भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 12.1

12.1.1

[प्. 116-]
योगदीक्षाचिन्तामणौ पातञ्जलयोगः
अथातो योगदीक्षायाश्चिन्तामणिरुदीर्यते ।
तत्प्राप्त्याऽबोधदारिद्र्यं सर्वमेव विनश्यति

12.1.2

महायोगेश्वरः शम्भुः महायोगेश्वरो हरिः ।
महायोगेश्वरो ब्रह्मा भवानी सिद्धयोगिनी

12.1.3

सनकाद्या वसिष्ठाद्याः कचदत्तशुकादयः ।
अरुन्धतीप्रभृतयो योगात्सिद्धिमुपागताः

12.1.4

आत्मज्ञानेन यो योगो जीवात्मपरात्मनोः ।
स योगस्तस्य हेतुत्वाद्योगा बहुविधा मताः

12.1.5

विरोधिलक्षणान्यायादभद्रा भद्रिका यथा ।
सर्वदुःखवियोगस्तु योग इत्याह केशवः

12.1.6

अत्यन्तचपलस्यापि मनसो योगशक्तितः ।
निश्चलत्वं प्रजायेत विन्ध्यस्येव महागिरेः

12.1.7

तथा च भुशुण्डः
नाभसीं धारणां बद्ध्वा तिष्ठामि विगतज्वरः ।
यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति

12.1.8

चित्तवृत्तिनिरोधस्तु मुख्यः पातञ्जलो मतः ।
प्राणवृत्तिनिरोधस्तु गौणस्तत्साधनत्वतः

12.1.9

तत्र सूत्रं यमनियमासनप्राणायाम
प्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि
यमोऽस्तेयऋताहिंसाब्रह्मचर्यापरिग्रहाः ।
नियमः शौचसन्तोषतपः पाठेश्वरार्पणम्

12.1.10

आसनं सुखरूपेण शरीरस्थिरता मता ।
प्राणायामः प्राणदण्डः कुम्भपूरकरेचकैः

12.1.11

प्रत्याहारस्त्विन्द्रियाणां चलानां प्रतिरोधनम् ।
क्वचित्प्रदेशे चित्तस्य स्थापनं धारणा मता

12.1.12

निरन्तरश्चित्प्रवाहो ध्येयस्य ध्यानमीरितम् ।
समाधिरष्टमो ज्ञेयस्तदात्मकतया स्थितिः

12.1.13

संप्रज्ञातस्तदन्यश्च समाधिर्द्विविधो हि सः ।
यमादिपञ्चबहिरङ्गमन्तरङ्गमथापरम्

12.1.14

वितर्केण विचारेणानन्देनास्मितया तथा ।
अनुस्यूतः समाधिस्तु संप्रज्ञातश्चतुर्विधः

12.1.15

यत्र न ज्ञायते किञ्चित्सोऽसंप्रज्ञात उच्यते ।
द्विधा भवप्रत्ययवानुपायप्रत्ययश्च सः

12.1.16

मूढानामपि जायेत तपोदार्ढ्यान्मनोलयः ।
प्रकृतौ वा महतत्त्वे भवप्रत्यय एव सः

12.1.17

त्रैलोक्यराज्यकामस्य हिरण्यकशिपोर्यथा ।
शरीरं क्रिमिभिर्भुक्तं वल्मीकेनापि संवृतम्

12.1.18

श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकम् ।
मनोलयो मुनीन्द्राणामुपायप्रत्ययस्तु सः

12.1.19

उक्तं व्युत्थितचित्तानां समाधानमभीप्सताम् ।
तपश्च वेदपाठश्च सर्वकर्मार्पणं हरौ

12.1.20

क्लेशकर्मविपाकैश्च चित्ररूपैस्तदाशयैः ।
अपरामृष्ट एवैकः कश्चित्पुरुष ईश्वरः

12.1.21

स सर्वज्ञः स्वभावेन प्रणवस्तस्य वाचकः ।
तदयं भावनापूर्वं तज्जपो मोक्षसाधनम्

12.1.22

यथा रोगस्तन्निदानं भेषजं चाप्यरोगता ।
विवेचनीयभेदेन चिकित्साऽस्ति चतुर्विधा

12.1.23

जन्मदुःखं तथा मोहो विज्ञानं च विमुक्तता ।
विवेचनीयभेदेन योगशास्त्रं चतुर्विधम्

12.1.24

अविवेकः पुंप्रकृत्योः स मोहो दुःखकारणम् ।
समत्वपुरुषान्यत्वख्यातिबोधेन नश्यति

12.1.25

योगाभ्यासप्रसक्तस्य सिद्धयो भोगदायिकाः ।
आयान्ति नादरः कार्यो ह्यन्तराया मता यतः

12.1.26

धारणाध्यानवैचित्र्यात्सिद्धिभेदो य ईरितः ।
अत्यन्तानुपयोगित्वात्स तु नात्र निरूपितः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc