बोधसार · अध्याय 14.7
[प्. 281-]
षष्ठी भूमिका ।
भूमिकापञ्चकाभ्यासात्पदार्थाभाविनी भवेत् ।
षष्ठी घनसुषुप्तिः स्यान्महादीक्षेति सा भवेत्
महानिद्रेति सा प्रोक्ता यस्यामानन्दघूर्णिता ।
पदार्थविस्मृतिः सैव प्रोक्ता परिणतिश्च सा
तल्लक्षणानि ।
नरवाहनसंरूढाः सुप्ता एव यथा नृपाः ।
चलन्ति तद्वत्स्वानन्दे सुप्त एव चलत्यसौ
ध्यानाध्वरविधौ यस्य पशवश्चक्षुरादयः ।
स्वयमेवोपतिष्ठन्ति रन्तिदेवमखे यथा
पूर्णे बोधे समुत्पन्ने मनोबुद्धीन्द्रियादयः ।
अपूर्णाः पूर्णतां यान्ति का वाच्या तस्य पूर्णता
तत्सर्वममृतं तस्य यत्खादति पिबत्यपि ।
यत्र तिष्ठति सा काशी स जपो यत्प्रजल्पति
संचारस्तीर्थसंचारः समाधिः शयनं मुनेः ।
यं पश्यति स विश्वेशः शृणोत्युपनिषच्च सा
पीयते प्रेमपीयूषं श्लिष्यते परमा कला ।
भुज्यते परमानन्दो योगिना न स भोगिना
संप्राप्ते परमानन्दे न शोचति गतं वयः ।
भूतं भवद्भविष्यच्च सर्वमानन्दतां गतम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0