भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 14.6

14.6.1

[प्. 266-]
पञ्चमी भूमिका ।
दशाचतुष्टयाभ्यासादसंसक्तिस्तु पंचमी ।
सुषुप्तिप्रथमावस्था साक्षात्कारनवांकुरा

14.6.2

साऽपरोक्षा नईव निशा शृणु तस्यास्तु लक्षणम् ।
प्रथमः स्वचमत्कारः स्वरूपानन्दलक्षणम्

14.6.3

ब्रह्मत्वसंस्मृतिः सैव सैव जीवत्वविस्मृतिः ।
तदेवाज्ञानमरणममृतत्वं तदेव हि

14.6.4

आविर्भूता तु सा नैव नाविर्भूतत्वभाक्पुनः ।
कथं भूयो भ्रमत्येष भ्रान्तिरेव गता यदि

14.6.5

यथा वर्तुलपाषाणा गिरेः शिखरतश्च्युताः ।
ध्वंसंत्येव न तिष्ठन्ति विकारास्तद्वदत्र हि

14.6.6

मुनिरर्धकटाक्षेण यं विकारमवेक्षते ।
सद्यः पतत्यसौ पृथ्व्यां नोत्तिष्ठति यथा पुनः

14.6.7

अविगीते न तुष्येत्तु विगीते न विषीदति ।
विस्मरत्यखिलं कार्यं रमते स्वात्मनात्मनि

14.6.8

भूताविष्ट इवाकस्माद्वर्णाश्रमविधिक्रमम् ।
प्रेरितः पूर्वसंस्कारैः करोति न करोत्यपि

14.6.9

यथैव लौकिकज्ञाने प्रमाणं चक्षुरादयः ।
ब्रह्मज्ञानस्य विषये तथैवोपनिषन्मता

14.6.10

यत्साक्षित्वात्प्रमाणानि तानि कस्तत्र संशयः
विधिकिङ्करतां त्यक्त्वा ह्यकिञ्चित्करतां गतः ।
अकिञ्चनत्वमापन्नो न चिन्तयति किञ्चन

14.6.11

संलग्नेऽप्यातपे भानोर्हिमाचलशिलेव यः ।
बहिरन्तश्च संपूर्णः शीतलत्वं न मुञ्चति

14.6.12

स्फटिकः स्फटिकत्वज्ञः सलिलं सलिलत्ववित् ।
गगनं गगनत्वज्ञं यदि स्यात्सा दशा चितः

14.6.13

बुधो यथा न मुह्येत नानारङ्गगृहेष्वपि ।
तथा मुह्यति नऽऽत्माऽयं नानारङ्गगृहेष्वपि

14.6.14

योगी क्रीडति निद्राति हसत्यपि वदत्यपि ।
बहिर्मुखैरपि जनैः पिशाचैरिव शंकरः

14.6.15

न प्राप्तपरमार्थस्य तुलामर्हति वासवः ।
वासवस्तत्पदाकांक्षी न स वासवताप्रियः

14.6.16

वह्निपक्वं यथा मांसं पूर्ववत्स्थितमस्थिषु ।
संसक्तमप्यसंसक्तं स्वशरीरे तथा मुनिः

14.6.17

तत्र श्लोकाः ।
इयं पराङ्मुखीभूय पतिं प्रत्यगवेक्षते ।
प्रेमप्रसन्नया दृष्ट्या ह्यस्या यौवनमागतम्

14.6.18

न खेलति वयस्याभिः शिथिला गृहकर्मणि ।
रहः पश्यति चिह्नानि प्राप्ता प्राणपतेः सुखम्

14.6.19

न वेषो विहितः कश्चिन्न वा वचनचातुरी ।
किन्तु प्रेमातिसातत्याद्बालया लालितो हरिः

14.6.20

नालङ्कृता नो कुलीना न विदग्धा न सुन्दरी ।
यस्यां तु रमते स्वामी सा सौभाग्यवती वधूः

14.6.21

यस्मिन्देशे सिता नास्ति तद्देश्यो वेत्ति किं सिताम् ।
स एव वेद माधुर्यं येनैवास्वादिता सिता

14.6.22

तृष्णां विहाय तुच्छेभ्यो मुनिर्निःशल्यतां गतः ।
स्वरसायनतृप्तात्मा दिनानुदिनमेधते

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc