जाग्रज्जाग्रत्स्वप्ने न बाधितम्
तस्मादनन्तरं जाग्रत्स्वप्नस्य च यथास्थितम् ।
जागरे बाधितः स्वप्नस्तेन मिथ्यात्वमागतः
तथा मूढसमाधौ तु विस्मृतं सकलं जगत् ।
व्युत्थानानन्तरं पश्चाद्यथापूर्वमवस्थितम्
तुरीये बाधितं विश्वं तस्मान्मिथ्यात्वमागतम् ।
व्युत्थानेऽपि मुनेस्तात तन्मिथ्यैव न वास्तवम्
रज्जुसर्पं यथा दृष्ट्वा कश्चिद्देशान्तरं गतः ।
यदा पुनः समायाति तदा तस्माद्बिभेत्यसौ
नायं सर्प इति ज्ञात्वा यदि देशान्तरं गतः ।
यदा पुनः समायाति तदा तस्माद्बिभेति न
तथा मूढसमाधानाद्गतः संसारविस्मृतिम् ।
यदा व्युत्थानमाप्नोति तदा संसारजं भयम्
यदि विद्वत्समाधानाद्गतः संसारविस्मृतिम् ।
यदा व्युत्थानमाप्नोति बाधितत्वाद्विभेति न
यदि विस्मरणादेव मुक्तिर्भविति देहिनः ।
सुषुप्तिर्जायते नित्यं तया मुक्तो न किं भवेत्
तस्मात्तुरीया सर्वासामुत्तमा च विलक्षणा ।
षडप्यवस्था एतस्याः कलां नार्हन्ति षोडशीम्
आब्रह्मकल्पं गरुडो यदि धावेत्सवेगतः ।
न चाप्नोति तथाप्येनं दूराद्दूरतरैव सा
श्रद्धा यद्यस्ति वेदान्ते तीव्रा यदि मुमुक्षुता ।
ध्यानाभ्यासस्तथा गाढः सर्वत्र सुलभैव सा
मृत्युर्मूर्च्छा सुषुप्तिश्च न तपस्तेन निष्फलाः ।
रूढमूढसमाधानं तप उग्रं महाफलम्
विद्या विद्वत्समाधिस्तु तेन मोक्षप्रदो हि सः ।
सप्तानामप्यवस्थानामेवंरूपा व्यवस्थितिः
सप्तावस्था इमाः सन्ति चित्तस्यैव चितेस्तु न ।
अवस्थाभवनं चित्तमवस्थासाक्षिणी तु चित्
अवस्थानां व्यवस्थेयं यदि भूयो विभाव्यते ।
अवस्थानां तदा साक्षी साक्षात्प्रत्यक्षमीक्षते
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0