भावनासारसंग्रह · अध्याय 1
अज्ञान-तिमिरान्धस्य
ज्ञानाञ्जन-शलाकया
चक्षुर् उन्मीलितं येन
तस्मै श्री-गुरवे नमः
सिंह-स्कन्धं मधुर-मधुर-स्मेर-गण्ड-स्थलान्तं
दुर्विज्ञेयोज्ज्वल-रस-मयाश्चर्य-नाना-विकारम्
विभ्रत् कान्तिं विकच-कनकाम्भोज-गर्भाभिरामाम्
एकीभूतम् वपुर् अवतु वो राधया माधवस्य
शोण-स्निग्धाङ्गुलि-दल-कुलं जात-रागं परागैः
श्री-राधायाः स्तन-मुकुलयोः कुङ्कुम-क्षोद-रूपैः
भक्त-श्रद्धा-मधु-नख-महः-पुञ्ज-किञ्जल्क-जालं
जङ्घानालं चरण-कमलं पातु नः पूतनारेः
भक्ति-रसामृत-सिन्धौ
चरतः परिभूत-काल-जाल-भियः
भक्त-मकरान् अशीलित-
मुक्ति-नदीकान् नमस्यामि
प्रगे श्रीवासस्य द्विज-कुल-रवैर् निष्कु अवरे
श्रुति-ध्वान-प्रख्यैः सपदि गत-निद्रं पुलकितम्
हरेः पार्श्वे राधा-स्थितिम् अनुभवन्तं नयन-जैर्
जलैः संसिक्ताङ्गं वर-कनक-गौरम् भज मनः
रात्र्यन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-
पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः
दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्ख ई-गीः सशङ्कौ
राधा-कृष्णौ सतृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि
प्रतिस्व-सेवावसर-प्रबोधिता-
सदातनाभ्यास-जुषो ऽथ किङ्करीः
निद्रैव रात्र्य् अन्तम् अवेत्य ता जहौ
सैव स्वयं जागरयाञ् चकार किम्?
उत्थाय तल्पाच् चकितेक्षणाः क्षणान्
दुहानयोर् नागर-चक्रवर्तिनोः
स्वापं रहः-स्वापम् अभङ्गम् अङ्गना
आलक्ष्य तूष्णीम् अधिशयम् आसत
पप्रच्छुर् अन्योन्यम् इमा मिमानया
रसं परीहास-भृतं सजृम्भया
गिरा चिराज् जागर-मूढ-घूर्णन-
स्व-स्वाक्षि-भृङ्गी-तति-लीढ-वक्षसः
निशान्त-सेवोचित-माल्य-वीटिका-
कृत्यात्त-चित्ता अथ काचिद् आह ताः
अनङ्ग-बद्धाङ्ग-युव-द्वयोच्छलत्-
सौरभ्य-सौलभ्यवती रसोच्चला
जानीत जालाध्व-गतास्य-पद्माः
सद्मान्तराल्यः स्व-दृशः प्रहित्य
कान्तौ नितान्तातनु-लास्य-चुञ्चु
धिनोति सुप्तिः परिरभ्य कीदृक्?
इतस् ततो न्यस्त-मणि-प्रदीपान्-
अफुल्ल-नीलोत्पल-चम्पकाभान्
विधत्त एतौ स्व-मयूख-वृन्दैर्
अनावृतैर् मण्डन-माल्य-चेलैः
स कृष्ण-मेघः स्थिर-चञ्चलाली-
वृतो ऽतिमाधुर्य-रसैर् अमूः किम्?
आस्नापयत् स्वार्हण-कृत्य-वृत्ताः
प्रत्यर्हणेनादित एव धिन्वन्
ताम्बूल-माला-विविधानुलेपैर्
अङ्गार-धान्यागुरुवैश् च धूपैः
कालोचितैस् तैः प्रतिपाद्यमानैः
कति-क्षणांस् ता गमयां बभूवुः
प्रभञ्जनो रञ्जयितुं निकुञ्ज-
राजौ व्यराजिष्ट मुदा तदानीम्
मन्ये प्रबुध्य श्लथ-दुर्बलाङ्गो
द्रुतं प्रयातुं न-तरां शशाक
या वृक्ष-वल्ल्यो व्यकसंस् तदैव ताश्
चुम्बंस् तदामोद-भरैर् दिशो दश
प्रसारितैः श्वासपथ-प्रवेशितैर्
भृङ्गावलीर् जागरयाञ् चकार सः
तद्-गुञ्जितै रञ्जित-सुस्वरैर् भृशं
प्रबुध्य वृन्दाऽथ विलोक्य सर्वतः
स्वनाथयोर् जागरणे पतत्रिणो
न्ययुङ्क्त काल-ज्ञतया रयाद् इयम्
आसन् यद्-अर्थं प्रथमं द्विजेन्द्राः
सेवा-समुत्कण्ठ-धियो ऽपि मूकाः
वृन्दा-निदेशं तम् अवाप्य हर्षात्
क्रीडा-निकुञ्जं परितश् चुकूजुः
अथालि-वृन्दं मकरन्द-लुब्धं
रतीशितुर् मङ्गल-कम्बु-तुल्यम्
प्रफुल्ल-वल्ली-चय-मञ्जु-कुञ्जे
जुगुञ्ज तल्पी-कृत-कञ्ज-पुञ्जे
झङ्कृतिम् अङ्गी-कुरुते
रति-मङ्गल-झल्लरीव गोविन्दम्
बोधयितुं मधु-मत्ता
मधुपी-ततिर् उद्भ आनन्दा
पिक-श्रेणी मनोजस्य
वीणेव व्यक्त-पञ्चमम्
आललाप स्वरं तारं
कुहूर् इति मुहुर् मुहुः
रति-मधुर-विपञ्ची-नाद-भङ्गीं दधाना
मदन-मद-विकूजत्-कान्त-पार्श्वे निषण्णा
मृदुल-मुकुल-जालास्वाद-विस्पष्ट-कण्ठी
कलयति सहकारे काकलीं कोकिलाली
विद्राव्य गोपी-धृति-धर्मचर्या-
लज्जा-मृगीर् मान-वृकेष्व् अमर्षी
कपोत-घूत्कार-मिषेण शङ्के
गर्जत्य् अयं काम-तरक्षु-राजः
राधा-धैर्य-धराधरोद्धृति-विधौ केऽन्ये समर्था विना
कृष्णं कृष्ण-सुमत्त-कुञ्जर-वशीकारेऽप्य् अलं शृङ्खलाः
अन्याः का वृषभानु-जाम् इह विना धन्याम् अतीवादृताः
केकाः किं समुदीरयन्ति शिखिनस् तौ बोधयन्तः प्रगे
ह्रस्व-दीर्घ-प्लुतैर् युक्तं
कु-कूकू-कू इति स्वरम्
कुक्कुटो ऽप्य् अप हत् प्रातर्
वेदाभ्यासी बटुर् यथा
अथ पक्षिणां कलकलैः प्रबोधिताव्
अपि तौ मिथो ऽविदित-जागरौ तदा
निबिडोपगूहण-विभङ्ग-कातरौ
कप एन मीलित-दृशावतिष्ठताम्
वृन्देङ्गित-ज्ञः स विचक्षणः शुकः
शुको यथा भागवतार्थ-कोविदः
दक्षः प्रबोधे जगतां प्रभोर् अति-
प्रेमास्पदत्वानुपमः समभ्यधात्
जय स्मराशेष-विलास-वैदुषी-
निष्णात-गोपीजन-लोचनामृत!
प्राण-प्रिया-प्रेम-धुनी-मतङ्गज!
स्व-माधुरी-प्लावित-लोक-संहते
प्रियाधरास्वाद-सुखे निमज्जसि
प्रबुध्यसे नेत्य् उचितं रसाम्बुधे!
रिरंसुतायां विरिरंसुर् एव ते
किञ्चाधुनेयं क्षणदा क्षणं द्यति
जहीहि निद्रां श्लथयोपगूहनं
व्रजं प्रतिष्ठासुररं प्रभो! भव
प्रातर् बभूवानुसर स्व-चातुरीं
प्रच्छन्न-कामत्वम् अथोररी-कुरु
जय व्रजानन्दन! नन्द-चेतः-
पयोधि-पीयूष-मयूख! देव!
गोष्ठेश्वरी-पुण्य-लता-प्रसून!
प्रयाहि गेहाय धिनु स्व-बन्धून्
गोकुल-बन्धो! जय रस-सिन्धो!
जागृहि तल्पं त्यज शशि-कल्पम्
प्रीत्य्-अनुकूलां श्रित-भुज-मूलां
बोधय कान्तां रति-भर-तान्ताम्
उदयं प्रजवादयम् एत्य् अरुणस्
तरुणी-निचये सहजाकरुणः
निभृतं निलयं व्रजनाथ! ततस्
त्वरितो ऽ अ कलिन्द-सुता-त अतः
शारी शुभा साऽथ जगाद सूक्ष्म-धीः
शारी यथा देवन-सम्मत-स्थितिः
जयेश्वरि! स्वीय-विलास-सौभग-
श्री-तर्षित-श्री-मुख-मुख्य-यौवते
कमल-मुखि! विलासायास-गाढालसाङ्गी
स्वपिषि सखि! निशान्ते यत् तवायं न दोषः
दिग् इयम् अरुणितैन्द्री किन्तु पश्याविर् आसीत्
तव सुखम् असहिष्णुः साध्वि! चन्द्रा-सखीव
शेषेऽधुना यद्-रति-वल्लभास्य-
राजीव-राजन् मधु-पान-मत्ता
असाम्प्रतं तत् खलु साम्प्रतं ते
प्रातस् ततो जागरयाम्य् अहं त्वाम्
कृष्णो ऽप्य् अनिद्रः प्रिययोपगूढः
कान्ताऽप्य् अनिद्राऽप्य् अमुनोपगूढा
तल्पात् प्रभाताकुलम् अप्य् अनल्पान्
नोत्थातुम् एतन् मिथुनं शशाक
कृष्णस्य जानूपरि-यन्त्रित-सन्-नितम्बा
वक्षः-स्थले धृत-कुचा वदनेऽर्पितास्या
कण्ठे निवेशित-भुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनाग् अपि लब्ध-बोधा
श्री-कृष्ण-लीला-रचनासु दक्षस्
तत्-प्रेम-जानन्द-विफुल्ल-पक्षः
दक्षाख्य आह श्रित-कुञ्ज-कक्षः
शुकः समध्यापित-कीर-लक्षः
एकं प्राच्याम् अरुण-किरणापा अलायां विधत्ते
चक्षुः कान्ते त्वरितम् अपरं दूरगे चक्रवाकी
शङ्काक्रान्तास् तरु-कुहर-गा मूकतां यान्ति घूकाः
शङ्के भास्वान् उदयम् उदगात् कृष्ण! निद्रां जहीहि
जय जय गुण-सिन्धो! प्रेयसी-प्राण-बन्धो!
व्रज-सरसि-ज-भानो! सत्-कला-रत्न-सानो!
इह हि रजनी-शेषे किं मना नाथ! शेषे
समयम् अवकलयापीष्यते कुञ्ज-सय्या?
अयम् अपि च शिखण्डी जागरित्वैव खण्डी
कृत-सुललित-केकः काल-निष्ठा-विवेकः
प्रमिलति तव निद्रा-हानयेऽधी-दरिद्राः
शिव शिव निज-सेवा-कालम् उज्झन्ति के वा?
वृन्दा-वक्त्राद् अधिगत-विद्या
सारी हारी-कृत-बहु-पद्या
राधा-स्नेहोच्चय-मधु-मत्ता
तस्या निद्रापनयन-यत्ता
निद्रां जहीहि विजहीहि निकुञ्ज-शय्यां
वासं प्रयाहि सखि! नालसतां प्रयाहि
कान्तं च बोधय न बोधय लोक-लज्जां
कालोचितां हि कृतिनः कृतिम् उन्नयन्ति
व्रज-पति-तनयाङ्कासङ्गतो वीत-शङ्का
विधु-मुखि! किम्-उ शेषे निर्भरं रात्रि-शेषे?
प्रमद-मधुप-पुञ्जे मा परं तिष्ठ कुञ्जे
न गणयसि विगर्हां किं गुरुणाम् अनर्हाम्?
सुदति! कुमुदिनीनाम् अङ्कम् आसाद्य लीना
मद-मधुकर-माला कालम् आसाद्य लोला
सरति कमलिनीनां राजिम् एताम् अदीनां
भवति समय एव ग्लानि-हर्षादिदेवः
वियद्-अतिलघु-तारं त्वद्-वपुः क्षुण्ण-हारं
विगलित-कुसुमानां वर्ष्म शेफालिकानाम्
त्रितयम् इदम् इदानीम् एक-रूपं तदानीम्
अपि यद् अपि तथापि त्वद्-वपुः श्रीभिर् आपि
त्रु इत-पतित-मुक्ता-हारवत् ते वियुक्ता
भवद् उडु-ततिर् एषा स्वल्प-मात्रावशेषा
चिर-शयनम् अवेक्ष्यारुन्धती ते विलक्ष्या
भवद् इव परिवक्रे पश्य सप्तर्षि-चक्रे
इति कल-वचनानां शारिकाणां शुकानां
रुतम् अतिशय-रम्यं श्रोत्र-पेयं निशम्य
विहित-शयन-बाधा सा जजागार राधा
प्रथमम् अथ स कृष्णः स्वाप-लीला-वितृष्णः
युगपद् उभय-निद्रा-भङ्ग-विध्वस्त-मुद्रा
युगपद् उभय-नेत्रापाङ्ग-भङ्गी विचित्रा
युगपद् उभय-घूर्णा-जात-संक्लेश-पूर्णा
भवद् उभय-विलोकाभावतः प्राप्त-शोका
कल-क्वणत्-कङ्कङ-नूपुरं जबाद्
अत्युच्छलद्-गात्र-युग-च्छवि-च्छटाम्
व्यस्तालकाग्रावलि-वेष्टनोन्नमत्-
ता अङ्क-हार-द्युति-दीपिताननम्
स्रस्तांशुकान्वेषण-संभ्रमोदयाद्
इतस्-ततो न्यस्त-कराब्ज-मञ्जुलम्
शय्योत्थितं केलि-विलासिनोस् तयोस्
त्रैलोक्य-लक्ष्मीम् इव सञ्चिकाय तम्
घूर्णालसाक्षं श्लथ-सर्व-गात्रं
विश्रस्त-केशं रसिक-द्वयं तत्
भुग्नोपवेशं स्खलने कथं चिद्
अन्योन्यम् आलम्बनतां प्रपेदे
अन्योन्य-ग्रथिताङ्गुली-किसलयाम् उन्नीय बाहु-द्वयीं
जृम्भारम्भ-पुरःसरं विदधती गात्रस्य संमो अनम्
मीलन्-नेत्रम् उरोजयोर् नख-पद-व्यादान-दीनानना
ना-ना-नेति पुनर् नख-क्षत-धिया सा कृष्ण-पाणी दधे
सङ्गोपाय प आञ्चलेन तनुना निःसारि-दन्तावली-
ज्योत्स्नाभिः स्नपितेन दक्षिण-कराकृष्टेन वक्त्राम्बुजम्
लीलोल्लासित-कन्धरं मृदु-कलैर् वामाङ्गुलि-च्छो इका-
निःस्वानैश् चल-कङ्कण-स्वन-सखैः श्री-राधिकाऽजृम्भत
अलस-वलितम् ऊर्ध्वी-कृत्य मूर्धोपकण्ठे
वलयितम् इदम् अन्योन्येन संसक्त-पाणि
त्रिक-विचलन-भङ्गि-सङ्गि मो आयितायाः
परिधिर् इव मुखेन्दोर् भाति दोर्द्वन्द्वम् अस्याः
उत्थायेशः सन्निविष्टो ऽथ तल्पे
व्याजान् निद्रा-शालिनीं मीलिताक्षीम्
दोर्भ्यां कान्तां स्वाङ्कम् आनीय तान्तां
पश्यत्य् अस्या माधुरीं साधुरीति
घूर्णायमानेक्षण-खञ्जरी अं
लला अ-लोलालक-भृङ्ग-जालम्
मुखं प्रभाताब्ज-निभं प्रियायाः
पपौ दृशेषत्-स्मितम् अच्युतो ऽसौ
संश्लिष्ट-सर्वाङ्गुलि-बाहु-युग्मम्
उन्मथ्य देहं परिमो अयन्तीम्
उद्बुद्ध-जृम्भा-स्फुट-दन्त-कान्तिम्
आलोक्य कान्तां मुमुदे मुकुन्दः
तदैव जृम्भोत्थ-रदांशु-जाल-
माणिक्य-दीपैर् निरराजयत् किम्
स-निद्रम् उन्मुद्र-दृगन्त-लक्ष्मी-
रस-ज्ञयान्योन्य-विलिह्यमानम्
स्वीयाङ्कोत्तान-सुप्ताम् उषसि मृदु मृषा रोदनेषत्-स्मितास्याम्
अर्धोन्मुक्ताग्र-केशां विमृदित-कुसुम-स्रग्-धरां छिन्न-हाराम्
उन्मील्योन्मील्य घूर्णालस-नयन-युगं स्वाननालोकनोत्कां
कान्तां तां केलि-तान्तां मुदम् अतुलतमाम् आप पश्यन् व्रजेन्दुः
हेमाब्जाङ्ग्याः प्रबल-सुरतायास-जातालसायाः
कान्तस्याङ्के निहत-वपुषः स्निग्ध-तापिञ्छ-कान्तेः
शम्पाकम्पा नव-जल-धरे स्थास्नुतां चेद् अधास्यत्
श्री-राधायाः स्फुटम् इह तदा साम्य-कक्षाम् अवाप्स्यत्
स्फुरन् मकर-कुण्डलं मधुर-मन्द-हासोदयं
मदालस-विलोचनं कमल-गन्धि लोलालकम्
मुखं स्व-दशन-क्षताञ्जन-मलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनर् अभूद् विलासोत्सुका
परस्परालोकन-जात-लज्जा-
निवृत्त-चञ्चद्-दर-कुञ्चिताक्षम्
ईषत्-स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्त-तृष्णः पुनर् आस कृष्णः
वामेन चाधः शिर उन्नमय्य
करेण तस्याश् चिबुकं परेण
विभुग्न-कण्ठः स्मित-शोभि-गण्डं
मुखं प्रियायाः स मुहुश् चुचुम्ब
कान्ताधर-स्पर्श-सुखाब्धि-मग्ना
करं धुनाना दर-कुञ्चिताक्षी
मा मेति मन्दाक्षर-सन्न-कण्ठी
सखी-दृशां सा मुदम् आततान
रूपामृतं मे त्रि-जगद्-विलक्षणं
निःसीम-माधुर्यम् इदं च यौवनम्
अद्यैव साफल्यम् अवाप सर्वथा
प्रेयानुपाभुङ्क्ततमां मुदा यतः
सैवं विचिन्त्य क्षणम् आह कान्तं
तद्-अक्षि-पीताखिल-माधुरीका
स्वान्तर् मुदात्यर्थ-लसद्-दृगन्त-
लक्ष्मी-विहारायतनास्य-पद्मम्
भो भो विलासिन्न् अवधेहि यत् त्वया
विस्रस्त-वेशाभरणास्म्य् अहं कृता
यावन् मद्-आल्यो ऽनुसरन्ति नोषसि
द्रुतं समाधित्ससि तन् न किं पुनः
स्व-चातुरीं साधय मां प्रसाधय
प्रसादयानङ्गम् अभीष्ट-दैवतम्
यो ऽस्मन् मनो-मन्दिर-वर्त्य् अयं त्वया
बहिष्-कृतो लक्ष्मभिर् एभिर् एव यत्
सत्यं ब्रवीष्य् अङ्ग-जम् इष्ट-देवं
त्वद्-अङ्ग-पीठे प्रकटी-भवन्तम्
यजामि भूषाम्बर-गन्ध-पुष्पं
स्रक्-चन्दनाद्यैर् इति तां स ऊचे
इत्थम् ईश्वर्या वाक्यं हि
श्रुत्वा सेवन-पेशला
तद्-उपयोगि-वस्तूनि
समर्पयितुम् उत्सुका
द्वारं समुन्मुच्य मनाग् अनारवं
शनैः पद-न्यास-विशेष-मञ्जुला
निर्णीत तज्-जागरणाथ किङ्करी-
ततिर् विशङ्का प्रविवेश वेश्म सा
इतस् ततो न्यस्त-मणि-प्रदीपान्
अफुल्ल-नीलोत्पल-चम्पकाभान्
विधत्त एतौ स्व-मयूख-वृन्दैर्
अनावृतैर् मण्डन-माल्य-चेलैः
मिथो दशन-विक्षताधर-पु औ विलासालसौ
नखाङ्कित-कलेवरौ गलित-पत्र-लेखाश्रियौ
श्लथाम्बर-सुकुन्तलौ त्रु इत-हार-पुष्प-स्रजौ
मुहुर् मुमुदिरे पुरः समभिलक्ष्य ताः स्व-प्रियौ
अथामुना कङ्कतिकां शनैः शनैर्
विकर्षता भानुमती-करार्पिताम्
कचावली संस्त्रियते स्म मालती-
मालोत-वेणी-रचना-पटीयसा
कस्तूरिका-चन्दन-कुङ्कुम-द्रवैः
सम्भावितैस् ताम् अनुरागलेखया
चकार मालाञ्चित-चारु-चित्रकां
स चित्र-चुञ्चुर् धृत-नव्य-वर्तिकः
ता अङ्क-युग्मेन लवङ्ग-मञ्जरी-
सम्पादितापूर्व-रुचा स चारुणी
आनर्च तस्याः श्रवणे नवाञ्जने-
नानञ्ज-कञ्ज-प्रतिम् एतद् अक्षिनी
दधार हारं रुचि-मञ्जरीलितं
यदा तदोचे प्रियया मदोद्धुरम्
या खण्डिता चन्दन-कञ्चुली त्वया
वक्षोजयोस् तां न कुतश् चिकीर्षसि?
आलेख्य-कर्मण्य् अतिगर्व-धारिणीस्
तास् ता विशाखा-प्रभृतीर् भवत् सखीः
विस्मापयाम्य् अद्य कुच-द्वये कृतैश्
चित्रैर् विचित्रैर् इति तां जगाद सः
प्रसाधनार्थ-प्रतिपादनोन्मुख-
श्री-रूप-लीला-रति-मञ्जरी-मुखः
स्तन-द्वयं तुलिकयाङ्कयन् हरि
पञ्चेषु-पञ्चेषु-शरव्यताम् अगात्
पाणिश् च कम्पे यदि वक्र-रेखं
चित्रं विलुम्पन्न् उरसा मुहुः सः
मन्ये स्मराग्निं धमति स्म तस्या
धृतीन्धनं दग्धु-मना विदग्धः
कामस् तम् अवकल्पम् अनल्प-वैभवैः
सद्यो विधायानियत-स्थल-स्थितम्
विमृज्य संसृज्य विखण्ड्य खण्डशस्
तेनैव सोल्लासम् उभाव् अभूषयत्
दास्यश् च ताः फुल्ल-दृशां कृतार्थतां
मूर्तां चिरायाभिलषन्त्य एव ताम्
पुना रिरंसू समवेत्य तौ ततो
मिषेण सर्वा निरगूहि केनचित्
पुनर् अपि घन-घूर्ण श्री-मुख-द्वन्द्व-योगाद्
अचटुल-भुजवल्ली-वेष्टनेनेष्टभासौ
क्षणम् अपि दर-सुप्त्या शं भजावेत्य तस् ताव्
अनृजु-कुसुम-तल्पे स्रस्त-गात्राव् अभूताम्
विरह-विकलया तच् छय्यया दूनया किं
कथम् अपि दर-लब्धाश्लेषया निद्रया वा
उषसि न च विहातुं हन्त शक्तौ खगास् तौ
तद् अपि विदधुराभ्यां विप्र-युक्तौ स्वनन्तः
अगणित-कुल-निष्ठा मा निकुञ्जे शयिष्ठाः
परिहर सुरत-घ्नं स्वापम् उद्गच्छ शीघ्रम्
समजनि सविशेषः पश्य दोषावशेषः
कुरु न गत-समाधां बन्धु-वर्गस्य बाधाम्
इयम् अजनि दिगैन्द्री दृश्यतां देवि! सान्द्री-
भवद् अरुणिम-धारा त्वत्-पादाब्जानुकारा
इयम् अपि च वराकी सत्वरा चक्रवाकी
परिमिलित रथाङ्गे जात-विच्छेद-भङ्गे
अपि तव मुख-शोभाम् आप्तु-कामो ऽतिलोभाद्
अपरिकलित-कामः स्वं वपुस् त्यक्तु-कामः
चरम-शिखरि-शृङ्गं प्राप्य पश्यैव तुङ्गं
व्रजति शशधरो ऽस्तं वारयेद् अद्य कस् तम्
सुमुखि! नयन-मुद्रां मुञ्च निर्धूय निद्रां
कलय वदन-मासां विद्युद् उद्द्योत-भासाम्
रति-विगलित-भूषां व्यस्त-पर्यस्त-वेषां
विलुलित-तनुम् एतास् त्वां भजन्तां समेताः
निज-कर-परिपुष्टा पश्य सेयं प्रविष्टा
शशि-मुखि! ललिताङ्गी सन्निधौ ते कुरङ्गी
कुरु स-कृपम् अपाङ्गे किञ्चिद् अञ्चत्-तरङ्गे
भवतु बत कृतार्था प्रीतये ते समर्था
नव-किशलय-बुद्ध्या जातितो ऽन्तर् विशुद्ध्या-
रुण-पद-कमलं ते स्वादितुं कृष्ण-कान्ते!
त्वरितम् उपसरन्ती त्वत्-सखीनां वहन्ती
कर-सरसिज-घातं या विधत्ते प्रयातम्
शशि-मुखि! तव फेला-मात्र-भोगे सखेला
तव पद-जल-पानामोद-मात्रावधाना
अपि भवद् अवलोकाभाव-सञ्जात-शोका
तव मुख-शशि-बिम्बालोक-मात्रावलम्बा
हरिर् अतिकुतुकी ते नेत्र-युग्मं मिमीते
नयन-युगम् अमाय-प्रेम यस्याः प्रमाय
किम् अपि विमल-मुक्ता-मालया चारु-वक्ता
नियतम् उपमिमानः संशयं निर्धुनानः
इति निगदितवत्यः शारिकाः प्रेमवत्यः
सुखद-पद-पदार्थां वाचम् उत्थापनार्थाम्
यदि किम् अपि विरेमुः पत्रिणस् तं प्रणेमुः
समुपसृत-निकुञ्जाः प्राप्त-सम्मोद-पुञ्जाः
अथ शयन-सतृष्णं बोधयामास कृष्णं
विततिर् अपि शुकानां कृष्ण-हर्षोत्सुकानाम्
श्रवण-सुखद-सौम्यैः स्निग्ध-शब्दार्थ-रम्यैः
सरसतरम् अनल्पैः कूजितैः सीधु-कल्पैः
प्रणय-रस-गभीराश् चारु-शब्दार्थ-धीराः
कल-सुमधुर-कण्ठाः प्रेम-जल्पेष्व् अकुण्ठाः
सति समय-विवेके बोधयां चक्रुर् एके
न खलु बत विदग्धाः कार्य-काले विमुग्धाः
सुभग! रजनि-शेषे स्वाप-गेहे सुशेषे
त्वम् इति हि जननी ते संशयं स्वं धुनीते
समयम् अथ विदित्वा जागरार्थं त्वरित्वा
स्वयम् इयम् उपगन्त्री स्नेह एवात्र मन्त्री
त्वम् असि समय-वेत्ता सर्व-दुःखैक-भेत्ता
भवसि भुवन-बन्धुः सद्-गुण-ग्राम-सिन्धुः
व्रतति-भवन-तल्पं मूर्तिमन्-मोद-कल्पं
यद् अपि तद् अपि मुञ्च स्वस्ति तेऽस्माद् उदञ्च
मद-मधुप-युवानः प्राप्त-दोषावसानः
च्युत-कुसुम-वनान्तः स्वापम् उद्यातवन्तः
दधति कतिपयथ्यां केलिम् अम्भोज-वीथ्यां
सति समय-विवेके के विमुह्यन्ति लोके?
क्वचन मुख-विषादः क्वापि हास-प्रसादः
क्व च दयित-वियोगः क्वापि कान्तस्य योगः
कुमुद-कमल-वीथ्योर् वैसदृश्येऽतितथ्ये
भवति किम्-उ न कालः क्षोभ-शोभा-विशालः
जय सुभग! नमस् ते श्रूयतां सत्वरस् ते
चिर-शयन-सपीडः कौत्य् अयं ताम्र-चूडः
उपनत-निज-सेवा-काल-सम्मोद-पीवा
नहि समय-विदग्धः कार्य-काले विमुग्धः
अथ प्रबुध्यैव विधूय पक्षान्
ग्रीवाः समुन्नीय चुकूजुर् उच्चैः
यत् कुक्कुटाः पञ्च-ष-वारम् आदौ
राधा जजागार तदाप्त-बाधा
कृष्णाण्ग-संश्लेष-विशेष-वाधिनस्
तान् एव मत्वेति शशाप सा रुषा
अरे! परेताशु परेत-रा पुरं
तत्रैव किं कूजत नो पदायुधाः?
विश्लिष्य किञ्चित् प्रिय-वक्षसः सा
तूष्णीं स्थितांस् तान् उपलभ्य सद्यः
संश्लिष्य कान्तं दर-निद्रयैव
निषेव्यमाणा पुनर् अप्य् अराजीत्
जालाद् अथो दृक्-सफरी तद्-आलयो
लावण्य-वन्या भृशम् अन्वशीलयन्
क्रीणन्ति याः प्राण-परार्द्ध-कोटिभिस्
तयोः प्रमोदोत्थ-रुचि-च्छटा-कणम्
ऊचे विशाखा कलयालि! कान्तौ
निरंशुकाव् अंशुक-पुञ्ज-मञ्जू
विहारिणाव् अप्य् अतिहारिणौ स्वैर्
अङ्गैर् अनङ्गैर् अलसौ लसन्तौ
अनङ्गदौ केलि-वशाद् अनङ्गदौ
निरञ्जनौ हन्त मिथो निरञ्जनौ
विस्रस्त-रागाधरताभिलक्षितौ
विप्रस्तरागाधरताभिलक्षितौ
अथावभाषे ललिताऽवधार्यतां
जयः स्मराजौ कतराश्रितो द्वयोः
बभूव दष्टाधरयोः कच-ग्रह-
व्याक्षिप्त-मूर्ध्नोर् नखर-क्षतोरसोः
हृदो ऽनुरागं कुच-कुङ्कुम-च्छलान्-
न्यधत्त राधाच्युत-पाद-पद्मयोः
यावद् रवारक्त-तरालको दधौ
मूर्ध्नैव सो ऽस्याः पदयोस् तम् उज्ज्वलम्
इत्थं क्षणं तावद् अलक्षिताङ्ग्यो
नीचैः स्वरं ताव् अनुवर्णयन्त्यः
भाग्यं स्वम् एवातिसभाजयन्त्यो
ममज्जुर् आनन्द-महोदधौ ताः
ततः पुनस् तान् अथ इ इभादी-
नूत्कूजतः प्राह विधूत-तन्द्रा
हंहो! क्षमध्वं शयितुं क्षणं मे
दत्तेति सा मो अयद् अङ्गम् ईषत्
कादम्ब-कारण्डव-हंस-सारसाः
कपोत-शारी-शुक-केकि-कोकिलाः
जगुः कलं केलिवनी-जल-स्थल-
प्रचारिणः कृष्ण-कथामृतोपमम्
प्रबुद्ध्य कान्तौ युगपद् यथा रुजं
विश्लेषजाम् ऊहतुर् अङ्ग-मो अनात्
चाम्पेय-नीलाब्ज-धनुस् त्विषौ तथा
सान्द्रोपगूहेन मुदं च वक्षसोः
अथास्या वयस्याः प्रमोदात् स्मितास्याः
सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः
सशङ्काः समन्तात् प्रभाताद् दुरन्तात्
प्रविष्टा निकुञ्जं सशब्दालि-पुञ्जम्
अभिलक्ष्य सखीर् विहसद्- वदनाः
सविधोपगता विचलन्-नयनाः
दयिताय मुदं द्विगुणं ददती
दयितोरुयुगाद् उदतिष्ठ-दियम्
त्वरोत्थिता सम्भ्रम-संगृहीत-
पीतोत्तरीयेण वपुः पिधाय
पार्श्वे प्रियस्योपविवेश राधा
सलज्जम् आसां मुखम् ईक्षमाणा
अथानुरक्ताल्य् अनुमोदनाञ्चिता
मुदा तयोर् ऐधत रूप-मञ्जरी
सैव स्वयं केलि-विलासिनोर् द्वयोस्
तदात्व-रम्यापचितौ पटीयसी
पृष्ठोपधानं निदधे कयाचन
प्यधाद् अथान्या मृदुलांशुकेन तौ
पीयूष-व य्-आर्पितयास्ययोः परा
निरस्य घूर्णां विकसद् दृशौ व्यधात्
काचित् प्रसूनाम्बु-दरार्द्र-वाससा
व्यत्यस्त-रागाञ्जन-यावकादिकम्
मृष्ट्वा प्रतिस्वेक्षण-सिद्धये तयोर्
मुख-द्वयं दर्पणतां निनाय किम्
ताम्बूल-वी ईर् निदधे परास्मिन्न्
एका प इम्ना मणि-दीप-पाल्या
तन्-मङ्गलारात्रिकम् आशु चक्रे
नीराजयन्त्य् एव निजासु-लक्षैः
मध्येऽच्युताङ्ग-घन-कुङ्कुम-पङ्क-दिग्धं
राधाङ्घ्रि-यावक-विचित्रित-पार्श्व-युग्मम्
सिन्दूर-चन्दन-कणाञ्जन-बिन्दु-चित्रं
तल्पं तयोर् दिशति केलि-विशेषम् आभ्यः
प्रम्लिष्ट-पुष्पोच्चय-सन्निवेशां
ताम्बूल-रागाञ्जन-चित्रिताङ्गीम्
व्यक्तीभवत्-कान्त-विलास-चिह्नां
शय्याम् अपश्यन् स्वसखीम् इवाल्यः
क्वचन घुसृण-पङ्कः क्वापि सिन्दूरजो ऽङ्कः
क्षत-विरह-विपक्ष-प्रस्नुतासृक्-सपक्षः
क्वचन कुसुम-दाम-च्छिन्न-कोदण्ड-धाम
क्व च विलुलित-हारश् छिन्न-मौर्वी-प्रकारः
क्वचन मृगमदाङ्काः कुत्रचित् कज्जलाङ्काः
स्मर-नरपति-दन्ति-च्छेद-कल्पाः स्फुरन्ति
स हि रतिरण-रङ्गः कौतुकोद्यत्-तरङ्गः
समजनि सुमुखीनाम् आगतानां सखीनाम्
वक्षः स्वं दर्शयंस् ताभ्यो
दृग् भङ्ग्योवाच ता हरिः
दिदृक्षुः स्वप्रिया-वक्त्र-
भाव-शाबल्य-माधुरीम्
विधुं प्रयास्यन्तम् अवेक्ष्य कान्तं
विश्लेष-भीतोषसि पश्यताल्यः
दिदृक्षयेवाम्बर-चित्र-प यां
राधेन्दुलेखा-शतम् आलिलेख
इति निगदति कृष्णे वीक्ष्य साग्रे वयस्याः
प्रहसित-वदनास् ताः सङ्कुचल् लोल-नेत्रा
विकसद् अमल-गण्डं दोलितारेचित-भ्रूः
प्रियम् अनृजु-कटाक्षैः पश्यति स्म घ्नतीव
हेलोल्लासादर-मुकुलिता वास्प-सान्द्रारुणान्ता
लज्जा-शङ्का-चपल-चकिता भङ्गुरेर्ष्याभरेण
स्मेर-स्मेरा दयित-वदनालोकनोत्फुल्ल-तारा
राधा-दृष्टिर् दयित-नयनानन्दम् उच्चैर् व्यतानीत्
इत्थं मिथः प्रेम-सुखाब्धि-मग्नयोः
प्रगेतनीं विभ्रम-माधुरीं तयोः
निपीय सख्यः प्रमदोन्मदास् तदा
तदात्व-योग्याचरणं विसस्मरुः
विलोक्य लीलामृत-सिन्धु-मग्नौ
तौ ताः सखीश् च प्रणयोन्मदान्धाः
वृन्दा प्रभातोदय-जात-शङ्का
निजेङ्गित-ज्ञां निदिदेश सारीम्
गुरु-लज्जा-भर्तृ-भीति-
लोक-हास-निवारिका
शुभाख्या सारिका प्राह
राधिका-बोध-साधिका
आगन्ता ग्राहयित्वा तव पतिर् अधुना गोष्ठतः क्षीर-भारान्
उत्तिष्ठोत्तिष्ठ राधे तद् इह कुरु गृहे मङ्गलां वास्तु-पूजाम
इत्थं यावद् धवाम्बा तव नहि शयनाद् उत्थिता वावदीति
तावच् छय्या-निकेतं व्रज सखि निभृतं कुञ्जतः कञ्ज-नेत्रे!!
शङ्का-पङ्का-कलित-हृदया शङ्कतेऽस्या धवाम्बा
छिद्रान्वेषी पतिर् अतिक उः सार्थनामाभिमन्युः
रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा
प्रातर्-जातं तद् अपि सरलां कृष्ण नैनां जहासि
सारी-वचो-मन्दर-शैल-पात-
संक्षुब्ध-हृद्-दुग्ध-पयोधिर् एषा
अथोद्भ्रमन् नेत्र-नवीन-मीना
वियोग-दीना शयनाद् उदस्थात्
कृष्णो ऽपि कान्तं वृषभानु-जायाः
पश्यन् मुखं भीति-विलोल-नेत्रम्
नीलं सुचीनं दयिता-निचोलं
गृह्णन् स्वतल्पात् त्वरयोदतिष्ठत्
परिवर्तित-संव्यानौ
मिथस् ताव् अथ शङ्कितौ
परस्पर-करालम्बौ
निरगातां निकुञ्जतः
राधा-पाणिं सव्येऽसव्ये
पाणौ बिभ्रद् वेणुं कृष्णः
रेजे कुञ्जान् निर्यन् यद्वद्
विद्युन्-मालाश्लिष्टाम्भोदः
हैमं भृङ्गारम् एका व्यजनम् अथ परा स्वर्ण-दण्डं दधाना
काप्य् आदर्शं सुदर्शं घुसृण-मलयजाऽमत्रम् अन्या विचित्रम्
काचित् ताम्बूल-पात्रं मणि-चितम् अपरा सारिकां पञ्जरस्थाम्
इत्थं सख्यः कियत् याः प्रमुदित-हृदया निर्ययुः कुञ्ज-गेहात्
माहेन्द्र-कान्त-च्छदनं सकाञ्चनं
दान्तं ससिन्दूर-समुद्गकं परा
आपन्न-सत्वा-कुच-कु मलोपमं
कुञ्जाद् गृहीत्वा निरगान् मृदु-स्मिता
आश्लेष-सञ्छिन्न-गुणात् परिच्युतं
हाराल् लसन्-मौक्तिक-सञ्चयं मुदा
विचित्य काचित् स्वप आञ्चले दृढं
निबध्नती कुञ्ज-गृहाद् विनिर्ययौ
ता अङ्कं केलि-विभ्रष्टं
तल्पाद् आदाय सत्वरा
निर्गत्य स्वेश्वरी-कर्णे
युयोज रति-मञ्जरी
तल्प-प्रान्ताद् उपादाय
कञ्चुलीं रूप-मञ्जरी
प्रियनर्म-सखी सख्यै
निर्गत्य निभृतं ददौ
पतद्ग्राहम् उपादाय
दासिका गुण-मञ्जरी
ताम्बूलं चर्वितं ताभ्यो
विभजन्ती बहिर् ययौ
मञ्जुलाली तयोर् अङ्गाच्
च्युत-माल्यानुलेपनम्
तल्पाद् आदाय सर्वाभ्यः
प्रयच्छन्ती विनिर्गता
विलोक्याग्रे मेघाम्बर-वृत-शरीरं प्रियतमं
वयस्यां तां पीताम्बर-परिवृताङ्गीं प्रमुदिताम्
हसन्त्यस् ताः सख्यः कर-पिहित-मुख्यः प्रतिदिशं
दिशन्त्यश् चान्योन्यं कु इल-चल-दृग्भिर् मुमुदिरे
समीक्ष्य तासां परिहास-भङ्गीम्
अन्योन्य-वक्त्रार्पित-फुल्ल-नेत्रौ
समुच्छलत्-प्रेम-सुखाब्धि-मग्नौ
चित्रार्पिताङ्गाव् इव ताव् अभूताम्
घनश्यामं चीनं वसनम् अभिलीनं प्रिय-तनौ
क्षमा नासीत् कान्ता स्वम् अपि परिचेतुं घन-रुचौ
स्वम् अज्ञासीत् स्फीतं हरिर् अपि न पीतं प्रियतमा-
तनौ लीनं चीनं कनक-रुचि कम्बाव् इव पयः
तयोर् लीला-सुधा-पान-
प्रत्यूहामर्ष-सङ्कुला
निन्दन्त्य् अरुणम् उद्यन्तम्
अथाह ललिता सखीम्
ऊषसि वर-वधूनां पश्य राधेऽरुणो ऽयं
रमण-सहित-लीला-भङ्गतः पाप-रुग्भिः
गलित-पद-युगो ऽप्य् अद्यापि तन् नो जहाति
ध्रुवम् इति वचनं यद्-दुस्त्यजः स्व-स्वभावः
अरुणारुणे निदधती ततो ऽम्बरे
रति-केलि-भङ्गज-रुषाऽरुणां दृशम्
ललितोपहास-जनित-स्मितानना
वृषभानुजाह मृदु-मञ्जुभाषिणी
अनूरुर् अप्य् अस्तमयन् क्षणार्द्धान्
नभो विलङ्घ्योदयम् एति सो ऽयम्
चेत् सोरुम् एनं स विधिर् व्यधास्यद्
वार्त्तापि रात्रेर् न तदाभविष्यत्
मनोरमां वीक्ष्य विभात-लक्ष्मीं
निपीय तस्या वचनासवं च
मुदोन्मना विस्मृत-गोष्ठ-यानः
प्राणेश्वरीं ताम् अवदन् मुकुन्दः
इनं प्रभातोपगतं समीक्ष्य
कान्तेव कान्तान्तर-भुक्त-कान्तम्
पश्यान्य-दिक्-सङ्ग-कषायिताङ्गं
प्राचीयम् ईर्ष्यारुणितेव जाता
पश्योन्मत्ते द्विजेशो ऽप्य् अखिल-जन-तम-स्तोम-हन्तापि शान्तः
कान्तो ऽयं ते समन्तात् सपदि निपतितो वारुणीं संनिषेव्य
इत्थं स्वीयेन-सङ्ग-प्रमुदित-नलिनी-हास-सञ्जात-लज्जा
शङ्के वक्त्रं पिधत्ते ह्य् उषसि कुमुदिनी सङ्कुचद्भिर् दलैः स्वैः
दृष्ट्वा तमः-क्षयम् अमी विधुनान्यपुष्टा
नक्तं तमश्-चय-निभाश् चकिताः प्रभाते
मित्रं तद्-आश्रयतया तमसा चरन्तीं
ग्रस्तं कुहूर् इति कुहूं स्वगिराह्वयन्ति
वसन्त-कान्त-संसर्ग-
जातानन्द-भरा अवी
कपोती-घूत्कृति-मिषात्
शीत्करोतीव सोन्मदा
पश्यानुसरति चञ्चल-भृङ्गः
कैरविणी-कुल-केलि-पिशङ्गः
नलिनी-कोषे निशि कृत-सङ्गां
भृङ्गीं शशिमुखि! कृत-नतिभङ्गाम्
कान्तम् आयान्तम् आशङ्क्या-
रुणांशु-द्विगुणारुणम्
कोकी कोक-नदं चञ्च्वा
चुम्बत्य् आनन्द-विह्वला
कलस्वनाख्यः कलकण्ठि! हंसः
समीक्ष्य नौ सम्मद-फुल्ल-पक्षः
रिरंसुम् अप्य् एष विसृज्य हंसीं
त अं त इन्याः पुरतः समेति
स्वसहचर-विसृष्टं स्वामिभुक्तं मृणालं
मदकल-कलकण्ठी विभ्रती पश्य चञ्च्वा
रमणम् अनु समेति त्वन् मुखाब्जार्पिताक्षी
सरसिज-मुखि नाम्ना तुण्डिकेती मराली
मलय-शिखर-चारी पङ्कजामोद-धारी
व्रतति-न अ-कुमारी-लास्य-शिक्षाधिकारी
वहति जल-विहारी वायुर् आयास-दारी
स रमण-वर-नारी-स्वेद-जालापहारी
इतीशयोः सुमधुर-वाग् विलासयोः
समीक्ष्य तां स्वभवन-यान-विस्मृतम्
सखीश् च ताः स्मित-रुचिरा मुदोन्मदा
वनेश्वरी दिवस-भियास सोन्मनाः
कान्ता उदीयुर् विकसन् मुखेन्दवो
रात्रिर् गता चास्तम् अपास्त-चन्द्रिका
विलास-भङ्गः कथम् अस्तु नास्तु वा
क्षणं हृदैवेति पराममर्श सा
तमांस्य नश्यन्न् अभितो यथा यथा
तदा प्रकाशश् च यथा यथैधत
तथा तथा हृद्-रुजम् एव सान्वभूद्
व्रजस्य रीतिं श्रुतयो ऽपि नो विदुः
अथ वृन्देङ्गिताभिज्ञा
समय-ज्ञा तरु-स्थिता
पद्यम् उद्योतयामास
कक्ख ई वृद्ध-मर्क ई
रक्ताम्बरा सतां वन्द्या
प्रातः-सन्ध्या तपस्विनी
ऊर्ध्व-प्रसर्पद् अर्कांशुर्
जटिलेयम् उपस्थिता
आकर्ण्य ताभिर् जटिलेति वर्ण-
त्रयीं विवर्णत्वम् अधारि सद्यः
विलास-रत्नाकरम् उद्भवन्ती
शङ्कैव तासां चुलुकी-चकार
पथि पिशुन-मतिभ्यः शङ्कमानौ गुरुभ्यः
चल-चकित-तरङ्गौ निक्षिपन्ताव् अपाङ्गौ
परम-गुण-गभीरौ काम-संग्राम-धीरौ
ययतू रति-वितन्द्रौ राधिका-कृष्णचन्द्रौ
न पथि न भवने वा लक्षितौ तौ वने वा
सहज-सद्-अनुरक्त्या स्वीययानन्द-शक्त्या
परिजन-नयनानाम् उत्सवानादधानाव्
अथ पथि विहरन्तौ रेजतुर् लोक-कान्तौ
भ्रश्यद् दुकूल-चिकुर-स्रजम् उन्नयन्तौ
भीतौ पृथग् गहन-वर्त्मनि चापयान्तौ
तौ वीक्ष्य भीति-तरलौ जटिलेति नाम्ना
सख्यस् ततस् तत इतश् चकिता निरीयुः
वामे चन्द्रावलि-परिजनान् घोष-वृद्धान् पुरस्तात्
कृष्णः पश्चात् कु इल-जटिलाम् आगतां मन्यमानः
यान्तीं कान्तां सभय-चटुलां दक्षिणे द्रष्टुम् उत्कश्
चञ्चद्-ग्रीवं दिशि दिशि दृशौ प्रेरयन् गोष्ठम् आयात्
म्लानाम् उत्क्षिप्य मालां त्रु इत-मणिसरः कज्जलं विभ्रद् ओष्ठे
संकीर्णाङ्गो नखाङ्कैर् दिशि दिशि विकिरन् घूर्णिते नेत्र-पद्मे
पश्य म्लानाङ्ग-यष्टिः स्फुटम् अपरिचितो गोप-गोष्ठीभिर् अग्रे
गोष्ठे गोष्ठेन्द्र-सूनुः प्रविशति रजनौ ध्वंसम् आसादयन्त्याम्
अनुगता जटिलेत्य् अभिशङ्किनी
गुरु-नितम्ब-कुचोद्वहनाकुला
द्रुत-विलम्बित-वल्गु ययौ व्रजं
कर-धृताम्बर-केशचयेश्वरी
न व्यालाद् अपि सम्बिभेति पुरतः स्थाणोर् यथा दूरतो
नोद्विग्ना करि-गर्जिताद् अपि यथा काकावली-निस्वनात्
नैवेयं तिमिरेऽपि मुह्यति-तरां कामं प्रकाशे यथा
तन् मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा
भयानुरागोच्चय-धूम्र-लोल-दृक्-
तिरस्-करिण्या पिहिते मनोरथे
निजे निवेश्यैव हि रूप-मञ्जरी
गृहं निनीषुः पथि तां तद् अन्वयात्
इतस्-ततः क्षिप्त-चलेक्षणाशुगैर्
भी-दुस्थ-हृद्-वृत्ति-चयैर् भ ऐर् इव
अग्रेसरैस् तां रति-मञ्जरी च सा
निवारयन्त्य् अन्य-जनांस् तदान्वयात्
ताभिर् वृता व्रज-जनैर् अविलोकितैव
वेश्म प्रविश्य निज-तल्पम् अथाध्यतिष्ठत्
प्रेयो-वियोग-विधुरा हि सखीम् अथासौ
हृद्-वेदनां प्रकटम् आह सगद्गदाश्रु
निःसार्य गेहाल् ललितेऽधुनैव मां
प्रवेशयस्य् अप्य् अधुनैव तत् पुनः
कृष्णाङ्ग-सङ्गामृत-सिन्धु-मज्जन-
प्रलोभनैवाद्य वृथा कृता त्वया
अस्ताचलं यन्न् अधुना व्यलोकि यः
स तिग्म-रश्मिः सखि! पूर्व-पर्वतम्
आरोढुम् आकाङ्क्षति किं विभावरी
ख-पुष्पताम् अद्यतनी जगाम किम्?
धिङ् मे श्रुतिं धिग् रसनां दृशं च धिक्
सदातनौत्कण्ठ्य-भर-ज्वरातुरम्
प्रापुर् न पातुं लवम् अप्य् अमुष्य याः
सौस्वर्य-सौरस्य-सुरूपतामृतम्
निर्वेद-पद्धतिम् अपीप हद् एव पूर्वं
योगो ऽधुना तु सरले भवतीं वियोगः
आद्यो ऽच्युतामृतम् अदर्शयद् अर्थम् अस्या
अन्यो ऽनुभावयति हा क उ-कालकू अम्
इत्थं सखी-गिरम् अपि प्रतिबोद्धुम् एषा
नैवानुराग-पर-भागवती शशाक
स्वप्ने पुनः कलयितुं हृदयाधिनाथं
सुष्वाप साऽथ शयने वृषभानु-पुत्री
अनभिसारिकां काञ्चित् पृच्छन्तीं प्रति काचिद् आह-
स्रस्तं स्रस्तम् उदञ्चयत्य् अधिशिरः श्यामं निचोलाञ्चलं
हस्तेन श्लथ-दुर्बलेन लुलिताकल्पां वहन्ती तनुम्
मुक्तार्धाम् अवरुध्य वेणिम् अलस-स्यन्दे क्षिपन्ती दृशौ
कुञ्जात् पश्य गृहं प्रविश्य निभृतं शेते सखी राधिका
निर्वर्त्य विभ्रम-भरं समये स्वधाम्नि
सुप्तेऽच्युते प्रतिलयं श्रुतयो यथेशम्
लीला-वितान-निपुणाः सगुणाः समीयुः
सख्यो ऽपलक्ष्य-गतयः सदनं यथा-स्वम्
मूल पाठ: Bhāvanāsārasaṃgraha 1-2 · Data entry Hari Charan Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0