बोधसार · अध्याय 14.4
[प्. 248-]
अथ तृतीयभूमिकानिर्णयः ।
भूमिकाद्वितयाभ्यासात्तृतीया तनुमानसा ।
मननापरपर्याया भवेत्तल्लक्षणं शृणु
सान्धकारगृहस्थस्य पर्यालोचनया चिरम् ।
सूक्ष्मोऽर्थो भासते यद्वत्तृतीयायां तथा मुनेः
बालस्य शूद्रकल्पस्य गायत्र्या उपदेशतः ।
यथा द्विजत्वमायाति तथा जात्यन्तरं मुनेः
दृष्ट्वा लोकस्थितिं लोलां सविस्मय इव स्थितः ।
अन्तरेव विषीदेत तृतीयालक्षणं हि तत्
दिनं गतं गता रात्रिर्गतमायुर्गतं वयः ।
कदा स्थास्यामि निष्ठायां यत्र मोहो न बाधते
गतेऽह्नि शोचति मुहुर्गतेनाह्ना किमर्जितम् ।
गतायां च तथा रात्रौ किं मे रात्र्याऽनयाऽर्जितम्
अनिषिद्धेषु भोगेषु प्राप्तेष्वपि यदृच्छया ।
निषिद्धानिव तान्पश्येत्सा स्थितिस्तनुमानसा
बहिर्मुखजनस्तुत्या लज्जते निन्दितो यथा ।
परमार्थिजनस्तुत्या प्रसादमधिगच्छति
तत्र श्लोकः ।
अस्यै तु पतिरात्मानं दातुमुत्कण्ठितः सदा ।
आदातुं न विजानाति नित्यमुत्कण्ठिताऽपि सा
सौभाग्यकामिनी नारी नायको रतिदायकः ।
परन्तु मुग्धभावेन किंचित्कालं विलम्बनम्
इदमेव कथं नु स्यादिति क्लिश्यति चात्मना ।
भूयः कटाक्षकलहं करोति स्वामिना सह
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0