भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 27

27.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशो ऽध्यायः.
अथ सप्तविंशो ऽध्यायः
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः ।
यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि

27.2

अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः ।
यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेत्

27.3

अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने ।
हविर्निवेदने वापि हीने शान्तिं समाचरेत्

27.4

तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेत् ।
अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकम्

27.5

पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा ।
पुनरप्यङ्कुरान् कृत्वा पश्चात्कार्यं समाचरेत्

27.6

कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः ।
राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेत्

27.7

"क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेत् ।
अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि

27.8

अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकम् ।
सूक्तं तु पौरुषं ब्राह्मं सौम्यं चैव तु व्याहृतिः

27.9

हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेत् ।
अक्ष्युन्मेषणकाले तु गवादीनामसंभवे

27.10

दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च ।
तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमात्

27.11

तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः ।
अक्ष्युन्मेषणहीने वा राहुसौरोदये ऽथ वा

27.12

अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने ।
सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकम्

27.13

नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेत् ।
पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते

27.14

हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च ।
जलाधिवासं त्रियहमेकाहं वापि कालयेत्

27.15

यज्ञालये महावेद्यां कृतायामप्रमाणतः ।
अन्यदेशकृतायां वा विहीनायां च शोभनैः

27.16

तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकम् ।
श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेत्

27.17

ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेत् ।
विपरीते ऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकम्

27.18

पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेत् ।
अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरम्

27.19

ब्राह्मं सौम्यमथाग्नेयं विधिना कारयेत्ततः ।
अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु

27.20

मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः ।
पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते

27.21

मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरम् ।
अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेत्

27.22

निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः ।
वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमात्

27.23

तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च ।
तत आहवनीयाग्नावावसध्ये ततः परम्

27.24

सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेत् ।
विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते

27.25

वैष्णवं पावकं ब्राह्मंसौम्यं हुत्वा पुनश्चरेत् ।
तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा

27.26

नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतम् ।
वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमात्

27.27

उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः
आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) ।
तण्डुलैर् एकजातीयैर्द्विप्रस्थैः पाचयेच्चरुम् गव्यं च नवनीतं च लौकिकानलसंस्कृतम्

27.28

संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा ।
आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि

27.29

तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकम् ।
वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः

27.30

व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेत् ।
आघारिते ऽग्नौ नष्टे तु "अयं ते योनिऽ मुच्चरन्

27.31

आरोपयेच्च समिधं तद्भस्मनि यथार्हतः ।
"उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिके ऽनले

27.32

विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकम् ।
परिस्तरादिद्रव्याणां दाहे भेदे ऽथ नाशने

27.33

पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकम् ।
आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः

27.34

पात्रे ऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि ।
हविर्विशेषे ऽनु क्तेतु घृतं वा सघृतं चरु

27.35

द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै ।
वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेत्

27.36

प्रायश्चित्तानले ऽनुक्ते छुल्ल्यां नित्यानले ऽपि वा ।
क्रियाहीने विपर्यासे मन्त्राणां संकरे ऽपि वा

27.37

वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमात् ।
पुण्याहहीने पुण्याहमन्त्रान् द्वादशशो जपेत्

27.38

वास्तुहोमविहीने तु तन्मन्त्रान् दशशो हुनेत् ।
प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः

27.39

विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेत् ।
रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा

27.40

बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः ।
रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकम्

27.41

दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परम् ।
बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा

27.42

हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये ।
वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः

27.43

तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवम् ।
अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेत्

27.44

वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेत् ।
प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः

27.45

पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः ।
दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्,

27.46

कुंभे प्रमाणहीने वा दोषयुक्ते ऽपि वा तथा ।
वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः

27.47

यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकम्

27.48

जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेत् ।
आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवम्

27.49

भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकम् ।
पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च

27.50

हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणाम् ।
ब्राह्मणान् भोजयित्वैव संपूज्यैव च वैष्मवान्

27.51

अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः ।
स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः

27.52

तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च

27.53

ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेत् ।
आचार्यदक्षिणां दद्याद्वैष्णवान् पूजयेद्विधिः

27.54

स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेत् ।
पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेत्

27.55

न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः ।
श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च

27.56

कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि ।
आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकम्

27.57

शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनम् ।
अलाभे समिधां कृह्य पालाशीर्वटसंभवाः

27.58

आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेत् ।
दर्भान् कुशान्वा समिधो मासातीतान् प्रगृह्य च

27.59

वारुणं वैष्णवं ब्राह्मं सौम्यमाग्नेयमेव च ।
आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा

27.60

दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा ।
वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेत्

27.61

अनुक्तदेशादानीता मृदो वा वालुकास् तथा ।
अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेत्

27.62

आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकम् ।
जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेत्

27.63

अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेत् ।
वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा

27.64

दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च ।
आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेत्

27.65

कलशन्यासरचनाविपर्याने तु वैष्णवम् ।
पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेत्

27.66

स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः ।
पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि

27.67

शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् ।
कलशस्नानशयने प्रत्येकं दशशो हुनेत्

27.68

हीने वा विपरीते वा तत्र हौत्रप्रशंसने ।
ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि

27.69

अवाहनादावर्चायां विपरीते विवर्जिते ।
वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश

27.70

सर्वेषामुक्तहोमानां विपरीते विवर्जिते ।
पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम्

27.71

शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकम् ।
हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेत्

27.72

हीने चाध्ययने सारस्वतमष्टाधिकं शतम् ।
प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेत्

27.73

यथालाभं च गृह्णीयादलाभे षोडशर्त्विजाम् ।
तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः

27.74

प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि ।
कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा

27.75

आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः ।
मोहादनुष्ठिताशौचाःपतन्तिनरके ऽशुचौ

27.76

गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा ।
आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन्

27.77

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेत्

27.78

आचार्यदक्षिणाकाले ऽतीते हुत्वा तु वैष्णवम् ।
मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतम्

27.79

यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेत् ।
ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेत्

27.80

त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी ।
हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः

27.81

यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेत् ।
इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेत्

27.82

अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः ।
भूमिभोगमकल्प्यैव महाशान्तिं समाचरेत्

27.83

असंकल्पितवृत्तिस्तु देवावासो न वर्धते ।
अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते

27.84

तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते ।
आपद्यपि च कष्टायां पूजामेतां न लोपयेत्

27.85

यदैव लुप्यते पूजा येन केनापि हेतुना ।
अग्रेर्ऽचकमियाद्दोष आर्द्रमेषो ऽपराध्यति

27.86

तस्माद्दायेन भूम्यादि स्थिरदानेन सादरम् ।
रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः

27.87

यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः ।
तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि

27.88

भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः ।
आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः

27.89

तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः ।
सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः

27.90

दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः ।
यथार्हमुपयुञ्जीरन् स्वशक्तिं तत्सुखाय वै

27.91

प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते ।
आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलम्

27.92

देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु ।
तदतिक्रम्य पूजां तु कारयेदितरेण चेत्

27.93

रौरवं नरकं याति कर्ता कारयिता च यः ।
तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेत्

27.94

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः

27.95

न त्य क्तविभवो जातु भवेच्च विभवे सति ।
यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेत्

27.96

अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवम् ।
विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरम्

27.97

सभ्ये ऽन्तहोमहीने तु वैष्णवं पावकं तथा ।
व्याहृतीश्च हुनेद्विद्वान् दशकृत्वस्समाहितः

27.98

अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिम् ।
श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकम्

27.99

नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेत् ।
ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि

27.100

प्रमादात्कुंभतीर्थेन तेषामावाहने कृते ।
"इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा

27.101

अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकम् ।
जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः

27.102

अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते ।
सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि

27.103

कवाटोद्घाटने हीने नित्याग्नौ वा महानने ।
वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा

27.104

शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च ।
अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते

27.105

पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकम् ।
मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते

27.106

वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च ।
यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः

27.107

द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेत् ।
देवस्य स्नपने हीने वैष्णवे वारुणं हुनेत्

27.108

"अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन् निष्कृतिर्भवेत् ।
पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितम्

27.109

अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः ।
वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेत्

27.110

नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै ।
स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि

27.111

ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च ।
पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेत्

27.112

पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च

27.113

हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेत् ।
संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकम्

27.114

हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेत् ।
धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवम्

27.115

हुत्वार्चयेद् धातृमुखान् तथा परिषदः क्रमात् ।
उपचारविपर्यासे "क्षमऽन्वेति प्रणम्य च

27.116

अनुमान्यार्चयेद् देवं हीने चैव तु विग्रहे ।
तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः

27.117

पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः ।
उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतम्

27.118

गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेत् ।
अर्चाकाले ऽन्यकालं वा स्मये वा मूषिकादिभिः

27.119

मरुता वापि विच्छिन्नमजस्रं दीपमादरात् ।
द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकम्

27.120

वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेत् ।
तत्काले सर्वदीपानां नाशे दोषो महत्तरः

27.121

देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च ।
पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेत्

27.122

बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति ।
मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेत्

27.123

अर्चाकाले यवनिकाहीने चैव प्रजापतिम् ।
वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः

27.124

वेददूषक पाषण्ड पापरोगान्वितैर्जनैः ।
प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च

27.125

तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च ।
रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेत्

27.126

यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे ।
मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिम्

27.127

नैवार्चनं हविर्दानं ततः पूर्वं समाचरेत् ।
ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकम्

27.128

पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेत् ।
एककालार्चने हीने द्वितीये द्विगुणं चरेत्

27.129

तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते ।
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च

27.130

हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेत् ।
त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेत्

27.131

अतीते द्वादशाहेतु संधायौपासनानले ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च

27.132

आलये परिषद्देव मन्त्रान् हुत्वा च शक्तितः ।
कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेत्

27.133

मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः ।
सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम्

27.134

हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च ।
कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिम्

27.135

विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा ।
तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेत्

27.136

अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरम् ।
महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनम्

27.137

ब्राह्मणान् भोजयित्वैव शताष्टकलशैः पुनः ।
संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेत्

27.138

अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि ।
हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेत्

27.139

हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः ।
पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि

27.140

तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेत् ।
हीने हविष्येक काले द्वितीये द्विगुणं भवेत्

27.141

तृतीये त्रिगुणं कुर्यादेकस्मिन् दिवसे गते ।
वैष्णवं श्रीमहीमन्त्रान् मूर्ति होमं तथा हुनेत्

27.142

देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेत् ।
सोपदंशमपक्वं च शीतं पर्युषितं तथा

27.143

पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितम् ।
विवृतं स्रावितं चैव विकृतं दृष्टि दूषितम्

27.144

अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितम् ।
हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून्

27.145

आग्नेयं वारुणं चैव वायव्यं दशशो हुनेत् ।
द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेत्

27.146

निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः ।
वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेत्

27.147

जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेत् ।
पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः

27.148

व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते ।
निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु

27.149

वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः ।
"क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेत्

27.150

मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते ।
निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिम्

27.151

वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च ।
अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेत्

27.152

महाहविषि चैतैन्तु संयुक्ते तत्र दूषितम् ।
पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरम्

27.153

भस्मांभसाकुशै "रापो हिरण्य पवमानऽकैः ।
प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेत्

27.154

पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः ।
कोष्णं चेदर्पयेत् प्रातरर्चनान्तेन दोषभाक्

27.155

पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेत् ।
असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा

27.156

जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् ।
हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेत्

27.157

अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि ।
दूषितेष्वध हीनेषु तस्य तस्याधिदैवतम्

27.158

मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेत् ।
अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच

27.159

संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेत् ।
नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेत्

27.160

यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरम् ।
अग्निसंरक्षणे ऽशक्ता "वयन्ते योऽनिमुच्चरन्

27.161

समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके ।
न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमात्

27.162

सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते ।
तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिम्

27.163

उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः ।
अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमम्

27.164

यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलम् ।
तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेत्

27.165

शिरसा धारयन् पात्रं त्रिर्द्विर्वा सकृदेव वा ।
देने ततः परीयाच्च देवागारं प्रदक्षिणम्

27.166

अथ हित्वा बलिद्रव्यं शिबिकादौ गजे ऽथवा ।
अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणम्

27.167

प्रातर्भ्रमणहीने तु वैष्मवं सौरसौम्यकम् ।
प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे

27.168

वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेत् ।
हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिम्

27.169

तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेत् ।
एकाहे तु बलौ हीने नित्याग्नौ वा महानने

27.170

वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।
दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेत्

27.171

देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः ।
छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा

27.172

अलाभे चामरादीनां वायव्यं चैव हूयते ।
दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयम्

27.173

द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च ।
द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः

27.174

औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च

27.175

रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेत् ।
माने ऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तम्

27.176

नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये ।
परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेत्

27.177

द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेत् ।
वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः

27.178

सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलम् ।
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च

27.179

श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च ।
हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेत्

27.180

पतिते ऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववत् ।
बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा

27.181

प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणम् ।
बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा

27.182

सौरं सौम्यं वैष्णवं च हुत्वा पुनरथाचरेत् ।
पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवम्

27.183

प्रमाणहीने ऽन्नबलौ वैष्णवं च प्रजापतिम् ।
जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेत्

27.184

आवाहनं विना चान्नबलौ तु भ्रमणेकृते ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च

27.185

हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेत् ।
बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते

27.186

वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमात् ।
निवेद्य विष्वक्चेनाय प्रदाय मुखवासनम्

27.187

पुनश्च बल्युद्धरणं विधिना कारयेत्ततः ।
अकृते बलिदाने तु प्राश्य पादोदकं हरेः

27.188

प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेत् ।
प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च

27.189

तीर्थप्रसाददानं वा पादुकाग्रहणं तथा ।
नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेत्

27.190

पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेत् ।
प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेत्

27.191

महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेत् ।
तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरम्

27.192

सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि ।
यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च

27.193

अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः ।
नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेत्

27.194

आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेत् ।
यद्यवैखानसो विप्रः कदापि हरिमन्दिरे

27.195

समिच्छेदग्रसन्मानं तद्देवस्य विमाननम् ।
यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति

27.196

अज्ञानादथ वा मोहादाचले दन्यथायदि ।
द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेत्

27.197

अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः ।
पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयम्

27.198

पिता हि भगवान् विष्णुपुत्रास्स्युः पूजका हरेः ।
तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः

27.199

अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रिताम् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेत्

27.200

विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते ।
चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतम्

27.201

शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितम् ।
नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकम्

27.202

पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः ।
स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः

27.203

ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेत् ।
काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेत्

27.204

अन्यथा चेन्महादोषो यजमानो विनश्यति ।
आलयात्पुरतश्चैव उत्तरे वा मनोरमे

27.205

उत्तमं स्नपनागारमैशान्यां मध्यमं भवेत् ।
पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितम्

27.206

आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेत्

27.207

स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः ।
संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा

27.208

नैमित्तिकं समाप्यैव नित्यपूजं समाचरेत् ।
अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः

27.209

पूर्वरात्रौ प्रतिसरे हीने च शयने तथा ।
वैष्णवं श्रीमहीमन्त्रान् हुत्वा सौदर्शनं तथा

27.210

शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः ।
एमबेरे कौतुके तु कर्तव्ये शयनं विना

27.211

बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेत् ।
कृते ऽंकुरार्पणे हीने स्नपने वैष्णपं तथा

27.212

सौम्यं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेत् ।
विनांकुरार्पणं चाथ स्नापयेदिति केचन

27.213

प्रमाणहीने ऽधिके वा पङ्क्तौ स्नानावटे ऽपि च ।
वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेत्

27.214

हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च ।
पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान्

27.215

इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेत् ।
कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतम्

27.216

आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवम् ।
भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः

27.217

पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेत् ।
धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः

27.218

अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा ।
जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः

27.219

वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवम् ।
ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि

27.220

पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि ।
जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेत्

27.221

उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमात् ।
प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा

27.222

वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेत् ।
प्राशनं प्रोक्षं वापि शास्त्रे ऽस्मिन् यत्र चोद्यते

27.223

अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः ।
साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववत्

27.224

आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः ।
कलशानां विपर्यामे तद्धृतेनैव चाप्लुते

27.225

वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः ।
शुद्धोदैस्स्नापयेच् चैव यथावच्च पुनर्न्यसेत्

27.226

कृते तु कलशन्यासे श्वकाकादिभिरेव वा ।
अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववत्

27.227

शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेत् ।
कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेत्

27.228

अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतम् ।
रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेत्

27.229

वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेत् ।
यथोक्तस्नपने हीने कथं चित्स्नपनं चरेत्

27.230

अथ वा कारयेच् छुद्धस्नपनं वा विधानतः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे

27.231

कालादिभेदन्तेषां च लक्षणं च पुरोदितम् ।
पुरस्कृत्य तिथिं केचित् केचिन्नक्षत्रपूर्वकम्

27.232

संकल्पयन्त्यवभृथं वरमृक्षापवर्गकम् ।
अकृते नियते कालं कृते वानियते तथा

27.233

कालोत्सवे महान् दोषस्तत्र कुर्यात्तुनिष्कृतिम् ।
उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेत्

27.234

विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेत् ।
अन्यथा तु कृतं कार्यमकृतं स्यादसंशयम्

27.235

अन्यस्मिन् वापि मासे तु न कुर्याद्यदि चोत्सवम् ।
एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते

27.236

एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः ।
सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेत्

27.237

एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः ।
तत्र देवो न रमते यो ऽसावुत्सव दैवतम्

27.238

यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः ।
तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च

27.239

तदभावे तु तत्पुत्रैःपौत्रैस् तद्वंशजैस्तथा ।
तन्नियुक्तैस् तदीयैर्वापूर्वाभावे परैश्चरेत्

27.240

अन्यथा क्रियते चेत्तु यजमानो विनश्यति ।
उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेत्

27.241

वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन ।
प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिम्

27.242

महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः ।
एष एव विधिर्वृद्धौ स तु श्रेयो ऽभिवृद्धिदः

27.243

यदा त्ववभृथेदैवात्कृते विनिमयेन तु ।
असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः

27.244

प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु ।
अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः

27.245

मन्त्रेण वा पुनस्सूक्ष्मं काले ऽवभृथमाचरेत् ।
यज्ञस्यापभृथो ऽन्तस्स्यान्नोत्सवस्तदनन्तरम्

27.246

अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेत् ।
नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः

27.247

हरिर्नारायणो देवो नालं देवा स्तमर्चितुम् ।
आचार्ये यजमाने वा पूजके ऽन्यपदार्थिनि

27.248

नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेत् ।
न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषम्

27.249

देवेशमनुमान्याथ महाशान्तिं तु पद्मके ।
समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते

27.250

सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः ।
ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि

27.251

अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा ।
अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे

27.252

शावाद्याशौसयोग्ये वा शवानुगमने तथा ।
वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि

27.253

श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि ।
दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेत्

27.254

श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि ।
परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात्

27.255

परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ ।
दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेत्

27.256

विधुरे यजमाने तु दीक्षितः पुरुषो भवेत् ।
सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान्

27.257

दंपती यजमानो चेदयमभ्युदयो भवेत् ।
अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेत्

27.258

अन्यस्मिन् पदभाजी स्याद्यथासंभवमादरः ।
वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते

27.259

वत्सराशौचमितरच्चाशौचं न प्रवर्तते ।
मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः

27.260

ध्वजारोहणहीने तु कृते निष्फल उत्सवः ।
कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेत्

27.261

ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवम् ।
अज्ञानादर्थलोभाद्वामासे ऽ न्यस्मिन्त्समाचरेत्

27.262

नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति ।
तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेत्

27.263

वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडम् ।
ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतम्

27.264

व्याहृत्यन्तं च हुत्वा तु वैष्णवान् पूज्य चाचरेत् ।
ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेत्

27.265

विमानेन समं वाथ पादेनार्ऽधेन वाधिकम् ।
पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेत्

27.266

जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः ।
अर्धहीनं न कुर्वीत तदेवागतिकं भवेत्

27.267

तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः ।
अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः

27.268

श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमम् ।
तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेत्

27.269

भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः ।
मेखलानामथायामस्तद्भागेन समो भवेत्,

27.270

त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा ।
अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः

27.271

यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते ।
सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः

27.272

पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः ।
अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकम्

27.273

मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजम् ।
त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेत्

27.274

आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते ।
शिखरं शिर इत्याहुरर्धेन शिखरं भवेत्

27.275

प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः ।
स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेत्

27.276

अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृत् ।
विष्ठादिकरणे वापि उषिते वा निरन्तरम्

27.277

वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेत् ।
एष एव विधिः प्रोक्तो विमानशिखरादिषु

27.278

अधिष्ठानेन पादेन प्रस्तरेण च संयुतम् ।
ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहराम्

27.279

न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः ।
किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे

27.280

विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेत् ।
धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः

27.281

न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना ।
गोपुरस्य विमानस्य प्राकारस्यालयस्य च

27.282

प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेत् ।
शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशम्

27.283

विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः ।
यावच्छावतरेच् छाया तावती दोषभूमिका

27.284

दोषभूमिं परित्यज्य निवासं परिकल्पयेत् ।
त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृत्

27.285

रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृत् ।
अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः

27.286

यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा ।
ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः

27.287

ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु ।
तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः

27.288

औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते ।
ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः

27.289

अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिम् ।
प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे

27.290

अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेत् ।
अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणम्

27.291

अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः ।
भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेत्

27.292

ततो ऽन्यं ध्वजमादाय स्थापयेदविलंबितम् ।
चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः

27.293

तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः ।
अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः

27.294

भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि ।
दुष्टभागस्य दानेन न कदाचित्परिग्रहः

27.295

अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेत् ।
दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः

27.296

प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा ।
संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः

27.297

यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकम् ।
बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेत्

27.298

स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचित् ।
दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेत्

27.299

ध्वजे ऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेत् ।
तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेत्

27.300

पतिते वात्यया चैवं ध्वजस्य शिखरे तथा ।
मेखलासु च तत्सर्वं नवीकृत्य यथाविधि

27.301

ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेत् ।
ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा

27.302

भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेत् ।
एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः

27.303

अशन्यादिनिपातेन धामन्यन्तरिते यदि ।
देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेत्

27.304

आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजम् ।
निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते

27.305

तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः ।
अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेत्

27.306

अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितम् ।
पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च

27.307

पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः ।
तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेत्

27.308

यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेत् ।
अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेत्

27.309

अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमात् ।
देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेत्

27.310

यदा चान्यालयैर्वापि गोपुरादिभिरेव वा ।
अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे

27.311

वृक्षाद्यैःपतितैर्नष्टे चालिते ऽवनते ऽपि च ।
तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरे ऽत्वरः

27.312

कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे ।
कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः

27.313

रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते ।
बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेत्

27.314

प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते ।
अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमम्

27.315

उक्तेन विधिना यत्र नष्टे दुष्टे ऽपि वा ध्वजे ।
पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभम्

27.316

अथ वा कारयेद्विद्वान् सुवर्णरजतादिभिः ।
ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेत्

27.317

अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेत् ।
अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः

27.318

उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेत् ।
चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयम्

27.319

उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः ।
ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः

27.320

नीत्वातु यागशालायां संस्थाप्य तु समर्चयेत् ।
वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन् प्रयोजयेत्

27.321

महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च ।
वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च

27.322

सौदर्शनं च कूश्माण्डान् शतमष्टाधिकं यजेत् ।
तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः

27.323

ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेत् ।
तत्र दीपं समारोप्य न लभेत्फलमव्ययम्

27.324

ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेत् ।
आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणम्

27.325

दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेत् ।
वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते

27.326

वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च ।
गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेत्

27.327

ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस् तथा ।
हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितम्

27.328

हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेत् ।
भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा

27.329

हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेत् ।
अर्चनादिषु सर्वत्र यत्र घण्टानिनादनम्

27.330

एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेत् ।
आरोपिते तु गरुडे हीने चैव निवेदने

27.331

वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च ।
निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेत्

27.332

मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतम् ।
आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च

27.333

हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेत् ।
वर्षवातातपैस्सम्यगुपघातादिसंभवे

27.334

विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृत् ।
रज्ज्वादित्रुटने चैव प्रमादात्पतने ऽपि च

27.335

पातिते बुद्धिपूर्वं वा अकाले ऽप्यवरोपिते ।
शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे

27.336

अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतम् ।
उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः

27.337

गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयताम् ।
ततश्शेषं समाप्येत विपरीतं न कारयेत्

27.338

प्रमादाद्बुद्धिपूर्वं वा पटे दग्धे ऽन्यमाहरेत् ।
शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेत्

27.339

अवरोहणमुद्वासन्तं च मन्त्रेण कारयेत् ।
अवरोहणहीने तु मन्त्रेणोद्वासनं भवेत्

27.340

ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे ।
अप्रमाणं पटं गृह्य महाशान्तिं समाचरेत्

27.341

पुनरन्यं समादाय कर्मशेषं समाचरेत् ।
हीने तु चोत्सवारंभस्नपने वैष्णवं तथा

27.342

विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते ।
शुद्धोददैर् अभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः

27.343

हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च ।
सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः

27.344

यज्ञागारे कुंभवेद्याहीने वाप्यधिके ऽपि वा ।
वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः

27.345

तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् ।
हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियात्

27.346

अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेत् ।
प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा

27.347

वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतम् ।
सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमात्

27.348

सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेत् ।
एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिम्

27.349

सायाह्ने चोत्सवं कुर्यात्कालातीते ऽप्ययं विधिः ।
दिग्देवतास्समावाह्य प्रथमे ऽहनि पूजयेत्

27.350

प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणम् ।
देवाह्वाने व्यत्ययस्स्याद्व्यतीहारो ऽथ वा भवेत्

27.351

पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेत् ।
ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकम्

27.352

अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः ।
चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया

27.353

प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः ।
प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः

27.354

अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः ।
अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिम्

27.355

शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः ।
अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेत्

27.356

शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेत् ।
अकाले बलिदानं स्यादसुरप्रीतिवर्धनम्

27.357

अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः ।
बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि

27.358

नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा ।
न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः

27.359

वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ ।
अनुमान्य च देवेशं शताष्टकलशाप्लवः

27.360

कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेत् ।
अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः

27.361

देवतावाहनं कृत्वा तथैवोत्सव माचरेत् ।
देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः

27.362

श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते ।
बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः

27.363

विपरीते महान् दोषस्तन्मन्त्रैर्हावयेच्छतम् ।
बलिशेषं न शूद्रो ऽद्यादर्चको बलिशेषभाक्

27.364

बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते ।
भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेत्

27.365

बलौ पर्युषिते ऽत्युष्णे तथा चैवानिवेदिते ।
निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ

27.366

पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः ।
देवतावाहनं यत्र देशेप्राक् क्रियते ततः

27.367

तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेत् ।
मण्डलं च जलं कूर्चमाह्वानाधार उच्यते

27.368

रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेत् ।
बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः

27.369

तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः ।
बलिप्रदानहीने तु वैष्णवं बलिरक्षकम्

27.370

हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा ।
बलिद्रव्ये ऽथ वा पात्रे पतिते भूतले तथा

27.371

भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेत् ।
बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः

27.372

बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेत् ।
वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडम्

27.373

सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेत् ।
हविर्निवेदने हीनेहीने च द्विगुणार्चने

27.374

शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेत् ।
यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकम्

27.375

नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः ।
चक्रवीशामितानां च कुंभस्थानामथापिवा

27.376

देवानामर्चने हीने वैष्णवं विष्णुसूक्तकम् ।
नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च

27.377

हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेत् ।
देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवम्

27.378

हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः ।
अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमम्

27.379

तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः ।
पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते

27.380

नृत्ते गेये ऽथ वा हीने वैष्णवं रुद्रदैवतम् ।
स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः

27.381

भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा ।
वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा

27.382

वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः ।
यानात्काले यागशालां देवे न प्रतिगच्छति

27.383

भवेन्नित्यार्चनं तत्र यत्रदेवो ऽधिवासितः ।
ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः

27.384

देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेत् ।
दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवम्

27.385

अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेत् ।
तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनम्

27.386

न जह्या देवकुर्याच्च तत्कालोचितमुत्सवम् ।
अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः

27.387

दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः ।
चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृत्

27.388

दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा ।
नाशे तत्र महान् दोषस्तदान्यत्पुनराहरेत्

27.389

सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेत् ।
यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः

27.390

अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते ।
अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि

27.391

तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः ।
प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता

27.392

न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि ।
अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ

27.393

महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि ।
गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः

27.394

दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेत् ।
नह्येकस्मिन् भवेत्कार्य आचार्यद्वय संगतिः

27.395

प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः ।
क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेत्

27.396

न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेत् ।
स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि

27.397

यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेत् ।
पुनरन्यं समादाय शेषं पूर्ववदायरेत्

27.398

आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने ।
त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्,

27.399

द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनम् ।
पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृत्

27.400

अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृत् ।
तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवम्

27.401

अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनम् ।
यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरम्

27.402

"क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमात्

27.403

दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेत् ।
चक्रवीशाखमितादीनां बिंबाभावे पृथक् पृथक्

27.404

तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः ।
तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः

27.405

हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेत् ।
पतने तु तथैतेषामुद्धृत्यैव च पूर्ववत्

27.406

स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा ।
यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे

27.407

पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये ।
ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः

27.408

कौतुकं स्नापनं वाथ बलिबेरमथापि वा ।
यथार्हं समलङ्कृत्य समावाह्य यथाविधि

27.409

समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः ।
बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा

27.410

न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने ।
महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेत्

27.411

हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः ।
संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेत्

27.412

पतने गायगादीनां श्रीदैवत्यं च वैष्णवम् ।
वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च

27.413

आचार्यादीनां तु पतने संक्षोभे च तथाकृते ।
आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने

27.414

ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः ।
वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ

27.415

काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च

27.416

हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृत् ।
वीथ्यन्तरे वर्षधाराप्रवेशे ऽशनिगर्जिते

27.417

तृणपांसु समायुक्तवातस्पर्शे विशेषतः ।
कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रवित्

27.418

वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतम् ।
यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेत्

27.419

कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः ।
वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च

27.420

तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिम् ।
आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति

27.421

तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा ।
महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः

27.422

वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च ।
शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेत्

27.423

नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेत् ।
आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति

27.424

तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति ।
तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितम्

27.425

महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेत् ।
लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते

27.426

अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये ।
ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेत्

27.427

अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकम् ।
तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकम्

27.428

नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेत् ।
तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने

27.429

शयने वा वैष्णवं च श्रीभूदैवत्यमेव च ।
सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेत्

27.430

तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवम् ।
वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेत्

27.431

ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च ।
गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः

27.432

अवरोहणकारे तु बलौ हीने विशेषतः ।
ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकम्

27.433

तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः ।
हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेत्

27.434

उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेत्

27.435

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदम् ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च

27.436

हूयते विष्णुगायत्री सर्वपापप्राणाशिनि ।
एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतम्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc