बोधसार · अध्याय 14.5
[प्. 255-]
चतुर्थभूमिकानिर्णयः ।
तृतीयभूमिकाभ्यासान्नाशमेति रजस्तमः ।
सत्त्वापतिश्चतुर्थी स्यान्निदिध्यासनरूपिणी
अत्राक्षेपपरीहारः ।
भोगार्थमेव देवत्त्वं प्राप्ता देवा न मुक्तये ।
मुमुक्षाविरहात्तेषां सत्त्वापत्तिर्न मुक्तिकृत्
अत्र श्लोकः ।
देवेष्वपि तथा शक्रकुबेरवरुणादयः ।
ये मुमुक्षां गतास्तेषां मुक्तिप्राप्तिः किमद्भुतम्
अथ लक्षणानि ।
एकान्ते मुक्तिगाथानां गानं रोदनमेव च ।
रोमाञ्चो गद्गदः कण्ठे सत्त्वापत्तेस्तु लक्षणम्
स्वमतमाह ।
वेदान्ताः सभ्यगभ्यस्ता अथ ध्येयो महेश्वरः ।
प्राप्तातिसौरभे भृङ्गे रसपानं गुणाधिकम्
नित्योऽस्मि शुद्ध एवास्मि क्वाज्ञानं क्व च बन्धनम् ।
एवमादिचमत्कारः सत्त्वापत्तेस्तु लक्षणम्
यथा निजकथास्तद्वच्छृणोत्युपनिषत्कथाः ।
यथाऽन्यस्य कथास्तद्वच्छृणोति जनसंकथाः
देहेन्द्रियमनःप्राणबुद्ध्यहङ्कारचेतसाम् ।
निरीक्ष्य विविधाश्चेष्टा आस्ते विस्मितवन्मुनिः
ज्ञत्वकर्तृत्वभोक्तृत्वजन्ममृत्युजरादिकान् ।
भावानन्यस्य जानाति तदन्यं भावमात्मनः
मोहजालाद्विनिर्गत्य जालादिव विहङ्गमः ।
खेचरत्वमनुप्राप्तो धन्यतामनुविन्दति
दरिद्र इव संप्राप्य निधानं विस्मयं गतः ।
ईश्वरानुग्रहो जात इति नृत्यति हृष्यति
विषयैः शब्दसंस्पर्शगन्धरूपरसैर्न यः ।
प्रियैरपि भवेत्तादृक्सात्त्विकानन्दमागतः
व्यतिरिक्तमिवात्मानं पश्यन्भावेषु सन्नपि ।
चाण्डालीमिव यो मायां न स्पृशन्दूरवत्स्थितः
औदासीन्येन यः पश्येत्स्वप्नाभं जागरे जगत् ।
सत्त्वापत्तिपरीपाकलक्षणं तदुदाहृतम्
अत्र श्लोकः ।
भावः सम्यक्परिज्ञातो ग्रहणेऽपि मनः कृतम् ।
आदानमवशिष्टं हि कृत्वाऽभूषणमात्मनः
अहं त्वनूढा तरुणी न कस्यापि परिग्रहः ।
एनमेव वरिष्यामि पतिं को वा हसिष्यति
हतः कामी कटाक्षेण कयाचिन्मृगचक्षुषा ।
व्यसनित्वमवाप्नोति तथाऽयं मुक्तिकान्तया
गुञ्जद्भृङ्गिध्वनिं श्रुत्वा गुञ्जन्कीटो यथा बिले ।
ब्रह्मास्मीति तथैवायं भवितुं ब्रह्म गुञ्जति
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0