भाषा

ENहिગુ
ग्रंथ पाठ

भावप्रकाश · भाग 2123

ततस्तं बलवान्रामो रिपुं जायापहारिणम् ।
हृतो वानरसैन्येन जघान रणमूर्धनि ॥ 2
हते तस्मिन्सुरारातौ रावणे बलगर्विते ।
देवराजः सहस्राक्षः परितुष्टश् च राघवे ॥ 3
तत्र ये वानराः केचिद् राक्षसैर् निहता रणे ।
तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ॥ 4
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः ।
पीयूषबिन्दवः पेतुस् तेभ्यो जाता गुडूचिका ॥ 5
गुडूची मधुपर्णी स्याद् अमृतामृतवल्लरी ।
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥ 6
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिका धीरा विशल्या च रसायनी ॥ 7
चन्द्रहासा वयःस्था च मण्डली देवनिर्मिता ।
गुडूची कटुका तिक्ता स्वादुपाका रसायनी ॥ 8
संग्राहिणी कषायोष्णा लघ्वी बल्याग्निदीपिनी ।
दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ॥ 9
कामलाकुष्ठवातास्रज्वरक्रिमिवमीन् हरेत् ।
प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ 10
ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी ।
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ 11
वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु ।
बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् ॥ 12
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलाव् अपि ।
श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् ।
वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥ 13
गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ।
काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी ॥ 14
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ।
काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः ॥ 15
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् ।
दोषतृष्णामशूलार्शोविषदाहज्वरापहा ॥ 16
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् ।
वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् ॥ 17
स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् ।
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ॥ 18
पाटलिः पाटलामोघा मधुदूती फलेरुहा ।
कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा ॥ 19
ताम्रपुष्पी च कथितापरा स्यात्पाटला सिता ।
मुष्कको मोक्षको घण्टापाटलिः काष्ठपाटला ॥ 20
पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा ।

अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी ॥ 21
पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् ।
पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् ॥ 22
अग्निमन्थो जयः स स्याच् छ्रीपर्णी गणिकारिका ।
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ 23
अग्निमन्थः श्वयथुनुद् वीर्योष्णः कफवातहृत् ।
पाण्डुनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः ॥ 24
श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः ।
मण्डूकपर्णपत्त्रोर्णशुकनासकुटन्नटाः ॥ 25
दीर्घवृन्तो ऽरलुश्चापि पृथुशिम्बः कटंभरः ।
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः ।
ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः ॥ 26
टुण्टुकस्य फलं बालं रूक्षं वातकफापहम् ॥ 27
हृद्यं कषायं मधुरं रोचनं लघु दीपनम् ।
गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणम् ॥ 28
श्रीफलः सर्वतोभद्रा पाटला गणिकारिका ।
श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् ॥ 29
पञ्चमूलं महत्तिक्तं कषायं कफवातनुत् ।
मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम् ॥ 30
शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा ।
विदारिगन्धा दीर्घाङ्गी दीर्घपत्त्रांशुमत्यपि ॥ 31
शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् ॥ 32
शोषदोषत्रयहरी बृंहण्युक्ता रसायनी ।
तिक्ता विषहरी स्वादुः क्षतकासक्रिमिप्रणुत् ॥ 33
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि ।
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ॥ 34
पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा ।
हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः ॥ 35
वार्त्ताकी क्षुद्रभण्टाकी महती बृहती कुली ।
हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी ॥ 36
बृहती ग्राहिणी हृद्या पाचनी कफवातकृत् ।
कटुतिक्तास्यवैरस्यमलारोचकनाशिनी ।
उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् ॥ 37
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका ।
कण्टालिका कण्टकिनी धावनी बृहती तथा ॥ 38
श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका ।
गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियंकरी ॥ 39
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ॥ 40
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् ।
निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् ॥ 41

तयोः फलं कटु रसे पाके च कटुकं भवेत् ।
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु ।
हन्यात्कफमरुत्कण्डूकासमेदःक्रिमिज्वरान् ॥ 42
तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद् गर्भकारिणी ॥ 43
गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादुकण्टकः ।
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ 44
पलंकषा श्वदंष्ट्रा च तथा स्याद् इक्षुगन्धिका ।
गोक्षुरः शीतलः स्वादुर्बलकृद्वस्तिशोधनः ॥ 45
मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः ।
प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ 46
शालिपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका ।
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ॥ 47
पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् ।
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ॥ 48
उभाभ्यां पञ्चमूलाभ्यां दशमूलम् उदाहृतम् ।
दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः ।
तन्द्राशोथज्वरानाहपार्श्वपीडारुचीर् हरेत् ॥ 49
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥ 50
जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा ।
रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः ॥ 51
मुद्गपर्णी काकपर्णी सूर्यपर्ण्य् अल्पिका सहा ॥ 52
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका ।
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ॥ 53
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् ।
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् ॥ 54

मूल पाठ: Bhāvaprakāśa · Edition: Benares City: Jaya Krishna Das Hari Das Gupta, 1947 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc