बोधसार · अध्याय 11
[प्. 104-]
सांख्याञ्जनशलाका
नेत्रयोरञ्जनं कार्यं सांख्याञ्जनशलाकया ।
ततस्तिमिरनाशेन सूक्ष्मवस्तु विलोक्यते
कपिलेन मुकुन्देन देवहूती प्रबोधिता ।
सर्वतत्त्वविवेकेन तत्सांख्यमभिधीयते
सर्वा विकृतयो यस्याः स्थूलसूक्ष्माश्चराचराः ।
अस्ति काचिदनिर्देश्या प्रकृतिस्त्रिगुणात्मिका
महतत्त्वमहङ्कारः पञ्च तन्मात्रकाणि च ।
प्रकृतिर्विकृतिश्चेति सप्तैतानि भवन्ति हि
स्वकारणानां विकृतिः प्रकृतिः स्वोद्भवस्य यत् ।
एवमष्टौ प्रकृतयस्ततो विकृतयो भवन्
व्योमादिपञ्चभूतानि पञ्च ज्ञानेन्द्रियाणि च ।
कर्मेन्द्रियाणि पञ्चैव मनसा सह षोडश
खं वायुरग्निस्तोयं भूर्भूतपञ्चकमुच्यते ।
शब्दस्पर्शौ रूपरसौ गन्धस्तेषां गुणाः क्रमात्
श्रोत्रं त्वक्चक्षु रसनं घ्राणं ज्ञानेन्द्रियाणि च ।
वाक्पाणिपादपाय्वादि पञ्च कर्मेन्द्रियाणि च
उभयात्मा मनस्तेन चतुर्विंशतिरीरिता ।
तत्त्वानां तद्विकारस्तु सर्वं चैव जगत्त्रयम्
प्रकृतेस्त्रिगुणात्मत्वात्सर्वं हि त्रिगुणात्मकम् ।
रक्तश्वेतश्यामरूपा रजःसत्त्वतमोगुणाः
रजश्चलं तमः स्तब्धं प्रकाशस्सात्विको मतः ।
तमोऽधमं रजो मध्यं सत्त्वमुत्तममेव हि
लोभादयो रजोभावास्तमसो जडतादयः ।
सुखप्रसादबोधाद्या भावाः सत्त्वस्य कीर्त्तिताः
देवादयः सात्त्विकाः स्युर्नराद्या राजसाः स्मृताः ।
तामसाः पशुभूताद्या एवं सर्वं विविच्यताम्
विरोधिनस्सहायाश्च मिथः कार्यं च कारणम् ।
मिलित्वा कार्यकर्त्तारो गुणा विषमचेष्टिताः
विश्वं गुणात्मकं सर्वमात्मा निर्गुण एव हि ।
प्रकाशकतया तत्र प्रविष्ट इव भासते
यथा द्वात्रिंशद्दन्तस्था रसज्ञा रसवेदिनी ।
चतुर्विंशतितत्वान्तः स्वात्मज्ञस्तत्त्ववित्तथा
एकमेव निजं नाथं माया विषयलम्पटा ।
बहुरूपधरं कृत्वा वेश्येव खलु खेलति
अपृथग्भावरूपेण मिलित्वा पुरुषेण हि ।
विचित्राकाररूपैस्तं सन्नर्त्तयति नर्त्तकी
निर्दोषो निश्चलो नाथः सदोषा चञ्चला वधूः ।
दम्पत्योरनयोर्नूनं रसभङ्गो भविष्यति
पृथक्त्वेन परिज्ञाता दुष्टरूपतयाऽपि च ।
न मुखं दर्शयत्येषा सलज्जा म्रियतेऽपि च
प्रकृतिर्विकृतिर्नापि पुरुषो निश्चलात्मकः ।
शुद्धबुद्धस्वरूपोऽसाविति सांख्यविनिर्णयः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0