भृगुसंहिता · अध्याय 5
इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थो ऽध्यायः
अथ पञ्चमो ऽध्यायः
प्रासादलक्षणम्.
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणम् ।
प्रसादङ्कुरुतेयेन प्रासादैर् अतिकीर्तितम्
अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः ।
मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरम्
तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः ।
रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा
क्रमशो ऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतम् ।
मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतम्
प्रतिमायाविभागेन तालगण्येन? भाजनम् ।
अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः
प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः ।
यागोपकरणानास्तु मात्राङ्गुलविधानतः
देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा ।
अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।
षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः
हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः ।
एकतलादिकल्पनम्
त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच
अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः ।
द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः
पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः ।
तलंप्रत्यधिकङ्कुर्यात् षड्ढस्तन्तुविशेषतः
आद्वादशतलादेवं कुर्याद्विस्तारमानकम् ।
विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते
विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमम् ।
एकादशांशमधमं विस्तारेसप्तधाकृते
आद्वादशतलादेवमुत्सेधन्तुविधीयते ।
प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशम्
गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदम् ।
बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेत्
षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः ।
नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते
त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा ।
नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेत्
न्थूप्यन्तञ्चतुरश्रंस्यान् नागरंसमुदाहृतम् ।
कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेत्
कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते ।
बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेत्
यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि ।
पीठस्यत्रिगुणङ्गभंन् गर्भार्धंभित्तिरुच्यते
गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेत् ।
अग्रतोमण्डपङ्कुर्यात् प्रासादसमविस्तृतम्
प्रासादस्य समायामं दशांशंमुखमण्डपम् ।
प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितम्
व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते ।
उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतम्
उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते ।
विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेत्
कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः ।
भागमेकमधिष्ठानमुत्से धोवसुधाभवेत्
पादायामोद्विभागस्स्याद् भागःप्रस्तारौच्यते ।
भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेत्
भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते ।
काममेवंसमाख्यात मनुकायमधोच्यते
कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकम् ।
एकभागस्तुविस्तारं भागमेकन्तलन्तथा
दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलम् ।
युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति
पादमस्यतुविष्कंभ मष्टभागंविहीनकम् ।
स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः
उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेत् ।
अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेत्
कुमुदन्तुद्वितीयेन भागेनैवतुकारयेत् ।
कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकाम्
कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते ।
पादबन्धमितिख्यातं सर्वकार्येषुपूजितम्
प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः ।
जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते
भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेत् ।
पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा
द्वाभ्यांप्रतिमुखङ्कुर्यात् प्रतिक्रममिदंबवेत् ।
अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते
चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेत् ।
कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकम्
कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि ।
विस्तारेणसमंवापि द्विगुणंवापिमूलतः
चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा ।
कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकम्
पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते ।
पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा
द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः ।
श्रीकरञ्चन्द्रकास्तञ्च सौमुख्यंप्रियदर्शनम्
यथाक्रमेणनामानि कर्तव्यानिविशेषतः ।
श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच
चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतम् ।
अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते
कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते ।
कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतम्
आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डम् ।
एकेनपद्मकेनैव वृत्तमेकेनवातथा
विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते ।
अध्यर्थमास्यविस्तारं हारोधामूलपादवत्?
विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते ।
मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णम्
त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच ।
भागावाफलकारामा वेत्रावापादरूपवत्
पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः ।
स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः
तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतम् ।
समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते
त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमम् ।
उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते
जगत्यन्तेकुमुदान्ते पट्टिकान्ते ऽथवापुनः ।
जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियात्
हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः ।
प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा
गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तराम् ।
भूतसिंहोपमामूर्ध्वसारवाराधिकारयेत्
द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः ।
बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा
प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरम् ।
व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभाम्
वारिसंचारगंभीरतारं झझन्रलक्षणम् ।
अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतम्
सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः ।
वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः
शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके ।
आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेत्
तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमात् ।
बेरप्रासादगभन्स्य यावत्तालस्यचावधि
धारान्तुकेवलङ्कुर्याद् भित्तौतालस्यधीमतः? ।
श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा
धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेत् ।
द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेत्
मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसम् ।
यःकरोत्यन्यथाचास्मा दभिचारायचैवहि
एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकम् ।
विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेत्
उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेत् ।
अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः
स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेत् ।
तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदम्
द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकम् ।
द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मम्
शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकम् ।
एकेनपट्टिकाङ्कुर्यात् कण्ठमेकेनकारयेत्
द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकाम् ।
एवंप्रस्तारमाख्यातं तोरणंवक्ष्यते ऽथुना
पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा ।
प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेत्
विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकम् ।
मकरांशन्त्रियंशेन शेषंपादमितिस्मृतम्
पादान्तराग्रमधवाविस्तारन्तोरणस्यतु ।
पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः
प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणम् ।
वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितम्
गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते ।
निगन्मन्तुतदर्धंस्यात् त्रिपादंसममेवचा
शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकाम् ।
विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः
कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते ।
कृत्वाप्रासादषड्भागमेकभागंविधीयते
भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेत् ।
चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः
शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेत् ।
एकनासिकयायुक्तं पञ्जरंसमुदाहृतम्
ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः ।
कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मम्
निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकम् ।
स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः
विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं ।
तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः
मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0