भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 12.3

12.3.1

[प्. 137-]
हठयोगः
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् ।
बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम्

12.3.2

तत्र गोरक्षः ।
एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् ।
यद्व्यावृत्तं मनो भोगादासक्तं परमात्मनि

12.3.3

परमं यदि वैराग्यमाहारस्तु यथोदितः ।
नित्यमेकान्तवासश्चेद्धठयोगो न दुर्लभः

12.3.4

परन्तु गुरुदीक्षाभिर्लभ्यते नान्यथा त्वयम् ।
व्यतिक्रमे महान्दोषः क्रमलाभे महान्गुणः

12.3.5

अनन्तविस्तारमयो हठः प्रोक्तः पुरारिणा ।
सारं तु बन्धत्रितयं तावता सिद्धिराप्यते

12.3.6

मूले तु मूलबन्धः स्यान्मध्ये स्यादुडियानकः ।
कण्ठे जालन्धरस्तेन सिद्धो भवति मारुतः

12.3.7

कुण्डलिन्याः सुषुम्णायां प्रविष्टो ब्रह्मरन्ध्रतः ।
मूलस्थाने स्थिता शक्तिर्ब्रह्मस्थाने सदाशिवः

12.3.8

अजपा नाम गायत्री योगिनां मोक्षदायिनी ।
तस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते

12.3.9

आधारं प्रथमं चक्रं स्वाधिष्ठानं तथैव च ।
मणिपूरं तृतीयं स्याच्चतुर्थकमनाहतम्

12.3.10

विशुद्धिः पञ्चमं चक्रमाज्ञाचक्रं तु षष्ठकम् ।
सप्तमं ब्रह्मरन्ध्रं स्याद्भ्रमरस्य गुहा हि सा

12.3.11

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन् मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं ह्येतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते

12.3.12

कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु सिद्धासनं गाढं वक्षसि सन्निधाय चुबुकं ध्यानं ततश्चेतसि ।
वारं वारमपानमूर्ध्वमनिलं प्रोत्सार्य सन्धारयन् प्राणं मुञ्चति बोधयंश्च शनकैः शक्तिप्रबोधो भवेत्

12.3.13

पुच्छे प्रगृह्य भुजगीं सुप्तां प्रबोधयेत्सुधीः ।
निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते बलात्

12.3.14

ऊर्ध्वं निलीनप्राणस्य त्यक्तनिःशेषकर्मणः ।
योगेन सहजावस्था स्वयमेव प्रजायते

12.3.15

ज्ञानं कुतो मनसि जीवति देवि यावत् प्राणो न नश्यति मनो म्रियते न तावत् ।
प्राणो मनो द्वयमिदं प्रलयं प्रयाति मोक्षं स गच्छति नरो न कदाचिदन्यः

12.3.16

अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्त्तते
दृष्ट्या निश्चलतारया बहिरिदं पश्यन्नपश्यन्नपि ।
मुद्रेयं किल शाम्भवी भगवती या स्यात्प्रसादाद्गुरोः शून्याशून्यविलक्षणं मृगयते तत्त्वं पदं शांभवम्

12.3.17

प्राणवृत्तौ विलीनायां मनोवृत्तिर्विलीयते ।
शिवशक्तिसमायोगो हठयोगेन जायते

12.3.18

गोरक्षचर्पटिप्राया हठयोगप्रसादतः ।
वञ्चयित्वा कालदण्डं ब्रह्माण्डं विचरन्ति हि

12.3.19

शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् ।
शिवशक्तिसमायोगं कुर्वन्ति हठयोगिनः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc