भाषा

ENहिગુ
ग्रंथ पाठ

भावप्रकाश · भाग 120

भावमिश्र: भावप्रकाशः
भावप्रकाश, वर्गप्रकरण, हरीतक्यादिवर्ग
दक्षं प्रजापतिं वस्थम् अश्विनौ वाक्यम् ऊचतुः ।
कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥ 1
रसाः कति समाख्याताः कति चोपरसाः स्मृताः ।
नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ 2
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।
केन द्रव्येण संयुक्ता कांश् च रोगान् व्यपोहति ॥ 3
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि ।
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥ 4
पपात बिन्दुर् मेदिन्यां शक्रस्य पिबतोऽमृतम् ।
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ॥ 5
हरीतक्यभया पथ्या कायस्था पूतनामृता ।
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥ 6
वयःस्था विजया चापि जीवन्ती रोहिणीति च ॥ 7
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ 8
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिष्ठानके ।
चम्पायाम् अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः ॥ 9
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ 10
पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।
त्रिरेखा चेतकी ज्ञेया सप्तानाम् इयमाकृतिः ॥ 11
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी ।
प्रलेपे पूतना योज्या शोधनार्थे ऽमृता हिता ॥ 12
अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् ।
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ 13
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।
षडङ्गुलायता शुक्ला कृष्णा त्व् एकाङ्गुला स्मृता ॥ 14
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ।
काचित्स्पर्शेन दृष्ट्यान्या चतुर्धा भेदयेच्छिवा ॥ 15
चेतकीपादपच्छायामुपसर्पन्ति ये नराः ।
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ 16
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।
तावद् भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ॥ 17
नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम् ।
चेतकी परमा शस्ता हिता सुखविरेचनी ॥ 18
सप्तानाम् अपि जातीनां प्रधाना विजया स्मृता ।
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ॥ 19
हरीतकी पञ्चरसालवणा तुवरा परम् ।

रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ॥ 20
चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी ।
श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् ॥ 21
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् ।
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् ॥ 22
कामलां शूलमानाहं प्लीहानं च यकृत्तथा ।
अश्मरीं मूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ॥ 23
स्वादुतिक्तकषायत्वात् पित्तहृत् कफहृत्तु सा ।
कटुतिक्तकषायत्वाद् अम्लत्वाद्वातहृच्छिवा ॥ 24
पित्तकृत् कटुकाम्लत्वाद् वातकृन्न कथं शिवा ॥ 25
प्रभावाद् दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते ।
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ॥ 26
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः ।
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ॥ 27
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः ।
वृन्ते तिक्तस् त्वचि कटुर् अस्थिस्थस् तुवरो रसः ।
स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याम्भसि ।
निमज्जेत्सा प्रशस्ता च कथितातिगुणप्रदा ॥ 28
नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता ।
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥ 29
चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी ।
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ॥ 30
उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् ।
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात्सह भोजनेन ॥ 31
अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् ।
हरीतकी हरत्याशु भुक्तस्योपरि योजिता ॥ 32
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा ।
घृतेन वातजान् रोगान् सर्वरोगान् गुडान्विता ॥ 33
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ 34
अध्वातिखिन्नो बलवर्जितश् च रूक्षः कृशो लङ्घनकर्शितश्च ।
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ॥ 35
विभीतकस् त्रिलिङ्गः स्यादक्षः कर्षफलस्तु सः ।
कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ 36
विभीतकं स्वादुपाकं कषायं कफपित्तनुत् ।
उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ॥ 37
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् ।
विभीतमज्जा तृट्छर्दिकफवातहरो लघुः ।
कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः ॥ 38
त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता ॥ 39

हरीतकीसमं धात्रीफलं किंतु विशेषतः ।
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ॥ 40
हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः ।
कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् ॥ 41
यस्य यस्य फलस्येह वीर्यं भवति यादृशम् ।
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥ 42
पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफलासमैः ।
फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिता ॥ 43
त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा ।
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ 44
शुण्ठी विश्वा च विश्वं च नागरं विश्वभेषजम् ।
ऊषणं कटुभद्रं च शृङ्गवेरं महौषधम् ॥ 45
शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः ।
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ 46
वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् ।
हन्ति श्लीपदशोथार्शआनाहोदरमारुतान् ॥ 47
आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत् ।
संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ 48
विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् ।
शक्तिविबन्धभेदे स्याद्यतो न मलपातने ॥ 49
आर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका ।
आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता ॥ 50
कटुका मधुरा पाके रूक्षा वातकफापहा ।
ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ॥ 51
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् ।
अग्निसंदीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥ 52
कुष्ठषाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे ।
दाहे निदाघशरदोर् नैव पूजितम् आर्द्रकम् ॥ 53
पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्योषणा शौण्डी कोला स्यात् तीक्ष्णतण्डुला ॥ 54
पिप्पली दीपनी वृष्या स्वादुपाका रसायनी ।
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ॥ 55
पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् ।
कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् ॥ 56
आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः ।
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ॥ 57
पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी ।
श्वासकासज्वरहरा वृष्या मेध्याग्निवर्धिनी ॥ 58
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली ।
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् ।

द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ॥ 59
मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् ॥ 60
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् ।
उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ॥ 61
तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु ।
किंचित् तीक्ष्णगुणं श्लेष्मप्रसेकि स्याद् अपित्तलम् ॥ 62
विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते ।
कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते ॥ 63
त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् ।
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥ 64
ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः ।
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु ॥ 65
रूक्षं पित्तकरं भेदि कफवातोदरापहम् ।
आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् ॥ 66
त्र्यूषणं सकणामूलं कथितं चतुरूषणम् ।
व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ॥ 67
भवेच्चव्यं तु चविका कथिता सा तथोषणा ।
कणामूलगुणं चव्यं विशेषाद्गुदजापहम् ॥ 68
चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली ।
कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ॥ 69
गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी ।
उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् ॥ 70
चित्रको ऽनलनामा च पीठो व्यालस् तथोषणः ।
चित्रकः कटुकः पाके वह्निकृत् पाचनो लघुः ॥ 71
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् ।
वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् ॥ 72
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥ 73
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् ।
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ।
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥ 74
पञ्चकोलं समरिचं षडूषणमुदाहृतम् ।
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥ 75
यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका ॥ 76
सैवोक्ता दीप्यका दीप्या तथा स्याद् यवसाह्वया ।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ॥ 77
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् ।
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥ 78
अजमोदा खराश्वा च मायूरी दीप्यकस् तथा ।
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥ 79

अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् ।
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ।
नेत्रामयकृमिच्छर्दिहिक्कावस्तिरुजो हरेत् ॥ 80
पारसीकयवानी तु यवानीसदृशी गुणैः ।
विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ॥ 81
जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ॥ 82
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।
कालाजाजी तु सुषवी कालिका चोपकालिका ॥ 83
पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥ 84
जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु ।
संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ 85
ज्वरघ्नं पावनं वृष्यं बल्यं रुच्यं कफापहम् ।
चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ॥ 86
धान्यकं धानकं धान्यं धाना धानेयकं तथा ।
कुनटी धेनुका छत्त्रा कुस्तुम्बुरु वितुन्नकम् ॥ 87
धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु ।
तिक्तं कटूष्णवीर्यं च दीपनं पाचनं स्मृतम् ॥ 88
ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् ।
तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् ।
आर्द्रं तु तद्गुणं स्वादु विशेषात्पित्तनाशनम् ॥ 89
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।
अतिलम्बी सितच्छत्त्रा संहितछत्त्रिकापि च ॥ 90
छत्त्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः ।
शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ 91
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् ।
मिश्रेया तद्गुणा प्रोक्ता विशेषाद् योनिशूलनुत् ॥ 92
अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् ।
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान् हरेत् ॥ 93
मेथिका मेथिनी मेथी दीपनी बहुपत्त्रिका ।
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ 94
वल्लरी चक्रिका मन्था मिश्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ 95
मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी ।
ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥ 96
चन्द्रिका चर्महन्त्री च पशुमेहनकारिका ।
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥ 97
चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणाम् ।
असृग्वातगदद्वेषि बलपुष्टिविवर्धनम् ॥ 98
मेथिका चन्द्रशूरश् च कालाजाजी यवानिका ।

एतच्चतुष्टयं युक्तं चतुर्बीजम् इति स्मृतम् ॥ 99
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् ।
अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम् ॥ 100
सहस्रवेधि जतुकं वाह्लीकं हिङ्गु रामठम् ॥ 101
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् ।
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्धनम् ॥ 102
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ।
क्षुद्रपत्त्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ 103
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् ।
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ।
अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥ 104
पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा ।
हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः ॥ 105
सुगन्धाप्युग्रगन्धा च विशेषात्कफकासनुत् ।
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥ 106
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता ॥ 107
द्वीपान्तरवचा किंचित् तिक्तोष्णा वह्निदीप्तिकृत् ।
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ 108
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् ।
व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥ 109
हवुषा वपुषा विस्रा पराश्वत्थफला मता ।
मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥ 110
हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः ।
पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् ।
पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोर् अपि ॥ 111
पुंसि क्लीबे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः ।
तण्डुलाश्च तथा वेल्लम् अमोघा चित्रतण्डुला ॥ 112
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु ।
शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् ॥ 113
तुम्बुरुः सौरभः सौरो वनजः सानुजो ऽन्धकः ॥ 114
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु ।
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च ॥ 115
वातश्लेष्माक्षिकर्णौष्ठशिरारुग्गुरुताकृमीन् ।
कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥ 116
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ 117
वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला ।
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः ।
हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥ 118
समुद्रफेनः फेनश्च डिण्डीरो ऽब्धिकफस् तथा ॥ 119

समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः ।
कषायो विषपित्तघ्नः कर्णरुक्कफहृत् सरः ॥ 120
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके ।
अष्टवर्गो ऽष्टभिर् द्रव्यैः कथितश्चरकादिभिः ॥ 121
अष्टवर्गो हिमः स्वादुर् बृंहणः शुक्रलो गुरुः ।
भग्नसंधानकृत् कामबलासबलवर्धनः ।
वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् ॥ 122
जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्त्रकौ ॥ 123
जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् ।
जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः ॥ 124
ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि ।
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ ॥ 125
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ ॥ 126
महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते ।
महामेदा खनीमेदा स्याद् इत्युक्तं मुनीश्वरैः ॥ 127
शुक्लार्द्रकनिभः कन्दो लताजातः सुपाण्डुरः ।
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥ 128
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् ।
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः ॥ 129
शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा ।
महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥ 130
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम् ।
बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् ॥ 131
जायते क्षीरकाकोली महामेदोद्भवस्थले ॥ 132
यत्र स्यात् क्षीरकाकोली काकोली अत्र जायते ।
पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् ॥ 133
स प्रोक्तः क्षीरकाकोली काकोलीलिङ्गमुच्यते ।
यथा स्यात् क्षीरकाकोली काकोल्यपि तथा भवेत् ॥ 134
एषा किंचिद् भवेत् कृष्णा भेदो ऽयम् उभयोर् अपि ।
काकोली वायसोली च वीरा कायस्थिका तथा ॥ 135
सा शुक्ला क्षीरकाकोली वयःस्था क्षीरवल्लिका ।
कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी ॥ 136
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु ।
बृंहणं वातदाहास्रपित्तशोषज्वरापहम् ॥ 137
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशले ऽचले ।
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ 138
स एव ऋद्धिर्वृद्धिश्च भेदम् अप्येतयोर् ब्रुवे ।
तूलग्रन्थिसमा ऋद्धिर् वामावर्तफला च सा ॥ 139
वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ।

ऋद्धिर् योग्यं सिद्धिलक्ष्म्यौ वृद्धेर् अप्याह्वया इमे ॥ 140
ऋद्धिर् बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः ।
प्राणैश्वर्यकरी मूर्छारक्तपित्तविनाशिनी ॥ 141
वृद्धिर् गर्भप्रदा शीता बृंहणी मधुरा स्मृता ।
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ 142
राज्ञामप्यष्टवर्गस्तु यतोऽयम् अतिदुर्लभः ।
तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् ।
मुख्यसदृशः प्रतिनिधिः ॥ 143
मेदाजीवककाकोल्यृद्धिद्वंद्वे ऽपि चासति ।
वरीविदार्यश्वगन्धावाराहीश् च क्रमात्क्षिपेत् ।
मेदामहामेदास्थाने शतावरीमूलम् ।
जीवकर्षभकस्थाने विदारीमूलम् ।
काकोलीक्षीरकाकोलीस्थाने अश्वगन्धामूलम् ।
ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् ॥ 144
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा ।
अन्यत् क्लीतनकं तत्तु भवेत्तोये मधूलिका ॥ 145
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् ।
सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् ।
व्रणशोथविषच्छर्दितृष्णाग्लानिक्षयापहा ॥ 146
काम्पिल्लः कर्कशश् चन्द्रो रक्ताङ्गो रोचनो ऽपि च ।
काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् ।
हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् ॥ 147
आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः ।
आरेवतो व्याधिघातः कृतमालः सुवर्णकः ॥ 148
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ।
आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥ 149
ज्वरहृद्रोगपित्तास्रवातोदावर्तशूलनुत् ।
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् ॥ 150
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम् ॥ 151
कट्वी तु कटुका तिक्ता कृष्णभेदा कटंभरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥ 152
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी ।
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः ॥ 153
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।
प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत् ॥ 154
किराततिक्तः कैरातः कटुतिक्तः किरातकः ॥ 155
काण्डतिक्तो ऽनार्यतिक्तो भूनिम्बो रामसेनकः ।
किरातकोऽन्यो नैपालः सो ऽर्धतिक्तो ज्वरान्तकः ॥ 156
किरातः सारको रूक्षः शीतलस् तिक्तको लघुः ।
संनिपातज्वरश्वासकफपित्तास्रदाहनुत् ।

कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥ 157
उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा ।
कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि ॥ 158
क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् ।
फलानीन्द्रयवास् तस्य तथा भद्रयवा अपि ॥ 159
इन्द्रयवं त्रिदोषघ्नं संग्राहि कटु शीतलम् ॥ 160
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् ।
दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् ॥ 161
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा ।
करहाटो मरुवकः शल्यको विषपुष्पकः ॥ 162
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः ।
वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ।
रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥ 163
रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥ 164
रास्नामपाचिनी तिक्ता गुरूष्णा कफवातजित् ॥ 165
शोथश्वाससमीरास्रवातशूलोदरापहा ।
कासज्वरविषाशीतिवातिकामयसिध्महृत् ॥ 166
नाकुली सुरसा नागसुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजंगाक्षी सर्पाङ्गी विषनाशिनी ॥ 167
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् ।
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥ 168
माचिका प्रस्थिकाम्बष्ठा तथा चाम्बालिकाम्बिका ।
मयूरविदला केशी सहस्रा बालमूलिका ॥ 169
माचिकाम्ला रसे पाके कषाया शीतला लघुः ।
पक्वातिसारपित्तास्रकफकण्ठामयापहा ॥ 170
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा ।
तेजस्विनी कफश्वासकासास्यामयवातहृत् ।
पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपिनी ॥ 171
ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च ।
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी ॥ 172
ज्योतिष्मती कटुस् तिक्ता सरा कफसमीरजित् ।
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ 173
कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ॥ 174
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु ।
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् ॥ 175
उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् ।
पद्मपत्त्रं च काश्मीरं कुष्ठभेदमिमं जगुः ॥ 176
पौष्करं कटुकं तिक्तम् उष्णं वातकफज्वरान् ।
हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत् ॥ 177

कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते ॥ 178
हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी ।
कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् ॥ 179
शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका ।
अजशृङ्गी तु चक्रा च कर्कटाख्या च कीर्तिता ॥ 180
शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् ।
श्वासोर्ध्ववाततृट्कासहिक्कारुचिवमीन्हरेत् ॥ 181
कट्फलः सोमवल्कश् च कैटर्यः कुम्भिकापि च ।
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ 182
कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् ।
हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः ॥ 183
भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका ।
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका ॥ 184
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः ।
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम् ।
शोथकासकफश्वासपीनसज्वरमारुतान् ॥ 185
पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी ।
अश्मभेदो हिमस् तिक्तः कषायो वस्तिशोधनः ॥ 186
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः ।
योनिरोगान्प्रमेहांश्च प्लीहशूलव्रणानि च ॥ 187
धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥ 188
धातकी कटुका शीता मृदुकृत्तुवरा लघुः ।
तृष्णातीसारपित्तास्रविषक्रिमिविसर्पजित् ॥ 189
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ 190
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ।
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ॥ 191
भण्डीतकी च गम्भीरी मञ्जूषा वस्त्ररञ्जिनी ।
मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् ॥ 192
गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् ।
रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत् ॥ 193
स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि ।
कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम् ॥ 194
लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः ।
लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः ॥ 195
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् ।
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ॥ 196
अलक्तको गुणैस् तद्वद् विशेषाद् व्यङ्गनाशनः ॥ 197
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी ।

कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी ॥ 198
हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् ।
वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥ 199
दार्वीभेदाम्रगन्धा च सुरभीदारु दारु च ।
कर्पूरा पद्मपत्त्रा स्यात् सुरीमत् सुरतारका ॥ 200
आम्रगन्धिर् हरिद्रा या सा शीता वातला मता ।
पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी ॥ 201
अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ॥ 202
दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च ।
कटंकटेरी पीता च भवेत्सैव पचम्पचा ।
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ॥ 203
पीतद्रुश्च हरिद्रश्च पीतदारु च पीतकम् ।
दार्वी निशागुणा किंतु नेत्रकर्णास्यरोगनुत् ॥ 204
दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम् ।
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥ 205
रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् ।
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ॥ 206
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ 207
अवल्गुजो वाकुची स्यात् सोमराजी सुपर्णिका ।
शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥ 208
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्तिता ।
वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ 209
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् ।
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ 210
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु ।
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् ॥ 211
चक्रमर्दः प्रपुन्नाटी दद्रुघ्नो मेषलोचनः ।
पद्माटः स्यादेडगजश्चक्री पुंनाट इत्यपि ॥ 212
चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः ।
हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥ 213
हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् ।
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम् ॥ 214
विषा त्व् अतिविषा विश्वा शृङ्गी प्रतिविषारुणा ।
शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा ॥ 215
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् ।
कफपित्तातिसारामविषकासवमिक्रिमीन् ॥ 216
लोध्रस् तिल्वस् तिरीटश्च शावरो गालवस्तथा ॥ 217
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः ।
जीर्णपत्त्रो बृहत्पत्त्रः पट्टी लाक्षाप्रसादनः ॥ 218
लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् ।

कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् ॥ 219
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ 220
यदामृतं वैनतेयो जहार सुरसत्तमात् ।
तदा ततोऽपतद् बिन्दुः स रसोनोऽभवद्भुवि ॥ 221
पञ्चभिश् च रसैर् युक्तो रसेनाम्लेन वर्जितः ।
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ 222
कश्चापि मूलेषु तिक्तः पत्त्रेषु संस्थितः ।
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ।
बीजे तु मधुरः प्रोक्तो रसस् तद्गुणवेदिभिः ॥ 223
रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः ।
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ 224
भग्नसंधानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ 225
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् ।
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ 226
मद्यं मांसं तथाम्लं च हितं लशुनसेविनाम् ।
व्यायाममातपं रोषम् अतिनीरं पयो गुडम् ।
रसोनमश्नन्पुरुषस्त्यजेदेतान्निरन्तरम् ॥ 227
पलाण्डुर् यवनेष्टश्च दुर्गन्धो मुखदूषकः ।
पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः ॥ 228
स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः ।
हरते केवलं वातं बलवीर्यकरो गुरुः ॥ 229
भल्लातकं त्रिषु प्रोक्तम् अरुष्को ऽरुष्करो ऽग्निकः ।
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥ 230
भल्लातकफलं पक्वं स्वादुपाकरसं लघु ।
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् ॥ 231
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् ।
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रिमीन् ॥ 232
तन्मज्जा मधुरो वृष्यो बृंहणो वातपित्तहा ।
वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥ 233
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः ।
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् ।
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् ॥ 234
भङ्गा गञ्जामातुलानी मादिनी विजया जया ॥ 235
भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ।
तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी ॥ 236
तिलभेदः खसतिलः खाखसश्चापि स स्मृतः ।
स्यात् खाखसफलाद्भूतं वल्कलं शीतलं लघु ॥ 237
ग्राहि तिक्तं कषायं च वातकृत् कफकासहृत् ॥ 238

धातूनां शोषकं रूक्षं मदकृद्वाग्विवर्धनम् ।
मुहुर्मोहकरं रुच्यं सेवनात् पुंस्त्वनाशनम् ॥ 239
उक्तं खसफलक्षीरमाफूकमहिफेनकम् ।
आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् ।
तथा खसफलोद्भूतवल्कलप्रायमित्यपि ॥ 240
उच्यन्ते खसबीजानि ते खाखसतिला अपि ॥ 241
खसबीजानि बल्यानि वृष्याणि सुगुरूणि च ।
जनयन्ति कफं तानि शमयन्ति समीरणम् ॥ 242
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजम् ।
सैन्धवं लवणं स्वादु दीपनं पाचनं लघु ।
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् ॥ 243
शाकम्भरीयं कथितं गुडाख्यं रौमकं तथा ॥ 244
गुडाख्यं लघु वातघ्नम् अत्युष्णं भेदि पित्तलम् ।
तीक्ष्णोष्णं चापि सूक्ष्मं चाभिष्यन्दि कटुपाकि च ॥ 245
सामुद्रं यत्तु लवणम् अक्षीबं वशिरं च तत् ।
समुद्रजं सागरजं लवणोदधिसम्भवम् ॥ 246
सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु ।
नात्युष्णं दीपनं भेदि सक्षीरमविदाहि च ।
श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम् ॥ 247
विडं पाकं च कृतकं तथा द्राविडमासुरम् ।
विडं सक्षारम् ऊर्ध्वाधःकफवातानुलोमनम् ।
ऊर्ध्वं कफमधो वातं संचारयेदित्यर्थः ॥ 248
दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च ।
विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् ॥ 249
सौवर्चलं स्याद् रुचकं मन्थपाकं च तन्मतम् ।
रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥ 250
सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु ।
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् ॥ 251
औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् ।
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम् ॥ 252
चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम् ।
लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् ॥ 253
पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः ।
स्वर्जिकापि स्मृतः क्षारः कापोतः सुखवर्चकः ॥ 254
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका ।
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ 255
निहन्ति शूलवातामश्लेष्मश्वासगलामयान् ।
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥ 256
स्वर्जिकाल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् ।
सुवर्चिका स्वर्जिकावद् बोद्धव्या गुणतो जनैः ॥ 257

सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते ।
टङ्कणं वह्निकृद्रूक्षं कफहृद् वातपित्तकृत् ॥ 258
स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम् ।
टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम् ॥ 259
मिलितं तूक्तगुणकृद् विशेषाद् गुल्महृत् परम् ।
पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः ॥ 260
यवजः स्वर्जिका चेति क्षाराष्टकम् उदाहृतम् ।
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम् ॥ 261
भुक्तं सहस्रवेधि स्याद्रसाम्लं शुक्लमित्यपि ।
चुक्रमत्यम्लमुष्णं च दीपनं पाचनं परम् ॥ 262
शूलगुल्मविबन्धामवातश्लेष्महरं सरम् ।
वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥ 263
भावप्रकाश, वर्गप्रकरण, कर्पूरादिवर्ग
पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः ।
घनसारश् चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥ 1
कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः ।
सुरभिर् मधुरस् तिक्तः कफपित्तविषापहः ॥ 2
तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः ।
कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः ।
पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ 3
चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः ।
कुष्ठकण्डूवमिहरस् तथा तिक्तरसश्च सः ॥ 4
मृगनाभिर् मृगमदः कथितस्तु सहस्रभित् ।
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥ 5
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् ।
काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ 6
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ।
काश्मीरदेशसम्भूता कस्तूरी ह्य् अधमा मता ॥ 7
कस्तूरिका कटुस् तिक्ता क्षारोष्णा शुक्रला गुरुः ।
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ॥ 8
लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः ।
चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् ॥ 9
गन्धमार्जारवीर्यं तु वीर्यकृत् कफवातहृत् ।
कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ॥ 10
श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः ।
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥ 11
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् ।
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठम् उच्यते ॥ 12
चन्दनं शीतलं रूक्षं तिक्तम् आह्लादनं लघु ।
श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ॥ 13

कालीयकं तु कालीयं पीताभं हरिचन्दनम् ॥ 14
हरिप्रियं कालसारं तथा कालानुसार्यकम् ।
कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम् ॥ 15
रक्तचन्दनम् आख्यातं रक्ताङ्गं क्षुद्रचन्दनम् ।
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ॥ 16
रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् ।
तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहम् ॥ 17
पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा ।
पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनम् ॥ 18
पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् ।
हरिचन्दनवद् वेद्यं विशेषाद्दाहनाशनम् ॥ 19
चन्दनानि तु सर्वाणि सदृशानि रसादिभिः ।
गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः ॥ 20
अगुरु प्रवरं लोहं राजार्हं योगजं तथा ।
वंशिकं कृमिजं वापि कृमिजग्धम् अनार्यकम् ॥ 21
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलम् ।
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ 22
कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति ।
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ 23
देवदारु स्मृतं दारुभद्रं दार्व् इन्द्रदारु च ।
मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः ॥ 24
देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च ।
विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् ।
प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् ॥ 25
सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः ।
सरलो मधुरस् तिक्तः कटुपाकरसो लघुः ॥ 26
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः ।
कफानिलस्वेददाहकासमूर्छाव्रणापहः ॥ 27
कालानुसार्यं तगरं कुटिलं नहुषं नतम् ।
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥ 28
तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् ।
विषापस्मारशूलाक्षिरोगदोषत्रयापहम् ॥ 29
पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् ।
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ॥ 30
वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् ।
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ॥ 31
गुग्गुलुर् देवधूपश् च जटायुः कौशिकः पुरः ।
कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः ॥ 32
महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ॥ 33

भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः ।
महानीलस् तु विज्ञेयः स्वनामसमलक्षणः ॥ 34
कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः ।
हिरण्याक्षस् तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥ 35
महिषाक्षो महानीलो गजेन्द्राणां हिताव् उभौ ।
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥ 36
विशेषेण मनुष्याणां कनकः परिकीर्तितः ।
कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि ॥ 37
गुग्गुलुर् विशदस् तिक्तो वीर्योष्णः पित्तलः सरः ।
कषायः कटुकः पाके कटू रूक्षो लघुः परः ॥ 38
भग्नसंधानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः ।
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ॥ 39
मेदोमेहाश्मवातांश् च क्लेदकुष्ठाममारुतान् ।
पिटिकाग्रन्थिशोफार्शोगण्डमालाकृमीञ् जयेत् ॥ 40
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा ।
तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा ॥ 41
स नवो बृंहणो वृष्यः पुराणस् त्व् अतिलेखनः ॥ 42
स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः ।
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥ 43
शुष्को दुर्गन्धकश् चैव त्यक्तप्रकृतिवर्णकः ।
पुराणः स तु विज्ञेयो गुग्गुलुर् वीर्यवर्जितः ॥ 44
अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् ।
मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः ॥ 45
श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः ।
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ 46
पित्तलो वातमूर्धाक्षिस्वरोगकफापहः ।
रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥ 47
रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः ।
देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ॥ 48
रालो हिमो गुरुस् तिक्तः कषायो ग्राहको हरेत् ।
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः ।
ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः ॥ 49
कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि ॥ 50
कुन्दुरुर् मधुरस्तिक्तस् तीक्ष्णस् त्वच्यः कटुर्हरेत् ।
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ॥ 51
सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः ।
कपितैलं च संख्यातस्तथा च कपिनामकः ॥ 52
सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् ।
वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः ॥ 53
जातीफलं जातिकोशं मालतीफलमित्यपि ।

जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु ।
कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ॥ 54
निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः ।
कृमिकासवमिश्वासशोषपीनसहृद्रुजः ॥ 55
जातीफलस्य त्वक् प्रोक्ता जातीपत्त्री भिषग्वरैः ॥ 56
जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् ।
कफकासवमिश्वासतृष्णाकृमिविषापहा ॥ 57
लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् ।
लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमम् ॥ 58
दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् ।
तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् ।
कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवम् ॥ 59
एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ॥ 60
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ।
स्थूलैला कटुका पाके रसे चानलकृल्लघुः ॥ 61
रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा ।
हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् ॥ 62
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः ।
एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् ।
रसे तु कटुका शीता लघ्वी वातहरी मता ॥ 63
त्वक्पत्त्रं च वराङ्गं स्यद् भृङ्गं चोचं तथोत्कटम् ।
त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकम् ॥ 64
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् ।
हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥ 65
त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता ॥ 66
उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् ।
सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा ॥ 67
पत्त्रकं तमालपत्त्रं च तथा स्यात् पत्त्रनामकम् ।
पत्त्रकं मधुरं किंचित् तीक्ष्णोष्णं पिच्छिलं लघु ।
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥ 68
नागपुष्पः स्मृतो नागः केसरो नागकेसरः ।
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥ 69
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनम् ॥ 70
ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् ।
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥ 71
त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् ।
नागकेसरसंयुक्तं चातुर्जातकम् उच्यते ॥ 72
तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् ।
लघु पित्ताग्निकृद् वर्ण्यं कफवातविषापहम् ॥ 73
कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् ।

संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ 74
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् ।
सूक्ष्मकेसरम् आरक्तं पद्मगन्धि तदुत्तमम् ॥ 75
वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतम् ।
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरम् ॥ 76
कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितम् ।
ईषत् पाण्डुरवर्णं तदधमं स्थूलकेसरम् ॥ 77
कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् ।
तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ॥ 78
गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना ।
गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा ।
विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् ॥ 79
नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ॥ 80
नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी ।
नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् ॥ 81
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् ।
अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटु ॥ 82
बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ।
बालकं शीतलं रूक्षं लघु दीपनपाचनम् ।
हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥ 83
स्याद्वीरणं वीरतरुर् वीरं च बहुमूलकम् ।
वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम् ॥ 84
स्तम्भनं ज्वरनुद् भ्रान्तिमदजित् कफपित्तहृत् ।
तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥ 85
वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् ।
अमृणालं च सेव्यं च समगन्धिकम् इत्यपि ॥ 86
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥ 87
मधुरं ज्वरहृद् वान्तिमदनुत् कफपित्तहृत् ।
तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥ 88
जटामांसी भूतजटा जटिला च तपस्विनी ।
मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा ।
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ॥ 89
शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकम् ॥ 90
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु ।
कण्डूकुष्ठाश्मरीदाहविषहृद् गुदरक्तहृत् ॥ 91
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् ।
कुरुविन्दश्च संख्यातो ऽपरः क्रोडकसेरुकः ॥ 92
भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः ।
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥ 93
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ।

अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते ।
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥ 94
कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी ।
कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च ॥ 95
सुगन्धिः कटुपाकः स्यात् कुष्ठार्शोव्रणकासनुत् ।
उष्णो लघुर् हरेच्छ्वासं गुल्मवातकफक्रिमीन् ॥ 96
मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका ॥ 97
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा ।
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ॥ 98
शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका ।
गान्धारिका गन्धवधूर् वधूः पलाशिका ॥ 99
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः ।
तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी ।
शोथकासव्रणश्वासशूलसिध्मग्रहापहा ॥ 100
प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ॥ 101
गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया ।
प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् ॥ 102
रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा ।
गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका ॥ 103
तत्फलं मधु रूक्षं कषायं शीतलं गुरु ।
विबन्धाध्मानबलकृत् संग्राहि कफपित्तजित् ॥ 104
रेणुका राजपुत्री च नन्दिनी कपिला द्विजा ।
भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका ॥ 105
रेणुका कटुका पाके तिक्तानुष्णा कटुर् लघुः ।
पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी ।
बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ॥ 106
ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकम् ।
नीलपुष्पं सुगन्धं च कथितं तैलपर्णकम् ॥ 107
ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु ।
कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् ॥ 108
स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरम् ।
शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदम् ॥ 109
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् ॥ 110
मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् ।
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥ 111
निशाचरो धनहरः कितवो गणहासः ।
चोरकः शङ्कितश् चण्डो दुष्पत्त्रः क्षेमको रिपुः ।
रोचको मधुरस्तिकः कटुः पाके कटुर् लघुः ॥ 112
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् ।
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥ 113

तालीशम् उक्तं पत्त्राढ्यं धात्रीपत्त्रं च तत्स्मृतम् ।
तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् ।
निहन्त्य् अरुचिगुल्मामवह्निमान्द्यक्षयामयान् ॥ 114
कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतम् ॥ 115
कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् ।
आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् ॥ 116
स्निग्धोष्णा कफहृत् तिक्ता सुगन्धा गन्धकोकिला ।
गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ॥ 117
लामज्जकं सुनालं स्यादमृणालं लवं लघु ।
इष्टकापथकं सव्यं नलदं च विदातकम् ॥ 118
लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् ।
त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ॥ 119
एलवालुकम् ऐलेयं सुगन्धि हरिवालुकम् ।
ऐलवालुकम् एलालु कपित्थं पत्त्रम् ईरितम् ॥ 120
एलालु कटुकं पाके कषायं शीतलं लघु ।
हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः ।
बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् ॥ 121
कुटन्नटं दासपुरं बालेयं परिपेलवम् ।
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ 122
मुस्तावत् पेलवपुटं शुकाभं स्याद् वितुन्नकम् ॥ 123
वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् ।
कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् ॥ 124
स्पृक्कासृग् ब्राह्मणो देवो मरुन्माला लता लघुः ।
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ 125
स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् ।
कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् ॥ 126
पर्पटी रञ्जनी कृष्णा जतुका जननी जनी ।
जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी ॥ 127
पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः ।
विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् ॥ 128
नलिका विद्रुमलता कपोतचरणा नटी ।
धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली ॥ 129
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् ।
कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा ॥ 130
प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् ।
पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् ।
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ॥ 131
भावप्रकाश, वर्गप्रकरण, गुडूच्यादिवर्ग
अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः ।
रामपत्नीं बलात्सीतां जहार मदनातुरः ॥ 1

मूल पाठ: Bhāvaprakāśa · Edition: Benares City: Jaya Krishna Das Hari Das Gupta, 1947 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc