भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 12.4

12.4.1

[प्. 147-]
शिवशक्तिपराक्रमः
अथ वक्ष्ये स्तुतिव्याजाच्छिवशक्तिपराक्रमम् ।
शोधिते सूक्ष्मया दृष्ट्या यस्मिन्निर्विस्मयो भवेत्

12.4.2

तां द्वैतरूपिणीमेव द्वैताद्वैतस्वरूपिणीम् ।
अद्वैतरूपिणीं शक्तिं स्मरामि परमात्मनः

12.4.3

केयं कस्य कुतः केन कस्मै कं प्रति कुत्र वा ।
कथं कदेत्यनिर्णीता तां वन्दे शक्तिमद्भुताम्

12.4.4

शिवः कर्त्ता शिवो भोक्ता शिवो वेत्ता शिवः प्रभुः ।
उपसर्जनमात्रं या तां वन्दे शक्तिमद्भुताम्

12.4.5

स्वयं कर्त्री स्वयं भोक्त्री स्वयं वेत्त्री स्वयं प्रभुः ।
साक्षिमात्रं शिवो यस्यास्तां वन्दे शक्तिमद्भुताम्

12.4.6

स्वलक्षणे महादेवे स्वलक्षणतया स्थिताम् ।
वित्तां स्वलक्षणैरेव तां वन्दे शक्तिमद्भुताम्

12.4.7

सलक्षणे महादेवे सलक्षणतया स्थिताम् ।
वित्तां सलक्षणैरेव तां वन्दे शक्तिमद्भुताम्

12.4.8

विलक्षणे महादेवे विलक्षणतया स्थिताम् ।
वित्तां विलक्षणैरेव तां वन्दे शक्तिमद्भुताम्

12.4.9

अचेत्यचित्स्वरूपत्वादचेतन इव स्थिते ।
चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमद्भुताम्

12.4.10

चेतिता चेतनेनेति सविकल्पस्वरूपतः ।
चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमद्भुताम्

12.4.11

शक्तिरेव न यस्यास्ति सोऽशक्तः किं करिष्यति ।
शक्त्या यया शिवः शक्तस्तां वन्दे शक्तिमद्भुताम्

12.4.12

शक्ता नूनं हि कार्येषु शक्तिः शक्तिमति स्थिता ।
शिवाश्रयादृतेऽशक्ता तां वन्दे शक्तिमद्भुताम्

12.4.13

शक्तिशक्तिमतोर्यस्मान्निर्विकल्पे न वस्तुता ।
सामरस्यं शिवे याता तां वन्दे शक्तिमद्भुताम्

12.4.14

भाविते भावुकैरेवं शिवशक्तिपराक्रमे ।
स्वयमुल्लसति स्वान्ते सामरस्यरसार्णवः

12.4.15

भक्ते भक्तिमयीं पशौ पशुमयीं विद्वत्सु विद्यामयीं सृष्टौ ब्रह्ममयीं स्थितौ हरिमयीं कल्पात्पुरश्चिन्मयीम् ।
जीवे वृत्तिमयीं जडे जडमयीं शक्तिं शिवस्याद्भुतां तां ध्यायामि पदे परात्परतरे स्वानन्दलीलामयीम्

12.4.16

आनन्दानपि संविहाय विषयानन्दानमन्दादरादादानार्थिभिरर्थितानपि जडैरानन्दलेशानमून् ।
आनन्दोपनिषत्प्रमाणपठितामानन्दसीमाशिखामानन्दामृतवाहिनीं भगवतीमानन्दरूपां भजे

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc