भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 14.8

14.8.1

[प्. 288-]
अथ सप्तमी
ततः षष्ठीमतिक्रम्य तुरीयां याति सप्तमीम् ।
महाकक्षेति सैवोक्ता सैव गूढसुषुप्तिका

14.8.2

योगनिद्रेति सा प्रोक्ता परा काष्ठेति सा स्मृता ।
अनुत्तरं च सहजं स्वरूपस्थितिरित्यपि

14.8.3

मौनमेवावलम्बन्ते यस्यां हरिहरादयः ।
सा तु वर्णयितुं शक्या न केनापि कदाचन

14.8.4

चिदङ्गे कोमले लग्नो दैवादज्ञानकण्टकः ।
तं बोधकण्टकेनायं विनिवार्य सुखं स्थितः

14.8.5

अमृतजलधौ यस्मिन्वार्त्ता न मीनतरंगयोर् न च परिचयः पारावारस्थितेरपि कुत्रचित् ।
समरसपरब्रह्मानन्दप्रणुन्नविकल्पनः सहजगलितद्वैतज्वालः स भाति महामुनिः

14.8.6

बंधध्वंसमभीप्सुना सुमनसा जिज्ञासया तीव्रया ज्ञाते ब्रह्मणि बाधिताक्षविषये बोधे चमत्कुर्वति ।
स्वान्तर्मन्तृविमानमान्यविवृतिव्यावृत्तिनिर्भङ्गको भाति ज्ञानसुखात्मकः स्वयमयं योग्यापगानां पतिः

14.8.7

वाचा मौनमयी गतिः स्थितिमयी निद्रामयो जागरो निद्रा बोधमयी निशा दिनमयी नक्तंमयो वासरः ।
कर्म ब्रह्ममयं जगत्सुखमयं किञ्चिन्न किञ्चिन्मयं दुर्लङ्घ्यं गुणवर्त्म लङ्घितवतो वार्त्ता कथं वर्ण्यताम्

14.8.8

अत्यन्तहीनो बलपौरुषाभ्याम् अकिंचनो यो गलिताभिमानः ।
तेनैव नीता रिपवो विनाशं न ये हतास्तात महेन्द्रमुख्यैः

14.8.9

ब्रह्मविद्ब्रह्मविद्यायां भवान्यां पुत्रतां गतः ।
निजाङ्गे लालयत्येनं परमात्मा सदाशिवः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc