भावनासारसंग्रह · अध्याय 2
पश्यन्तीं स्वसुतं शचि भगवती सङ्कीर्तने विक्षतं
प्रातर् हा कथम् एव ते वपुर् इदं सूनो बभूव क्षतम्
इत्थं लालनतः स्वपुत्र-वनुषि व्यग्रा स्पृशन्ती मुहुस्
तल्पाज् जागरयाञ् चकार यम् अहं तं गौरचन्द्रं भजे
भक्तैः सार्द्धम् उपागतैर् भुवि नतैः श्रीवास-गुप्तादिभिः
पृच्छद्भिः कुशलं प्रगे परिमिलन् प्रक्षाल्य वक्त्रं जलैः
पुष्पादि-प्रतिवासितैः सुकथयन् स्वप्नानुभूतं कथां
स्नात्वाद्याद् धरि-शेषम् ओदन-वरं यस् तं ःहि गौरं भजे
राधां स्नात-विभूषितां व्रज-पयाहूतां सखीभिः प्रगे
तद्-गेहे विहितान्नपाक-रचनां कृष्णावशेषाशनाम्
कृष्णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गोदोहनं
सुस्नातं कृत-भोजनं सहचरैस् तां चाथ तं चाश्रये
स्नातानुलिप्त-वपुषः पुपुषुः स्वभास् तन्
निर्माल्य-माल्य-वसनाभरणेन दास्यः
प्रास्य स्वकामम् अनुवृत्ति-रतास् तयोर् याः
श्री-रूप-मञ्जरि-समान-गुणाभिधानाः
ता विद्युद्-उद्द्युति--जयि-प्रपदैक-रेखा
वैदग्ध्य एव किल मूर्ति-भृतस् तथापि
यूथेश्वरीत्वम् अपि सम्यग् अरोचयित्वा
दास्यामृताब्धिम् अनु सस्नुर् अजस्रम् अस्याः
श्वश्रू-पुरान्तर-गतोत्तर पार्श्व-वर्ति
भ्राजिष्णु धाम वर-शिल्प-कलैक-धाम
तातेन वत्सलतया वृषभानुनैव
निर्मापितं तद् उपमापि तद् एव नान्यत्
स्थूणा-प्रघाण प अलाङ्गण-तोरणाली-
गोपानसी-विविध-कोष्ठ-कपा अ-वेद्यः
राजन्ति यत्र मणि-दीप-तति-प्रदीप्त-
वैचित्र्य-निर्मित-जनेक्षण-चित्र-भावाः
यत्रेन्द्रनील-मणि-भूर्-वलभी घनाभा
हंसालिर् अप्य् उपरि राजति राजती सा
ये वीक्ष्य बन्धु-रिपु-भान-भृतो वितत्य
सङ्कोचयन्ति शिखिनः स्वशिखण्ड-पङ्क्तीः
तत्रोपवेश-शयनाशन-भूषणादि-
वेदीर् विमृज्य परिलिप्य विशोध्य तास् ताः
आस्तीर्य राङ्कवम् उपर्य् उपयुक्त-मुक्तम्
उल्लोचम् उन्नत-मुदो मिलिता बबन्धुः
एका ममार्ज मणि-काञ्चन-भाजनानि
काचित् पयः समय-योग्यम् उपानिनाय
चित्रांशुकापिहित-रत्न-चतुष्किकायाम्
आलम्बनीयम् अदधाद् अपरोपबर्हम्
पूर्वेद्युर् अंशुक-मणिमय-भूषणानि
मृष्टानि यत्र निहितान्य् अथ सम्पु अं तत्
उच्चैर् झनद्-वलय-राजि समुद्घटय्य
काचिज् जघर्ष विधु-कुङ्कुम-चन्दनानि
अन्या व्यधत्त सुमनाः सुमनोभिर् एव
चित्रैः किरी अ-क अकाङ्गद-हार-काञ्चीः
जाती-लवङ्ग-खदिरादिभि रज्यमानाः
काचिद् बबन्ध सुरसाः फणिवल्ली-वी ईः
अत्रान्तरे प्रतिदिशं दधि-मन्थनोत्थ-
रावैर् अवारित-महीसुर-वेद-घोषैः
हम्बा-ध्वनि-व्यतिविधान-मिथो ऽवधायि-
धेन्वालि-तर्णक-घटा वलद् अन्तरायैः
वृन्दिष्ठ-वन्दि-जन-वृन्द-वितायमान-
श्री-कृष्ण-कीर्ति-विरुदालि-सुधा-तरङ्गैः
शारी-शुक-व्रज-कलैः कलविङ्क-केकि-
कोलाहलैः क्रमत एव समेधमानैः
जाग्रत्सु लोक-निचयेष्व् अथ वासरेति
कर्तव्य-भावन-परेष्व् अधिशयम् एव
कृष्णेक्षण-क्षण सतृष्णतया पुरन्ध्री-
वृन्देषु नन्द-गृह-सन्दित-मानसेषु
नप्त्री-मुखाम्बुज-विलोकन-जीवितायां
तत्रोपसृत्य सहसा मुखराभिधायाम्
वात्सल्य-रत्न-पटली-भृत-पेटिकायां
राधे! क्व पुत्रि! भवसीति समाह्वयन्त्याम्
स्वभाव-कु इलाप्य् आत्म-
सुत-सम्पत्ति-काङ्क्षया
व्याकुला जटिला गत्वा
निकटं ताम् अथाब्रवीत्
सूनोः प्रजायुर् धन-वृद्धयेऽसौ
त्वया स्नुषा ज्ञे! नियतं नियोज्या
सुमङ्गल-स्नान-विभूषणादौ
गो-कोटि-हेतोस् तपनार्चनाय
आज्ञानवज्ञा निज-गोष्ठ-राज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्य् अवज्ञा
इत्य् आदिशत्य् अन्वहम् अर्थ-विज्ञा
विज्ञापिता मे किल पौर्णमासी
अस्मात् त्वम् आर्ये स्वां नप्त्रीं
सर्व-मङ्गल-मण्डिताम्
विधेहि सर्व-सम्पत्तिर्
यथा सूनोर् भवेन् मम
वधूम् अथाभाषसत पुत्रि! तल्पाद्
उत्तिष्ठ तूर्णं कुरु वास्तु-पूजाम्
त्वं मङ्गल-स्नान-विधिं विधाय
पूजोपहारं सवितुर् विधेहि
प्रभातम् आयातम् अहो तथापि
निद्राति नप्त्रीति मुहुर् वदन्ती
स्नेह-द्रुताङ्गी मुखरा प्रविश्य
शय्यालयं ताम् अवदत् तदेदम्
उत्तिष्ठ वत्से शयनात् प्रमुग्धे
व्यस्मारि वारो ऽद्य रवेस् त्वया किम्?
स्नात्वा प्रभातार्घ्य-विधानम् अस्मै
पूजोपहारं रचयास्य चाशु
तद्-वचः प्रतिबुद्धाथ
विशाखोत्थाय सालसा
सखि! तूर्णं समुत्तिष्ठोत्-
तिष्ठेति प्राह सत्वरा
तासां वचोभिः शयनेऽथ मुग्धा
मुहुः प्रजागर्य्य पुनर् निदद्रौ
विचालिता वीचिचयैस् तडागे
सा राजहंसीव रतालसाङ्गी
तदैवावसराभिज्ञा
जग्राह रति-मञ्जरी
सखी वृन्दावनेश्वर्याः
श्रीमच्-चरण-पङ्कजम्
इत्थम् इयं बहुभिः कृत-बोधा
स्वाच्-छयनाद् उदतिष्ठद् अनल्पात्
ताम् अथ वीक्ष्य सुपीत-पटाङ्गीं
शङ्कित-हृन्-मुखरेदम् उवाच
द्रुत-कनक-सवर्णं सायम् एतन् मुरारेर्
वसनम् उरसि दृष्टं यत् सखी ते बिभर्ति
किम् इदम् अयि विशाखे! हा प्रमादः प्रमादो
व्यवसितम् इदम् अस्याः पश्य शुद्धान्वयायाः
तद्-वचश् चकित-धीर् हृदि सख्या
वीक्ष्य पीत-वसनं चल-दृष्ट्या
हा किम् एतद् इति तां च दिशन्ती
द्राग् उवाच जरतीं च विशाखा
स्वभावान्धे! जालान्तर-गत-विभातोदित-रवि-
च्छटा-जाल-स्पर्शोच्छलित-कनकाङ्ग-द्युति-भरैः
वयस्यायाः श्यामं वसनम् अपि पीति-कृतम् इदं
कुतो मुग्धे शङ्कां जरति कुरुषे शुद्ध-मतिषु
ललिता-प्रमुखास् तावत्
सख्यस् ताः स्व-स्व-गेहतः
आजग्मुस् त्वरिताः सख्याः
प्रस्खलद् गतयो ऽन्तिकम्
तासां वाक्यैर् गतायान्तु
कृत-वञ्चन-सञ्चयैः
मुखरायां ततो ऽन्यासु
द्रष्टु-कामासु तत्र ताम्
एकैकशो ऽथ मिलितासु सखीषु सर्वा-
स्व् अन्योन्य-हास-परिहास-परासु तासु
सुश्लिष्ट-मण्डलतयैव कृतोपवेशा-
स्व् आरूढ-रत्न-मणि-हेम-चतुष्किकासु
श्री-राधिका-मिलनम् एव समस्त-हर्ष-
शस्यैक-वर्षम् इति यद्-धृदि निश्चिकाय
श्यामलैत्य समया समयाभिविज्ञा
श्लिष्टा तया सुषमयेव तदास तत्र
श्यामे! त्वम् एवम् अधुनैव विचिन्त्यमाना
मन्-नेत्र-वर्त्म-गमिता विधिना यथैव
तद्वत् स तर्ष-वि अपी फलयिष्यते चेद्
अद्यैव तर्हि गणयान्य् अपि सुप्रभातम्
हन्तैष सन्ततम् अतीव समेधमानः
शश्वत् सखीभिर् अपि सुन्दरि! सिच्यमानः
नाद्यापि यत् फलम् अधाद् अयि! को ऽत्र हेतुर्
हा तत् कदातिरभसाद् अवलोकयिष्ये
राधे! स ते न फलितो यदि तत् फलिष्यत्य्
आश्चर्यम् अस्य फलम् अप्य् अलसाङ्गि! बुद्ध्ये
आस्वाद्यमानम् अपि सौरभ-मादितालि
प्रत्याययत्य् अननुभूतम् इव स्वम् उच्चैः
पक्ष्मावली बत यदीय-रसेन शोणे-
नारञ्जि कञ्ज-मुखि! तन् न तद् अप्य् अपश्यः
यत्-स्वादन-व्यतिकराद् अधरो व्रणित्वम्
आगात् तथापि तद् अहो! न कदाप्य् अभुङ्क्थाः
श्यामे! त्वम् अप्य् अलम् अलक्षित-मन्-नितान्त-
स्वान्त-व्रणा हससि मां यद् अतो ब्रवीमि
विद्युद् विहन्ति तिमिरं निशि यद् दृशोस् तत्
सद्यः पुनर् द्विगुणयेद् इति भोः प्रतीहि
राधे! कला-निधिर् अयं विधिनोपनीतस्
त्वां सन्ततामृतमयैर् अधिनोत् कराग्रैः
यत् तत्-कलाः स्वयम् अहो कुचयोर् बिभर्षि
विद्युन्-निभत्व-परिवादम् अथापि दत्से
श्यामे! स मे सखि! ददौ न कलङ्कम् एव
सत्यं कलानिधिर् असाव् इति वः प्रतीतः
दत्ते कदापि मम दृष्टि-चकोरिका यैर्
ज्योत्स्ना-कणं यद् अपि तन् न पुनर् निकामम्
राधे! स्फुटं वद भवन्-मुख-पङ्कजोत्थ-
नक्तन्-तनेहित-सुधा-द्युधुनी विधूय
तापं निमज्जयतु मां स्वम् अनु प्रभाते
कृत्यान्तरं मम कथं तद्-ऋते सुसिध्येत्
श्यामेऽधिकुञ्ज-निलयं नव-नील-कान्ति-
धारा यदा स्नपयितुं निशि मां प्रवृत्ता
तर्ह्य् एव पञ्चशर-सञ्चय-ना य-रङ्ग-
भूमिं च केन च काञ्चन यापिताऽसम्
वदन्तीत्थं मूर्छां परम-परमानन्द-जनिकां
गता सेयं सद्यः स्मृति-विधुरता-पद्धतिम् अगात्
कदायाता श्यामे पुनर् इति हि पृष्टाहम् अधुना-
गतेत्य् उक्त्वापृच्छत् परिकलित-बोधां सपदि ताम्
अलस-वलितम् अङ्गं स्वावसादं व्यनक्ति
ग्लपितम् इव मृणाली-कन्दलं दोर्द्वयं ते
दशन-वसनम् एतन् नीरसं गण्ड-पाली
लुलित-ललित-पत्रा प्रक्रमः कस् तवैषः
अभिनव-लतिकेव वात-रुग्ना
नव-नलिनीव मतङ्गजेन भुग्ना
मृदुतर-नव-मालिकेव धूता
मद-मधुपेन विलक्ष्यसे त्वम् अद्य
अपि चिरम् अभिलष्यमाण एवं
प्रणयिनि को ऽपि सुदुर्लभो हि लब्धः
अथ कथम् इयम् अन्यथाऽस्मद् आदेः
फलित-वती सखि! भाग्य-कल्प-वल्ली
इति सप्रणय-वाचा सादरं पृच्छ्यमाना
प अ-वृत-मुखचन्द्रा स्वच्छ-चित्ता बतासौ
मुदम् अथ जनयन्ती पार्श्वगानां सखीनाम्
अवनि-निहित-दृष्टिं सस्मितः प्रत्य् उवाच
क्वाहं स्थिता क्व चलिता क्व च वा स पन्था
नीतास्मि केन नलिनाक्षि तदीय पार्श्वम्
किंवा बभूव मयि तत्र समेतवत्यां
जानाम्य् अहं यदि तदा भवती न वेत्ति
व्यापारो मनसश् च यत्र न गतः सम्भावनाभावतो
यत् स्वप्नः किम् अथेन्द्र-जालम् अथवा भ्रान्तिः सुदीर्घैव मे
तत् किं ह्लादि किम् आर्तिदं किम् उभयं किंवा न तन् नापि तच्-
चेतो-विद्रुति-कारकं च मनसो मूर्छाकरं चाभवत्
अथ श्यामाह-
केली-कलाध्ययन-कौशलम् एकदैव
न स्याद् अतः किम् अपि नो भवती विवेद
भूयस् ततः सखि! विलास-गुरोः सकाशाद्
यत्नाद् अधीष्व यदि विज्ञतमासि भूष्णुः
ततः श्री-राधिका प्राह-
मातः परं सुमुखि! यामि तदीय-पार्श्वं
दूराद् असौ नयन-वर्त्म-निवर्तनीयः
अध्येतु नाम भवती तत एव तत् ते
पाण्डित्यम् एव मनसो रसदं मम स्यात्
भ्राजन्ते वर-दन्ति! मौक्तिक-गणा यस्योल्लिखद्भिर् नखैः
क्षिप्ताः पुष्कर-मालयावृत-रुचः कुञ्जेषु कुञ्जेष्व् अमी
शौ ईर्याब्धिर् उरोज-पञ्जर-तटे संवेशयन्त्या कथं
स श्रीमान् हरिणेक्षणे! हरिर् अभून् नेत्रेण बद्धस् त्वया?
को ऽयं कृष्ण इति व्युदस्यति धृतिं यस् तन्वि कर्णं विशन्
रागान्धे! किम् इदं सदैव भवती तस्योर् असि क्रीडति
हास्यं मा कुरु मोहिते! त्वम् अधुना न्यस्तास्य हस्ते मया
सत्यं सत्यम् असौ दृगङ्गनम् अगाद् अद्यैव विद्युन्-निभः
लज्जाभर-क्रान्ततयातितूष्णीं
स्थिता वयस्या प्रिय-केलि-वार्त्ताम्
श्रोतुं गृहीत्वा चिबुकं तदा सा
ह्य् अत्य् आग्रहीद् आलीम् अथ प्रवक्तुम्
प्रिय-सखि! मम वृत्तं पृच्छ मा भाग्यम् ईदृक्
क्व नु मम कथयेयं त्वय्य् अहं तान् विलासान्
धृतवति करम् एव श्यामले क्वास काहं
किम् इव च करको ऽसौ किं व्यधान् न स्मरामि
वेणीं गुम्फति दिव्य-पुष्प-निचयैः सीमन्त-सीमन्य् अहो
सिन्दूरं निदधाति कज्जल-मयीं निर्माति रेखां दृशोः
दिव्यं वासयते दुकूलम् असकृत् ताम्बूलम् अप्य् आशयेद्
इत्थम्भूत-रतिः सखा तव न मां तल्पे निधत्तेऽङ्कतः
नित्यं मन्मुख-सम्मुखं मुख-विधुं धत्तेऽनिमिषेक्षणो
नित्यं मन्मुखम् एव पश्यति मयैवाजस्र-गोष्ठी-परः
आधायैव शयीत मां हृदि मयैवावर्तयेत् पार्श्वकं
सख्युस् ते सखि! सर्व-नागर-मणेः प्रीतिः कथं वर्ण्यताम्?
विलास-चेष्टा सखि! केशि-नाशिनो
हलाहलाभा प्रदहन्ति मे मनः
कृन्तन्ति मर्माणि गुणा घुणा इव
प्रेमा विकारी हृदि हृद्-व्रणो यथा
नो विद्मः किम् उ गौरवं गुरुकुले कौलीन्य-रक्षा-विधौ
न श्रद्धा किम् उ दुर्जनोक्ति-गरल-ज्वालासु किं नो भयम्
उद्वेगादन् अवस्थितं मम मनः कस्यापि मेघ-त्विषो
यूनः श्रोत्र-गतैर् घुणैर् इव गुणैर् अन्तः कृतं जर्जरम्
राधे! यद्-आस्य-सरसी-रुह-गन्ध एवम्
अन्धीकरोति कुलजा-कुलम् आलि! दूरात्
तन्-मध्व् अतीव सुरसं सरसं पिबन्त्याश्
चित्त-भ्रमस् तव मदाद् इति नैव चित्रम्
अत्रान्तरे मधुरिका मिलिताथ पृष्टा
ताभिर् जगाद मधुरं शृणुतैतद् आल्यः
कस्यैचिद् एव कृतये व्रजराज-वेश्म
प्राप्ताद्य कौतुकम् अहो यद् उषस्य् अपश्यम्
पौर्णमासी भगवती सर्व-सिद्धि-विधायिनी
काषाय-वसना गौरी काश-केशी दरायता
कृष्णं द्रष्टु-मनास् तल्पाद् उदतिष्ठद् द्विज-ध्वनैः
अथ प्रभाते कृत-नित्य-कृत्या
प्रीत्याच्युतस्यातिविहस्त-चित्ता
प्रेमेन्दु-पूर्णा किल पौर्णमासी
तूर्णं व्रजेन्द्रालयम् आससाद
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः
रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कवर-विगलन्-मालती निर्ममन्थ
रजनि-विपरिणामे गर्गरीणां गरीयान्
दधि-मथन-विनोदाद् उद्भवन्न् एष नादः
अमर-नगर-कक्षा-चक्रम् आक्रम्य सद्यः
स्मरयति सुर-वृन्दान्य् अब्धि-मन्थोत्सवस्य
मन्थानोद्धृत-गव्य-विन्दु-निकर-व्याकीर्ण-रम्याङ्गनं
प्रेम-स्निग्ध-जनान्वितं बहु-विधै रत्नैर् विचित्रान्तरम्
क्षीरोर्म्य् उच्छलितं मुदाहि-विलसच्-छय्या-प्रसुप्ताच्युतं
श्वेत-द्वीपम् इवालयं व्रज-पतेर् वीक्ष्यास सानन्दिता
ताम् आगताम् अभिप्रेक्ष्य
साक्षाद् इव तपः-श्रियम्
व्रज-रज्ञी पराभिज्ञा
स्थिति-ज्ञाभ्युद्ययौ मुदा
एहि भो भगवतीति व्रज-वन्द्ये
स्वागतासि भवतीं प्रणमामि
इत्य् उदीर्य सविधे प्रणमन्तीं
सा मुकुन्द-जननीं परिरेभे
आशीर्भिर् अभिनन्द्यामूं
गोविन्द-दर्शनोसुका
पप्रच्छ कुशलं चास्याः
सधवात्मज-गो-ततेः
निवेद्य कुशलं चास्यै
तयोत्कण्ठितया सह
उत्का शय्या-गृहं सूनोः
प्रविवेश व्रजेश्वरी
डोरी-जूटित-वक्र-केश-प अला सिन्दूर-बिन्दूल्लसत्-
सीमन्त-द्युति-रङ्ग-भूषण-विधिं नातिप्रभूतं श्रिता
गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर-
श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः
पर्यङ्के न्यस्य सव्यं तद्-उपरि निहित-स्वाङ्गभाराथ पाणिं
कृष्णस्याङ्गं स्पृशन्तीतर-कर-कमलेनेषद्-आभुग्न-मध्या
सिञ्चन्त्य् आनन्द-बाष्पैः स्नुत-कुच-पयसां धारया चास्य तल्पं
वत्सोत्तिष्ठाशु निद्रां त्यज मुख-कमलं दर्शयेत्य् आह माता
मधुरिकोवाच-
गान्धर्विके! शृणु यद् अन्यद् अभूद् विचित्रं
नीलांशुकं स्वतनयोर् असि वीक्ष्यमाणाम्
ताम् आह सैव भगवत्य् अयि गोष्ठ-राज्ञि!
रामाम्बरेण परिवर्तितम् अस्य वास
ता अङ्कगारुण-मणि-प्रतिबिम्ब एव
गण्डे विभाति तव माधव! शोण-शोचिः
इत्य् उक्त एव स तया निज-पाणिना तं
सद्यो जघर्ष भवद्-आधर-राग-भागम्
उत्तिष्ठ तात रजनीयम् अगाद् विरामं
पश्यांशुमन्तम् उदयोद्यमनाभिरामम्
प्रत्यूष-सेवन-विधौ विलसद्-विलासाः
शय्यालयं तव विशन्ति कुमार-दासाः
सङ्कीर्तयन् जय जयेति गिरा सुवृत्तस्
त्वां तात जागरयितुं प्रणयात् प्रवृत्तः
कीरस् तवैष निज-पाणि-तलेन पुष्टः
सन्मञ्जु-वाक् कनक-पञ्जर-वास-हृष्टः
खेदस् तवैष शयनालस-भार-मूलः
स्वापं जहीहि भव जागरणानुकूलः
इत्थं करेण मृदुना मुहुर् अङ्गम् अङ्गम्
आस्पृश्य बाहु-युगलेन तम् आलिलिङ्ग
मातुः कलां गिरम् अतिप्रणयोपगूहं
श्रुत्वानुभूय च तदैव स सम्यग् ऊहम्
गात्रावमो अन-पुरःसर-जृम्भणेन
जाग्रद्-दशाम् अभिनिनाय कुतूहलेन
कालोचितेषु परिचारण-कौशलेषु
गाढानुराग-परभाग-निराकुलेषु
दक्षं समक्षम् अनुशास्य कुमार-दासी-
दासं व्रजेन्द्र-गृहिणी स्व-गृहानयासीत्
तावद् गोभ अ-भद्रसेन-सुबल-श्री-स्तोककृष्णार्जुन-
श्रीदामोज्ज्वल-दाम-किङ्किणि-सुदामाद्याः सखायो गृहात्
आगत्य त्वरिता मुदाभिमिलिताः श्री-सीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्ट-गोष्ठम् अय भो इत्य् आह्वयन्तः स्थिताः
ही ही प्रभातं किम् उ भो वयस्या
अद्यापि निद्राति कथं सखा नः
तद् बोधयाम्य् एनम् इतीरयन् स्व-
तल्पाद् उदस्थान् मधुमङ्गलो ऽपि
समुत्तिष्ठ वयस्येति
जल्पंस् तल्पालयं हरेः
निद्रालस-स्खलद्-यानः
प्राविशन् मधुमङ्गलः
तद्-वाग्-विगत-निद्रो ऽयम्
उत्तिष्ठासुर् अपीश्वरः
उत्थातुम् ईश्वरो नासीद्
घूर्णा-पूर्णेक्षणः क्षणम्
उत्तिष्ठ कुर्यां मुख-मार्जनं ते
बलस्य वासः किम् इह त्वद्-अङ्गे
इति ब्रुवाणापनिनाय नीलं
वासस् तद्-अङ्गाद् अवदच् च सार्याम्
अयि भगवति! पश्याचो इतं मेऽस्य सूनोः
कमल-मृदुलम् अङ्गं मल्ल-लीलासु लोलैः
खर-नखर-शिखाभिर् धातु-रागातिचित्रं
चपल-शिशु-समूहैर् हा हता किं करोमि?
स्नेह-भरैः स्वजनन्याश्
चित्र-पदाम् अपि वाणीम्
ताम् अवधार्य मुरारिर्
ह्री-चकितेक्षण आसीत्
कृष्णं सशङ्कम् आशङ्क्य
परिहास-पटुर् बटुः
स्नेह-क्लिन्नान्तराम् अम्बाम्
अवदन् मधुमङ्गलः
सत्यम् अम्ब! वयस्याली
वारितापि मयानिशम्
रेमेऽनेनातिलुब्धेन
कुञ्जेषु केलि-चञ्चला
अथ प्रकाशी-कृत-बाल्य-विभ्रमो
यत्नात् समुन्मील्य विलोचनं मुहुः
पश्यन् पुरः स्वां जननीं हरिः पुनर्
न्यमीलयत् स स्मित-वक्त्र-पङ्कजः
आकर्ण्य वाचं व्रज-राज-पत्न्याः
समीक्ष्य कृष्णस्य च बाल्य-चेष्टाम्
भावान्तराच्छादकरीं जनन्यास्
तं पौर्णमासी स्मित-पूर्वम् आह
सखीनां सन्दोहैर् निरवधि महाकेलि-ततिभिः
परिश्रान्तस् त्वं यत् स्वपिषि सुमते योग्यम् इह तत्
अनालोक्य त्वां भोस् तृषितम् अपि नो तर्णक-कुलं
धयत्य् ऊधः किन्तु व्रज-कुल-पते जागृहि ततः
उत्तिष्ठ गोष्ठेश्वर-नन्दनारात्
पश्याग्रजो ऽयं सह ते वयस्यैः
गोष्ठं प्रतिष्ठासुर् अपि प्रतीक्ष्य
त्वाम् अङ्गने तिष्ठति तर्णकैश् च
स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमो अयन् सो ऽथ रसालसाङ्गम्
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात्
उन्मीलन-प्रतिनिमीलनयोर् बहुत्वे
जाग्रच्-छयान-दशयोर् इव मिश्रितत्वे
सा निद्रया विरह-कातरया धृतेव
तस्योत्थितस्य नयन-द्वितयी दिदेव
ख वैक-देशे त्व् अथ सन्निविष्टो
विन्यस्त-पादाब्ज-युगः पृथिव्याम्
नमाम्य् अहं त्वां भगवत्य् अयीति
जगाद जृम्भोद्गम-गद्गदं सः
आ-पाद-शीर्षम् अथ पाणि-तलाभिमर्शे-
नाव्यादजो ऽङ्घ्रिम् इति मन्त्रम् उदाहरन्ती
संरक्ष्य तूर्णम् अखिलाङ्गम् अथोर्ध्व-दृष्ट्या
किञ्चित् स-काकु-भरम् अर्थयते स्म राज्ञी
देवाधिदेव! भवतैव चिरात् सुतो ऽयं
दत्तः स्व-बन्धु-जन-जीवनताम् उपेतः
पाल्यो ऽपि नाथ! भवतैव कृपा-भरेण
स्वेनैव काम् अपचितिं तव वेद्मि कर्तुम्
आरात्रिकेण मणि-मङ्गल-दीप-भाजा
विभ्राजितेन जित-सौभगवत् समाजाः
आधाय पणि-सरसी-रुहयोर् मुदास्य-
नीराजनं विदधिरेऽस्य कुमार-दास्यः
उष्णीष-बन्ध-सुमनोज्ञतमोत्तमाङ्गाः
पाथोज-केशर-सुसौरभ-सुन्दराङ्गाः
श्यामाः सिताश् च हरिता अरुणाश् च पीता
ये केऽपि केऽपि महनीय-गुणैः परीताः
तैर् एव केवल-सुखानुभव-स्वरूपैर्
नैसर्गिकानुदिन-दिव्य-कुमार-रूपैः
दासी-गणैर् अपि च दास-गणैर् उदारैः
सेवा व्यधायि विविधास्य विलोल-हारैः
पर्यङ्कतः समधिरुह्य मणी-चतुष्कं
श्री-पाद-पीठ-महसा विलसद्-वपुष्कम्
चारूपविष्टम् अतिहृष्ट-हृदो गृहीत्वा
चारूपचारम् अथ भेजुर् अमी मिलित्वा
तैर् आहितां करतले विनिधाय धारां
कर्पूर-सौरभवताम् अतिचारु-वाराम्
गण्डूष-पुरम् उपक्प्तस् उत्थोपजोषं
कृष्णः शनैर् अभिषिषेच मुखाब्ज-कोषम्
आमृज्य चारु-मृदु-सूक्ष्म-बलक्ष-वासः-
खण्डेन पाणि-वदनं निरुपाधि-हासः
तैर् आहितं करतले मृदु दन्त-काष्ठं
प्रत्यग्रहीन् म्रदिमनिष्ठम् अथो लघिष्ठम्
कल्प-द्रुमस्य मृदुना वि अपेन तेन
रत्नाङ्गुलीयक-महोभिर् अलङ्कृतेन
दन्तावलिं विहित-वीक्षक-नेत्र-हर्षम्
आलोल-कुण्डल-युगं शनकैर् जघर्ष
अङ्गुष्ठ-तर्जनिकयोर् धृतया वितस्त्या
जिह्वा-विलेखनिकया मणि-हेममय्या
राजन् मणीन्द्र-वलयं व्यलिखन् मनोज्ञां
ताम्बूल-राग-परभागवतीं रस-ज्ञाम्
भूयः पयोभिर् अमलैर् वदनं निनेज
भूयो ममार्ज च कदापि न चोद्विवेज
श्री-दर्पणं कृत-समर्पण-चञ्चलाक्षि-
लक्ष्म्या चकार मुख-धावन-शुद्धि-साक्षि
माणिक्य-कङ्कतिकया कर-पद्म-कोषं
सम्प्राप्तया वलय-कङ्कति-चारु-घोषम्
केश-प्रसाधनम् अथानभिसन्धि-हासी-
भूतानना व्यधित कापि कुमार-दासी
नक्तन्तनं वसनम् अस्य निरास्य कश्चिद्-
वासो ऽन्तरं सुपरिधाप्य कला-विपश्चित्
उष्णीष-बन्धम् अथ मूर्ध्नि बबन्ध पादौ
प्रक्षाल्य वार्भिर् अभिमृज्य च वासरादौ
गा दोग्धुम् उद्धुर-धियो ऽपि वृथोद्यमास् ते
गोपा बभूवुर् अथ तर्णक-मण्डलाश् च
चूषन्त एव न पयः कण-मात्रम् आसाम्
आपीनतो ऽद्य यद् अवापुरतो विषेदुः
गावस् तवाध्वनि धृताश्रु-भृताक्षि-युग्मा
न प्रस्रवन्त्य् अपगतान् न लिहन्ति वत्सान्
हम्बाध्वनि-ध्वनित-दिग्-वलया विलम्बं
सोढुं दरापि न हि सम्प्रति शक्नुवन्ति
इत्य् एव केनचिद् उपेत्य स गोदुहोक्तो
मातृर् निजास्य-दर-हास्य-सुधाभिषेकैः
स्वानन्द-शंसिभिर् असौ सुखयन् मुखाब्जं
ताम्बूल-रञ्जितम् अलं कलयन्न् उदस्थात्
दोहं समाप्य बलभद्र! सहानुजस् त्वं
मल्लाजिरं व्रजसि चेत् कुरु मा विलम्बम्
निर्मञ्चनं तव भजे क्षण-मात्रेव
सार्धं विहृत्य सखिभिर् द्रुतम् एहि भोक्तुम्
श्रुत्वेति मातृ-गिरम् आह हरिर् न मातः
प्रत्येषि मां यद् अमुम् एव वदस्य् अथैवम्
शिष्टो ऽग्रणीः पुनर् अमीष्व् अहम् एक एव
नो चेद् अमुष्य वशतां किम् उरि करिष्ये?
शिष्टो यथा त्वम् असि वत्स! निजातिबाल्यम्
आरभ्य तत् खलु विदन्त्य् अखिलाः पुरन्ध्र्यः
याः स्वालयापचय-वेदनया पुरासां
फुत्-कर्तुम् आपुर् इह नो कतिधेति सोचे
सौदामिनी-तति-विभा-जयि-दामनी-द्युद्
विभ्राजि-सव्य-कर-कोरकितारविन्दः
स ग्राहित-प्रमित-कानक-दोहनीको
मात्रा तया सखि! रयाद् अधिकं विरेजे
स्तम्बे-रम-व्रज-विडम्बि-विलम्बि-पाद-
विन्यास-झञ्झन-झणत्-कृत-किङ्किणीकः
लोलालकालि-मणि-कुण्डल-कान्ति-वेणी-
वीची-भर-स्नपित-वक्त्र-सुधांशु-बिम्बः
पीतोत्तरीय-चपलेलित-केलि-नृत्य-
राजद्-घनाङ्ग-किरणोच्छलनोच्छ्रित-श्रीः
प्रेङ्खोल-हार-परिधि-श्रित-कौस्तुभोद्यद्-
भानुः स्वनच्-चरण-भूषण-चुम्बि-दामा
निष्क्रम्य रम्य-पुरतः पुरतो ऽभिगच्छन्
यच्छन् मुदं स्वजननी-जन-लोचनेभ्यः
दासैः प्रधारितम् अवारित-रोचिर् अश्नं
ताम्बूल-पुलकम् अवाप स गोपुराग्रम्
तद्-बाह्य-कुट्टिम-त ईम् अवलम्बमानः
का कुत्र किं कुरुत इत्य् अनुसन्दधानः
व्यापारयन् नयनम् अ अ-घटासु नर्म-
प्रेष्ठैर् मिलद्भिर् अभितः स रराज मित्रैः
तन् निर्मितानुपद-कर्ण-कथा-रसज्ञ-
स्यास्याम्बुजे किम् अपि यत्-स्मितम् उद्बभूव
तस्यार्थ-जातम् अपि किं विवरीतुम् ईशे
चेतो ऽलिर् एव तव सख्य् अनुसन्दधातु
उष्णीष-वक्रिम-महामधुरिम्णि तस्य
तात्कालिके किल न कस्य मनो न्यमाङ्क्षीत्
तत्रैव शेखरित-कानक-सूत्र-जाल-
राजन्-मणि-द्युति-भराः किम् उ वर्णनीयाः
तैः सौरभैः प्रसृमरैर् अनु नूपुरादि-
ध्वानैर् बलेन वलभीम् अधिरोहिताभिः
गोशाल-वर्त्मनि चलल् ललनावलीभिर्
नेत्राम्बुजैः स कतिधा नहि पूज्यते स्म
तत्-तद्-विलास-बलिता सुषमा-रसाला
प्रेष्ठस्य सा मधुरिका परिवेश्यमाना
वैश्लेषिक-ज्वरम् अशीशमद् अप्य् अथास्यास्
तेने च तं शत-गुणं तृषम् एधयन्ती
हर्षोन्नतिः स्तिमिततां श्रवसोर् व्यतानीत्
तर्षोत्थ-संज्वरभरस् तु दृशोर् विवेश
आकस्मिकी निरुपमा प्रतिवेशि-सम्पत्
तापं तनोति सहवास-भृतां सदैव
प्राहानुराग-परभागवती ततः सा
ता एव चारु-मुखि! धन्यतमा रमण्यः
याः खेलयन्ति सततं सुदृशस् तदीय-
लावण्य-केलि-जलधौ कल-धौत-गात्र्यः
जन्मैव हन्त किम् अभून् मम गोकुलेऽस्मिंस्
तन् माधुरीं न यद् उरी-कुरुते कदापि
तत् श्यामलेऽतिचपले हृदि लेश-मात्री
नो सम्भवेद् इह भवे धृतिर् इत्य् अवेहि
श्यामाह यामि! ललिते! शृणु यामि गेहं
सम्प्रत्य् अमूं प्रति ममास्तु गिरां विरामः
त्वं पद्मिनीं व्रज-पुरन्दर-सद्मनीमां
कृष्णेक्षणालिनि समर्पय बद्ध-तृष्णे
प्रिय-विरह-विहस्ता स्रस्त-धीः सा तदानीं
क्षणम् अपि युग-कल्पं कल्पयन्ती बभूव
यद् अखिलम् अपि कृत्यं कारिता किङ्करीभिः
समय-विहितम् एको ऽभ्यास एवात्र हेतुः
अथ निखिल-सखीनां स्वालिभिः स्नापितानां
धृत-समुचित-वस्त्रालङ्कृतीनां ततिः सा
मथित-शरद्-उदञ्चच्-चन्द्रिका-सिन्धु-जातां
श्रियम् अपि निज-पादाम्भोज-भासा विजिग्ये
काचिन् मणीन्द्रमयम् आसनम् आजहार
श्री-पाद-पीठम् अपरा तद् अधो दधार
काप्य् आनयद् वदन-धावन-भाजनानि
काप्य् आदधे दशन-शोधन-साधनानि
उत्थाय तल्प-तलतः कनकासन-स्था
निद्रावसान-विगलन्-नियत-व्यवस्था
सा पाद-पीठम् अधि दत्त-पदारविन्दा
बभ्राज सत्-परिजनैर् विहिताभिनन्दा
भृङ्गार-नाल-शिखरेण समर्पिताभिः
सन्धाय वक्त्र-विवरे चुलुकी-कृताभिः
तत्-सौरभस्य रभसाधिक-सौरभाभिः
श्री-पाणि-पद्म-तल-सङ्गम-लोहिताभिः
निक्षेपणे प्रिय-सखी-करयोः कृताभिः
कर्पूर-पूर-रजसाऽभिसुवासिताभिः!
व्याप्तालिभिः सकल-केलि-कला-सुहृद्भिः
सा साधु शोधितवती मुख-पद्ममद्भिः
कर-तलाद् असकृच्-चुलुकी-कृतं
सलिलम् आ-रद-ताल्व् अनु चालितम्
चल-कपोल-युगोन्नति-मञ्जुल-
ध्वनि-भृतं निभृतं क्षिपति स्म सा
विसृमरान् अलकान् किरती शिरस्य्
उपरि सव्य-कराङ्गुलि-घट् अनैः
अलिक-गण्ड-दृग्-आद्य् अथ सामित-
द्युतिम् इतं तिमितं त्रिर् अदीधवत्
वि अपिकां द्युतरोस् तत-रोचिषं
रद-हितां निहितां स्व-वयस्यया
मुकुलिताम्बुजतां भजताञ्जसा
मृदुतरेण करेण सुदृग् दधे
प्रतिसरोदित-दोलनम् अस्वनद्-
वलयम् उच्चल-कुण्डलम् एतया
व्यधित सा मृजती रदनांश् छविं
कणवद् उच्छलितां ललितां श्रितान्
अथ दधे सुदती धनुर्-आकृतिं
मणिमयीं रसना-परिणेजिनीम्
मृदुल-पाणि-युगाङ्गुलि-युग्मकां
सहचरी-करतो ऽदर-तोषतः
नवदलोपमितां रसनां मृजत्य्
अथ तया नत-कम्पित-मस्तकम्
मुखम् इयं स्खलितैर् अलकैर् वृतं
विदधती दधती स्मितम् आबभौ
निरणिजद् बहिर्-अन्तरम् अप्य् अरं
मुख-विधोर् अथ धौत-कर-द्वया
परिजनार्पित-मञ्जुल-वाससा
जल-कणापनयं सनयं व्यधात्
सहचरी-विधृते मणि-दर्पणे
तद्-अभिनन्दन-साक्षिणि वीक्ष्य सा
स्मित-सुधाभिर् अधावयद् आननं
प्रियतम-क्षण-लक्षण-लक्षकम्
तस्य दोहादिकां क्रियां
दृष्टागता कलावती
जगादाथ तद्-अभ्यर्णे
परमोल्लास-संयुता
गोपालो ऽपि स्व-गोशालं
सराम-मधुमङ्गलः
सकाव्य-गीष्पतिः सायं
शशी-वाम्बरम् आविशत्
दधार द्युषदां रामो
धवलावलि-वेष्टितः
कैलास-गण्ड-शैलाली-
मध्यस्थैरावत-भ्रमम्
मध्येऽच्युतो ऽञ्चन् धवलावलीनाम्
उदाननानां परितः स्थितानाम्
दधौ जनानां स्फू अ-पुण्डरीक-
श्रेण्य्-अन्तर्-अञ्चद्-भ्रमर-भ्रमं सः
हिही गङ्गे! गोदावरि! शबलि! कालिन्दि! धवले!
हिही धूम्रे! तूङ्गि! भ्रमरि! यमुने! हंसि! कमले!
हिही रम्भे! चम्पे! करिणि! हरिणीति व्रज-विधुर्
मुहुर् नाम-ग्राहं निखिल-सुरभीर् आह्वयद् असौ
न्यस्ताङ्गः प्रपदोपरि प्रघटयन् जानु-द्वये दोहनीं
काश्चिद् दोग्धि पयः स्वयं त्व् अथ पराः स्वैर् दोहयत्य् उन्मुखीः
अन्याः पाययति स्वतर्णक-गणान् कण्डूयनैः प्रीणयन्न्
इत्थं नन्द-सुतः प्रगे स्वसुरभीर् आनन्दयन् नन्दति
पादाग्रे कृत-पादुकं त्रिक-समुल्लासोल्लसत्-पार्ष्णिकं
मध्ये न्यस्य घटीं प ओन्नम् अनतः प्रोद्यत् त्विषोर् जानुनोः
गोतुन्द-व्यतिषङ्ग-सुन्दर-दर-क्षोभ-श्लथोष्णीषकं
पाणिभ्यां क्रम-कुड्मलाङ्गुलि-पु अं गां दोग्धि दुग्धं हरिः
वत्साद् अप्य् अधिक-प्रियो भगवतः पाण्य्-अम्बुज-स्पर्शन-
स्नेह-स्रावि-पयः-पयोधर-पु आ गौर् दुह्यमाना स्वयम्
धाराभिः सुगभीर-घोष-गहनम् आपूर्य सा दोहनीं
दोहन्य् अन्तरम् एति यावद् अवनीं तावत् समापुप्लुवत्
अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्द्ध-नीरुद्ध-भूर्
आपीनाञ्चल-मर्दयन्न् इह पुरो द्वित्रैः पयो-बिन्धुभिः
न्यग्-जानु-द्वय-मध्य-यन्त्रित-घटी-वक्त्रान्तरे प्रस्खलद्-
धारा-ध्वान-मनोहरं सखि! पयो गां दोग्धि दामोदरः
शृण्वन्तीं भाव-वैवश्याद्
विस्मृत-स्नापन-क्रियाम्
लवङ्ग-मञ्जरी सद्यो
जुहाव व्यग्र-मानसा
तत्र काञ्चनमये मृदु-पीठे
चीन-चेल-पिहिते विनिविष्टाम्
सेवने परिजना निपुणा द्राक्
ताम् उपायन-कराः परिवव्रुः
सावातारयद्-आभरण-निचयं
ललिता स्वसखी-तनुतः सदयम्
कनक-व्रततेर् इव सप्रणयं
पल्लव-कुसुम-स्तवक-प्रचयम्
आमृज्य चेल-शकलेन तनूत्तमेन
सर्वाङ्गम् अङ्कितम् अनङ्ग-रणाङ्ककेन
अभ्यङ्ग-सङ्गि-वसनं परिधाप्य नक्तं
वासो ऽभ्यमूमुचद् अनुत्तम-गन्ध-युक्तम्
आकृष्य मुग्धम् अवगुण्ठनम् उत्तमाङ्गाद्
उन्मोच्य कुन्तल-ततीः सुघनोत्तमाङ्गाः
रत्न-प्रसाधनिकया चल-कङ्कणालिः
सप्रेम सादरम् अशूशुधद् उत्तमालिः
प्रक्षाल्य पाद-युगलं मुकुरं पुरस्ताद्
आदर्श्य काचन कला-कुशलत्व-शस्ता
तैलेन सत्सुरभिणा लसतारुणिम्ना-
भ्यानञ्ज कञ्ज-वदनां प्रणयेन भूम्ना
अङ्गाद् यतो यत उदस्यति चारु-चेलं
तत्-तन्-निरीक्ष्य ह्रियम् ऋच्छति सानुवेलम्
तेनाक्तम् अक्तम् अवधाय सखीयम् अङ्गं
तस्याः प्यधात् तद्-अखिलं कृत-ह्री-विभङ्गम्
अभ्यज्य रज्यद्-अतिशुद्ध-हृदो वयस्या
आपाद-मूर्ध-कृत-मर्दनम् अङ्गम् अस्याः
उद्वर्तनं विदधिरे घनसार-पूर्णैः
कस्तूरिका-घुसृण-चन्दन-चारु-चूर्णैः
गन्धानुबन्धि-विमलामलकी-कषायैः
केशान् विघृष्य कतमा विविधैर् उपायैः
भृङ्गार-नाल-गलितैर् ललितैः कबन्धैर्
उक्षां चकार सहज-प्रणयानुबन्धैः
कालोचितेन घनसार-सुवासितेन
नाना-मणीश्वर-घटी-घटया भृतेन
द्वाभ्यां शनैर् उभयतः प्रतिपादितेन
द्वे पार्श्वयोः सिषिचतुः सुमुखीं जलेन
संवेष्ट्य चारु-चिकुरान् सिचयेन बाढं
निष्पीड्य भूरि गलद्-अम्बु निगाल्य गाढम्
भूयः प्रसार्य चलद्-अङ्गुलिभिर् विकीर्य
भूयो बबन्ध कतमा सिचयं वितीर्य
काचिन् मुखेन्दुम् अपरा गल-मूलम् अन्या
कर्णौ ममार्ज मृदुना वसनेन धन्या
वक्षो विसारि कतमा कतमा च पृष्ठं
बाहु-द्वयं च कतमा सुषमा-वरिष्ठम्
संवेष्ट्य शुष्क-वसनेन निरासनीयं
श्रोण्या जहार विगलज्-जलम् अन्तरीयम्
आमृज्य पाणि-युगलेन शनैर् उदारम्
अर्द्धोरुकं कटि-तटे घटयां चकार
आमृष्टयोर् वर-पयोधरयोर् अलोलं
काचित् कलासु कुशलाथ बबन्ध चोलम्
प आंशुकेन रचितं स्व-सखी-जनेन
नाना-विधातिशय-शिल्प-विशारदेन
तस्योपरि प्रतनु शोणतरं सुवीचि-
चण्डातकाद् उदयद् उच्चल-सन्मरीचि
श्री-पाद-पद्म-नख-चन्द्र-चयाग्र-चुम्बि
चेलं बबन्ध तपनीय-गुणानुबन्धि
लम्ब-प्रलम्ब-युगलेन सुपट्ट-दाम्ना
मुक्ता-मणीन्द्र-महसा विलसद्-गरिम्णा
आकुञ्चन-क्रम-वशात् कमलानुकारां
जग्रन्थ नीविम् अभिनाभि सुशिल्प-साराम्
कनक-बिन्दुमती नव-शा इका
घन-रुचिस् तद्-उपर्य् अतिदिद्युते
यद्-अभिवेष्टनम् एव मुकुन्द-दृङ्
निरनुरोधन-रोधनम् उच्यते
आरोह्य ताम् अथ महामणि-पीठ-पृष्ठे
विस्तारितातिमृदु-चेल-कृत-प्रतिष्ठे
प्रक्षाल्य पाद-कमल-द्वितयं सतोषाः
सख्यो व्यधुर् विविध-मङ्गल-वेष-भूषाः
भूयः प्रसार्य बहुशो बहुशः प्रसाध्य
रत्न-प्रसाध-निकयाङ्गुलिभिर् विशोध्य
कालागुरु-प्रभव-धूप-धुरा-प्रचारम्
आली-जनः कच-भरं सुरभी-चकार
स्नानाद् ऋजुं सद्-अलकालिम् अरालयित्वा
कस्तूरिकाभिर् अलिके तिलकं लिखित्वा
सिन्दूर-बिन्दु-रुचिरेऽकृत बालपाश्यां
सीमन्त-सीमनि मणीन्द्र-मयूख-रस्याम्
कस्तूरी-पत्रवल्ली-समुदय-खचितं पार्श्वयोर् आकपोलं
भाले श्रीखण्ड-बिन्दूत्कर-वृतम् अभितः काम-यन्त्राभिधानम्
अन्तः कस्तूरिकोद्यन्-मलयज-शशभृल्-लेखयाधश्चितं सा
चक्रे सीमन्त-रेखान्वितम् अथ तिलकं सान्द्र-सिन्दूर-पङ्कैः
मौलौ बबन्ध कतमा सुमणि-प्रवेकं
सन्मालती-कुसुम-गर्भक-कान्ति-सेकम्
धम्मिल्लम् उल्लसित-लोहित-पट्ट-दाम्ना
लम्ब-प्रलम्ब-युगलेन मणीन्द्र-धाम्ना
सूक्ष्मोर्ध्व-रन्ध्र-गत-हेम-शलाकिकाया
मूलाग्र-सङ्ग-ललिते विदधे सुकाया
श्री-चक्रिका-बकुलिके श्रुति-मध्य-देशे
रत्न-प्रभा-भर-धुरा विहितोपदेशे
मुक्ताकलाप-कलया ललित-प्रकाश्यां
काचिद् व्यधाद् अलक-सीमनि पत्रपाश्याम्
काचिन् मणीन्द्रमय-कुण्डलम् अत्युदारम्
एकैकशः श्रुति-युगे घटयां चकार
काचिद् विभूष्य नयने दलिताञ्जनेन
स्मारौ शराव् इव निघृष्ट-रसाञ्जनेन
नासापसव्य-पु अके विततार मुक्तां
नेत्राञ्जनाधर-विभा-भर-नील-रक्ताम्
मकरिके लिखती मृदु-गण्डयोर्
मकर-केतनम् आह्वयद् एव सा
यम् अधरारुण-पल्लवम् अर्पयन्
रसमये समये हरिर् अर्चयेत्
रुचिर-चिबुक-मध्ये रत्न-राजच्-छलाका-
कलित-कर-विशाखा-निर्मितो ऽस्याश् चकास्ति
नव-मृग-मद-बिन्दुः शोभयन् श्री-मुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम्
कर्पूरागुरु-काश्मीर-
पङ्क-मिश्रित-चन्दनैः
समालिप्य विशाखाऽस्याः
पृष्ठं बाहु-कुचाव् उरः
पुष्प-गुच्छेन्दुलेखाब्ज-
मकरी-चूत-पल्लवम्
लिलेख चित्रं कस्तूर्या
चित्रा तत्-कुचयोस् तटे
मीनी-प्रसून-नव-पल्लव-चन्द्रलेखा-
व्याजात् स्वचिह्न-शर-कुन्त-धनूंषि कामः
तद्-भ्रू-धनुर्-धुवन-मात्र-निरस्त-कर्मा
मन्ये न्यधत्त निज-तत्-कुच-कोष-गेहे
चित्रार्पितानेक-विचित्र-रत्न-
मुक्ताचिता रक्त-दुकूल-चोली
कुचौ भ-जालेन्द्र-धनुर्-विचित्रा
तस्तार शैलाव् इव सान्ध्य-कान्तिः
उपरि खचित-नाना-रत्न-जालैः स्फुरन्त
विमल-पुर अ-पत्र्या कण्ठम् अस्या विशाखा
हरि-कर-दर-चिह्न-श्री-हरं पुष्कराक्ष्याः
सपदि हरि-भियेव छादयामास मध्ये
वज्राचिताखण्डल-रत्न-चित्र-
सुस्थूल-मध्यो गुण-बद्ध-चञ्चुः
ललास तस्या उपकण्ठ-कूपं
दत्तस् तया हा अक-चित्र-हंसः
सुवर्ण-गोली-युग-मध्यगोल्लसन्
मसार-गोली-गिलितो ऽन्तरान्तरा
सुसूक्ष्म-मुक्तावलि-गुम्फितस् तया
न्ययोजि हारो हृदि गोस्तनाभिधः
मसार-चन्द्रोपल-पद्मराग-
सुवर्ण-गोली-ग्रथितान्तरालैः
मुक्ता-प्रवालैः परिगुम्फितां सा
रत्न-स्रजं तद्-धृदये युयोज
वैदूर्य-युग्माचित-हेम-धात्रिका-
बीजा-भ-गोली-गिलितो ऽन्तरान्तरा
विचित्र-मुक्तावलि-चित्र-गुच्छको
रराज तस्या हृदयेऽर्पितस् तया
रासे निशीथे सह-नृत्य-गान-
तुष्टेन दत्तां हरिणा स्वकण्ठात्
तस्यैव साक्षाद् इव राज-लक्ष्मीं
गुञ्जावलीं तद्-धृदि सा युयोज
स्थूल-तारावली-रम्या
सन्-नायक-विभूषिता
तस्या एकावली-ज्योत्स्नी
हृद्-अम्बरम् अमण्डयत्
कनक-खचित-वज्रैर् वेष्टितैः पद्मरागैश्
चित-हरिमणि-पूर्णाभ्यन्तरा शातकौम्भी
प्रतनु-पुर अ-राजच्-छृङ्खलालम्बमाना
लसति हृदि विशाखा-योजितास्याश् चतुष्की
आली-जनैर् मण्डन-केलि-काले
विभूष्यमाणा वृषभानु-पुत्री
उरोगते नीलमणीन्द्र-हारे
स्विन्ना सकम्पा पुलकाकुलासीत्
पृष्ठान्तः क्रम-लम्बमानम् अमलं ग्रीवान्त-हारावली-
वी ई-बन्धन-पट्ट-सूत्र-चमरी-जालं तदास्या बभौ
मन्ये चारु-नितम्ब-शैलक अकान् मूर्ध्नाधिरोहार्थकं
सोपानं विधिना कृतं करुणया वेणी-भुजङ्ग्याः स्फुटम्
मध्ये-प्रगण्डम् अतुलाङ्गदम्-उन्मणीनि
मध्ये-प्रकोष्ठम् अतुलानि च कङ्कणानि
तत्-सीम्नि काप्य-कृत मङ्गल-पट्ट-सूत्रं
रत्न-प्रकाशि मणि-बन्ध-रुचातिचित्रम्
मुक्तावली-खचित-हा अक-कङ्कणाभ्यां
संवेष्टितः स वलयावलि-सन्निवेशः
बिम्बैर्-विधोर्-मिलित-भास्कर-मण्डलाभ्यां
तस्याश् चकास्ति नितराम् इव सैंहिकेयः
निज-नामाङ्किता नाना-
रत्न-द्युति-करम्बिता
बभाव् अङ्गुलि-मुद्रास्या
विपक्ष-मद-मर्दनी
तुन्दान्तिके मणि-विनिर्मित-तुन्द-बन्धं
काञ्ची-गुणं च तद् अधो मणि-वृन्द-बन्धम्
पादाङ्गुलीषु वर-रत्नमयोर्मिकालीम्
आ-गुल्फम् आधृत सुहंसक-युग्मम् आली
नख-शिखाङ्घ्रितलाद्य् उरु-शोणिमाप्य्
अहह यावक-रञ्जितताम् अगात्
भवति किं दर-दीपज-रोचिषा
दिन-कृतो न कृतो मनुजैर् महः
अन्या काचिद् आह-
वृथाऽकृथा यावकम् अङ्घ्रि-पङ्कजे
स्व एव रागो ऽस्य दृशां रसायनः ।
किन्त्व् एक एवास्ति गुणो ऽस्य राधिके
यः केशवस्यापि च केश-रञ्जनः ॥
मञ्जीर-युग्मम् अतिमञ्जुल-रत्न-सिद्धं
पादाम्बुजोपरि चकार च कापि बद्धम्
तत्-तत्-स्वशिल्प-कुशलत्व-निदर्शनाय
काचिन् मणीन्द्र-मुकुरं पुरतो निनाय
अस्या न्यधाद् उषसि नर्मदया स्वसख्या
मालाकृतस् तनुजयोपहृतं विशाखा
स्मेरारविन्द-वदनाथ करारविन्दे
लीलारविन्दम् अरविन्द-विलोचनायाः
सा कृष्ण-नेत्र-कुतुकोचित-रूप-वेशं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम्
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेषः
मल्ल-लीलादिकं तस्य
तन्-मध्ये सखिभिः सह
विलोक्यैव हिरण्याङ्गी
ताम् आयातावदद् द्रुतम्
गोदोहनाद् अथ विरम्य स रम्य-लीलैः
सार्धं निज-प्रिय-सखैः स्वसमान-शीलैः
अभ्याययौ कुतुक-मल्ल-विलास-नित्या-
भ्यासालयं मणिमयं सकलैकमत्या
प्रत्येकम् एव सखिभिः सवयोभिर् एतैर्
मल्ल-क्रियाम् अथ भुजाभुजि वीत-भीतैः
स्वस्वौजसः प्रकटनेन सरोष-दर्पैश्
चक्रेऽपसर्प-परिसर्प-विसर्प-सर्पैः
विश्रम्य किञ्चिद् अथ सञ्चित-पुण्य-वृन्दैस्
तैर् एव कैश्चन महागुण-वृक्ष-कन्दैः
अभ्यञ्जनार्थम् अनुरञ्जन-मञ्जु-हासैर्
अभ्यङ्ग-मङ्गल-गृहं प्रविवेश दासैः
नाना-प्रबन्ध-बहुबन्ध-विधौ विदग्धैर्
अभ्यङ्ग-मङ्गल-विशेष-कलासु मुग्धैः
तैलेन साधु शुभ-गन्ध-सुबान्धवेन
प्रारम्भि यत् तद् उररीकृतम् अप्य् अनेन
आपाद-मस्तकम् अनस्त-समस्त-भाग्यैस्
तैलेन तैः प्रिय-समाज-सभाज-योग्यैः
नातिश्लथं च न दृढं च सुमङ्गलानि
प्रीत्या चिरं ममृदिरेऽथ तद् अङ्गकानि
ते कौङ्कुमेन रजसा घनसार-चूर्णैः
पूर्णेन चारु-मृदुना परिपेष-शीर्णैः
विम्लान-भावम् अथ तैल-कृतं हरन्तः
कृष्णस्य तान् अवयवान् उदवर्तयन्त
केनोचितेन घनसार-सुवासितेन
नानाविध-स्फटिक-हेम-घटी-भृतेन!
केशान् कषाय-कषितान् कलयन् कुमार-
दासी-गणो ऽम्बुज-दृशं स्नापयां चकार
काचित् कषायित-कचान् बहुशः कषन्ती
काचिन् मृदून् अवयवान् मृदु मार्जयन्ती
भृङ्गारकेण कतमा सलिलं किरन्ती
लेभेतराम् अतितराम् अनुराग-कान्ती
ज्योत्स्नाभिर् नव-नीरदः किम् अथवा शुक्लेन नीलो गुणः
शुद्ध-स्फटिक-रत्न-कान्ति-सलिलैः किं वेन्द्रनीलाङ्कुरः
मुक्ताभिः किम् उ वा तमाल-तरुणः स्नातः समुद्भ्राजते
किं वा श्याम-सरोजम् उज्ज्वल-विधुक्षोदैर् मुरारेर् वपुः
एवं समाप्य कतमे स्नपनं शुभेन
शङ्खोदकेन शिरसि प्रतिपादितेन
अङ्गोञ्छनांशुकम् अनेकम् अथोपनीय
संमार्जनं विदधुर् अस्य भृशं विनीय
आदौ सुचेल-शकलैर् मृदुलैर् अशुष्कैः
पश्चात् क्रमेण ममृजुः सित-सूक्ष्म-शुष्कैः
आपाद-कुन्तल-भरम् प्रतिसन्धि-सन्धि
ते मार्जनं विदधिरे प्रणयानुबन्धि
कश्चित् कचान् गत-जलान् द्विविधेन वासः-
खण्डेन साधु विदधे मृदु-मन्द-हासः
कश्चित् पटुः कटित आद् गलद् अम्बु-चेलं
चेलान्तरेण विनिनाय कृतावहेलम्
केनापि नूतनम् अतित्वरयोपनीतं
कौषेय-चेल-युगलं द्रुत-हेम-पीतम्
केनापि पाणि-कमले क्रमतः प्रदत्तम्
उत्सार्य पूर्व-पटम् आशु स पर्यधत्त
तस्यास्थितस्य रमणीय-मणी-चतुष्कं
प्रक्षालिताङ्घ्रि-कमलस्य लसद्-वपुष्कम्
पश्चाद्-गतेन कतमेन कुमार-भृत्ये-
नासेवि कुन्तल-भरः कुशलेन कृत्ये
भूयः प्रसार्य परिमृज्य मुहुः प्रसाध्य
रत्न-प्रसाधनिकया बहुशो विशोध्य
आवृत्य चेल-शकलेन सता द्विफाल-
बद्धः स कुन्तल-भरः प्रभया पफाल
अन्योन्य-पालन-कृता कच-मेचकिम्ना
सूक्ष्मातिसूक्ष्म-वसनस्य च पाण्डरिम्णा
निर्मोक-मोक-परभोगि-निभो ऽस्य केश-
विन्यास एष न हि कस्य दृशोर् विवेश
स्नानाद्-ऋजून् सद्-अलकान् अथ कुञ्चयित्वा
चारु-स्वभाव-कु इलान् अपि रञ्जयित्वा
भाले लिलेख तिलकं शशि-मण्डलाभं
श्रीखण्ड-कुङ्कुम-रसेन सुजात-शोभम्
गारुत्मतेन्द्रमणि-हीरक-पद्मराग-
प्रद्योतनं विधुरयन्त्यम् इवाप्य् अनागः
अन्य-प्रभाव-रणकारि-मयूख-सान्द्रं
श्री-कौस्तुभाभिधम् अधत्त महा-मणीन्द्रम्
स्थूलेन मौक्तिक-फल-प्रकरेण क्प्तान्
हारान् दधार गिर्-अगोचरताम् अवाप्तान्
कञ्चिद् विशालतर-वक्षसि नाभिकूले
कञ्चित् प्रलम्बम् अथ कञ्चन जानु-मूले
श्री-कुण्डले मणिमये मकरानुकारे
कान्ति-प्रभाकृत-कपोल-महः-प्रचारे
श्री-कर्णयोर् उपनिनाय जलोपरुद्धे
स्नानोत्सवेन विरहय्य स पूर्व-सिद्धे
सत्-पट्ट-सूत्र-कृत-मञ्जुतर-प्रलम्बौ
सद्-रत्न-पट्टमय-मङ्गल-सूत्र-चुम्बौ
गारुत्मतादि-नव-रत्नज-बाहु-बन्धौ
कश्चिद् बबन्ध वलयौ मणि-बन्ध-सन्धौ
दिव्याङ्गुलीयकम् उदारम् अनामिकायां
तत्-पद्मराग-महसां परिणामिकायाम्
पृष्ठोपसन्न-मणिमुद्रम् अवर्जनीयं
दत्ते स्म कश्चिद् अधि-तर्जनि रञ्जनीयम्
नाना-मणीन्द्र-घटया घटितानुबन्धं
पीतांशुकोदर-त ईम् अनु तुन्द-बन्धम्
माणिक्य-किङ्किणि-गुणं च क ईर-मूले
कश्चिद् बबन्ध परिधत्त-लसद्-दुकूले
पादाम्बुजोपरि मणीन्द्र-घटानुक्प्तं
मञ्जीर-युग्मकम् अथो नख-चन्द्र-दीप्तम्
आधाय को ऽपि मणि-दर्पणम् अत्युदारम्
आस्येन्दु-बिम्बम् अधि सस्पृहम् आदधार
अत्रान्तरे व्रज-पुरन्दर-सन्निदेशम्
आदाय कश्चन तद् अस्य गृहं विवेश
ऊचे च कृष्ण! जनकस्य गिरा बहुभ्यस्
त्वं दातुम् अर्हसि गवाम् अयुतं द्विजेभ्यः
श्रुत्वा पितुर् गिरम् असौ चिकुरं निबध्य
पीतोत्तरीयम् अपि सम्यग् अथो विशोध्य
आचम्य रम्य-वदनो गुण-रत्न-सानू
रामानुजः सीवमनसा विततार धेनूः
गोष्ठेश्वरीप्सिततमो रसवत्-प्रपाकः
सम्पादितो भवति यावद् अनेक-पाकः
तावन् न सोढुम् अभिशक्तवती विलम्बं
सा प्राहिणोत् किम् अपि भोक्तुम् अथाविलम्बम्
हैयङ्गवीन-दधि-दुग्ध-सरादि-भक्ष्यम्
एतत् समेत-घनसार-रजो ऽभिभक्ष्य
आचम्य च प्रिय-सखांस-कृतावलम्बस्
ताम्बूलमाद मधुरानन-चन्द्र-बिम्बः
निशम्येमां वार्त्तां प्रमुदितवती सीधु-सदृशीं
स्वयं पक्त्वा यन् नो तद्-अशनम् असौ कारितवती
विषण्णा बाष्पाणां हिम-मिहिका-बिन्दु-निकरं
मुमोचेवाक्षिभ्यां जलज-युगतः शीकर-कणम्
अत्रान्तरे व्रजपुराधिपयाऽनपाय-
वात्सल्य-कल्प-लतयाऽतिरयान् निर्दिष्टा
आगत्य कुन्दलतिकान्तिम् एतद् अक्षि-
भृङ्ग-प्रमोद-कृतये कृतिनी व्यराजीत्
अन्योन्य-दर्शन-समुद्गमन-स्मिताढ्य-
शस्तानुयोग-रभसोन्नति-सीधु-वृष्टिः
सद्यो बभूव यत एव तदा तद्-आलि-
वृन्दं ननन्द सम-सौहृद-हृद्य-रोचिः
व्रजपुर-परमेश्वरी-प्रसादं
मयि सखि! व्यक्ति तवोदयो ह्य् अकस्मात्
न शिशिर-रुचिना विनैव पूर्वां
दिशम् अधि रात्रि समेति कापि लक्ष्मीः
तद् अहम् अनुमिमे निदेश-दम्भात्
किम् अपि कृपामृतम् एव सा व्यतारीत्
यद् इदम् अनुपलभ्य यन् ममात्मा
स्वम् अपि सखेदम् अवैत्य् अनात्मनीनम्
अजनि रसवती-विधापनार्था
रसवति! ते गतिर् इत्य् अवैमि नूनम्
अथ किम् इतरथा जवाद् अयासीः
प्रथमतो ऽनुनयन्त्य् अमूं मद्-आर्याम्
इति सुदृग्-उदितामृतं पिबन्ती
स्मित-सुभगं निजगाद कुन्दवल्ली
तद् अयि सखि! विधेहि तत्र यात्राम्
अकृत-विलम्बम् इतः सहालि-वृन्दा
किम् इह गुरुजनावलेर् अनुज्ञा-
ग्रहण-विधाव् अणुमात्रम् अस्ति कष्टम्
यद् अतुल-धन-धेनु-धान्य-वर्षैर्
अकृत वशां स्वयम् एव तां व्रजेशा
निरुपधि-परम-प्रियो ऽसु-कोटेर्
अपि निखिलस्य जनस्य गोष्ठ-भाजः
व्रजपति-तनयः समीहते यत्
परम् इह विप्रतिपत्तिर् अस्ति कस्य
सखि! किम् अपि न वेद तत् सवित्री
तद् अतुल-रोचक-वस्तु संजिघृक्षुः
उचितम् अनुचितं स्व-लाभ-हानी-
निज-पर-भाव-भिदा यशो ऽयशो वा
पचसि यद् अपि यश् च तस्य भोक्ता
स च तिरयत्य् अमृतं सदैव दिव्यम्
इति निखिल-पुरेष्व् अतिप्रसिद्धिस्
तव सखि! कं न चमत्करोति बाढम्
यद् अवधि कलयां बभूव सा त्वां
मुनिवर-दत्त-वरां वराम्बुजाक्षि!
तद् अवधि तव पाणि-संस्कृतान्ना-
शन-विरतिं क्वचनाह्नि नास्य चक्रे
जयति यद् अतिघोर-दैत्य-यूथं
मृदुल-तनुः स्वपराबुभूषुम् एषः
त्वद् अमल-कर-पक्व-भक्त-भुक्तेर्
अपरम् इयं मनुते न हेतुम् अत्र
शृणु परमयि तत्त्वम् अत्र राधे
यद् अवगतं सहसान्तरं मयास्याः
प्रतिदिनम् अवलोकनं विना ते
शशि-मुखि! खिद्यति सा यथा स्वसूनोः
सुतनुर् अभिदधेऽवधेहि विज्ञे
सखि! तद् इदं न वदस्य् अयुक्तम् इत्थम्
अपि तु कुलवतीति वाद-भाजां
स्फुटम् अपराङ्गन-गामितेत्य् अयुक्तम्
यद् अपि बत सखीयं रीतिर् एवेह लोके
तद् अपि तव वचो नो लङ्घनीयं कदापि
अनुनय प्रथमं तां किन्तु युक्त्या हि वृद्धां
परिवदति तु या माम् आशु लब्ध्वापि रायम्
ततः सासाद्य जटिलां
स्नुषायां कु इलाम् अपि
श्रावयामास सन्देशं
व्रजेश्वर्या विचक्षणा
आकर्ण्य साज्ञां व्रजराज-राज्ञ्याः
कृष्णात् स्नुषायाम् अपि शङ्कमाना
विचिन्त्य शिक्षाम् अथ पौर्णमास्यास्
तां कुन्दवल्लीं प्रणयाद् अवादीत्
स्नुषेयं मे साध्वी गुण-गरिम-माध्वीक-मधुरा
जनश् छिद्रान्वेषी स खलु चपलो नन्द-तनयः
न चाज्ञावज्ञेया व्रजपति-गृहिण्या भगवती-
वचः पाल्यं वत्से! न अति हृदयं किं नु करवै!
मातः! सत्यं वदति भवती किंच गोपेन्द्र-सूनुर्
नायं ज्ञेयः खल-समुदयैर् यादृशः श्रावितो ऽस्ति
किन्तु प्रोद्यद्-द्युमणिर् इव सद्-धर्म-पद्मे खलाली-
घूके चायं वृजिन-तिमिरे घोष-सन्तोष-कोके
माधुर्यं तून्मदयति जगद्-यौवतं तस्य तस्माद्-
भीतिर् नीतिस् तव नव-वधू-पालनं चापि युक्तम्
माशङ्किष्ठास् तद् अयति यथा दृक्-पथं नास्य साध्व्याश्
छायाप्य् अस्याः स्वयम् अहम् इमां द्राक् तथा तेऽर्पयामि
त्वं पुत्रि! साध्वी प्रथितासि गोष्ठे
त्वय्य् अर्पितेयं सरला वधूस् तत्
स लोल-दृष्टिः किल नन्द-सूनुर्
नैनां यथा पश्यति तद् विधेयम्
वधूम् अथाहूय जगाद वत्से
व्रजालयान् नन्द-वधू-समीपम्
निष्पाद्य तस्याः प्रियम् एहि तूर्णं
सहानयैवाद्य रविस् त्वयार्च्यः
राधेति दिष्टा हृदि साभिनन्दिता-
प्य् अनिच्छुवद् गन्तुम् उवाच तां सखीम्
अस्तीह कृत्यं न च मे यियासुता
गृहं गृहं नेङ्गति यत् कुलाङ्गना
व्रजपति-गृहिणी-गिरं चिराभ्यर्-
थन-विनयानुनयानुबद्ध-मूलाम्
कति निरसितुम् अत्र शक्नुमस् तत्
तव भगवान् हरिर् एव रक्षितास्तु!
अवति जगद् इदं स्वधर्म-पालीः
किम् इह सतीः स जहाति लोकनाथः?
इति किल भवतीं तदीय-पाणौ
सुमुखि! समर्प्य निराकुला भवेयम्
इति गुरु-जरती-गिरा समुद्यत्-
स्मित-लव-संवृति-पेशलाः सखीः स्वाः
विकसद् असित-नेत्र-कोण-भङ्ग्या
किम् अपि निगद्य बभूव सापि तूष्णीम्
कृताग्रहोच्चैः पुनर् आर्ययासौ
कौन्द्या बभाषे कृत-हस्त-कर्षम्
भीतासि किं साध्व्य् अहम् अस्म्य् अवित्री-
त्य् उच्चालिता फुल्ल-तनुः प्रतस्थे
कृष्णस्य प्रातर्-आशाय
संस्कृतं लड्डुकादिकम्
आदाय ललिता-मुख्याः
सख्यो ऽप्य् अनुययुः सखीम्
अथ निज-भवनाद्-विनिर्यती सा
तनु-वसनाभरण-च्छवि-च्छटाभिः
व्यधित मणि-विचित्र-शातकौम्भीं
पुर-विशिखां सुरभी-कृताखिलाशा
जन-निवह-गतागति-प्रवृत्तौ
दरविमुखी सरणेः श्रितैक-पार्श्वा
अवनत-दृग्-अवाचकास्य-पद्मो-
परि परिगुण्ठन-माधुरी प्रपेदे
वीक्ष्याध्वनि परानन्द-
चलद्-वक्षः-प आञ्चलाम्
सवयस्यां कुन्दवल्ली
प्रेम्णा परिजहास ताम्
मूल्यानीतोपसर्यास् त्रि-चतुर-दिवसान् प्रोष्य सन्ध्यागतस् ते
भर्ता गोभिः स्वगोष्ठे घटयितुम् अखिलां रात्रिम् एव न्यवात्सीत्
वक्षः प्रोद्यन् नखाङ्कावलि-चितम् अधरः स्पष्ट-दन्त-क्षतो यत्
तत् साध्व्यास् ते सतीत्वं समुचितम् अधुना व्यक्तम् उल्लालसीति
अन्तर्-गूढ-स्मितोत्फुल्ल-
किञ्चित्-कुञ्चित-लोचनाम्
स्वसखीं ललितालोक्य
कुन्दवल्लीम् अथाब्रवीत्
करक-फल-धियास्याः कानने धृष्ट-कीरः
स्तनम् अनुविनिविष्टः पक्व-बिम्ब-भ्रमेण
अदशद् अधरम् उच्चैस् तन्-नखाचो इतं तद्-
धृदयम् इदम् अमुष्याः किं वृथा शङ्कसे त्वम्
सखी-वचः-स्मारित-कृष्ण-सङ्ग-
लीलोच्छलत्-कम्प-तरङ्गिताङ्गीम्
तां वीक्ष्य पद्माकरम् ईक्षमाणा
जगौ पुनः कुन्दलता सहासम्
आनन्द-कम्पोत्तरलासि मुग्धे!
किं भो वृथा पद्मिनि! कुन्दवल्ल्याः
न देवरस् त्वां मधुसूदनो ऽसौ
भ्राम्यन् पुनः पास्यति भुक्त-मुक्ताम्
कर्ण-शर्मद-सन्-नर्म-
भर्म-कुण्डल-निर्मितौ
कर्म हां कुन्दवल्लीं तां
विशाखाह विचक्षणा
स्वेनेऽनुरागं परम् उद्वहन्ती
फुल्लापि मृद्वी भ्रमरात् सुलोलात्
सत्-पद्मिनीयं सखि कुन्दवल्ली-
भृङ्गानुजाद् भी-तरला चकम्पे
अथानन्तरम्-
क्वचन च पथि निर्जने कदाचित्
स्फुटम् इतरेतर-वाग्-विलास-रङ्गैः
यदि चलति तदा कुतः क्व यामी-
त्य् अपि न हि वेदन-गोचरी-करोति
कृष्णानुरागेण विहस्त-चित्ताम्
आनन्द-राशिं जनयन्तम् एव
सन्दर्शयामास पथि व्रजन्तीं
नन्दीश्वरं तां किल तुङ्गविद्या
रसाल-पनसार्जुन-क्रमुक-नारिकेलासनैः
पलाश-व अ-पर्क ई-खदिर-बिल्व-जम्ब्वादिभिः
मधूक-गिरिमल्लिका-बकुल-नाग-पुन्नागकैर्
अशोक-बक-पा अली-कनक-चम्पकैश् चम्पकैः
तमाल-नवमालिका-कनकयूथिका-यूथिका-
कुरण् अक-लवङ्गिका-दमनकातिमुक्तादिभिः
अपि स्थलसरोजिनी-विचकिलादिभिः कन्दली-
प्रियङ्गु-तुलसी-मुखैर् अपि विचित्र-वीरुद्गणैः
सितासित-विलोहितोत्पल-सरोज-कह्लारकै
रथाङ्ग-बक-सारसैः कुरर-हंस-कारण्डवैः
विराजित-तरङ्गकैर् विमल-वारिभिर् वापिका-
तडाग-सरसी-मुखैः परिवृतानि तोयाशयैः
हम्बारवैर् इह गवाम् अपि बल्लवानां
कोलाहलैर् विविध-वन्दि-कलावतां तैः
सम्भ्राजते प्रियतया व्रजराज-सूनोर्
गोवर्धनाद् अपि गुरुर् व्रज-वन्दिताद् यः
सखि! निज-पुरतो विदूरम् आगा
व्रजपति-सद्म समीप-वर्ति वृत्तम्
तद् अयि नयन-चातकाभिलाषः
फलति तवाश्व् इति सम्प्रति प्रतीहि
इति निगदित-मात्रतः स्वसख्या
सपदि सवेपथु-जाड्य-विप्लुताङ्गीम्
प्रसभम् अभिदधार चेतयन्ती
किम् अपि जगाद च तां तदैव कौन्दी
सुमुखि! किम् अधुनैव विक्लवाभूर्
नयन-पथामिलितेऽपि कृष्णचन्द्रे
अवगमम् अखिलं सतीत्वम् आप्तं
तव सवयः सद एव यत् प्रमाणम्
धृतिम् इह हृदि धर्तुम् ईशिषे नो
यद् अपि तद् अप्य् अबले! क्षणं दधीथाः
गिरि-युग-भर-धारणाय यत् ते
गिरिधर एव मयाद्य योजनीयः
गिरिधर-दिश एव शङ्कया या-
जनि विधुराद्य सखी महासतीयम्
परिवदसि बलाद् इमाम् अविज्ञे!
तद् अपि नियोक्ष्यसि हा पुनस् तम् अस्याम्
त्वयि मुहुर् इयम् अर्पितार्यया यत्
तद् उचितम् एव विधित्ससेऽद्य भद्रम्
स्वम् इव सखि! परं जनं न विद्धी-
त्य् उदितवती ललिता पुनस् तयोचे
अलम् अलम् अनया गिराविदूरे
कलय पुरः पुरतोरणोपकण्ठे
स्फटिक-घटित-रत्न-चित्रितास्था-
न्य्-अभिनव-कुट्टिम-गं हृद्-एक-काम्यम्
सरसम् उषसि दुग्ध-नैचिकीकः
सह-सवयाः कृत-मल्ल-रङ्ग-केलिः
अवगत-भवद्-आलि-यान-वार्त्ता-
क्षुभित-हृदागत एष भाति पश्य
व्रजपुर-ललना-कुलोन्मदिष्णु-
करण-पटु-च्छवि-मण्डलोपगूढः
मधुरिम-धुरयैव किं त्रिभङ्गी-
कृत-तनुर् उच्चल-दाम-मादितालीः
श्रित-मृदुतर-गण्ड-कुण्डलाध्या-
पन-पर-ताण्डव-पण्डिताक्षि-युग्मः
पवन-धुत-पटाङ्ग-गौर-नील-
द्युति-लहरी-स्तिमिती-कृताखिलाशः
प्रिय-सख-भुज-शीर्ष्णि राजद् उद्यत्-
करिकर-निन्दक-धाम-वाम-बाहुः
निज-रुचि-विजिताब्ज-घूर्णनैक-
व्यसन-वशेतर-पाणिर् एष ईष्टे
इति गिरम् अथ रूप-माधुरीं तां
यदि चषकी-कृत-कर्ण-नेत्र-युग्मा!
अपिवद् अदर-मोहतस् तदा तत्
प्रसृमर-सौरभम् आश्व् अबोधयत् ताम्
पुलक-निवह-कम्प-सम्पद्-अश्रु-
स्रुति-कलिलापि धृतिं दधत्य् अवादीत्
सखि! किम् अपरम् अस्ति वर्त्म पादौ
न मम पुरश् चलतो ऽस्य किं करोमि
गुरु-परवशतैव दोष-दूरी-
करण-पटुस् तव किं भिया ह्रिया वा
सपदि सवयसेति बोध्यमाना
लघु लघु गन्तुम् इयेष सा तद् अग्रे
किम् इदम् इति परस्परावलोको-
च्छलित-महामधुरिम्णि यत् तयोस् ताः
स्वम् अतुल-तरसि न्यमज्जयन्न् आ-
लय इति वर्णयितुं न गीर् अपीष्टे
अघ-दमन-चकोर-चन्द्रिकास् ताः
शशि-वदनापि पपौ मुहुः पिपासुः
गिरिधर-मुदिरोपरीह चात-
क्य् अतनु-रसं प्रववर्ष सेति चित्रम्
अथ निज-निज मूर्ध्नि सव्य-हस्तोन्-
नमन-कला-कलितावगुण्ठनास् ताः
अवनत-नयनाञ्चली-विलीढ-
प्रिय-चरणाब्ज-सुधा ययुस् तद् अग्रात्
हरिर् अपि परिवृत्य तन्-नितम्ब-
द्युति-निहितेक्षण-पङ्कजो ऽवतस्थे
वरतनु-ततिर् अप्य् अतीत्य तद्-गो-
पुरम् अवगुण्ठनम् ईषद् अस्यति स्म
सखि! भवद् अवलोक-जात-हर्षं
सपदि स चम्पक-मालया बटुस् तम्
सुखिनम् अकृत यत् तद् इङ्गित-ज्ञा
भवसि न वेत्य् उदिताह सा स्वसख्या
त्वम् असि खलु यथा तथान्वमासीर्
निज-दृशीर् यतसे परा विधित्सुः
इति दर-विकसत्-स्मिता भ्रमद्-भ्रूस्
त्वरितम् अवाप महापुरान्तरं सा
स्फटिक-घटित-कुड्यम् ईड्य-भर्मोज्-
ज्वल-प अलं पवि-कीलकं कवा अम्
मणिमय-ललना-धृत-प्रदीप-
व्रतति-नग-द्विज-राजि-राजित-द्वाः
द्युमणि-किरण-दीप्त-रत्न-कुम्भ-
ध्वज-न अ-केकि-वृताग्र-पौर आ अम्
सुरवर-पुर-निन्दि यत्र शं-दं
विलसति मन्दिर-वृन्दम् इन्दिराढ्यम्
मसार-प्राचीरं मरकत-गृहं हेम-प अलं
प्रवाल-स्तम्भालि-स्फटिक-वृति-वैदूर्य-वडभिः
महानीलेन्द्रा अं विमल-कुरुविन्दोपल-महा-
प्रतीहारं नानाकृति जित-विमानावलि-पुरम्
कुड्ये यस्य मणि-प्रवेक-रचिते शिल्प-क्रिया-कल्पितैः
प्रत्यासज्य शुकैः समं गृह-शुकेष्व् आसादित-स्थेमसु
सप्राणाः किम् अमी इमे किम् अथ वेत्य् उन्मीलतः संशयाद्-
दातुं दाडिम-बीजकानि सुचिरं मुह्यन्ति मुग्धाङ्गनाः
मुख्य-प्रकोष्ठे चतुर् आलयेऽस्या
भाण्डार-गेहं वरुणस्य दिश्यम्
श्री-कृष्ण-वासः शुभ-दक्षिण-स्थः
श्री-राम-धामोत्तर-दिश्य् उदेति
प्राच्यां गृहं तादृशम् एव यत्र
प्राच्यां स यस्यान्यतर-प्रकोष्ठे
स्वपुत्र-भद्राय निजेष्टदेवं
नारायणं सेवते एव नन्दः
कोषालयस्यान्वित-दक्षिणांशे
कृष्णस्य धाम्नः शुभ-पश्चिमेऽस्ति
या पाकशाला-द्वय-मध्य एव
विश्राम-धामानुरु राधिकायाः
कृष्णस्य धाम्नो ऽन्वित दक्षिणांशे
पाकालयस्यापि विराजमानः
आराम आस्ते सरसी च यत्र
रहो मनोज्ञं बहु-गेह-वेदि
अथ समुपसेदुषीं सखीभिर् हरि-
जननी निज-वेश्म भासयन्तीम्
अमनुत भुवन-त्रयैक-लक्ष्मीम्
उदितवतीं मुदिताऽर्क-मित्र-पुत्रीम्
तत्रागतां चरणयोः प्रणतां स्वदोर्भ्याम्
उत्थाप्य तां हृदि निधाय मुकुन्द-माता
आघ्राय मूर्ध्नि मुदिता जननी परार्धा
स्निग्धा चुचुम्ब मुखम् अश्रु-मुखी ततो ऽस्याः
प्रत्येकम् आलिङ्ग्य च तद्-वयस्याः
पप्रच्छ साऽव्याहत-भव्यम् अस्याः
व्यग्रा सुतस्याशन-साधने द्राक्
सस्नेहम् एताः पुनर् आवभाषे
न सुतासि कीर्तिदायाः
किन्तु ममैवेति तथ्यम् आख्यामि
प्राणिमि वीक्ष्य मुखं ते
कृष्णस्येवेति किं त्रपसे?
मधुर-मृदुल-मोदकादि किञ्चित्
समम् उपवेश्य सखी-जनैर् बलात् ताम्
द्रुत-हृदया धनिष्ठयाशयित्वा
भृशम् उपलाल्य निनाय पाकशालाम्
विविध-मधुर-भक्ष्योत्पादने लब्ध-वर्णा
व्रज-भुवि किल यूयं विश्रुता मिष्ट-हस्ताः
तद् इह कुरुत पुत्र्यः! साधु भक्ष्याणि यत्नाद्
दर-रुचिर् अपि वत्सः सस्पृहं मे यथात्ति
उपलावणिकं त्व् एकाः
काश्चित् कुरुत दाधिकम्
सार्पिष्कम् अपरा यूयं
वत्साः शार्करिकं पराः
सरस-रसवती-सत्प्रक्रिया-पण्डितासि
त्वम् इह रसवतीं मे याहि राधे! प्रयत्नात्
जननि! बल-जनन्याधिष्ठितां मिष्टम् अन्नं
रचय सह तयैव व्यञ्जनान्य् उत्तमानि
व अकम् अमृत-केलिं साधयातिप्रयत्नात्
सरस-मसृणम् अन्यं पुत्रि! कर्पूर-केलिम्
मधुरम् अमृत-कोटेर् यत्र कृष्णः सतृष्णस्
त्रिजगति न हि कश्चित् त्वाम् ऋते यस्य वेत्ता
यस्याम् उच्चैर् लालसाढ्यः सुतो मे
तां पीयूष-ग्रन्थि-पालीं च कृत्वा
कर्पूरैलाद्य्-अन्वित-पानके त्वं
यत्नाद् वत्से! धेहि पञ्चामृताख्ये
त्वं विधेहि ललितेऽम्ब! रसालां
त्वं च षाडवम् इहाशु विशाखे!
त्वं च भोः शिखरिणीं शशिलेखे
पुत्रि चम्पकलते! मथितं त्वम्
आमिक्षां त्वं पुत्रि! संसाध्य तस्यास्
तत्-तद्-द्रव्यैर् योग-पाक-प्रभेदैः
तत्-तद्-भेदान् तुङ्गविद्ये! विधेहि
त्वं मत्स्यण्डी-पानकान्य् अम्ब! चित्रे!
त्वं खण्ड-मण्डानि च रङ्गदेवि!
त्वं क्षीर-सारान् विविधान् सुदेवि!
वासन्ति! शुभ्रा मृदु-फेनिकास् त्वं
त्वं मङ्गले! कुण्डलिकां विधेहि
कादम्बरि! त्वं कुरु चन्द्र-कान्तीस्
त्वं लासिके! तण्डुल-चूर्ण-पिण्डीः
त्वं शष्कुलीः कौमुदि! भूरि-भेदास्
त्वम् इन्दु-पिण्डानि मदालसेऽम्ब!
शशिमुखि! व अकानि त्वं विधेहि प्रयत्नाद्
दधि-व अक-मुखानि प्राज्य-माधुर्य-भाञ्जि
प्रणय सुमुखि! रम्याः शर्करा-प इकास् त्वं
मणिमति! बहु-भेदांस् त्वं च पिष्टान्न-पूपान्
विधत्स्व भोः काञ्चनवल्लि! वत्से!
गोधूम-चूर्णोद्भव-लड्डुकानि
मनोहराख्यानि मनोरमे! त्वं
त्वं मौक्तिकाख्यानि च रत्नमाले!
सुभृष्ट-निस्तुष-तिलैर्
मोदकान् कुरु माधवि!
तथा तिल-कदम्बाख्याः
सतिलाः खण्ड-प इकाः
लाजान् धानांश् च संभृष्टान्
पृथुकान् घृत-भर्जितान्
कृत्वा विन्ध्ये! सिता-क्वाथैः
समुद्गान् कुरु मोदकान्
रम्भे! करम्भं कुरु शातकुम्भ-
कुण्ड्यां सुरम्भा-फल-शर्कराद्यैः
निष्पीड्य पक्वाम्र-रसं मनोज्ञे!
सिता-घन-क्षीर-युतं विधेहि
उत्थापितं यत् तु मया मथित्वा
प्रातः सुगन्धा-पयसो दधीनि
तद् इष्ट-गन्धं नवनीत-पिण्डं
हैयङ्गवीनं कुरु भोः किलिम्बे
स्वयं दुग्ध्वा व्रजेन्द्रेण
प्रहितं धवला-पयः
पानार्थम् अम्बिके मन्दं
त्वं शृतं कुरु वत्सयोः
ऋजीष-दर्वी-निवहैः परीतां
मृद्-दारु-कुण्ड्य्-आदिक-भाजनैश् च
चुल्ली-चयाढ्यां मम सिक्त-लिप्तां
तद्-दुग्ध-शालां व्रजताशु बालाः
नानोपकरणानि त्वं
तानि तानि धनिष्ठिके!
निष्कास्य तत्-तद्-भाण्डेभ्यः
पात्रेष्व् आधाय दापय
तत्-तत्-पदार्थांस् त्वरितं तुलस्या
सहानया रङ्गणमालिके त्वम्
आनीय कोषालयतो ऽस्मदीयाद्
दासी-गणैर् दापय तत्र तत्र
आम्रातकाम्र-फलपूर-करीर-धात्री-
लिम्पाक-कोलि-रुचकादि-फलानि कामम्
तैले चिरं सलवणे किल सन्धितानि
मूलान्य् अथार्द्रक-मुखानि च रोचकानि
मत्स्यण्डिका-रस-चिरोषित-पक्व-चिञ्चा-
धात्री-रसाल-बदरी-शकलानि तद्वत्
निष्कास्य भोस् त्वम् इह मन्थनिका-कुलेभ्यः
कृत्वानयेन्दुमुखि! काञ्चन-भाजनेषु
शन्दे शुभे भरणि पीवरि मिष्ट-हस्ते
चुल्लीचयोपरि-धृतातुल-मन्थनीषु
दुग्धानि भारिक-गणोपहृतानि गोष्ठाद्
वत्साः! शनैः श्रपयताशु निधाय यूयम्
कान्त-भुक्तावशिष्टं सं-
भुज्य तु जात-शर्मिकाम्
आयातां स्व-समीपे तां
राधाम् आह सलालनम्
सरसिज-मुखि! कीर्तिदैककीर्ते!
पचन-कला-चतुरा कृतासि धात्रा
तद् अयि रसवतीं प्रविश्य पाकं
कुरु ललितादि-सखी-कृतेति कृत्यम्
शशि-मुखि! शरदां शतं जयैवं
सुखय मनोनयने ममेत्य् उदित्वा
अनयत सुमनोहरास् तद्-आलीः
शम् अतुल-वत्सलता-लता नताः सा
गोष्ठेश्वरीं समभिवाद्य विशेष-नम्रा
तत्-पाणि-पद्म-धृत-पाणिर् अतीव कम्रा
आसाद्य राम-जननीं प्रणनाम याताम्
अध्यक्षतां पचन-कर्मणि साभिजाता
कैलास-शैलक-निभं दधती स्व-कान्त्या
नीलांशुका प्रणयिनी हि सदात्र राधा
एहीति दोः-प्रसरणेन मुहुर् वदन्ती
शिश्लेष तां समुख-चुम्बम् असौ हसन्ती
ताभ्यां महानसम् उपेत्य च पाक-शाला-
पालीः स्मितेन मृदुना वचसा च बाला
सम्मान्य मान्य-चरिता मुमुदे मितानि
पाक-क्रियोपकरणानि विलोक्य तानि
कुष्माण्डकालु-कचु-मानक-कन्द-तुम्बी-
वार्त्ताकु-मूलक-पटोल-फलानि शिम्बी
डिण्डीश-वारण-बुषाम-फलान्य् अनीचा-
रम्भा-विशेष-नव-गर्भ-नवीन-मोचाः
वास्तूक-मारिष-पटोल-शिखाः कलाय-
वल्ली-शिखाश् चणकाग्र-शिखाः प्रधाय
तुम्बी-शिखाश् च मृदुलाः सह-पोदिकाग्राण्य्
आलोक्य सैक्षत सखीः सरसाः समग्राः
यद् येन येन विधिना रुचिरत्वम् एत्य
यद् व्यञ्जने यद् उपयुज्यत इत्य् अवेत्य
ताभिर् महानस-चरीभिर् अमूनि तानि
तत्-तत्-प्रकारम् अथ कुट्टित-कर्त्तितानि
एला-लवङ्ग-मरिचार्द्रक-जात्य्-अजाजी-
जातीफल-त्वच-सुलाङ्गलि-सस्य-राजीः
सिद्धार्थ-तण्डुल-निशा दलितांश् च माषान्
केचिज् जनाः पिपिषुर् अब्ज-दृशाम् अशेषान्
पिष्ट्वा सुवर्ण-पुटिकासु शुभ-प्रभावैर्
आच्छादितास्व् अनुचरी-घटया शरावैः
सुस्थापितानि वसनोपरि पाक-लीला-
रम्भे चकार हृदयं निरवद्य-शीला
आवश्यकाभरण-वेश-लसत्-प्रतीका
धौताङ्घ्रि-पाणि-कमला सह-रोहिणीका
बभ्राज सा वर-महानस-वेदिकायां
श्रद्धाय कौतुकवती पचन-क्रियायाम्
दीप्तासु राम-जननीङ्गिततो ऽनलेन
चुल्लीषु चारुतर-दारु-समुज्ज्वलेन
आरूरुहन्न् अखिल-लोचन-चित्त-जैत्रीस्
तास् ताम्र-रीति-रजताचित-पाक-पात्रीः
जज्ज्वाल स स्वयम् अफुत्-कृति-वीत-धूमम्
अग्निः स्वयं जलम् अभूद् अनभूम-भूम
यद् यत्र यत्र लवणं च तथा प्रमाणं
तत् तत्र तत् कर-तलेऽकुरुत प्रमाणम्
अगुरु-सरल-देवदारु-दारु-
ज्वलन-परिश्रित-चुल्लिका-चयाग्रे
निहित-विविध-पात्र-राजि-राजद्-
बहुविध-तेमन-साधु-साधनार्थम्
ज्वलन-कलन-पात्र-धारणोन्न-
त्य्-अवनति-मूर्छन-दर्वि-चालनाद्यैः
त्रिवलि-कुच-भुजांस-कम्प-चेलोच्-
चलन-वशाद् उदपादि यस् तदाऽस्याः
मधुरिम-भरम् अच्युतः स्वसौध-
स्फुरित-गवाक्ष-धृतेक्षणः पिबंस् तम्
मदन-मदम् उदञ्चितं विवृण्वन्
किम् अपि जगाद पटुर् बटुं मिषेण
प्रहित्य तं साथ महानसं गता
किं किं त्वया साधितम् एतया सह
सर्वं तद् एतन् मम तेमनादिकं
संदर्शयेत्य् आह बलस्य मातरम्
ताम् आह सम्मार्जित-वेदिकान्तरे
नवीन-मृद्-भाजन-पङ्क्ति सम्भृतम्
सा दर्शयन्ती कृत-तेमनादिकं
राधां प्रशंसन्त्य् अथ तां च रोहिणी
सुमधुरं शशितो ऽपि सुसंस्कृतं
निपुणया पचने मृदु राधया
प्रवर-मन्थनिकासु सुसम्भृतं
सुमुखि! पश्य पुरः सखि! पायसम्
बल-पुष्टि-करं हृद्यं
मधुरं मृदुलं सति!
मन्थनी-सम्भृतं पश्य
संयावम् अनया कृतम्
रम्भा-सीरी-क्षीरसारैः
शष्कुलीर् विविधाः सखि!
पश्य पिष्ट-विकारंश् च
नाना-भेदान् सुसंस्कृतान्
पीयूषग्रन्थि-कर्पूर-
केलिकामृतकेलिकाः
अनया संस्कृताः पश्य
यद् विधिर् मे न गोचरः
केवलो मथित-क्लिन्नो
मौद्गो ऽयं वटको द्विधा
सिता-लवण-संयोगान्
माषस्यापि चतुर्-विधः
चिञ्चाम्रातक-चुक्राम्रैस्
तत् तद् द्रव्यादि-योगतः
ईषन्-मधुर-गाढादि-
भेदाद् अम्लो द्विषड्-विधः
बद्ध-रम्भा-नव्य-गर्भ-
तन्-नव्य-मुकुलांशयोः
मान-कन्दाम्बु-कच्वीनां
मुखांशस्यालुकस्य च
कुष्माण्ड-डिण्डिशाणां च
चक्राभ-खण्ड-जालकम्
चणक-क्षोद-पङ्काक्तं
घृत-भृष्टं पृथक् पृथक्
चणक-क्षोद-व अकान्-
याज्य-भृष्टानि केवलम्
अपरान्य् अम्ल-सत्-तक्र-
क्वाथ-क्लिन्नानि लोकय
चणक-क्षोद-पिण्डानां
स्विन्नानां क्वथिताम्भसि
खण्डानि द्रव्य-पाकादि-
भेदान् नाना-विधानि च
वटिका फल-मूलानां
पृथक् संयोग-भेदतः
त्रिजात-मरिचाद्यैस् तु
प्रकारान् बहुधा-कृतान्
कर्कारु-ज्योत्स्निकालाबु-
फलान्य् आलि पृथक् पृथक्
राजिका-दधि-योगेन
संस्कृतान्य् अनया शुभे
वत्सेप्सित-प्रसूनानि
घृत-भृष्टानि केवलम्
घृत-भृष्टा दधि-क्लिन्नाः
कलिकाः कोविदारजाः
घृत-भृष्टा दधि-क्लिन्नाः
प्रसून-वटिका द्विधा
पटोलस्य फलान्य् आज्य-
भृष्टानि रुचि-दान्य् अलम्
वृद्ध-कुष्माण्ड-वटिकाः
कच्वी-मानालु-कन्दकैः
तिक्त-लालित-चूर्णाढ्याश्
चविकाढ्याः पराः कृताः
सितैला-मरिचैर् योगाद्
दुग्ध-तुम्बी-कृतानया
तद्-योगाद् अपरं मिष्टं
क्षीर-कुष्माण्ड-नामकम्
दधि-शूरणकं मिष्टं
धात्री-शूरणकं परम्
दध्नैकं भर्जितं चान्यं
कारविल्व-फलं द्विधा
मृदु-रम्भा-गर्भ-खण्ड-
वृद्ध-कुष्माण्ड-खण्डयोः
सिता-दधि-युतः पाको
मधुराम्लः सुशीतलः
नालीत-मेथी-शतपुष्पिका-मिशी-
पटोल-वास्तूक-वितुन्न-मारिषाः
प्रकार-संयोग-विभेदतो ऽनया
शाकाः सुधा-गर्व-हृतः सुसंस्कृताः
कलम्बी पक्व-चिञ्चाया
रस-पक्वा रुचि-प्रदा
कृष्ण-नालीत-शाको ऽयम्
आमाम्र-फल-युक् शुभः
मयुष्ठकस्य मुद्गस्य
माषस्याप्य् अधुना मया
त्रिविधो ऽयं सुधाकूप-
निभः सूपो विपाच्यते
पङ्कैः सुमन-चूर्णानां
दासीभिर् भृश-मर्दितैः
पूर्णेन्दु-मण्डलाकाराः
क्रियन्ते रो इका मया
कृतानि क्रियमाणानि
कर्तव्यानि तु कानिचित्
इत्य् अन्न-व्यञ्जनानि त्वं
संसिद्धानि प्रतीहि नौ
सौरभ्य-सद्वर्ण-मनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव
जिज्ञासमानाम् अथ तद्-विधानं
तां रोहिणी विस्मय-पूर्वम् आह
सामग्री सैव सामान्या
पाकस्य प्रक्रियाप्य् असौ
किन्त्व् अपूर्व-गुणे हेतुर्
गान्धर्वा-हस्त-सौष्ठवम्
सा तां राधाम् अन्न-संस्कार-सक्तां
प्रस्विद्यन्तीं लज्जया नम्र-वक्त्राम्
दृष्ट्वा राज्ञी स्नेह-विक्लिन्न-चित्ता
दासीम् अस्या वीजनायादिदेश
अथ तस्याः परिवेशन-कौशलम् आह-
व्याप्तायां वसनेन भोजन-भुवि श्री-रत्न-पीठाग्रतस्
तत्-तद्-व्यञ्जन-रत्न-रत्न-पुटिका-पङ्क्तिः क्रमेणाभितः
मिष्टाभीष्ट-सुपिष्टकौघ-पुटिका-पङ्क्तिस् तु तासां बहिः
सम्यग् भव्य-सुगव्य-हेम-पुटिका-पङ्क्तिश् च तासां बहिः
इत्य् एवं क्रमतो ऽर्ध-मण्डलतया पङ्क्ति-क्रमेणाद्भुते
स्वालीभिः पुरु-चारु-चित्र-रचनाद् वैविध्य आपादिते
अन्योन्याव्यतिषक्त-सूक्ष्म-सुरभि-श्लक्ष्णैर् घृताच्योतनैर्
मध्ये हेममयी व्यधायि रुचिरा पात्री शुभैर् ओदनैः
सौवर्णीं तल-पात्रिकां घृत-पु ई-लिम्पाक-खण्डादिभिः
सन्धानार्द्र-रसाल-खण्ड-सहितैः सत्कासमर्दादिभिः
युक्तां दक्षिणतो निधाय निक ए तस्याश् च भृङ्गारकान्
कर्पूरेण सुवासितेन पयसा पूर्णान् व्यधात् कानकान्
तस्याः पाक-सुकौशलं बहु-विधं दृष्ट्वा व्रजेश-प्रिया
तासां तत्परिवेष-चित्र-रचनां चातिस्फुरद्-विस्मया
आनेतुं प्रजिघाय वत्सल-मनाः कृष्णं च रामं च सा
धात्रेयीम् अथ तौ समीयतुर् अतिश्रद्धा-वशाद् अञ्जसा
नत्वा मातरम् आज्ञया सह-बलस् तस्याः समुल्लासनः
प्रेम्णा बालक-दासिका-कृत-पदाम्भोज-द्वयी-धावनः
आचम्योपविवेश सम्मुखतया चार्व्-अन्नपात्री-पुरः
सर्वं तत्-तद्-अवेक्ष्य विस्मित-मना बभ्राज पीताम्बरः
श्रीदाम-सुबलौ वामे
पुरो ऽस्य मधुमङ्गलः
दक्षिणे श्री-बलश् चान्ये
परितः समुपाविशन्
मातृभ्यां क्रम-दर्शितेन हि पथा भोक्तुं समारब्धवान्
यद् यद् भोक्तुम् उपक्रमं स्म कुरुते त्यक्तुं न तत् सोढवान्
भोक्तुं तत् तद् अशेषम् अप्य् अभिलषन् सामर्थ्यवांश् च स्वयं
किञ्चित् किञ्चिद् अभुक्त वीक्षक-भिया दुर्वाद-भीत्याप्य् अयम्
व्याख्याद्भिः सह-भोजिभिः सह-बलैः पाकस्य तत्-कौशलं
स्वादुङ्कारम् अदन्न् अवाग् अपि हृदा सो ऽपि प्रशंसन्न् अलम्
आदौ पायसम् आश किञ्चिद् अपर-प्राचुर्य-पर्याप्ततां
वीक्ष्य व्यञ्जन-रत्न-यत्न-गमिना लोभेन भूम्ना चिताम्
शाकादि-क्रमतो ऽभितोष-वशतः सर्वाणि सद्-व्यञ्जना-
न्य् आदन् मातृ-मुदे भवेद् अपि यथा पक्त्री-मनोरञ्जना
तान् सर्वान् सह-भोजिनः सरसया वाचा हसन् हासयन्
भुञ्जध्वं न परित्यजेत किम् अपीत्य् एकान्तम् आह्लादयन्
स्व-स्व-संस्कृत-मिष्टान्नं
प्रातर्-आशोपयोगि यत्
उपजह्रुस् तयाहूता
मात्रे गोप्यो मुदान्विताः
श्री-राधया यत्नत एव गेहाद्
आनीत-खण्डोद्भव-लड्डुकानि
गङ्गा-जलाख्यान्य् अथ रङ्गदेवी
तद्-इङ्गितेनोपजहार मात्रे
तानि माता बलादिभ्यो
विभज्य स्नेहतो ददौ
प्रकीर्ण-स्वर्ण-पात्रेषु
विनिधाय पृथक् पृथक्
आस्वादयन्तं घृत-पक्वम् अन्नं
सुनर्मभिस् तान् अपि हासयन्तम्
आलोकयन्तं नयनाञ्चलेन
राधाननं तं ददृशुर् मुदाल्यः
अदो भद्रम् इदं मिष्टम्
एतत् स्निग्धं सुचारु तत्
तर्जन्या दर्शयन्त्य् अम्बा
भुङ्क्ष्व वत्सेत्य् अभाषत
यद् यद् इष्टं भवेद् यस्य
ज्ञात्वा ज्ञात्वा हसन् हरिः
तस्मै तस्मै ददौ तत् तत्
स्वपात्रात् प्रक्षिपन् मुहुः
वीक्ष्य यत्नान्विताम् अम्बां
मन्दम् अश्नन्तम् अच्युतम्
परिहास-पटुस् तस्मिन्
व्रजेशाम् अवदद् बटुः
अयं चेद् भूरि नात्त्य् अम्ब!
देहि मे सर्वम् अद्म्य् असौ
मयैवालिङ्गितः पुष्टो
भविता भूरि-भोजिना
नास्य मन्द-रुचेः शक्तिर्
घृत-पक्वान्न-भोजने
तद् अस्मै लघु-राद्धान्नं
व्यञ्जनान्य् अम्ब! दापय
अथ कृष्णः स्वपात्रस्थ-
पक्वान्नाञ्जलिभिर् हसन्
पञ्च-षैः पूरयामास
भुङ्क्ष्वेति बटु-भाजनम्
ततो वाम-कफोणिं स्वं
वादयन् वाम-पार्श्वके
सम्यग् भोक्तुं कृतारम्भः
प्रहृष्टो बटुर् आह तम्
वयस्य! पश्य भक्ष्येऽहम्
इत्य् अश्नन् कवल-द्वयम्
मातर् मे दधि देहीति
प्राहिणोत् तां तदाहृतौ
गोपाः पश्यत नृत्यतीह चपलः पक्वान्न-लब्धाशया
कीशेशो दधि-लम्प ओ ऽयम् इति तान् कृत्वोन्मुखांस् तद्-दिशि
तेषां भोजन-भाजनेषु शनकैर् निक्षिप्य भक्ष्यं निजं
सर्वं भुक्तम् इदं मयेति स पुनर् गर्वायमानो ऽवदत्
तथागतां तां दधि-पात्र-हस्ताम्
उवाच पश्याम्ब! विनैव दध्ना
मयोपभुक्तं द्रुतम् एव सर्वं
तत् पायसं दापय भूरि मह्यम्
हैमेषु पात्रेषु निधाय राधया
नवीन-रम्भा-दल-मन्द-मारुतैः
शीतीकृतं स्वे परिवेशितं करे
तेभ्यो ददौ पायसम् आशु रोहिणी
आनीयानीय गान्धर्वा-
दत्तानि व्यञ्जनानि सा
शाकादीन्य् अम्ल-शेषाणि
तेभ्यो ऽदात् क्रमशः शनैः
रम्भोदरस्थ-च्छद-वर्ण-लाघवाः
संमृष्ट-गोधूम-सुचूर्ण-रो इकाः
घृताभिषिक्ताः परिवेशितास् तया
तेभ्यो ऽन्य-पात्रेषु निधाय सा ददौ
पूर्वं पक्वान्नम् उद्दिश्या-
धुना त्व् अन्नादिकं च या
बटोः सुपरिहासोक्तिर्
नात्र स्यात् पुनर् उक्तता
कृष्णः सतृष्णो नैवात्र
बलः कवल-मात्र-भुक्
श्रीदामा नाम मन्दाशी
सुबलो ऽसु-बलोज्झितः
क्वैषां भक्ष्यैकतानत्व-
राहित्यम् अविदग्धता
क्वैतद् अन्नं सुधा-निन्दि
स्वयं लक्ष्म्यैव साधितम्
काव्यं विफलतां किं न
याति सत्-कवि-निर्मितम्?
यत्र गोष्ठ्यां तद्-आस्वाद-
लोलुपत्वं न वर्तते
चतुर्-वर्ग-फलम् मूर्तं
एतद्-अन्नं चतुर्-विधम्
अहं केवलम् एको ऽस्य
पात्रम् इत्य् अवदद् बटुः
श्रीदामोवाच पिण्डीभिः
पिचिण्डं पूरय द्रुतम्
यद् एव तव सर्वस्वं
यद् अर्थं बटुताम् अधाः
बटुर् आख्यद् अरे मूर्ख!
गोपस् त्वं किं नु वेत्स्यसि?
रसास्वादं स्वधर्मार्थं
गा रोद्धुम् अटवीम् अट
पश्यैषो ऽहम् अनूचानो
विप्रो यैर् मन्-मुखे हुतम्!
तैर् इष्टः सर्व-यज्ञेन
भगवान् एव केवलम्
श्रीदामोचे श्रुति-स्मृत्योर्
वर्त्मापि शत-जन्मसु
त्वया परिचितं नैव
विप्रत्वे सूत्रम् एव ते
कृष्णः प्राह बटोर् अस्ति
रस-शास्त्रेऽनुशीलनम्
व्यञ्जनानेक-तात्पर्य-
लक्षणाभिज्ञता यतः
बटुर् आह षड् एवात्र
रसा न त्व् अष्ट मन्-मते
षोढैव न्याय्य आस्वादो
यत् षड् एवेन्द्रियाणि नः
रसा ह्य् अष्टाव् इति प्राहुर्
ये तेऽपि व्यञ्जनाश्रिताः
व्यञ्जनाभिज्ञता-लेशो ऽप्य्
एषां किन्तु न विद्यते
विहाय शाक-सूपादीन्
विहायस् ते धयन्ति यत्
तन् नीरं प्रकटं हित्वा
धावन्त्य् एव मरीचिकाम्
कारणं रस-निष्पत्तौ
चर्वणेनेति तज् जगुः
चर्वन् तु परिचोष्यन्ति
न पितुर् जन्म-कोटिभिः
रामः प्राह रसास्वादे
केऽनुभावा भवन्-मते
के वा सञ्चारिणः को वा
स्थायी स स्वाद्यते कथम्
बटुर् ऊचे यद् अप्राप्त्या
पूर्वम् एवाश्रु मे भवेत्
प्राप्त्या तु व्यञ्जनस्यास्य
पुलकास्य-प्रसन्नते
वर्णस्य स्निग्धता-तृप्त्या
वैवर्ण्यं तच् च पश्य मे
भुञ्जान एव यद् वच्मि
स्वरो मे तेन भिद्यते
स्तम्भो मे भूरि मिष्टान्न-
भोजनाशक्ति-दुःख-जः
प्रस्वेदः प्रकटो ऽन्ते तु
प्रलयो बहु-भक्षणात्
आलस्य-चिन्ता-स्वापाद्याः
स्पष्टाः सञ्चारिणो ऽत्र नः
स्वाद्यत्वेनैक एवापि
स्थायी तु विविधाभिधः
आज्याभ्यक्तानि भक्तानि
मन्ये काञ्चन-वारिणा
स्नपितानीव सौरभ्यं
येषां सौलभ्यम् अभ्यगात्
गोदन्त-कृत्त-घासादि-
घ्रायिण्यां गोप-संसदि
कृत-पुण्यस्य मे भूरि-
भोग-भाजः प्रसङ्गतः
वने विप्रास् तपस्यन्ति
पत्र-मूल-फलाशनाः
बटोस् ते नाधिकारो ऽस्ति
भोगे याहि तपश् चर
सत्यं भो यैः पुरा तप्तं
पत्र-मूल-फलादिभिः
परिणम्य जनुष्य् अत्र
व्यञ्जनत्वेन तैर् मम
भौम-स्वर्ग-जुषः साधु
प्रत्यक्षी-भूयतेऽन्वहम्
इति जानीत-भोगो ऽयम्
अतप्त-तपसः कुतः
एवं चेत् प्रथमं प्राप्तुम्
अर्हन्त्य् एते वलीमुखाः
वाग्-व्यय-श्रमिणो ऽत्रापि
जनुष्य् एते तपस्विनः
शीतोष्ण-वात-सहनाः
पत्र-पुष्प-फलाशनाः
जाति-स्मराः कथं न स्युः
को ऽमीषां वेत्ति विज्ञताम्
कृष्णः प्राह सखे! विप्रा
ब्रह्मोपासन-तत्पराः
कीशाः कुक्षिम्भरा एषां
द्वयेषां महद्-अन्तरम्
अस्य कीशस्य चावैमि
न किम् अप्य् अन्तरं हरे!
नरत्वं वानरत्वं वा-
नयोर् भेदे न कारणम्
किं च ख्यापयता तेन
लोकेऽपूर्वां स्वविज्नतां
बृहत्त्वाद् बृंहणत्वाच् च
स्वकुक्षिर् ब्रह्म मन्यते
अतस् त्रिषवणं तस्य
ध्यायता पूर्ति-साधनम्
स एवोपास्यतेऽनेन
नैष्ठिक-ब्रह्मचारिणा
कदाचिद् भूरि-पक्कान्न-
ग्रसनावेश-संभ्रमैः
कीशायितं स्यात् पाणिभ्यां
भुञ्जानस्यास्य लाघवैः
इत्य् उक्त्वाजीहसत् सर्वान्
सुबलस् तान् बटुः स तु
हसन् भुञ्जान एवोच्चैः
काशैः शोण-मुखो ऽभवत्
गोष्ठेशाह बटो! तिष्ठ
क्षणं मा भुङ्क्ष्व मा हस!
स्थैर्यम् आप्नुहि मा जल्प
मैनं हासयतार्भकाः
धनिष्ठया यल्-ललितादि-संस्कृतं
तत्-तद्-रसालादिकम् आहृतं पुरः
कृत्वा पृथक् पात्रचये व्रजेश्वरी
सस्नेहम् एभ्यो ददती मुमोद सा
हृदय-दयित-मुख-वीक्षण-हृष्टास्
तद् अतिमधुर-मृदु-कान्ति-विकृष्टाः
मुमुदुर् उदित-पृथु-भाव-विहस्ता
रमण-भवनम् अधि ताः पुरु-शस्ताः
अन्नान्यथो तानि चतुर्-विधानि ते
पीयुष-सारोद्भव-विक्रिया इव
आस्वादयन्तो मधुराणि सस्पृहं
तं हासयन्तो जहसुश् च नर्मभिः
चर्वन्ति चर्व्याणि मृदूनि केचिल्
लेह्यानि चान्ये चटुलं लिहन्ति
पिबन्ति पेयानि परे प्रहृष्टाश्
चूष्यन्ति चोष्याण्य् अपरे वितृप्ताः
स्वादुङ्कारं कमल-नयनः सस्पृहं तत् तद् अन्नं
हस्त-स्पर्शाद् अमृत-मधुरं मन्द-मन्दं प्रियायाः
तद् वक्त्राब्ज-प्रहित-नयन-प्रान्त-भृङ्गो निगूढं
प्राश्नन्न् अम्बा-मनसि निबिडं स प्रमोदं व्यतानीत्
प्रहित-चकित-नेत्र-प्रान्त-दृष्टि-प्रणाली-
मिलित-तद्-अतिलावन्यामृतास्वाद-पुष्टा
प्रसरद्-अखिल-भावोल्लासम् आच्छादयन्ती
दयित-हृदयम् उच्चै राधिकाप्य् आजहार
अथ बल-जननीं ताम् अन्तराकृत्य नृत्यन्-
मदकल-मदिराक्षीम् अर्पयन्तीं करेऽस्याः
मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य कृष्णः
श्लथ-रुचिर् अशनेऽभूद् उन्मना नागरेशः
सामिभुक्तं कियत् तेन
किंच त्र्यंशावशेषितम्
भक्ष्यं वीक्ष्याशने मन्दं
तं चासीद् व्याकुला प्रसूः
यत्नात् संस्कृतम् अन्नादि
सर्वं त्यक्तं कथं सुत!
क्षुधितो ऽसि कियद् भुङ्क्ष्व
शपथः शिरसो मम
आनाय्य यत्नाद् वृषभानु-कन्यकां
संस्कारितं सर्वम् इदं सुतानया
अन्नादि मिष्टं च सुधा-परार्द्धतस्
तथापि नाश्नासि करोमि किं हता
अथ सा रोहिणीम् आह
पश्य रोहिणि! चञ्चलः
दुर्बलः क्षुधितो ऽप्य् एष
किम् अप्य् अत्ति न मन्द-भुक्
ततः स्नेह-परीताङ्गी
लालयन्त्य् अघ-मर्दनम्
प्रलम्ब-हन्तुर् अम्बेयं
बभाषे तं पुरःस्थिता
यत्नाद् अन्नं साधितं वत्स! मिष्टं
मल्ली-मृद्व्या राधयेदं मया च
क्षुत्-क्षामो ऽसि त्वं च नाश्नासि तत् ताम्
अम्बाम् एतां मां च किंवा दुनोषि
जननी तव पश्य खिद्यते
सुत! निर्मञ्चनम् अत्र यामि ते
भ्रमतो भविता वने श्रमः
कियद् अश्नीहि विधेहि मद्-वचः
भुक्तं मया भूरि गता बुभुक्षे-
त्य् उक्त्वा नियम्योच्छलितं विकारम्
तं वीक्ष्य मन्दं पुनर् अप्य् अदन्तं
ननन्दतुर् नन्द-सुतं जनन्यौ
इदम् इदम् अतिमिष्टं वत्स! भुङ्क्ष्वेति माता
सशपथम् अथ तत्-तद्-दर्शयन्त्य् अङ्गुलीभिः
सकलम् अभिलषन्ती कर्तुम् अश्रु-प्लुताक्षी
तद् उदर-गतम् अन्नं सात्मजं वावदीति
रसाला-पक्वाम्र-द्रव-शिखरिणी-षाडव-पयः-
करम्भामिक्षा-व्यञ्जन-दधि-फलापूप-व अकान्
कृताम्रेडा नेत्र-स्तनज-पयसा क्लिन्न-सिचया-
प्य् अतृप्ता तं तृप्तं मुहुर् अथ सुतं प्राशयद् इयम्
भक्ष्यं भोज्यं बहुतर-मिष्टं
लेह्यं पेयं मृदु-मधुरं ते
भुक्त्वा पीत्वा रसभर-तृप्ताः
सर्वेऽभूवन् वन-गमनोत्काः
सर्वे सुवासित-मृदा मुख-पाणि-पद्मा-
न्य् आमृज्य साधु मृदुलेषिकया च दन्तान्
दासैः प्रणीत-कनकादिक-कुण्डिकासु
तैर् दत्त-वारिभिर् अथाचमनं व्यधूस् ते
एला-लवङ्ग-घनसार-विमिश्रिताभिर्
जम्बूल-दत्त-वर-खादिर-गोलिकाभिः
शीतोज्ज्वलाभिर् अधिवास्य मुदा मुखं ते
सव्येन पूर्णम् उदरं ममृजुः करेण
रसाल-कर-संस्कृतोपहृत-नागवल्ली-स्फुरत्-
सुपक्व-दल-वीटिकाः सुखम् अदन्त एवोत्सुकाः
ततः शतपदान्तरालय-विशाल-पल्यङ्किका-
कुलेष्व् अथ विशश्रमुः परिजनैर् अमी वीजिताः
तम् इह विश्रमितं परिचारकाः
शिखि-दल-व्यजनैः समवीजयन्
अवदलय्य दलं मृदु-वीटिकाः
प्रभुम् अथादयति स्म विलासकः
निष्क्रम्य धौताङ्घ्रि-करां महानसाद्
दासी-गणैस् तां व्यजनैर् उपासिताम्
राधां प्रकोष्ठान्तर-गां सखी-जनैर्
विलोकयन्तीं रमणं गवाक्षतः
आनन्दज-स्वेद-जलैर् व्रजेशया
प्रतीयमानां श्रम-कर्षितेत्य् अलम्
भोक्तुं प्रयत्नाद् उपवेश्य सा मुदा
बलाम्बयान्नानि गृहाद् अदापयत्
तया निदिष्टा घृत-संस्कृतान्नं
दातुं धनिष्ठा हरि-भुक्त-शेषैः
संमिश्र्य गूढं घृत-संस्कृतान्नैर्
गृहात् तदानीय ददाव् अमूभ्यः
अनश्नन्तीं ह्रिया वीक्ष्य
वस्त्रावृत-नताननाम्
राधिकाम् अवदत् कृष्ण-
माता वात्सल्य-विक्लवा
जननि! मयि जनन्यां किं नु लज्जेदृशीयं
सुत इव मम चेतः स्निह्यति त्वय्य् अतीव
अयि तद् अपनयैनां यामि निर्मञ्चनं ते
शिशिरय मम नेत्रं भुङ्क्ष्व पश्यामि साक्षात्
यूयं च मे स्थ तनयास् त्व् अनया ह्रिया किं
पुत्र्यः कुरुध्वम् अशनं ललितादयस् तत्
इत्य् आग्रहाच् छपथ-दान-शतैश् च माता
मिष्टान्न-मिष्ट-वचनैः समभोजयत् ताः
ततो दासी-धौतैः कर-कमल-युग्मैर् निज-निजैर्
इमाः प्रक्षाल्यास्यं शशि-सहित-वार्भिर् निज-निजम्
प ऐर् मार्जित्वा च स्वपरिजन-दत्ता हिमकरा
वियुक्ता वी ईस् ता वर-कनक-गौर्यो बुभुजिरे
हृद्य् उद्गतैः सुत-कर-ग्रहणाभिलाषैस्
तद् भूषणैः सुबहुशः सह यानि यत्नात्
निष्पाद्य तन् नववधू-प्रतिरूपकाणि
स्नेहाद् धृतानि सदने वर-सम्पु एषु
तैर् भूषणैर् अथ धनिष्ठिकयोपनीतैस्
ताम्बूल-चन्दन-नवाम्बर-नागजैश् च
आली-वृतां नव-वधूम् इव तां व्रजेशा
सम्मान्य हार्द-वलिता मुदिता बभूव
राधा-हृतं यन् निशि तद् विशाखा
धनिष्ठयादात् सुबलाय गूढम्
पीतोत्तरीयं सुबलो ऽपि तस्यै
नीलाम्बरं कृष्ण-हृतं तयैव
मूल पाठ: Bhāvanāsārasaṃgraha 1-2 · Data entry Hari Charan Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0