भारतमञ्जरी · अध्याय 19
इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्वर्गपर्व
हरिवंश
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
मुनिः पुनातु वो व्यासः सदा संनिहिता सुखे ।
त्रिमार्गगा मधुमती यस्य शुद्धा सरस्वती
शौनकेन पुनः पृष्टो नैमिषे लौमहर्षणिः ।
अभ्यधादद्भुतं भूमौ संभवं कैटभद्विषः
आकर्ण्य भारतकथां प्रहृष्टो जनमेजयः ।
अपृच्छद्वैष्णवं वंशं वैशम्पायनमादरात्
स पृष्टः पृषुवंशेन पार्थिवेन कथां हरेः ।
जगाद जगतां हेतुं प्रणम्य प्रयतः प्रभुम्
अप एवासृजत्पूर्वं भगवान्विष्णुरव्ययः ।
तासु वीर्यं नराख्यासु येन नारायणः स्मृतः
तदण्डमभवद्वैमं यस्मिञ्जातः प्रजापतिः ।
असृजन्मनुमुख्यांश्च कर्दमाद्यान्प्रजापतीन्
दक्षं च सर्वभूतानि यस्य दौहित्रसंततिः ।
पृथक्पृथक्च राज्यानि सोमादिनामकल्पयत्
कदाचिदत्रिवंशस्य सुतो ऽङ्गस्य प्रजापतेः ।
मृत्युपुत्र्यां सुनीथायां जातः स्थितिविलोपकृत्
स्वर्वो नामाभवद्राजा किल्बिषात्कलुषाशयः ।
प्रजानां विधिवैमुख्यान्मूर्तिमानिव विप्लवः
अनुनीतो ऽपि बहुशः स यदा नाभवद्वशी ।
तदा निगृह्यातिबलं मुनयस्तमपातयन्
ममन्थुरस्य ते सव्यमूरुं क्रोधानलाकुलाः ।
ततः समुदभूत्स्वर्वो नरः कृष्णो भयाकुलः
निषीदेत्यत्रिणोक्तो ऽसौ निषादजनको ऽभवत् ।
ततो ममन्थुर्मुनयः पाणिं वेनस्य दक्षिणम्
ताम्राङ्गुलिदलात्पाणिकमलादुदभूत्ततः ।
पितामह इव श्रीमान्पृथुः पृथुललोचनः
धनुराजगवं तस्य विबिभौ हेमवर्षिणः ।
निजज्वालावली धाम दीप्तस्येव विभावसोः
तत्प्रसादाद्दिवं याते वेने वैन्यो ऽथ भूभुजाम् ।
आद्यो रत्नाकरैरेत्य रत्नौरभ्यर्चितः स्वयम्
जले शैले च तस्याभूदभग्नप्रणया गतिः ।
तं तुष्टुवुर्नवोत्पन्नाः सूतमागधबन्दिनः
प्रजानां वृत्तये भूमिस्तेनादिष्टा तरस्विना ।
भीता दुद्राव गौर्भूत्वा धन्वी तामाद्रवत्स च
सा लोकान्ब्रह्मलोकान्तानशेषान्विद्रुता जवात् ।
तमेवात्तायुधं पश्चादपश्यद्वलितानना
परित्राणमपश्यन्ती सा तमूचे कृताञ्जलिः ।
कोपं जहि महीपाल योषितं परिरक्ष माम्
विना धरित्रीं तिष्ठन्ति प्रजानाथ कथं प्रजाः ।
इति श्रितिवचः श्रुत्वा वीतकोपो ऽब्रवीन्नृपः
प्रजावृत्तिनिमित्तो ऽयं समारम्भो मम त्वियि ।
बहूनां प्राणरक्षार्थमेकहिंसा प्रशस्यते
विस्तार्य स्वयमात्मानं धारयिष्याम्यहं प्रजाः ।
न चेद्वितर लोकानां वृत्तिं पुत्री च मे भव
इति क्षितिभुजादिष्टा जगाद जगती नता ।
अहं वृत्ति विधास्यामि प्रजानां त्वत्सुता सती
देशान्समीकुरु विभो शिलाकूटविशङ्कटान् ।
सर्वस्यापि भवत्येतद्यथा क्षीरं स्त्रुंत माय
निशम्यैतत्पृथुयशाः पृथुः पृथुशिलोच्चयान् ।
पृथक्चक्रे धनुष्कोट्या सुस्पष्टा येन भूरभूत्
ततः सस्यानि पृथिवीं स्वनामाङ्कां दुदोह सः ।
मनुं स्वायंभुवं वत्सं कृत्वा करपुटोदरे
श्रूयते मुनिभिर्दुग्धा तपो ब्रह्म च बूः पुरा ।
वत्सः सोमो गुरुर्देग्धा पात्रमासीच्च काञ्चनम्
रूप्यपात्रे च पितृभिर्दुग्धेयं वसुधा सुधाम् ।
यमं वत्सं समादाय तथा दोग्धारमन्तकम्
अलाबुपात्रे नागैश्च विषं दुग्धा बलप्रदम् ।
धृतराष्रं च दोग्धारं कृत्वा वत्सं च तक्षकम्
असुरैरायसे पात्रे मायां दुग्धा वसुंधरा ।
वत्सस्तदाभूत्प्रह्लादो दोग्धा च दनुजो मधुः
यक्षैरपि पुरा दुग्धा वत्सं कृत्वा धनेश्वरम् ।
अन्तर्धानकरं क्षीरमामपात्रे भयंकरम्
रुधिरं राक्षसैर्दुग्धा वत्सकेन सुमालिना ।
पद्मपात्रे शुभान्गन्धान्दुग्धा गन्धर्वकिंनरैः
पर्वतैर्मेरुमादाय दोग्धारं शैलभाजने ।
रत्नौषधिगणान्दुग्धा वत्सं कृत्वा हिमालयम्
वृक्षैः पालाशपात्रे च दुग्धा पुष्पं फलं ततः ।
दोग्धृत्वमगमत्सालस्तदा प्लक्षश्च वत्सताम्
सर्वदा सर्वदा भूमिरित्येवं शासनात्पृथोः ।
आदिराजस्य जयिनः कर्म यस्यैतदद्भुतम्
***** पृथिवीदोहः ॥ 1 ॥ *****
श्रुत्वेति वैन्यचरितं विस्मितो जनमेजयः ।
मुनिं मन्वन्तरकथामपृच्छत्सो ऽप्यभाषत
स्वायंभुवो मनुः पूर्वमभूत्सप्तर्षयस्तदा ।
मरीच्यत्रिपुलस्त्याद्या ........
........ ........ ।
........ देवाश्च तुष्टिताभिधाः
औत्तमाख्यस्तृतीयो ऽभून्मनुः सप्तर्षयस्तदा ।
वसिष्ठपुत्रास्तस्यासन्नृभवश्च दिवौकसः
तामसो ऽभून्मनुस्तुर्यो यस्य सप्तर्षयो ऽन्तरे ।
बभूवुः पृथुगार्ग्याद्याः सभ्याश्च त्रिदिवौकसः
रैवतः पञ्चमो ऽप्यासीन्मनुः सप्तर्षयस्तदा ।
वेदबाहुमुखाश्चासन्नभूतरजसः सुराः
चाक्षुषो ऽथ मनुः षष्ठो भृगुमुख्या यदन्तरे ।
अभवन्सप्त मुनयो लेखसंज्ञास्तथामराः
एतेषु बहुपुत्रेषु षट्सु यातेषु सांप्रतम् ।
वर्तते सप्तमः श्रीमानद्य वैवस्वतो मनुः
कश्यपो ऽत्रिर्वसिष्ठश्च भारद्वाजो ऽथ गौतमः ।
कौशिको जमदग्निश्च सप्तैते ऽद्य महर्षयः
साश्विरुद्राश्च मरुतो वस्वादित्याश्च देवताः ।
इक्ष्वाकुप्रमुखाश्चास्य मनोः पुत्रा महीभुजः
सावर्णो ऽथ मनुर्भावी तस्य सप्तर्षयो ऽन्तरे ।
रामव्यासकृपात्रेयद्रौणिगालवकाश्यपाः
चत्वारो मेरुसावर्णा भाविनो मनवः परे ।
तेषां नव नवाश्चान्ये ते ते सप्तर्षयः क्रमात्
रोच्यो नाम मनुः षष्ठो भौत्याख्यः सप्तमो मनुः ।
चतुर्दशैते मनवो येभ्यो मन्वन्तराः क्रमात्
चतुर्युगानां पूर्णानां साग्राणामेकसप्ततिः ।
मन्वन्तराणां प्रत्येकमेष संख्याकृतो ऽवधिः
चतुर्दशसु यातेषु तेषु मन्वन्तरेष्वथ ।
कल्पक्षये जगद्विष्णोरन्तः सर्वं प्रलीयते
पुनश्च भवतीत्येवं चक्रवत्परिवर्तते ।
कल्पसंक्षयलक्षाणामनादिनिधना गतिः
सांप्रतस्य मनोस्तावदस्मिन्वैवस्वते ऽन्तरे ।
हरिवंशप्रसङ्गेन श्रूयतामथ संभवः
***** मन्वन्तरवर्णनम् ॥ 2 ॥ *****
आदित्यः कश्यपाज्जातो विवश्वान्महसां निधिः ।
उग्ररूपो ऽभवद्धोरदीप्तिसंतानसंचयः
दिष्टया नायं मृतो ऽण्डस्थः प्रवृद्धेन स्वतेजसा ।
स्नेहादित्युदितः पित्रा मार्तण्ड इति विश्रुतः
संज्ञा नामाभवत्तस्य लावण्यनलिनी प्रिया ।
बहुकौतुकनिर्मातुः पुत्री त्वष्टुः प्रजापतेः
तस्यामजीजनत्पुत्रं श्राद्धदेवं मनुं रविः ।
यमं कन्यां च यमुनां यमलत्वात्कृताभिधौ
तीक्ष्णांशोरथ तद्रूपं विकृतं घोरतेजसः ।
न सेहे धृतिधैर्यापि संज्ञा कान्तिकुमुद्वती
तुल्यरूपां निजच्छायां मायायोगविनिर्मिताम् ।
सा धृत्वा स्वपतेर्गूढं जगाम जनकान्तिकम्
पत्युः समीपं गच्छेति निरस्ता तेन मानिना ।
लज्जिता वडवा भूत्वा प्रययावुत्तरान्कुरून्
ततः संज्ञासवर्णायां सावर्णाख्यः परो मनुः ।
रवेरज्ञातवृत्तस्य च्छायायामभवत्सुतः
शनैश्चरो द्वितीयश्च स्नेहमभ्यधिकं तयोः ।
छाया चकार वात्सल्यान्न तथापरपुत्रयोः
क्षमी ज्येष्ठो मनुः सेहे तद्यमस्तु न चक्षमे ।
बाल्यात्तेनाहता दैवाद्बालेन जननी पुरा
सा तं शशाप कुपिता चरणास्ते पतन्त्विति ।
तच्छ्रुत्वा शङ्कितो भास्वान्कोपात्तां शप्तुमुद्यतः
गत्वा त्वष्टुर्गृहं तूर्मं संज्ञावृत्तान्तमभ्यधात् ।
तेजस्तवैतदत्युग्रं संज्ञा न सहते सती
प्रच्छन्नं तत्र वडवा वने चरति शाद्वलम् ।
इति त्वष्टुर्गिरा ज्ञात्वा तेनैवारोपितो भ्रमम्
अशातयन्निजं तेजो दयितादर्शनोत्सुकः ।
तेजसा तेन विदधे त्वष्टा चक्रं सुदर्शनम्
दैत्यान्धकारसंहारसहायं कैटभद्विषः ।
ततः कमलिनीकान्तः कान्तरूपो दिवाकरः
गत्वा ददर्श विपिने वडवारूपिणीं प्रियाम् ।
तत्र तेन विवेष्टन्ती ह्यक्रान्ता हयरूपिणा
परावृत्तमुखैवासीत्परसंस्पर्शशङ्कया ।
ततो विवस्वतो वीर्यं नासिकाथूत्कृतेन सा
तत्ससर्ज यतो जातौ नासत्यावश्विनौ यमौ ।
अथ संज्ञा परिज्ञाय सौम्यं देवं दिवाकरम्
निजरूपवती प्रायाद्गृहं तदनुयायिनी ।
मनुः प्रजापतिससीत्पितॄणामधिपो यमः
त्रिदशानां च भिषजावश्विनौ यमुना सरित् ।
भावी प्रजापतिश्चान्यः सवर्णातनयो मनुः
ग्रहाणां सप्तमश्चासीन्मन्दचारी शनैश्वरः ।
इक्ष्वाकुशिबिशर्यातिनाभागाद्याः सुता मनोः
तेषु जातेषु पुत्रार्थी मित्त्रावरुणयोर्मनुः ।
इष्टिं चकार तत्रास्य सुताभूल्ललितद्युतिः
इडा नाम स्फुरद्रत्नभूषणोद्द्योतिताम्बरा ।
प्रणम्य पद्मवदना मनुं तच्छासनानुगा
मित्त्रावरुणयोर्वासं तदंशास्मीति सा ययौ ।
सदाचारोचिता ताभ्यां सा पुत्रीत्यभिनन्दिता
तद्वरं प्राप पुत्रस्त्वं भविष्यसि मनोरिति ।
ततः प्रतिनिवृत्ता सा व्रजन्ती गजगामिनी
दृष्ट्वा हरिणशावाक्षी बुधेन शशिसूनुना ।
तत्संगमात्समासाद्य पुरूरवसमात्मजम्
स्त्रीरूपं सा समुत्सृज्य प्रद्युम्नाख्यो ऽभवन्नृपः ।
उत्कलो विनताश्वश्च गयश्चेति तदात्मजः
इक्ष्वाकोस्तुमुपादो ऽभूत्ककुत्स्थस्तस्य चात्मजः ।
तद्वंशे कुवलाश्वो ऽभूदुत्तङ्कवचसा च यः
वालुकान्तर्गतं घोरं धुन्धुं नाम महासुरम् ।
जघान यस्य निःश्वासैः पृथिवी समदह्यत
कुवलाश्वस्य नृपतेर्जातस्त्वय्यारुणिः कुले ।
तेन सत्यव्रतो नाम पौरकन्यापहारतः
पुत्रः शप्तो ऽन्त्यजातिस्त्वमवाप्तो विजने ऽवसत् ।
अत्रान्तरे विना वर्षं कृच्छ्रे द्वादशवार्षिके
तत्याज ससुतां भार्यां विश्वामित्रो ऽम्बुधेस्तटे ।
सां मध्यमं गले बद्ध्वा विक्रेतुं प्रस्तुता सुतम्
सत्यव्रतेन कृपया वारिता वृत्तिदायिना ।
विश्वामित्रसुतश्चाभूद्गलबन्धः स गालवः
स त्यागाद्वारितः किं मे न पितेति पुरोहिते ।
सत्यव्रतो राजपुत्रो वसिष्ठे मन्युमानभूत्
कामधेनुं स तस्याथ चरन्तीं शापमोहितः ।
निहत्य गाधिपुत्राणामात्मनश्चाशनं व्यधात्
कोपकत्वात्पितुर्धेनुवधादप्रोक्षिताशनात् ।
शापशङ्कुत्रंय तस्य वशिष्ठः समपातयत्
तस्य त्रिशङ्कुसंज्ञस्य विश्वामित्रः पितुः पदम् ।
दत्वाभूद्याजको येन सदेहस्त्रिदिवं ययौ
तस्य पुत्रो हरिश्चन्द्रो राजसूये रराज यः ।
सगरस्तत्कुले राजा यत्सुतैः सागरः कृतः
मातुः सपत्नीदत्तेन जातः सह गरेण यः ।
प्रत्यन्तदेशाञ्जित्वासौ पितुः पूर्वापकारिणः
निःस्वाध्यायवषट्कारान्विदधे लक्षणाङ्कितान् ।
चकार मुण्डशिरसः काम्बोजान्वधरक्षणात्
शशकोर्धशिरोमुण्डान्मुक्तकेशांश्च पारतान् ।
पह्लवान्यवनाद्यांश्च श्मश्रुचिह्नानकल्पयत्
वंशे तस्य दिलीपो ऽभूत्तस्य सूनुर्भगीरथः ।
दुहितृत्वमगाद्यस्य भुवि भागीरथी नदी
कुले तस्याभवद्राजा रामो दशरथात्मजः ।
राजर्षिवंशा बहवो बभूवुस्तत्सुतात्कुशात्
इक्ष्वाकोरित्ययं वंशस्तद्भ्रातुस्तु मरिष्यतः ।
शका बभूवुस्तनया नाभागस्य सुतो ऽभवत्
अम्बरीषो महीपालो वृष्णेः पुत्राश्च वृष्णयः ।
रणधृष्टाः शिबेः पुत्राः शर्यातेरभवत्सुता
सुकन्या च्यवनेनोढा पुत्रश्चान्तभूपतिः ।
रवेती तस्य तनया स पुरा सहितस्तया
ब्रह्मलोकं ययौ श्रोतुं गान्धर्व ब्रह्मणो ऽन्तिके ।
ततो बहुयुगे काले व्यतीते क्षणलेशवत्
अपश्यत्स्वपुरीमेत्य द्वारकां वृष्णिभिर्वृताम् ।
अस्पृष्टां कालकलया ब्रह्मलोकनिवासतः
प्रददौ बलभद्राय बालामेव स रेवतीम् ।
दत्त्वा च तनयां प्रायात्तपसे मेरुकन्दरम्
इक्ष्वाकोरनुजः षष्ठो रिष्टाख्यस्तस्य चात्मजौ ।
वैश्यौ ब्राह्मणतां प्राप्तौ तपोयोगादकल्मषौ
करूषः सप्तमो यस्तु कारुषास्तत्सुता नृपाः ।
पृथुकश्चाष्टमः शूद्रो बभूव गुरुगोवधात्
एते बभूवुरिक्ष्वाकोर्भ्रातरो ऽष्टौ मनोः सुताः ।
इत्येते श्राद्धदेवस्य भुवि वंशधरा मनोः
***** मनुवंशः ॥ 3 ॥ *****
पृष्टः श्राद्धप्रसङ्गेन पितृकल्पं महीभुजा ।
मुनिः प्राहावदद्भीष्मः प्रश्नान्ते यद्युधिष्ठिरम्
पितरः पूजिताः श्राद्धे त्रिभिः पिण्डैस्त्रिपौरुषैः ।
देवतत्वेन पुष्णन्ति जन्तून्नानागतिष्वपि
शंतनोरुद्यते पिण्डे श्राद्धकाले मया पितुः ।
उत्तस्थौ कङ्कणोदारः करः कमलकोमलः
तं विलोक्य मया पिण्डे कुशेष्वेव समर्पिते ।
शास्त्राक्रियानुवर्तित्वात्तत्तोषजनको मम
स्वच्छन्दमरणं तस्मादवाप्याहं वरं वरम् ।
तेनोपदिष्टं तत्कालं मार्कण्डेयमुपस्थितम्
अपृच्छं दैवतं श्राद्धं फलं च पितृयाजिनाम् ।
सो ऽब्रवीन्मेरुशिखरे मया पृषष्टस्तपस्यता
सनत्कुमारे भगवान्प्राहैतत्तेजसां निधिः ।
ब्रह्मा पुरा सुरान्दृष्ट्वा दृष्ट्वा तानात्मयाजिनः
कथं नैते यजन्ते मामिति शापादमोहयत् ।
ते नष्टसंविदः सर्वे प्रसाद्य कमलोद्भवम्
प्रायश्चित्तं निजान्पुत्रान्पप्रच्छुस्तस्य शासनात् ।
प्रायश्चित्तैस्ततः पूताः क्रियाज्ञानोपदेशतः
गुरुत्वात्स्वसुतैरुक्ता गम्यतां पुत्रका इति ।
त एते पितरः पूज्या देवानां तनया अपि
येषां श्राद्धं विना प्राहुस्त्रिदशा निष्फलाः क्रियाः ।
तद्विहीनेषु यागेषु फलमश्नन्ति राक्षसाः
अन्योन्यं पितरस्तस्माद्देवाः पितृगणा अपि ।
श्राद्धेनाप्यायते सोमः स पुष्णात्यखिलाः प्रजाः
श्राद्धेन पितरः प्रीता नॄणां पितृपितामहान् ।
आप्याययन्ति सर्वत्र तिर्यग्योनिगतानपि
चत्वारस्तद्गणा मूर्ता मूर्तिहीनास्त्रयो गणाः ।
सुधाभुजो योगजुषो वैराजा इति विश्रुताः
मेनाख्या मानसी तेषां कन्या हिमगिरेः प्रिया ।
मैनाको यत्सुतः श्रीमान्पिता क्रौञ्चमहागिरेः
मेनायास्तनयास्तिस्रो याश्चेरुर्दुश्चरं तपः ।
ज्येष्ठा तासामपार्णाख्या भवानी भववल्लभा
उ मेति तपसो मात्रा वारिताभूदुमेति या ।
देवलस्यैकपर्णाख्या द्वितीयाभून्मुनेर्वधूः
जैगीषव्यस्य भार्याभूत्तृतीयाप्येकपाटला ।
पुत्री मरीचिपुत्राणां पितॄणामपि मानसी
अच्छोदाख्या वरसरित्प्रागच्छोदसरःस्नुता ।
अपरिज्ञाय पितरं साभिलाषा विलोक्य सा
भ्रष्टा पपात तच्छापात्तत्प्रसादकृतावधिः ।
अष्टाविंशे द्वापरे सा संभूता मत्स्ययोनिजा
असूत या सुतं व्यासं गन्धकाली पराशरात् ।
पुलस्त्यपुत्राः पितरो दिवि बर्हिषदः परे
मानसी कन्यका तेषां पीवरी नाम योगिनी ।
जनयिष्यत्यपत्यानि यस्यां व्याससुतः शुकः
पुत्रीं च कृत्वा जननीं ब्रह्मदत्तस्य भूपतेः ।
अमूर्ताः कर्मसंन्यासादेते पितृगणास्त्रयः
सोमदेवान्मानवादीन्पूजिता भावयन्ति ये ।
मूर्तास्तु सोमपा नाम पितरो ऽन्ये सुधाभुजः
तेषां गौर्मानसी कन्या यजन्ते ब्राह्मणाश्च ताम् ।
अन्ये त्वङ्गिरसः पुत्राः पितरः श्रद्धवर्जिताः
यष्टारः क्षत्रियास्तेषां यशोदाख्या च कन्यका ।
सहस्रयाजिनो मात्रा दिलीपस्य महीपतेः
आज्यपाः पितरः पुत्राः कश्यपस्य प्रजापतेः ।
यजन्ते तान्सदा वैश्या कन्या तेषां च मानसी
विरजा नाम जननी ययातेः पृथिवीपतेः ।
सुकाला नाम पितरो वशिष्ठस्य मुनेः सुताः
शूद्राणामेव ते पूज्यास्तत्पुत्री नर्मदा सरित् ।
कुरुकुत्सप्रिया यस्यास्त्रसद्दस्तुः सुतो नृपः
एते पितृगणा मूर्ताश्चत्वारो वर्णदैवतम् ।
येषां युगे युगे पूजां श्राद्धदेवो ऽभ्यधान्मनुः
राजतं राजताङ्कं वा यातं तेषां स्वधाभुजाम् ।
शस्त्रं श्राद्धे सोमवह्निमनुपूजापुरः सरे
त एते पितरः पूज्याः क्रोधहीनाः प्रसादिनः ।
संकल्पकल्पलतिका भक्तिर्येषां महाफला
धर्मापचाराद्विभ्रष्टा ब्राह्मणाः पितृपूजया ।
यथा स्वपदमेष्यन्ति तत्सर्वं द्रक्ष्यसि क्रतौ
श्राद्धभावं विजानीहि स्वयमित्यभिधाय सः ।
सनत्कुमारो दिव्यं मे चक्षुर्दुत्त्वा तिरोदधे
ततो ऽपश्यं कुरुक्षेत्रे विप्रान्कालेन सप्त तान् ।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः स्वस्टमः कविः
पितृवर्ती चेति नाम सदृशाकारसेविनः ।
अथ कौशिकदायादा गुरोर्गार्ग्यस्य ते पुरा
प्रस्थिताः पथि गां मूढाः क्षुधार्ता हन्तुमुद्ययुः ।
यदा निवार्यमाणास्ते कविना स्वस्टमेन च
न निवृत्तास्तदा कोपात्पितृवर्ती जगाद तान् ।
सर्वथैतदकार्यं वो गर्हितं सर्वजन्तुभिः
श्राद्धपूर्वो ऽयमारम्भः क्रियतां यदि दुर्ग्रहः ।
एतदाकर्ण्य ते सर्वे तदुक्तं चक्रिरे विधिम्
ततस्ते हिंसया काले शप्ताजायन्त लुब्धकाः ।
दशार्णेषु स्वकर्मस्थाः सत्यशीलपरायणाः
जन्मान्तरे श्राद्धफलाल्लुप्ता तेषां न तु स्मृतिः ।
निर्वैरी निर्वृतिः क्षान्तो निर्मन्युर्वैधसः कृतिः
मातृवर्ती च ते व्याधाः पितृसेवाकृतक्षणाः ।
धनूंषि पित्रोः पानीये विहाय व्यसवो ऽभवन्
ततः फुल्ललतापुञ्जकुञ्जे कालाञ्जने गिरौ ।
त्रासायासविविग्नास्ते जाता जातिस्मरा मृगाः
उन्मुखो नित्यचकितः स्तब्धवर्णः सुलोचनः ।
घस्मरः पिण्डितो नादी चेति चेष्टोचिताभिधाः
ते ब्रह्मचारिणः क्षान्ताः पूर्वविद्याविवासिताः ।
विहारिणो मेरुतटी गत्वा प्राणान्पर्यत्यजन्
अद्यामि मेरुगामिन्यः कालाञ्जनतटोत्थिताः ।
तेषां कनकूटेषु दृश्यन्ते पादपङ्क्तयः
ततः शुचिसरिद्द्वीपे लहरीधैतसैकते ।
बभूवुश्चक्रवाकास्ते तरुणा ब्रह्मचारिणः
निर्ममो निःस्पृहः क्षान्तो निर्वैरो निष्प्रतिग्रहः ।
निर्वृतो निभृतश्चेति योगिनस्ते विहङ्गमाः
जातास्तत्र च ते हंसास्तपोयोगपरायणाः ।
वालानिलाकुलोत्फुल्लकमलोत्पलमालिने
सलिले विलसन्त्येते विभ्राजं नाम भूपतिम् ।
ददृशुः पद्मवदनावृन्दैर्जितसरोवरम्
पातुं यदृच्छयायातं तीरोपान्तलतावने ।
शचीपतिमिवालोक्य तं कनीयान्विहङ्गमः
तस्य राज्यस्पृहां चक्रे तदैश्वर्यहृताशयः ।
द्वौ चाभूतां खगौ तस्य स्पृहानुगतमानसौ
ततः कालेन ते सर्वे सारसा व्यसवो ऽभवन् ।
वि(वै)भ्राजं तद्वनमभूत्सरश्च नृपसेवितम्
विभ्राजस्याथ पुत्रो ऽभूदणुहो नाम भूपतिः ।
तस्मै वितॄणां दौहित्रीं पुत्रीं व्याससुतः शुकः
कृत्वीं नाम ददौ दिव्ययोगिनामधिदेवताम् ।
तस्याः स हंसः पुत्रो ऽभूद्योगभ्रष्टो हतस्मृतिः
ब्रह्मदत्त इति ख्यातः काम्पिल्ये नगरे नृपः ।
पाञ्चालपु(क)ण्डरीकाख्यौ तस्यास्तां सचिवौ नृपौ
हंसौ स्पृहाभ्रष्टयोगौ यौ तौ तदनुगाशयौ ।
जातिस्मरास्तु चत्वारो जाताः सब्रह्मचारिणः
ब्रह्मदत्तस्य दयिता देवलस्यात्मजा मुनेः ।
बभूव संनतिर्नाम मानिनी मदिरावनिः
स कदाचिल्लतालास्यव्यालोलपवने वने ।
सेव्यमानस्तया तन्त्र्या विजहार स्मरोपमः
सर्वप्राणिरुतज्ञो ऽसौ तत्र प्रणयकोपतः ।
पिपीलकायाः शुश्राव भर्तुस्तां तां प्रसादनाम्
स तच्छ्रुत्वा चलच्चारुकपोलफलको नृपः ।
जहास दयिताकण्ठे कुर्वन्मुक्तावलीमिव
कस्मादकस्मान्मे नाथो हसतीति विलज्जिता ।
साभवत्पद्मवदना चन्द्रोदय इवाब्जिनी
पिपीलकरुताश्चर्ये कथिते ऽपि महीभुजा ।
प्राणत्यागैकसंकल्पा तदसत्यममन्यत
दयितादीर्घकोपेन विविग्नो वसुधाधिपः ।
निराहारव्रतो विष्णुं ददर्श प्रयताशयः
कुशलं भविता प्रातस्तवेति हरिशासनात् ।
प्रभाते रथमारुह्य पुरं ससचिवो ऽविशत्
अत्रान्तरे तैश्चतुर्भिर्द्विजैर्जातिस्मरैः पिता ।
विसृष्टः श्रावय नृपं श्लोकमित्याजगाम तम्
स समासाद्य भूपालं सचिवाभ्यां सह स्थितम् ।
इदमाश्रावयद्विप्रः किमप्युत्सुकमानसम्
सप्त दाशा दशार्णेषु गिरौ कालाञ्जने मृगाः ।
चक्रवाका नदीद्वीपे हंसाः सरसि मानसे
वयं ते ऽद्य कुरुक्षेत्रे जाता वेदविदो द्विजाः ।
गन्तारो दूरमध्वानं यूयं किमवसादिनः
श्रुत्वैतत्स्मृतयोगात्मा निःस्पन्दकरणो नृपः ।
सचिवाभ्यां सह परं धाम तच्च समाययौ
श्राद्धप्रभावादित्येतत्क्षपयित्वोग्रपातकम् ।
याताः कौशिकदायादा योगिनः परमं पदम्
शान्तनोः शासनादेतन्मार्कण्डेयाच्छ्रुतं मया ।
ब्रह्मदत्तस्य पुत्रो ऽभूद्विश्वक्सेनो महीपतिः
दण्डसेनः सुतस्तस्य भल्लाटश्च तदात्मजः ।
यः कर्णेन पुरा वीरो दिग्जये विनिपातितः
भल्लाटस्याभवत्सूनुर्दुर्नयी जनमेजयः ।
उग्रायुधो ऽथ तत्पुत्रः पापाचारो निरङ्कुशः
त्रिदिवं शन्तनौ याते हर्तुं सत्यवतीं बलात् ।
मनश्चकार दुर्वृत्तस्ततो यधि मया हतः
इति श्राद्धफलं भीष्मो बभाषे धर्मनन्दनम् ।
श्राद्धेनाप्यायते सोमो वृष्णयो यस्य वंशजाः
***** पितृकल्पः ॥ 4 ॥ *****
अत्रिश्चचार भगवान्मौनी मुनिवरः पुरा ।
तपो वर्षसहस्राणि दिव्यानि त्रीणी निश्चलः
तस्याथ निर्निमेषस्य शरीरं ब्रह्मचारिणः ।
अभूद्दिव्यामृतमयं कान्तं दुग्धोदधेरिव
ततः सुस्राव नेत्राभ्यामत्रेस्तद्दशधा स्रुतम् ।
अमृतं दिक्षु दशसु प्रभासंपूरिताम्बरम्
वृतं तद्दशभिर्गर्भे दिग्भिर्यत्नेन दुःसहम् ।
सोमत्वमाप्तं सहसा पपात भुवि भास्वरम्
तस्मिन्निपतिते तूर्णं कम्पिते भुवनत्रये ।
रथे वेदमये ब्रह्मा सहस्राश्वे तमादधे
तं रथस्थं मुनिवरा देवास्त्रैलोक्यभावनम् ।
तुष्टुवुस्तेजसो वृद्धयो सर्वजिद्येन सो ऽभवत्
वत्सराणां चकारासौ पूर्णं पद्मशतं तपः ।
उत्पन्नास्तेजसा तस्य दिव्यौषधिसुधागणाः
राजा राज्याभिषिक्तो ऽथ ब्रह्मणा ब्राह्मणाधिपः ।
वल्लभो दक्षपुत्रीणां राजसूये रराज सः
सुरसिद्धर्षिगन्धर्वसेव्यस्त्रिभुवनेश्वरः ।
लोकानविनयोत्सेकाश्चचार श्रीविशृङ्खलः
जहार तरसा सो ऽथ तारां नाम बृहस्पतेः ।
वल्लभां विभवोद्भूतभूतेनोद्भाव्यते न कः
त्रिदशैर्बोध्यमानो ऽपि न स तत्याज तां यदा ।
तदा बृहस्पतेः पक्षं शुक्रो रुद्रस्तथाग्रहीत्
ततः प्रवृत्ते समरे भैरवे तारकामये ।
देवानां रुद्रमुख्यानां वीरेण तुहिनात्विषा
अस्त्रं ब्रह्मशिरः स्पृ(सृ)ष्टं यशश्छेदि दिवौकसाम् ।
अल्पावशेषामकरोद्भग्नध्वस्तहतां चमूम्
त्रस्तैरथ सुरैरेत्य याचितः कमलोद्भवः ।
निर्वाय साम्ना समरं ददौ जायां बृहस्पतेः
सगर्भामागातामूचे स तामीर्ष्याविषोल्बणः ।
न धार्यो ऽयं त्वया गर्भो मद्योनावित्यधोमुखीम्
ततस्तत्याज सा गर्भमिषीकास्तम्भसंस्तरे ।
तेजसा जातमात्रो ऽसौ विबुधानजयद्बुधः
पृष्टा ततो ऽयं कस्येति देवैर्नोवाच सा यदा ।
तदा पृष्टा विरिञ्चेन चन्द्रस्येत्यवदल्लघु
स पुत्रः शशिनः श्रीमान्प्रतिकूलोदयो दिवि ।
शिशिरव्यजनो धीमान्बभौ विबुधनन्दनः
अथ कालेन शीतांशुर्दक्षिणाक्षीणमण्डलः ।
परदारपरामर्षात्तप्तो ऽत्रिं शरणं ययौ
स तेन पुत्रवात्सल्यान्मन्त्रैः क्षपितकिल्बिषः ।
रराज यक्ष्मणा मुक्तः पुनर्युक्तो निजश्रिया
***** सोमोत्पत्तिः ॥ 5 ॥ *****
इडायामथ पुत्रो ऽभूद्बुधस्य स पुरूरवाः ।
यस्याभूद्भूवनश्लाघ्या कान्ता कीर्तिरिवोर्वशी
तस्य षट् तनयास्तस्यामभवंस्त्रिदशालये ।
आयुर्ज्येष्ठो नृपस्तेषां नहुषो ऽप्यायुषः सुतः
रजिप्रभृतयस्तस्य चत्वारो ऽप्यनुजाः पुरा ।
देवासुररणे पूर्वं साहाय्ये वज्रपाणिना
रजिर्वृतः स्वराज्येन पणेन नहुषानुजः ।
स हत्वा दितिजान्वीरान्सुरेन्द्रत्वं पणार्जितम्
त्वत्पुत्रो ऽस्मीति शक्रेण धूर्तेनाभिहितो ऽत्यजत् ।
अथ कालेन जयिनो रजेः पुत्रा महौजसः
राज्यं त्रिदशराजस्य जह्रुः पितृबलार्जितम् ।
हृतराज्यः स शक्रो ऽथ हृतभागः क्रतुष्वपि
ययाचे बदरीमात्रं पुरोडाशं बृहस्पतिम् ।
तेन बालमुखाब्जेन याचितो नष्टचेतसा
चकार रजिपुत्राणां मतिमोहं बृहस्पतिः ।
ततस्ते रागिणो मत्ता विभ्रष्टा न्यायवर्त्मनः
संवृत्ता भृशमुत्सेकान्नष्टवीर्यपराक्रमाः ।
तेन तान्दुर्जयान्हत्वा वज्री स्वपदमाप्तवान्
शफरोत्फालचटुला दुर्वृत्तानां हि संपदः ।
नहृषस्याभवत्पुत्रो ययातिः पृथिवीपतिः
दिव्येन यो रथाग्र्येण षड्रात्रेणाजयज्जगत् ।
यो ऽसौ कालेन तद्वंशे शापान्नष्टो रथोत्तमः
जरासंधेन संप्राप्तो हृतो यो ऽप्यसुरारिणा ।
ययातेः शुक्रकन्यायां देवयान्यां बभूवतुः
यदुश्चतुर्वसुश्चेति तनयौ संमतौ सताम् ।
वृषपर्वसुतायाश्च शर्मिष्ठायाः सुतास्त्रयः
द्रुह्यानुपूरुनामानस्तस्यासन्वंशवर्धनाः ।
काले ऽथ विपुले याते ययातिः प्रवयाः सुतान्
ययाचे यौवनं कामी जरया जगतीपतिः ।
मृत्युसिंहनखश्रेणीं सुखपद्महिमाहतिम्
यदा कश्चिन्न जग्राह जरां पुरुस्तदाग्रहीत् ।
तस्माद्यौवनमासाद्य यदुमुख्यानथो परान्
ययातिरशपद्वंश्या येनैषामनृपाः सदा ।
ततो दिदृक्षुः कामानां पारं तरुणविग्रहः
विश्वस्य नाककामिन्या नन्दने विजहार सः ।
सुचिरं सेवमानो ऽपि राजा राजीवलोचनाम्
यदा प्रवर्धमानेच्छः कामानां नान्तमाययौ ।
तदा राज्यं सुतस्यैव पुरोर्दत्वा जरां निजाम्
जग्राह जातवैराग्यो जगौ चेदं मुनिव्रतः ।
चित्रं भोगाभिलाषो ऽयं भोगाभ्यासेन वर्धते
वेल्लत्कल्लोलजालेन सलिलेनेव वाडवः ।
बत विस्फारसंसारसरोरुहरजश्छटा
प्रीतिः प्रतिनिशं मुग्धान्बध्नाति मधुपानिव ।
जीर्यतामप्यजीर्योर्(णो)ऽयं नश्यतामपि नश्वरः
कामः कामवतामन्तर्घुणः क्षितिरुहामिव ।
निषिद्धो नियमेनापि धैर्येणाप्यवधीरितः
रागो ज्वलत्यहो वस्त्रेणाच्छादित इवानिलः ।
इति संचिन्त्य नियतो ययातिस्तपसा युतः
कुलोचितेन विधिना यशःशेषत्वमाययौ ।
पूरोर्ययातिपुत्रस्य वशे सुविपुले क्षितौ
प्रवर्तमाने बहुधा कालेनाभून्महीपतिः ।
दुष्यन्तो यस्य भरतः पुत्रो भारतवंशकृत्
अवदाते कुले यस्य जातो ऽसि जनमेजयः ।
इत्येष पौरवो वंशः पूर्वमेव मयोदितः
***** पूरुवंशः ॥ 6 ॥ *****
तुर्वसोस्तु महान्वंशो यस्मिञ्जातः करंधमः ।
मरुत्तस्तत्सुतो यस्मै ददौ हेम महेश्वरः
तस्यासन्विपुले वंशे पाण्ड्यचौलाः सकेरलाः ।
राजा मरुत्पतिर्नाम द्रुह्यवंशे त्वजायत
कृच्छ्रेण दीर्घसंग्रामे यौवनाश्वेन यो हतः ।
गान्धारस्तत्सुतो यस्य वंशे जातास्तुरङ्गमाः
अनोस्तु वंशे धर्माद्या जाताः प्रत्यन्तभूमिपाः ।
यदोस्तु प्रसृते वंशे कृतवीर्यात्मजो नृपः
कार्तवीर्यार्जुनो जातः सहस्रभुजदुर्मदः ।
हेहयानर्तभोजाद्यस्तालजङ्घाश्च तत्कुले
कालेन जातस्तद्वंशे वृषो वृषसुतो मधुः ।
वृषणस्तत्सुतो यस्य वंशे सागरवृष्णयः
अन्धको ऽप्यन्वये तेषामभूदन्धकवंशकृत् ।
बहुशाखे च तद्वंशे जातो क्रूरः सहस्रदः
तत्पितृव्यकुले काले शूरः श्रीमानजायत ।
वसुदेवः सुतस्तस्य बभूवानकदुन्दुभिः
यस्मिञ्जाते दिवि महानभूद्दुन्दुभिनिःस्वनः ।
भ्रातास्य देवभागाख्यस्तथा देवश्रवाः परः
अनाधृष्टिः कनवको वत्सः श्यामो ववृञ्ज सः ।
पृथुकीर्तिः पृथाख्या च श्रुतदेवी श्रुतश्रवाः
राजाधिदेवी पञ्चैताः शूरपुत्र्यो ऽस्य चानुजाः ।
पृथुकीर्तिसुतो राजा दन्तवक्रो नृपात्मजः
पृथासुता धर्मराजभीमसेनधनंजयाः ।
श्रुतश्रवायास्तनयः शिशुपालो महाबलः
दैत्यराजो ऽभवद्यो ऽसौ हिरण्यकशिपुः पुरा ।
पितृव्यवंशे शूरस्य शैनेयः सत्यको ऽभवत्
सात्यकिस्तस्य तनयो युयुधानापराभिधः ।
उद्धवो विबुधाचार्यः शत्रुदेवमुखास्तथा
शत्रुदेवस्य नैषादिरेकलव्यो ऽभवत्कुले ।
वत्सावते त्वपुत्राय वसुदेवः प्रतापवान्
अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ।
गण्डूषकायापुत्राय चारुदोष्णादिकान्हरिः
द्वे भार्ये वसुदेवस्य रोहिणी देवकी तथा ।
रोहिणीतनयो रामः सारणो दुर्दमः सुभः
शुभ्रपिण्डारदमनास्ते महावदनात्मजाः ।
अनुजा च सुभद्रैषा महिषी सव्यसाचिनः
रामस्य निषधो नाम रेवत्यामभवत्सुतः ।
देवकीनन्दनः कृष्णो देवो दानवसूदनः
वसुदेवस्य चान्यासु भार्यासु ह्यभवन्सुताः ।
भोजोपासङ्गविजया वृषदेवो गदस्तथा
आशावहो लोमपादः कपिलो वर्धमानकः ।
पौण्ड्रो निषादनाथश्चेत्युग्रवीर्यपराक्रमाः
अत्रान्तरे गार्ग्यमुनिर्धनु कालायसाशनः ।
चचार द्वादश समा ब्रह्मचारी परं तपः
त्रिगर्तराजसुतया परीक्षायै सविभ्रमम् ।
न चचालायसप्रख्यो ह्रियमाणशयो ऽपि यः
स मन्युतप्तो गोपालकन्यायां रुद्रशासनात् ।
असृजत्कालयवनं कालं सर्वमहीभुजाम्
रथे यस्य हया घोरा वृषपूर्वार्धविग्रहाः ।
गृहीतो यवनेन्द्रेण निष्पुत्रेण स पुत्रकः
युद्धार्थी दर्पसंमत्तः पप्रच्छ सुभटान्भुवि ।
नारदस्य गिरा ज्ञात्वा स वीरान्वृष्णियादवान्
मथुरानिलयाञ्जेतुमक्षौहिण्या समाद्रवत् ।
ते कालयवनाक्रान्ता जरासंधेन चार्दिताः
वृष्णयो मथुरां त्यक्त्वा द्वारकां चक्रुरम्बुधौ ।
वंशस्कन्धेषु चान्येषु संभूता यादवाः परे
सात्वतस्याभवद्दैवैरुद्गीतचरितः कुले ।
यज्वा देवावृधो राजा बभ्रुस्तस्यात्मजो ऽभवत्
आपगायां सर्वर्णायां जातः कोटिसहस्रदः ।
संभूतास्तत्कुले वीरा भोजास्ते शान्तिकावताः
अन्धकात्कुक्कुरो जातस्तद्वंश्यो ऽप्याहुको ऽभवत् ।
प्रणेता वृष्णिवंशानां राजा कृतयुगोचितः
देवकश्चोग्रसेनश्च तत्सुतौ देवकस्य तु ।
देववत्प्रमुकाः पुत्रा देवक्याद्यश्च कन्यकाः
याः सप्त वसुदेवाय वितीर्णा वीरमातरः ।
उग्रसेनसुतः कंसो न्यग्रोधप्रमुखाग्रजः
कंसा कंसवती तन्वी पाली कह्वा च कन्यकाः ।
विदूरथकुले भोजे बभूव हृदिकाभिधः
कृतवर्ममुखास्तस्य शतधन्वादयः सुताः ।
क्रोष्टोर्वंशे प्रसेनो ऽभूत्सत्राजित्सेनजित्तथा ।
इत्येते बहवो वंशा विश्रुता यादवा यदोः
***** यदुवंशः ॥ 7 ॥ *****
अब्धेस्तटे द्वारवत्यां निवेशे विषदं मणिम् ।
दिव्यं स्यमन्तकं नाम प्रसेनः किल लब्धवान्
स मणिः कनकस्यन्दी व्यायिदुर्भिक्षनाशनः ।
शक्तेनाप्युत्सुकेनापि न हृतस्तस्य शौरिणा
कालेन मृगयासक्तः प्रसेनो मणिभूषितः ।
सिंहेन निहतो युद्धे सहसा मणिहारिणा
यान्तं जवेन तं सिंहमृक्षराजो ऽथ जाम्वान् ।
निहत्य मणिमादाय बलवान्बिलमाविशत्
वृष्ण्यन्धकहतं दृष्ट्वा प्रसेनं विजने वने ।
मणिलोभात्कृतं सर्वं कृष्णेनेति शशङ्किरे
विशुद्धभावः कृष्णो ऽपि तमन्वेष्टुं ययौ मणिम् ।
मिथ्याकलङ्कं यशसामपवादं सहेत कः
सास्रं प्रसेनमालोक्य स सिंहेत विदारितम् ।
तस्याविदूरे सिंहं च ददर्श विनिपातितम्
मणेरलाभे विज्ञाय पदवीमृक्षशंसिनीम् ।
गुहां प्रविश्य गम्भीरं ददर्श विपुलं बिलम्
तत्र धात्र्या स शुश्राव वचनं बालसान्त्वने ।
तवैवासौ मणिः पुत्र मा रोदीः सुकुमारक
श्रुत्वेति ज्ञातवृत्तान्तो जाम्बवन्तं ददर्श सः ।
तेनाथ युयुधे कृष्णो दिवसानेकविंशतिम्
दशग्रीवोग्रसंग्रामशस्त्रोल्लिखितवक्षसम् ।
जाम्बवन्तं विजित्याथ दत्तां तेन सुतां हरिः
बिम्बाधरां जाम्बवतीं लेभे तं च स्यमन्तकम् ।
ततो द्वारवतीमेत्य स्यमन्तकमुदारधीः
स प्रसेनानुजायैव ददौ सत्त्रजिते मणिम् ।
सत्यभामामुखास्तिस्रः सत्राजिन्मुरवैरिणः
प्रददौ कन्यकाः कामकुमुदाकारचन्द्रिकाः ।
सत्राजितं घातयित्वा भोजेन शतधन्वना
अहरन्मणिमक्रूरो मिथः साहाय्यसंविदा ।
सत्यभामा स्वयं गत्वा हते पितरि दुःखिता
जतुवेश्मनि दग्धेषु पार्थेषु धृतराष्ट्रजैः ।
शार्ङ्गधन्वानमासाद्य वारणावतवासिनम्
हतं न्यवेदयत्साश्रुः पितरं शतधन्वना ।
ततस्तूर्णं समभ्येत्य द्वारकां गरुडध्वजः
रामेण सहिति गत्वा युयुधे शतधन्वना ।
चक्रे मणिप्रदस्यापि नाक्रूरो ऽस्य सहायताम्
स्वार्थकाले व्यतीते हि धूर्ता नो कस्यचिन्निजाः ।
अधिरुह्याशु वडवां शतयोजनगामिनीम्
विद्रुतं शतधन्वानं मिथिलाभिमुखं जवात् ।
जघान कैटभारातिर्नाससाद च तं मणिम्
सो ऽपह्नुतो मणिरिति क्रुद्धो ऽस्मै लाङ्गली मृषा ।
न द्वारकां विशामीति मिथिलां विमुखो ययौ
तत्र दुर्योधनस्तस्माद्गदाशिक्षामवाप्तवान् ।
ततः कृष्णानुगैरेत्य वृष्णिवीरैः प्रसादितः
द्वारकामाययौ श्रीमाञ्जाततत्त्वो हलायुधः ।
अक्रूरो ऽपि मणिस्फीतो बहुयज्ञो बहुप्रदः
सुखं निनाय षष्ट्यब्दीं दीक्षाकवचरक्षितः ।
व्यक्तिं याते मणौ किंचिद्भीते रामत्सकेशवात्
अपयाते ततो ऽक्रूरे नावर्षत्पाकशासनः ।
ज्ञातिभेदभयात्पूर्वं कृष्णेनोपेक्षितश्चिरम्
प्रसाद्य पनरानीतो दुर्भिक्षार्तैः सयादवैः ।
तस्मिन्दानपतौ प्राप्ते ववर्ष त्रिदिववेश्वरः
कालेन याचितः साम्ना कृष्णेन स ददौ मणिम् ।
तस्मै स्वसारं चाक्रूरः प्रीतये चारुलोचनाम्
विनयार्जवतुष्टस्तं केशवो ऽपि मणिं ददौ ।
अक्रूरायैव महतां प्रणयान्तो हि दुर्ग्रहः
***** स्यमन्तकालम्भः ॥ 8 ॥ *****
कुलावलीं यादवानां निशम्य जनमेजयः ।
विस्मितो जन्मना विष्णोर्वैशम्पायनमब्रवीत्
अहो नु महदाश्चर्यमपूर्वं प्रतिभाति मे ।
कथं जगन्निवासो ऽभूच्चराचरगुरुर्नरः
यत्कुक्षिकोटरे शेते कल्पान्ते भुवनावली ।
सकथं मानुषीगर्भं प्रपेदे भूतभावनः
वैश्वरूप्यमिदं यस्य सर्वभूतान्तरात्मनः ।
इच्छामात्रसमुन्मेषदर्पणे प्रतिबिम्बितम्
इति पृष्टः क्षितिभुजा जगाद मुदितो मुनिः ।
श्रूयतामद्भुतं जन्म विष्णोर्जन्मभयच्छिदः
येन यज्ञवराहेण वेदयज्ञमयं वपुः ।
कृत्वोद्धृता वसुमती चतुरर्णवमेखला
बभौ कुवलयश्यामा दंष्टाग्रे यस्य मेदिनी ।
बालशेवलवल्लीव लीना पल्वलकेलिषु
येन केसरिणा शङ्खशुभ्राभिर्नखशुक्तिभिः ।
आयुषा सह निष्पीतं हिरण्यकशिपोर्यशः
उरःस्थलास्थिनिर्घर्षान्नखक्रकचपञ्जरे ।
यस्य दैत्यवधे कोपः प्राप कल्पाग्निकेतुताम्
त्रैलोक्यक्रमणे यस्य विजयध्वजतां ययौ ।
पादो गङ्गाजलोल्लासव्यालोलधवलांशुकः
खर्वः पूर्वमथ प्रांशुरप्रमेयस्ततो ऽभवत् ।
यश्च हर्षश्च देवानां मोहश्च त्रिदशद्विषाम्
यस्य कुण्डलतां कर्णे रविर्नाभौ सरोजताम् ।
प्राप प्रवर्धमानस्य गुल्फे कटकरत्नताम्
उच्चैर्विलोकयन्तीनां तद्वपुः सुरयोषिताम् ।
वलिविध्वंसभीत्येव नादृश्यत वलित्रयम्
दत्तात्रेयावतारेण धर्माचारस्य मज्जतः ।
वेदानां च कृतं येन स्थित्यै हस्तावलम्बनम्
जामदग्न्यवपुर्भूत्वा कार्तवीर्यस्य कर्मठम् ।
मृणालमण्डलीलावं दोःसहस्रं लुलाव यः
यः कुठारे ऽस्थिनिष्पेषखण्डना दन्तमालिकाम् ।
क्षत्रियक्षयकालानां बभार गणनामिव
यः पूर्वाङ्गवतीं चारुमध्यदेशां पयस्विनीम् ।
सपुण्ड्रकाननां प्रादात्सवत्सां कश्यपाय गाम्
यो ऽभवद्भुवनाभोगभूषणं रघुनन्दनः ।
वीरः सुबाहमारीचघोरमेघमहानिलः
भ्रान्तः सप्तसु लोकेषु सप्ताब्धिक्षोभसंभृतः ।
सप्ततालभिदो यस्य धन्विनो धनुषध्वनिः
अद्यापि सेतुसंघट्टविस्फुटच्छुक्तिसंपुटः ।
सुव्यक्तमुक्तादशनो वक्ति यस्याम्बुधिर्यशः
किरीटकोटिविश्रान्तं येन शुभ्रयशोंशुकैः ।
उन्मृष्टं लोकपालानामिन्द्रिजित्सैन्यजं रजः
पतितोत्पतितैर्यस्य दशास्यवदनैर्मुहुः ।
बभूव कन्दुकामन्दविनोदानन्दविभ्रमः
भुवो भारावताराय कृष्णो वृष्णिकुले ऽभवत् ।
शिशुपालादिभूपालकालः शकलितासुरः
यद्वक्षसि ग्रावभिदः शृङ्गभङ्गपराभवः ।
असक्तिविषमोल्लेखैररिष्टस्याप्यसूच्यत
चक्रे यश्चरणः शुभ्रैर्मूर्ध्नि कालियभोगिनः ।
नखकान्तिफणाचक्रैः शेषस्पर्धधिरोहणम्
मूलास्थिच्छेदनिष्पेषजातज्वालाजटाजुषा ।
बाणबाहुवने यस्य चक्रेण क्रकचायितम्
कर्की(ल्की) विष्णुयशा यश्च भविष्यति ययुगक्षये ।
सत्त्वधर्मलतोद्याननवसौरभमाधवः
तस्याश्चर्यप्रभावस्य श्रूयतामिदमुज्ज्वलम् ।
चरितं पुण्यपीयूषैः किल्बिषक्षालनक्षमम्
प्रभावं तस्य तत्त्वेन वक्तुं को नु प्रगल्भते ।
यत्र वाचस्पतिर्मूको दूरे भोगिपतेर्गिरः
***** प्रादुर्भावसंग्रहः ॥ 9 ॥ *****
वृत्ते वृत्रवधे पूर्वं संग्रामे तारकामये ।
त्रिदशाः शरणं जग्मुर्विश्वक्सेनं जनार्दनम्
दत्तं तेनाभयं तेषां विषमे दैत्यजे भये ।
संहता दानवाः सर्वे विविशुः समराङ्गनम्
मयो मायानिधिस्तेषामग्रणीरुग्रविग्रहः ।
बभौ हैमं समारूढो रथमृक्षसहस्रगम्
तारः क्रोशाधिकायाममायसं रथमास्थितः ।
युक्तं स्वरसहस्रेण धूमोत्थो ऽग्निरिवाबभौ
हयग्रीवः समारुह्य रथं हयसहस्रगम् ।
मत्तुकुञ्जरयुक्तं च त्वष्टा मन्दरगौरवम्
वीरा विरोचनाद्याश्च तस्थुः समरसंमुखाः ।
कल्पान्तजलदब्यूहविपुलं तद्बलार्णवम्
विष्णुना विहिताश्वासा वीक्ष्य देवाः समाद्रवन् ।
ऐरावणगतस्तेषां सहस्राक्षः पुरो बभौ
इन्द्रायुधसहस्राणि दर्शयन्वज्ररश्मिभिः ।
यमस्तारमहाहारः श्यामो महिषवाहनः
तस्थौ लम्बाम्बुदो नीलशैलो निर्झरवानिव ।
श्वेताश्वो मणिमालाङ्को वरुणस्तरणिप्रभः
रथे रराज कैलासे रत्नकूट इवोद्गतः ।
हेमर्क्मा हेमरथो हेमाङ्गदाधरः
जहार धनदो मेरोः सूर्यातपजुषः श्रियम् ।
हिमरश्मिर्हिमशिलाशुभ्राश्वस्तुहिनायुधः
तस्थौ जलदवाहश्च वायुरायुः शरीरिणाम् ।
देवश्च स्वयमभ्यायाद्भगवान्कैटभान्तकः
दीप्तचक्रगदाशार्ङ्गनन्दनो गरुडध्वजः ।
चक्रं रराज तस्याजौ धाराबिम्बितदानवम्
अन्तःप्रविष्टनिहतारातिव्रातमिवाभितः ।
प्रशान्ते ज्वलिते मेरुरिवास्य भुजगान्तकः
बभासे भास्वरो वाहः प्रवाहः शत्रुतेजसाम् ।
तस्य दीप्ततरैः पक्षैर्बभूव पिहितं नभः
अन्त्यैर्द्वादशभिः सूर्यैरिवैकघनतां गतैः ।
विरराज तदारूढो हरिः कौस्तुभभूषितः
वडवानलसंयुक्तो मैनाक इव रत्नसूः ।
रुद्रादित्यमरुद्विश्वसाध्याश्विवसुचारणाः
उद्ययुः क्षुब्धसैन्याब्धेः कल्लोला इव संगताः ।
अथोद्धूताम्बुधिध्वानडजीकृतजगत्त्रयः
ररास घोषगम्भीरः समराम्भदुन्दुभिः ।
पेतुः परस्परं तेषां देहे तेजस्विनां प्रभाः
प्रवृत्ते समरे हेमनाराचनिचया इव ।
सुरासुरकरोत्सृष्टशस्त्रास्त्रनिकपोत्थिताः
ज्वालाश्चक्रुर्ध्वजाग्रेषु क्षणं पीतांशुकभ्रमम् ।
चेरुस्त्रिदशमातङ्गदन्तोल्लिखितकङ्कटाः
जातधूमानला दैत्या मेघा इव सविद्युतः ।
तेषां वक्षस्तटे भुग्नदन्तास्ते दिव्यकुञ्जराः
सिकतासेतुनिःसारानमन्यन्त कुलाचलान् ।
ततो दैत्यभुजोद्धूतशस्त्रनिर्विविरा दिवि
बभूवुर्निश्चलाः क्षिप्रं चित्रन्यस्ता इवामराः ।
इयमत्यन्तदुर्वारा दैत्यमाया महीयसी
यमो ऽवि नियमेनेव बद्धस्तन्निधनेषु यत् ।
वायुः पङ्गुरिव क्षिप्रमप्रकाश इवांशुमान्
जयस्तु युधि दैत्येषु वह्निः शीत इवाभवत् ।
ततः सहस्रनयनो वज्रेणोन्म्य दैत्यजाम्
मायां मयमुखान्वीरान्सुरैः पुनरयोधयत् ।
वज्रिवज्रनिकृत्तानां दैत्यानां पततां भुवि
गुरुभिर्विग्रहैः प्रापुरैक्यं सप्तापि ते ऽब्धयः ।
ते गजेन्द्र इवालिप्ता दानवा दानवारिभिः
तमोभिरावृताः पेतुः सुरेन्द्रेम विमोहिताः ।
बहुमायस्ततो मायां मयः समयवर्तिनीम्
प्रमयायैव देवानामौर्वानलवतीं व्यधात् ।
ऊरुजस्तनयो वह्नेः संकल्पाद्ब्रह्मचारिणः
लोकान्दिधक्षुः कालात्मा वार्भक्षो ब्रह्मणो वरात् ।
हिरण्यकशिपोः पूर्वमौर्वो भक्त्या वरप्रदः
जज्वाल सुरेसनासु तस्मिन्समरसंकटे ।
और्वेण दह्यमानास्ते ज्वालाजटिलविग्रहाः
एकीभूतान्यमन्यन्त तेजांसि च तमांसि च ।
विवशास्त्रिदशाः सर्वे तेनौर्वानलपर्वणा
वरुणं शीतरश्मिं च त्राणमेव व्यचिन्तयन् ।
अथाखण्डलनिर्दिष्टश्चन्द्रमा वरुणाग्रगः
क्षिपन्हिमशिलासंघानुद्ययौ युधि दानवान् ।
तुषारवारिपूरैस्ते भृशं ताभ्यां समाहताः
निश्चेष्टा दानवाः प्रापुः काष्ठपाषाणतुल्यताम् ।
हिमस्य महती शक्तिः सा कापि दहनात्मिका
यया दानवसंघानामस्थिभङ्गो महानभूत् ।
तुषाराशनिसंछन्ना दानवानामनीकिनी
नासानिःश्वासविवरैर्निर्विभागमसूच्यत ।
मायाविनिमयं ज्ञात्वा मयः स्वजनसिद्धये
असृजत्पार्वतीं मायां द्रुमशस्त्रशिलाघनाम् ।
द्रुमशैलनिरुद्धानां स्फुटितायुधवर्मणाम्
मोहो जजृम्भे देवानामृते चक्रगदाधरम् ।
ततः क्षणात्तदादिष्टौ तदनु पाणितौजसा
समं विविशतुः सेनां दैत्यानामग्निमारुतौ ।
भस्मकूटावलीशेषान्कृत्वा द्रुमशिलोच्चयान्
उद्धूतान्दिक्षु विक्षिप्य तौ रणाग्रे विचेरतुः ।
अनिलोल्लासितज्वालाज्वलितश्मश्रुभीषणः
दैत्यानां दह्यमानानां धूमः काल इवोद्ययौ ।
मारुतस्याग्नितप्तस्य वह्नेतोद्यतस्य च
अभूत्कूतान्तहुंकारघोरः कहकहारवः ।
विचटच्चर्मणामेषं छमच्छमिति मेदसाम्
स्फुटस्स्थूलास्थिबन्धानां को ऽपि व्यतिकरो ऽभवत् ।
जयत्सु सुरसङ्घेषु भङ्गे दितिजमण्डले
कालनेमिः समुत्तस्थौ त्रिजगद्ग्रसलालसः ।
जृम्भाविस्पष्टदंष्टाग्रैरुग्रवक्त्रैर्भृताम्बरः
जगत्क्षयायेव रसादहंपूर्विकयोत्थितैः ।
तस्याञ्जनशिलास्तम्भसंभारैर्भुजमण्डलैः
अभवन्ककुभो भीमबोगिभोगवृता इव ।
विटङ्कमुकुटप्राप्तघृष्टब्रह्माण्डकर्परे
असृजद्धूमजालेन क्षयजीमूतडम्बरान् ।
शतवक्त्रस्य नेत्रेभ्यस्तस्य ज्वाला दिशो ययुः
तच्छायया जगत्सर्वमदृश्यमभवत्क्षणात् ।
अघोरैः कालरजनीसङ्घैः संघट्टितैरिव
तस्य विश्वक्षयाक्षेपदीक्षासमयमण्डलैः ।
दीप्तायुप्रभाचक्रैरालोकः ककुभामभूत्
घट्टयन्सर्वतेजांसि सर्वभूतानि कम्पयन् ।
जहार जलदव्यूहान्कोपनिःश्वासमारुतैः
उद्य्म्य पवनास्कन्धसंघट्टोद्धट्टनं भुजम् ।
अजीववत्स दितिजान्क्षुब्धाब्धिध्वानया गिरा
उदायुधैः प्रमुदितैर्दानवैस्तत्पुरः सरैः ।
ततो युयुधिरे देवाः कालनेमिहतौजसः
तस्मिन्समरसंघट्टे तुमुले प्राणहारिणि ।
व्यवर्धत महान्कायः करालः कालनेमिनः
तद्वक्त्रकुहरोद्वान्तज्वालावलयिताः सुराः ।
तिर्यगूर्ध्वं प्रवृद्धैश्च तद्भुजैरभितो हताः
तच्छस्त्रवृष्टिदलितास्तत्कराकृष्टमौलयः ।
पेतुर्भ्रष्टा विमानेभ्यः क्षीणपुण्या इव क्षितौ
भग्ने वक्रमुखे शक्रे वरुणे करुणास्पदे ।
धनदे निधनापन्ने शशाङ्के ग्रासशङ्किते
भग्नायुधध्वजच्छत्त्रा छिन्नस्यन्दनकुञ्जराः ।
निश्चेष्टास्त्रिदशास्तस्थुर्दिनदीपा इवाप्रभाः
शीतस्य वह्ने का वार्ता तरणिस्तारदर्पणः ।
आस्था किं निश्चले वायौ किं यमेन हतौजसा
किमेते मुद्रिता रुद्रा वसवो व्यसवो नु किम् ।
इति ब्रुवाणा नादेन ननन्दुर्दितिनन्दनाः
ततः संप्राप्तविजयः कालनेमिः क्षतामरः ।
लोकपालपदे तस्थौ विभज्यानेकधा वपुः
जलं भूत्वाभवद्व्यापी वायुर्भूत्वा ववौ स्वयम् ।
सोमसूर्यतनुर्भूत्वा रात्र्यहानि चकार सः
जग्राह सर्वलोकात्मा हव्यमग्निमुखः स्वयम् ।
सर्वदेवमयः सो ऽभूदिति विष्णुजिगीषया
समस्तभुवनाधीशः सर्वदेवगणैर्युतः ।
वेदधर्मकृपासत्यैः श्रिया च न समाश्रितः
स ददर्शाथ देवादिं देवं गरुडलाञ्छनम् ।
उपेक्षिताग्रसंमर्दं रणकौतुकलीलया
प्रभादामाभिरामेण कौस्तुभेन विभूषितम् ।
स्फुरदिन्द्रायुधोदारं स्निग्धश्याममिवाम्बुदम्
भुजैर्विभ्राजितं रत्नकेयूरधृतिपल्लवैः ।
हारकान्तिसुधासिक्तैः पारिजातैरिवापरैः
उह्यमानं सुपर्णेन सुवर्णच्छविहारिणा ।
मन्दरोद्धारभीतेन मूर्तेनेव सुमेरुणा
दैत्यसंहारगणनाचिह्नहेमाङ्गदां गदाम् ।
धारयन्तं गिरीन्द्राणां गौरवैरिव निर्मिताम्
अरुणैरूरुयुगले रलसूर्यांशुभिर्वृतम् ।
मधुकैटभकण्ठासृक्छटाभिरिव चर्चितम्
शङ्खकान्तिवितानेन रत्नमालातरङ्गिणा ।
क्षीरोदेनेव शयनायासत्रस्तेन सेवितम्
राहुकण्ठाटवीछेदप्रोच्छलच्छोणितारुणैः ।
व्याप्तं चक्रप्रभाचक्रैः सूर्याशुभिरिवाम्बरम्
अहो बतायमस्माकं शत्रुर्लोचनगोचरः ।
निरञ्जनदशां येन नीता दैत्यवधूदृशः
घ्नता हिरण्यकशिपुं सुतारैर्नखराङ्कुरैः ।
हन्ता हतान्यनेनैव मुक्ताभानि यशांसि नः
नृसिंहचरणाक्रान्तिरजोदिग्धां सभाभुवम् ।
हत्वेमं क्षालयाम्येष दैत्यहर्षाश्रुवारिभिः
इति ब्रुवाणं सावज्ञं लीलास्मितसिताधरः ।
पातिना दर्पमधुना मत्तो ऽस्मीत्यभ्यधाद्विभुः
घोराट्टहासविकटो दानवाधिपतिस्ततः ।
अपातयच्छस्त्रवृष्टिं देवोरसि भुजैर्घनैः
अकम्प्यत सुपर्णो ऽपि गदया चण्डवेगया ।
देवोरसि भुजैर्येन निष्कम्पो ऽकम्पत क्षणम्
विस्मितः कोपसंरम्बादथ विष्णुर्व्यवर्धत ।
सहस्रबाहुचरणः सहस्रवदनेक्षमः
स सुदर्शनमासाद्य विषदं भयदं द्विषाम् ।
पर्यन्ततेजःप्रसरैः किरत्काञ्चनावालुकम्
दैत्यास्थिकूटकुण्ठाकं क्षुराग्रं वज्रमण्डलम् ।
चिक्षेप क्रकचक्रूरं दानवाननकानने
तद्विष्णुभुजनिर्मुक्तं प्रतिमानं विवस्वतः ।
चकर्ताग्निशिखोद्गारं घोरं वक्त्रशतं द्विषः
निकृत्तभुजवक्त्रोत्थसरद्रुधिरनिर्झरः ।
न पपात चिरं दैत्यो मन्युस्तब्ध इव स्थितः
पक्षवातेन तार्क्ष्यस्य क्षुण्णक्ष्माधरमौलिना ।
सप्ताब्धयः समुत्पेतुस्तरङ्गालिङ्गिताम्बराः
सर्वतः पाणिपादेन सर्वे सर्वत्र दानवाः ।
पीडिता विश्वरूपेण प्रययुः स्मृतिशेषताम्
***** कालनेमिवधः ॥ 10 ॥ *****
ततो निवृत्ते दुर्वृत्ते प्रवृत्ते धर्मकर्मणि ।
ब्रह्मप्रभृतिभिर्देवैः स्तूयमानो महर्षिभिः
स्वपदे शक्रमादाय ब्रह्मसद्म ययौ हरिः ।
वन्दितस्त्रिजगद्वन्द्यैः सिद्धैः संविन्मयात्मभिः
ततो निजाश्रमं गत्वा स्वप्रभोद्भासितं विभुः ।
भेजे ऽम्बुधौ योगानिद्रामदभ्राभ्रोत्तरच्छदे
तं शेषशायिनं कृष्णं सहस्रवदनं शनैः ।
निद्रा सिषेवे मत्तालिमालेव कमलाकरम्
तस्य पीतांशुकोदारं सुप्तस्य विबभौ वपुः ।
नाभेब्रह्मसरोजोत्थरजः पुञ्जैरिवाचितम्
कलयन्नक्षसूत्रेण लौकिकीं कालकल्मषाम् ।
प्रजाः श्वासावलीसूत्रैः संजहारोत्ससर्ज च
तस्मिन्प्रसुप्ते विधिना दक्षैणायनकारिणा ।
निद्रापि निद्रयेवाभूत्तमःपटलमीलिता
जृम्बालस्यविमोहाङ्का नृणां जीवार्थहारिणी ।
अदीर्घप्रलये सेयं पावनी विष्णुसंगमात्
ततो वर्षसहस्रेषु यातेषु च कृते कते ।
त्रेतायां विनिवृत्तायां द्वापरे तनुतां गते
कमलाकेलिकमलप्रान्तवातविबोधितम् ।
पितामहमुखा देवाः सहस्राक्षपुराःसराः
एकीभूताः समभ्येत्य जगत्कार्यार्थमुद्यताः ।
तं तुष्टुवुर्मुनिगणाः फुल्लपद्मकराः क्षणम्
योगनिद्रापदेशेन गर्भीकृतजगत्त्रये ।
त्वयि देव न जानीमः कर्त्वयं सुप्तसंविदा
त्रैलोक्यकर्मणां मुद्रां निद्रां नेत्राब्जषट्पदीम् ।
त्यज भोगपरिम्लानामिव नीलोत्पलस्रजम्
स्फारेण दक्षिणेनाक्ष्णा जन्मक्षेत्रेण भास्वतः ।
जगन्ति कमलानीव विकासय जगत्पते
सव्येनेन्दूदयानन्दविष्यन्दामृतवर्षिणा ।
भूतानि सर्वभूतात्मन्कुमुदानीव जीवय
देव देवाः प्रतीक्षन्ते त्वत्प्रसादावलोकनम् ।
विज्ञप्तिः श्रूयतामेषा जगतां कार्यगौरवात्
श्रुत्वेति देवर्षिवचो निद्राविषदलोचनः ।
पार्श्वे वलितहारार्धविश्रान्तिकृतमण्डलः
आवृत्तकंधरो देवानवदद्दशनांशुभिः ।
कुर्वन्वदनपद्मानां मृणालीकाण्डमण्डलम्
किमयं लोकपालानां मन्त्रशंसी समागमः ।
अपि नाम न दैत्येन्द्रैः क्रान्तास्त्रिदशभूमयः
फुल्लाब्जपुञ्जजयिनी किरणाङ्कुरकेसरा ।
इयं वो वदनच्छाया न शंसति पराभवम्
अयं च स्वयमायातः पद्मजन्मा पितामहः ।
हितं च जगतां कार्यं नाल्पमेतद्भविष्यति
सज्जो ऽहं भवतामर्थे कर्तव्यमधुनोच्यताम् ।
इति वादिनि देवेशे बभाषे चतुराननः
सर्वं त्वमेव सर्वात्सञ्जानीषे कार्यमात्मना ।
प्रश्नाज्ञाः किंतु भवतः परेण न विलङ्घ्यते
सहस्रशीर्षः शेषो ऽयं वक्तुं जानाति ते स्तुतिम् ।
तवैव भारती देवी यदि वैषा सरस्वती
त्वच्चक्रक्रकरोत्कृत्तदैत्योग्रविषपादपे ।
धर्मस्यति जगत्यस्मिन्नभग्नप्रणयो रथः
विवृद्धः सर्वभूपालाः सदाचारानुवर्तिनः ।
प्रभूतबलसंभारैर्भारः किंतु महान्क्षितेः
सेयं महीयसी चिन्ता महीमञ्जनशङ्कया ।
सद्वृत्तानां नरेन्द्राणां क्षये यदयमुद्यमः
प्रजापतेरिति वचः श्रुत्वा देवः प्रजाहितम् ।
तथेत्युक्त्वा ययौ सार्धं त्रिदशैरमरावतीम्
तां कल्पपादपवतीं रत्नमन्दिरसुन्दराम् ।
प्रविश्य भेजे प्रोद्भूतरत्नस्तम्भप्रभां समभाम्
चन्द्रकान्तासने तत्र क्षीरार्णव इवापरे ।
स्तिते विष्णौ सुराः प्रापुर्हेमरत्नासनान्यथ
ब्रह्मवाक्यात्प्रतीहारे वेत्रपाणौ समीरणे ।
निवातसुप्तदुग्धाब्धिनिःशब्दमभवत्सदः
ततस्तं सूचिताभिख्या स्वयं तामरसौकसा ।
पादपीठे पुरो विष्णोरुपविश्यानतानना
श्यामा पद्मपलाशाक्षी हारांशुशबलस्तनी ।
नानारत्नप्रभाभङ्केन देवी रोहिणभूभृतः
उवाचोर्वी मुखाम्भोजदिव्यगन्धाधिवासिनी ।
हरन्ती बालवल्लीनां भृङ्गभारकदर्थनाम्
देव त्वच्चरणाम्भोजमध्यविश्रान्तिलालिता ।
न कदाचन जाने ऽहं जगद्भारपरिश्रमम
ललना क्व नु नामाहं क्व चेमे कुलभूधराः ।
तदेतत्त्वदवष्टम्भसंभारस्य विदृम्भितम्
मज्जन्ती सलिले पूर्वं नलिनीदललीलया ।
त्वयैवादिवराहेण दंष्ट्राग्रेणाहमुद्धृता
जगत्येकार्णवे पूर्वं निर्मथ्य मधुकैटभौ ।
तन्मेदसा घनीभूता त्वयाहं मेदिनी कृता
भार्गवेण कृते कोपादसकृत्क्षत्त्रसंक्षये ।
कालेन पुनरुद्भूता मनोर्वंशे नरेश्वराः
तेषां सुभटसंघाते गजवाजिसमाकुले ।
वृद्ध्या निर्विवरीभूते भारेणास्मि निपीडिता
क्रियतां तत्क्षयोपाये ऽप्यवधानलवः क्षणम् ।
शरण्यं त्रिदेशेशानां त्वामस्मि शरणं गता
गुरुरग्निः सुवर्णस्य तिग्मांशुश्च गवां गुरुः ।
तारकाणां गुरुः सोमः सदा मम गुरुर्भवान्
श्रुत्वेति पृथिवीवाक्यं विष्णुना तिर्यगीक्षितः ।
तत्समीहिततत्त्वज्ञो देवान्प्राह पितामहः
अंशावतारः क्रियतां भवद्भिर्भूतये भुवः ।
एष विष्णुः क्षितौ साक्षादवतारे कृतक्षणः
पुरा जलनिधेस्तीरे कश्यपेन सह स्थितम् ।
मां गङ्गानुगतः श्रीमानाययौ भूषितो ऽम्बुधिः
तेनाहं प्लावितो वार्भिर्दृप्तं तमवदं रुषा ।
भो राजवेश शान्तो ऽसीत्युरक्तमात्रो भवत्तनुः
स जातः शंतनुर्नाम मच्छापाद्वसुधाधिपः ।
वसूनां जननी गङ्गा तमेवानुगता प्रिया
तद्वंशे पाण्डुरुत्पन्नो धृतराष्ट्रश्च भूमिपौ ।
धर्मानिलेन्द्राश्विभागाः पाण्डोरायान्ति पुत्रताम्
केलरंशस्य पुत्रो ऽस्तु धृतराष्ट्रस्य सानुजः ।
अन्येषु राजवंशेषु भवन्तु च सुराः परे
रुद्रश्च शिशिरांशुश्च गन्धर्वोरगाराक्षसाः ।
तेषां परस्परं घोरे वैरारणिमुद्भवे ।
रणानले क्षयं यातु घनं क्षितिपकाननम्
तान्प्रजापतिरित्युक्त्वा विससर्ज वुसंधराम् ।
ततोंऽशैस्तत्समादिष्टास्त्रिदशाः क्ष्मामवातरन्
अत्रान्तरे हेररंशो भगवान्नारदो मुनिः ।
अभ्यायात्तेजसा कुर्वन्दिशः कनकपिङ्गलाः
नादशक्तिं कुटिलतां भुवनोदरसंकटे ।
मूर्तामिव वहन्वीणां स्वरज्ञश्छन्दसां निधिः
रहस्यभेत्ता जगतां कलिकेलिकुतूहली ।
आवर्जितजटाबन्धः स विष्णु प्रणतो ऽभ्यधात्
भगवन्भुवि भूपालवंशेषु त्रिदशेश्वराः ।
अवतीर्णा भवद्वाक्यात्कित्वेष विफलः श्रमः
असतां तावदमराः समुद्धतमहोरगाः ।
तृष्णाञ्चने ऽपि का शक्तिस्त्वां विना परमेष्ठिनम्
दानवा भुवि संभूता भवता ये हताः पुरा ।
अवतीर्य भवानेव तेषां मूलक्षये क्षमः
लवणं दानवं हत्वा शत्रुघ्नो राघवानुजः ।
छित्त्वा मधुवनं चक्रे यां पुरीं मथुरां पुरा
तस्यामद्य समुत्पन्नः कंसो यदुकुले नृपः ।
यो ऽसौ हतस्त्वया पूर्वं कालनेमिर्महासुरः
हयग्रीवादयो ये च दैत्याः पूर्वं हरास्त्वया ।
ते केशिधेनुकारिष्टप्रलम्बाद्या भुवि स्थिताः
तेषां वधाय भगवन्क्रियतां स्वयमुद्यमः ।
नारदेनेत्यभिहिते तथेत्यूचे जगत्पतिः
जन्मधामोचितं पृष्टस्तेन ब्रह्मवदत्ततः ।
श्रूयतां भगवन्यस्ते धन्यः समुचितः पिता
यज्ञार्थे याज्ञियां धेनुं पुरा पुत्रस्य कश्यपः ।
अदितिः सुरभिश्चास्य वल्लभे जगतीपतेः
स यादवकुले जातो वसुदेवो महायशाः ।
देवकी रोहिणी चेति ते तस्य दयिते उभे
तस्य पुत्रत्वमासाद्य गोपक्रीडारसाकुलः ।
अत्यद्भुतानि कर्मणि दर्शयञ्जहि दानवान्
धन्यः स जगतां वन्द्यः कस्य वा न स्पृहापदम् ।
यः श्रोष्यति तवाव्यक्तवर्णं तातेति जल्पतः
इति पद्मोद्भवगिरा कृताभ्युपगमे हरौ ।
नारदः प्रययौ भेदी कौतुकेनार्जवेन च
विचित्रभास्कराल्लोकलोकसंचरणव्रतः ।
स महीमेत्य मथुरां विवेश विषदां पुरीम्
कौतुकानां कुलगृहं को ऽयं सकलसंपदाम् ।
उद्यानं कल्पवल्लीनां वीक्ष्य तां विस्मितो ऽभवत्
तत्र सिंहासनासीनां कंसं भीमं महीभुजाम् ।
प्रत्यग्रं तं ददर्शोग्रमुग्रसेनजमग्रजः
तत्सभां पूजितस्तेन रत्नसिंहासनोज्ज्वलाम् ।
प्रविश्य क्षणमासीनस्तमूचे बलगर्वितम्
लोकसंचारिणा कंस मया सुरसभान्तरे ।
श्रुतस्तव वधोपाये मन्त्रः सुचिरचिन्तितः
पितुः स्वसुस्ते देवक्या यो गर्भो भविताष्टमः ।
सानुगस्य स ते मृत्युर्विहितः शङ्कितैः सुरैः
इत्युदीर्य मुनौ याते श्वसन्कंसः सभास्थितः ।
जहास कान्तिं शत्रूणां दंष्ट्राभिस्तर्जयन्निवः
सो ऽवदत्सचिवानन्तःकोपे ऽप्यविकृताननः ।
असूययेव देवानां मुहुरालोकयन्नभः
अहो नु भेदशीलेन मुनिना मूढचेतसा ।
नाकौकसामविषये कथितो मन्त्र एष नः
नितरां प्रतिकूलो ऽहं देवानामधुना स्थितः ।
केशिमुख्याः क्षयायोर्व्यां विचरन्तु मदाशया
प्रलम्बलेनुकारिष्टपूतनाकालियादयः ।
कुर्वन्ति यज्वनां लोके देवद्वेषात्पराभवम्
देवकीगर्भनिधने तिष्ठन्त्ववहिताः सदा ।
आप्तवादेन नार्यस्तु पुरुषाश्च हिता मम
इत्युक्तः सचिवान्कंसो निर्विकारो ऽभवद्बहिः ।
अन्तस्तु चिन्तासंतापमुवाह विषदुःसहम्
तस्मिन्नवसरे कृष्णो जगद्रक्षाकृतक्षणः ।
पातालमेत्य तान्गर्भानपश्यत्कालनेमिजान्
तपसोग्रेण ते प्रापुः पुरा कमलजाद्वरात् ।
हिरण्यकशिपुश्चैतानशपह्ब्रह्मनिन्दकः
मामनादृत्य युष्माभिर्यस्मादाराधितो विधिः ।
तस्मात्पूर्वं पितुर्वध्या यूयं गर्भान्मृता भुवि
इति तच्छापविवशान्सलिलान्तरनिश्चलान् ।
तान्सुप्तान्वीक्ष्य भगवान्निद्रामूचे स्वरूपिणीम्
षट्सु गर्भेषु देवक्या जीवानेतान्क्षिप स्वयम् ।
भविष्यत्यन्तकस्तत्र तेषां कंसः स्वचिन्तया
सप्तमो रोहिणीगर्भो त्याज्यो विनिमयेन तु ।
गर्भस्तदन्ते देवक्या भविष्याम्यहमष्टमः
गोव्रजे नन्दगोपस्य यशोदाख्या कुटुम्बिनी ।
मज्जन्म समकालत्वं तद्गर्भे ऽवतर स्वयम्
मासे ऽष्टमे नवम्यां तु कृष्णरात्र्यां मृगेक्षणे ।
व्यत्यासस्तत्र भविता तुल्ये जन्मन्यथावयोः
ततस्त्वं कंसपुरुषैः शिलायामाहता भृशम् ।
गमिष्यसि दिवं देवि दिव्येन वपुषान्विता
तत्र त्वं शक्रभगिनी भूत्वा पूज्या दिवौकसाम् ।
दुर्गा निसुम्भसुम्भघ्नी पदं विन्ध्ये करिष्यसि
चन्द्रानना कृष्णतनुः सिंहवाहा शिखिध्वजा ।
व्यक्ताव्यक्ता परा शक्तिः कालरात्रिर्जया धृतिः
ह्रीः श्रीर्माया मतिः पुष्टिर्देवानामधिदेवता ।
जननी व्यापिनी काली पार्वती धरणी प्रभा
सर्वक्षयकरी घोरा शिवा पीयूषवर्षिणी ।
नवमी संनिधिः सिद्धिदायिनी त्वं भविष्यसि
इत्यादिश्य हरिर्निद्रामुन्निद्राम्बुरुहेक्षणः ।
तत्कार्यं मनसा ध्यात्वा स्वधाम भगवान्ययौ
अथ गर्भेषु देवक्याः षट्सु कंसस्य शासनात् ।
हतेषु तेषु क्रमशः किंकरैः क्रूरकारिभिः
सप्तमे ऽपि समाकृष्य नीते संकर्षणाभिधे ।
विन्तस्तरोहिणीगर्भगेहे स्वजननीधिया
अष्टमं जगतां नाथं गर्भमादत्त देवकी ।
येन प्रभातवेलेव साभूदासन्नभास्करा
ततः पूर्णे ऽष्टमे मासि रात्र्यर्धे ऽभिजिता युते ।
असूत देवकी विष्णुं हुताशनमिवारणिः
तस्मिन्नेव क्षणे कन्यां यशोदा विषदद्युतिम् ।
अजीजनत्प्रसन्नेषु लोकेष्वच्युतजन्मना
कम्पिते भुवने देवगणे मङ्गलभाषिणि ।
पुष्पवर्षैः प्रकाशासु दिक्षु कीर्त्या हरेरिव
निद्रया मोहिते रक्षिजने तत्प्रेरिताशयः ।
वसुदेवो रहश्चक्रे गर्भयोर्व्यत्ययं स्वयम्
नन्दगोपगृहे पुत्रं विन्यस्यादाय तत्सुताम् ।
देवकीगर्भशयने तत्याज भयशङ्कितः
ततः प्रबुद्धैः कन्येयं जातेत्यद्भुतवादिभिः ।
कंसाय दर्शिता गर्भसलिलार्द्रैव रक्षिभिः
तच्छासनादाहताथ सा तैः पृथुशिलातले ।
दीप्तायुधानेकभुजा शिखेवाग्नेः स्वमाविशत्
हारनक्षत्रमालाङ्का शशाङ्करुचिरानना ।
भूतसंमोहजननी रजनीव सविग्रहा
हंसरत्नप्रभादीप्तकुण्डलाभ्यां विराजिता ।
द्यौरिवास्तोदयासक्तशशिमार्ताण्डमण्डला
मयूरबर्हाभरणा मायूरध्वजभूषिता ।
श्यामा सशक्रचापेव प्रावृट्पीनपयोधरा
मुकुटेन त्रिशृङ्गेण नानारत्नाट्टहासिना ।
विभूषितकचाबन्धा रोहिणाद्रिवतीव भूः
सा भूतसंघानुगता हसन्ती सखनं मुहुः ।
दारयन्ती तमः कंसं तर्जयन्ती समभ्यधात्
कंस कंसान्तकाले ऽहं कृष्यमाणस्य वैरिणा ।
विदार्य जीवितं देहे पास्यामि तव शौणितम्
इत्युक्त्वाभिमतं देशं ययौ कात्यायनी दिवः ।
चकम्पे विफलोद्योगलज्जितश्चोग्रसेनजः
स गत्वा देवकीं मूर्ध्ना प्रणिपत्य प्रसाद्य च ।
गर्भाः कालेन ते मातः क्षपिता इत्यभाषत
***** कृष्णोत्पत्तिः ॥ 11 ॥ *****
शङ्कितो वसुदेवस्तु रोहिणीसुतमत्यजत् ।
नन्दगोपगृहेष्वेव शीतांशुसुभगद्युतिम्
न्यासीकृत्य यशोदायां ज्येष्ठं संकर्षणं शिशुम् ।
गूढे च कृष्णवृत्तान्ते तच्चिन्तानिरतो ऽभवत्
प्रेरितो नन्दगोपस्तु तेन पुत्रहितैषिणा ।
त्यक्त्वा वृन्दावनं घोरं दैत्यकण्टकपन्नगैः
गोवर्धनवनोपान्ते यमुनास्निग्धपादपे ।
वीतविघ्ने व्रजं चक्रे बहुभिर्गोकुलैर्वृतः
गम्भीरमन्थनिर्घोषघनानन्दितचातके ।
पाकावर्तिघृतामोदसंपूरितसमीरणे
वनप्राप्यप्रतिच्छन्नवत्सहुंकारगोगणे ।
गोपालीकाकलीगीतनिश्चलाङ्गकुरङ्गके
कालिन्दीतीरवानीरलतादोलायितार्भके ।
भ्रात्रा सहेन्दुशुभ्रेण कृष्णो मरकतद्युतिः
व्यवर्धत वनोद्भेदः स गाङ्ग इव यामुनः ।
प्रसुप्तं शकटस्याधस्तृप्ते स्तन्येन निश्चलम्
कदाचित्तं समुत्सृज्य यशोदा यमुनां ययौ ।
प्रबुद्धः सो ऽथ शनकैः पाणिपादं क्षिपन्मुहुः
रुरोद दशनोद्द्योतैः क्षीरपूरैरिवाङ्कितः ।
चरणौ च प्रसार्योर्ध्वं जृम्भाविकसिताननः
पादेनैकेन शकटं विपर्यस्तमधो व्यधात् ।
अत्रान्तरे सम्भ्येत्य यशोदा प्रस्नुतस्तनी
शकटं भग्नमालोक्य चकम्पे सुतवत्सला ।
सा शिशुं स्वस्थमादायेत्यूचे नन्दो विशङ्कितः
केनेदं शकटं भग्नं विना मत्तवृषाहतीः ।
तेनेति पृष्टाः शिशवः कृष्णेनेति बभाषिरे
***** शकटभङ्गः ॥ 12 ॥ *****
ततः कृष्णोत्सवे लोके सुप्ते निशि निशाचरी ।
आययौ पूतना नाम मायया प्रस्नुतस्तनी
सा दधौ वदने तस्य शिशोर्निधनकाङ्क्षिणी ।
स्तनं प्राणैः सहास्याश्च तमाकृष्योच्चकर्त सः
हतायां व्याघ्रघोषायां तस्यामभ्युत्थितो भयात् ।
सभार्यो नन्दगोपोओ ऽभून्मग्नोन्मग्न इवाम्बुधौ
ततो विदितवृत्तान्तौ विस्मयानन्दनिर्भरौ ।
तौ दम्पती बहिः कंसभयान्नो कंसभयान्नो किंचिदूचतुः
***** पूतनावधः ॥ 13 ॥ *****
शनकैश्चरणन्यासमक्रूरैः सगतागतैः ।
हर्षं ववर्ष बन्धूनां त्रैलोक्याक्रमणक्षमः
कालेन वर्धमानौ तौ कृष्णसंकर्षणौ वने ।
पूर्यमाणौ मदेनेव पञ्चाननकिशोरकौ
विरेजतुः शिशुक्रीडायां सुभूषितविग्रहौ ।
रक्ष्यमाणाविवालिङ्ग्य भुवो भारक्षयक्षमौ
कान्तौ कमलपत्त्राक्षौ चलत्कुटिलकुन्तलौ ।
स्मितेन चक्रतुः कण्ठे सितमुक्तावलीरिव
तुल्यलावण्यमाधुर्यधुर्यं वपुरभूत्तयोः ।
महतां संश्रये नूनमेककार्यविरोधिने
स्वेच्छागोपतनौ तत्र देवे त्रैलोक्यगोप्तरि ।
स्पृहा तत्सङ्गधन्येभ्यो गोपेभ्यो ऽबूद्दिवौकसाम्
धर्तुं यदा यशोदा तं न शशाक महाजवम् ।
आबबन्धोदरे धीरा दाम्ना दामोदरं तदा
तरसा स समाकृष्य दामबद्धमुलूखलम् ।
विचचार वने केलिचतुरो विगतश्रमः
विस्मयं प्रययुर्गोपास्तस्योलूखलकर्षणात् ।
मन्दराधारधैर्ये ऽपि जगद्यस्मिन्न विस्मितम्
विपुलौ यमुनातीरे संहातावर्जुनद्रुमौ ।
स प्राप्य तन्मध्यगतश्चकर्षोलूखलं बलात्
तद्बलोन्मूलितौ वेगात्पेततुरथ तौ द्रुमौ ।
येनाभूत्क्षोभगम्भीरः संरम्भो यमुनाम्भसः
गोपबालास्तदालोक्य भयस्मयतयाकुलाः ।
यशोदामूचिरे गत्वा संभ्रमाकुलितस्वराः
अयि प्रमादशीले त्वं सुखसुप्तेन मोहिता ।
पूज्यौ तौ तव पुत्रस्य पतितावुपरि द्रुमौ
देवान्महाभयान्मुक्तं गत्वा तं पश्य दारकम् ।
श्रुत्वेति स्वेदमग्नेव यशोदा कम्पिता ययौ
सा विलोक्य तयोर्मध्ये महापादपयोः सुतम् ।
संत्रासं च प्रसादं च विस्मयं च ययौ क्रमात्
ततः सर्वे समभ्येत्य गोपवृद्धाः ससंभ्रमम् ।
अवदन्केन घोषस्य दैवतौ(?) पातिताविमौ
नाभवन्मेघनिर्घातो व्यभ्रे का विद्युतां कथा ।
नेह मत्तो द्विपः कस्मादकस्माद्द्रुमयोः क्षयः
इति वादिनि गोपालमण्डले सुतमग्रहीत् ।
विमुच्य नन्दः सासूयं यशोदामवलोकयन्
निन्दति स्ववधूं याते नन्दगोपे सहानुगे ।
गृहे गृहे भवत्को ऽपि द्रुमभङ्गकथास्मयः
***** द्रुमनिपातः ॥ 14 ॥ *****
किंचिदुन्मुक्तबाल्यौ तावथ संकर्षणाच्युतौ ।
नीलपीताम्बरौ काकपक्षाङ्कौ चेरतुर्वने
उत्तंसकुसुमापीडैः फलविभ्रमकारिणौ ।
रक्षातिलकरत्नाग्राविव नागकुमारकौ
मयूरपक्षाभरणप्रभापल्लवशालिनौ ।
लावण्यामृतनिष्यन्दौ पारिजातात्मजाविव
ह्रस्ववेणुकलक्वाणस्वभावमधुरस्वनौ ।
प्रांशुशैलशिलासीनाविव किन्नरदारकौ
उत्पतत्कन्दुकोदारगुलिकाचतुरभ्रमौ ।
विचित्रमाल्यललितौ विद्याधरसुताविव
पाणौ दधानौ बाणाङ्ककेलिकोदण्डण्डिकाम् ।
पुनर्वनमिवायातौ वीरौ राघवलक्ष्मणौ
विहरन्तौ मदोदारौ तौ राजीवविलोचनौ ।
रेजतुः किंचिदासन्ननवयौवनविभ्रामौ
चिरभोगपरिम्लानविरलौषधिपादपे ।
नारंस्त केशवस्तत्र नवकाननकौतुकी
स कृत्वा व्रजसंत्रासं गूढं मायामयैर्वृकैः ।
रन्तुं वृन्दावनोपान्तं कालिन्दीसुन्दरं ययौ
निविष्टे गोकुले तत्र निर्भये सेव्यसंश्रये ।
नवकाननसंभोगः को ऽपि गोपकुले ऽभवत्
अदृश्यत ततः श्यामा नवोद्गतपयोधरा ।
वधूर्नवेव कृष्णस्य प्रावृड्विहितकौतुका
नववारिधरैर्व्योम्नि चलत्कलभविभ्रमैः ।
वियोगिनीमनोजन्मवह्निधूमोद्गमायितम्
जयिनः स्मरराजस्य वीजयन्व्यजनैरिव ।
ततो विरहिणीचिन्तानिःश्वासप्रसभो ऽनिलः
भुवि कान्तास्मितसिता बभुः केतकसूचयः ।
मेघामर्दविशीर्णस्य शिशिरांशोः कला इव
बलाकावलयाश्चेरुर्गुरुगर्जरता दिवि ।
मत्तमेघगजेन्द्राणां दन्तकान्तिचया इव
घनानां शक्रचापेन वनानां शिखिताण्डवैः ।
परस्परप्रभापुञ्जस्पर्धेव समजायत
वर्षाक्षालितसच्छायतमालकदलीभराः ।
स्निग्धस्नातेव युवतिर्विरराज वसुंधरा
त्वङ्गत्तुरङ्गभ्रूभङ्गा फेनकूटाह्व(ट्ट)हासिनी ।
मत्तेव यौवनवती बभ्राम यमुनावने
बभौ सौदामिनीदामकान्तिः कापि पयोमुचाम् ।
मेरुशेखरलग्नेव तप्तजाम्बूनदच्छटा
नीलाभ्रचकिताः क्वापि राजहंसगणा ययुः ।
चिरं नष्टमिवान्वेष्टुं शशाङ्कं कुमुदाकराः
तस्मिन्कदम्बकुटजामोदप्रमुद(?)निर्भरे ।
काले विरहिणां काले कृष्णं संकर्षणो ऽब्रवीत्
पूरितं परिसर्पद्भिर्बलाकाफेनहासिभिः ।
पश्य कृष्ण घनैर्व्योम यामुनैरिव वारिभिः
तडित्पीताम्बरजुषां वनमालावलम्बिनाम् ।
विभाति वारिवाहानां तवेव श्यामलं वपुः
इत्यग्रजवचः श्रुत्वा प्रणयाभरणं हरिः ।
ललास लीलाभरणो मधूराभरणे वने
***** प्रावृड्वर्णनम् ॥ 15 ॥ *****
वर्षच्छेदप्रकाशे ऽथ नवीभूत इवाखिले ।
कदाचिद्विहरन्कृष्णः कानने भ्रातरं विना
न्यग्रोधं प्राप विपुलं वृतो गोपकुमारकैः ।
प्रवृद्धभुजसंभारैर्नभो मातुमिवोद्गतम्
विद्याधरसनाधानि त्रिदशाध्युषितानि च ।
कुलाद्रिशिखराणीव कौतुकाद्द्रष्टुमुत्थितम्
सर्वाशापूरणोदारसच्छायं भूषणं भुवः ।
प्रासादं वन्देवीनां भाण्डीरं नाम पादपम्
तं दृष्ट्वा स्निग्धमानन्दबन्धुं शौरिर्निरन्तरम् ।
हृष्टश्चचार तन्मूले गीतवाद्यविनोदकृत्
ततो ददर्श कालिन्दीं जगद्द्विपमदच्छटाम् ।
त्वङ्गत्तरङ्गकुटिलां दीर्घवेणीमिवावनेः
फेनबुद्बुदनक्षत्रमालां पुण्यजनोचिताम् ।
यातां तापिच्छसच्चायां द्रवतामिव शर्वरीम्
विस्फारशफरोत्फालस्फुरत्स्फीतफणाङ्किताम् ।
सेनामिव भुजङ्गानां तरङ्गाभोगभङ्गुराम्
उन्निद्रपद्मवदनां विकचोत्पललोचनाम् ।
चक्रवाककुचाभोगां श्यामां हंससितस्मिताम्
चण्डांशुतापविगलन्मणिपर्वतकन्दराम् ।
संप्रवृत्तामिवावर्तस्फूर्जन्मरकतद्रवाम्
क्वचित्सुप्तामिवास्पन्दां क्वचिन्मत्तामिवोद्धताम् ।
मूर्छितां विषवेगेन क्वचिद्दष्टामिवाहिना
क्वचिद्भीतामिव च्छन्नां क्वचिद्व्याग्रमिवाकुलाम् ।
अमन्दविभ्रमालोलां क्वचिन्मानवतीमिव
मज्जद्गोपाङ्गनातुङ्गकुचकुम्भोन्नतोदकाम् ।
ननन्द कृष्णस्तां दृष्ट्वा तरुणीमिव हारिणीम्
ततो ददर्श पातालतलगम्भीरभीषणम् ।
करालकालभ्रूभङ्गभङ्गुरोर्मिशताकुलम्
तमोमलिनमत्युग्रमकारणभयप्रदम् ।
दूरात्परिहृतं सर्वैः खलं नरमिवेश्वरम्
अद्यापि न जगद्ग्रस्तं मयेति ज्वलिताशयम् ।
धूमोद्गमायितैस्तोयैर्निःश्वसन्तमिवानिशम्
व्याप्तमाशीर्विषैर्घोरैस्तीरकोटरशायिभिः ।
वीतचन्द्रार्कनक्षत्रं स्वमिवातङ्कदं ह्रदम्
निक्षीक्ष्य दूराक्षोभ्यं क्षणं हरिरचिन्तयत् ।
अस्मिन्स कालियो नाम कालकूटोत्कटः फणी
निवासत्यसिताकारः सर्वप्राणिभयंकरः ।
येनेयं विषनिःश्वासैर्दूषिता यमुनातटी
सो ऽयं मत्तो ऽतिदर्पेण मत्तो नाशमिहार्हति ।
संभवो ऽयं मम प्रायो विनाशाय दुरात्मनाम्
विचिन्त्येति ह्रदोपान्ताकदम्बतरुपुत्रकम् ।
बद्धकक्ष्यः समारुह्य पपात नभसो ऽम्भसि
गर्जता कृष्णमेघेन सा वेगमवपातिना ।
उद्ययौ क्षोभितां वारि विकरालोर्मिशेखरम्
दूरोत्पतितशैलाभकल्लोलविनिपातजः ।
तदभूद्धोरसंघट्टटाङ्कारो घट्टिताम्बरः
ततः स दहनोद्गारविषफूल्कारभीषणः ।
पञ्चास्यो रक्तनयनः कालियः समदृश्यत
अञ्जनाचलतुल्येन तस्य भोगेन सर्वतः ।
वर्धमानेन संरुद्धं जलं व्योम व्यगाहत
तत्कोपज्वलनज्वालावलये क्षिप्रमम्भसाम् ।
अपरौर्वानलभ्रान्तिजनकः प्रलोयऽभवत्
दन्तनिष्पेषजास्तस्य विषानलपरम्पराः ।
भस्मसात्सहसा तीरतरुमालां प्रचक्रिरे
भोगेनावेष्ट्यमानो ऽथ कृष्णः कृष्णेन भोगिना ।
बभौ वलयितो वार्भिस्तमाल इव यामुनैः
सानुगेनोरगेन्द्रेण गोविन्दं गोपदारकाः ।
दंष्ट्राकोटिविषोल्कभिर्व्याप्तं वीक्ष्य समन्ततः
संत्रस्ता व्रजमभ्येत्य चक्रन्दुः स्रस्तकन्दुकाः ।
एष दामोदरो घोरे पतितः कालियाम्भसि
वेष्टितः कालकल्पेन भोगिनाथ विषेत्कटम् ।
वचः श्रुत्वा ययुः सर्वे नन्दगोपमुखा ह्रदम्
प्रत्यग्रायासनिःस्पन्दे संदेहादोलिताशये ।
नन्दगोपे फणिव्याप्तपुत्रवक्त्रावलोकिनि
तारप्रलापमुखरे यशोदादुःस्वदारिते ।
स्त्रीजने ऽतीव संतप्ते प्याप्ते रागविषैरिव
तीरं संकर्षणेनैत्य संज्ञयैव विबोधितः ।
भुजाभ्यां भीषणाभोगं भोगमास्फाल्य भोगिनः
चरणाभ्यां समाक्रम्य हरिर्बन्धाद्विनिर्गतः ।
अवनाम्य फणाचक्रं सरत्नं ज्वलनोल्बणम् ।
आरुरोह शिरःस्फारं मध्यमं मधुसूदनः
ततः स सर्वजगतां चराचरगुरुर्गुरुः ।
उन्ममर्द पदन्यासैर्नृत्यन्निव सविभ्रमम्
स्रस्तदर्पो गलद्धैर्यः प्रोद्वान्तोग्रविषस्ततः ।
स कृष्णं रुधिरोद्गारगलिताक्षरमभ्यधात्
भीतः संरक्षणीयो ऽहं नस्रः सर्वात्मना त्वया ।
अञ्जलिव्यञ्जनं दैन्यं जीवपुण्यमिदं मम
दामोदरो निशम्यैतज्जगाद भुजगाधिपम् ।
ह्रदो ऽयमशिवाचार सेव्यो ऽस्तु भवता विना
ततस्त्वमम्बुधिं गच्छ यदि वाञ्छसि जीवितम् ।
तत्र मत्पादमुद्रा ते तार्क्ष्यरक्षा भविष्यति
इति तच्छासनाद्याते सानुगे भुजगे क्षणात् ।
ययुः कृष्णं प्रशंसन्तो गोपाः सानन्दविस्मयाः
***** कालियसूदनम् ॥ 16 ॥ *****
ततो विविशतुः केलिकलौ हलधराच्युतौ ।
विशालतालहिन्तालतमालश्यामलं वनम्
पञ्चतालफलास्वादनन्दितोन्मदमानसौ ।
चेरतुस्तत्र तौ डिम्बक्रीडाडम्बरतत्परौ
अथाययौ धेनुकाख्यो दैत्यस्तालवनाश्रयः ।
करालकेसरस्फारस्कन्धबन्धोद्धुरः खरः
तस्यानुगैर्महाकायैर्गर्दभैरभितो वृतम् ।
उदभूत्तालगहनं व्याप्तं धूमोद्गतैरिव
धेनुको ऽथ भृशं कोपाद्रुधिरारुणलोचनः ।
स्वुरैर्निर्दारयन्भूमिं रामकृष्णवधेप्सया
आह्वानमिव दैत्यानां कुर्वन्पातालवासिनाम् ।
घट्टयन्निव हेषाभिर्वज्रोग्रदशनायुधः
अभ्यधावत्समुद्भ्रान्तपुच्छः संकर्षणं जवात् ।
वातावधूतैकशिखश्चन्द्रं मेघ इवाकुलः
विदार् दशनैः सो ऽथ रौहिणेयमसंभ्रमम् ।
बभूव पश्चिममुखः प्रहाराय पराङ्मुखः
ताभ्यामेव समादाय तं खुराभ्यां प्रहारिणम् ।
चिक्षेप तालशिखरे फलार्थीव हलायुधः
स भग्नोरुतरुस्कन्धस्रुट्यत्कठिनकीकसः ।
पपात निष्लारम्भः सह तालफलैर्भुवि
सानुगे ऽथ हते तस्मिन्हते खरपराक्रमे ।
वीतविघ्नमभूत्सेव्यं तत्तालवनमायतम्
***** धेनुकवधः ॥ 17 ॥ *****
भूयो भाण्डीरविपिनं तौ गत्वा केलिशालिनौ ।
द्वन्द्वोपतनलीलाभिर्गोपपुत्रैर्विजह्रतुः
अथ तावाययौ वन्यकुसुमोत्तंसभूषणः ।
गोपवेषच्छलच्चन्नः प्रलम्बो नाम दानवः
क्रीडाभिराशयग्राही तोषयित्वा स तौ मुहुः ।
जहार स्कन्धमारूढं कदाचित्केशवाग्रजम्
स तं हृत्वा द्रुततिर्निजरूपमदर्शयत् ।
तमःपटावृता येन भीत्येव ककुभो ऽभवन्
तस्याञ्जनाद्रिशिखराकारे मूर्ध्नि परिस्फुरन् ।
दावानलशिखापुञ्जपिङ्गश्चूडामणिर्बभौ
तस्याबभौ मुखोद्गीर्णा सधूमदहनावली ।
नीलपीता पताकेव दंष्ट्रातोरणलम्बिनी
नीलशैलशिलाकूटविकटे रोहिणीसुतः ।
बभार दानवस्कन्धे शरदम्भोदविभ्रमम्
ह्रियमामः स तेनाशु मानुषं भावमाश्रितः ।
संमितं केशवेनारात्पुराणं स्मारितो वपुः
यत्तत्परतरं धाम वागीशं विश्वतोमुखम् ।
सर्वदेवमयं सत्यमनन्तमजमव्ययम्
निजं विपुलामास्थाय बलं भूमिधृतिक्षमम् ।
जघान मुष्टिना मूर्ध्नि प्रलम्बं धेनुकान्तकः
मुष्टिपाताद्विघटितस्फुटल्लालाटकर्परम् ।
काये विवेश दैत्यस्य कीर्मरक्तच्छटं शिरः
स्कन्धादवस्रुते रामे गिरिस्फारं कलेवरम् ।
निपपात प्रलम्बस्य लम्बमानभुजद्वयम्
***** प्रलम्बवधः ॥ 18 ॥ *****
बलिना बलदेवेन प्रलम्बे विनिपातिते ।
प्रयाते वार्षिके तत्र शनैर्मासचतुष्टये
प्रत्यासन्ने नवौत्सुक्यनिर्भरानन्ददायिनि ।
क्रतूत्सवे समारम्भो बभूव वनवासिनाम्
ततः सप्तच्छदामोदमालिनीहंसनूपुरा ।
विषदेन्दुमुखी फुल्लनीलोत्पलविलोचना
निमन्त्रितेव प्रमदा तस्मिन्व्रजमहोत्सवे ।
अदृश्यत सिताम्भोदभक्तिस्मेराम्बरा शरत्
तत्र गोपगिरा ज्ञात्वा यागं कृष्णं मरुत्पतेः ।
ऊचे स्मितसितालोकैः पाञ्चजन्यमिवासृजन्
अहो नु हास्यजननी मुग्धेयं भवतां मतिः ।
यागः शक्राय नार्हे ऽयं गोपा हि गिरिदैवताः
इति तद्वचसा गोपैर्गिरियज्ञे प्रवर्तते ।
विहिता भक्ष्यगिरयो घृतक्षीरोरुनिर्झराः
गोवर्धनगिरेर्यज्ञे तस्मिन्बह्वन्नसंभृते ।
पायसैः सदधिच्छन्नैर्हिमच्छन्नेव भूरभूत्
मयूरपत्त्राभरणाः कुसमोत्तंसशेखराः ।
तस्मिन्यागे बभुर्गोपा गावश्च सुविभूषिताः
गिरिमूर्धनि विश्वात्मा परेण गिरिवर्ष्मणा ।
वपुषा बुभुजे कृष्णस्तत्सर्वं तैर्निवेदितम्
तत्प्रहर्षस्मितोदारं निजं दिव्यं महद्वपुः ।
प्रणनाम स्वयं कृष्णो गोपैः सह गिरिप्रभम्
***** गिरियज्ञः ॥ 19 ॥ *****
वृत्ते महोत्सवे तस्मिञ्शतमन्युः क्रुधा ज्वलन् ।
आदिदेश व्रजोच्छित्त्यै घोरान्संवर्तकाम्बुदान्
तेन ते प्रेरिताः क्षिप्रं नीलशैलशिलाघनाः ।
घनाश्चक्रुर्जगद्व्याप्तं कालरात्रिशतैरिव
भिन्नाञ्जनघनच्छायैर्जीमूतैर्गर्जितोर्जितैः ।
ग्रस्ता इवोद्धतैः क्षिप्रं नादृश्यन्त दिशो दश
ततः करिकराकारा स्तम्भसंरम्भविभ्रमाः ।
पेतुर्धराधरे धाराः परिहारा धृतेः परम्
कालाट्टहासविकटा जलोद्गाराः प्रपातिनः ।
विरेजुः कालमेघानां गिरीणामिव निर्झराः
सो ऽभवद्भीषणाभोगमेघसंघातनिर्मितः ।
उल्लसत्स्थूलकल्लोललोलः सलिलविप्लवः
विद्युत्पिशङ्गकेशानां गर्जतां मेघरक्षसाम् ।
भयेनेव ययौ क्वापी जगती जलसंस्तुता
ते शक्राधिष्टिता घोरा दीप्ताशक्रायुधाङ्किताः ।
वर्षाशनिनिपातेन चक्रिरे कदनं गवाम्
वर्त्मविन्यस्तनेत्राणां पतन्तीनामितस्ततः ।
त्रासशीतपरीतानां घोरस्तसामभूत्क्षयः
अयं स प्रलयारम्भः पुष्करावर्तभीषणः ।
संप्राप्त इति भीतानां गोपानामभवद्भवः
तद्दृष्ट्वा वैशसं घोरं नाशायोपस्थितं गवाम् ।
गोविन्दो जगतां गोप्ता रक्षां क्षणमचिन्तयत्
इममुत्पाट्य शैलेन्द्रमहं गोवर्धनं बलात् ।
छत्त्रीकरोम्युपस्तानां संश्रयं विपुलं गवाम्
इति ध्यात्वा धियं धीरो निदधे भूधरे दृशम् ।
उत्पाटनक्षणक्षान्त्यै फुल्लपद्मावलीमिव
ततः सपदि विश्वात्मा बलेन महतान्वितः ।
उज्जहार गिरिं दोर्भ्यां स्फुटन्मूलशिखातलम्
मूलावलम्बिनः क्षिप्रं पातालमिव निर्गताः ।
उद्धृतस्य गिरेः सर्पाः स्नायुजालतुलां ययुः
संपीडितशिलापीडानिबडिकृतनिर्झरैः ।
बभुः पलितकल्लोलदुकूलवलिता दिशः
हरितालरजःपुञ्जैः पवनावर्तनर्तितैः ।
बभौ तत्पातितैर्व्याप्तः कृष्णः पीतांशुकैरिव
व्याधूतास्तस्य पार्श्वेषु क्षणमुत्पततो घनाः ।
क्ष्माभृतः पक्षविक्षेपभ्रान्तिं चक्रुः स्वचारिणाम्
तस्मिन्गोविन्ददोर्दण्डच्छत्त्रीभूते महीभृति ।
फुल्लमालावली स्रस्ता चक्रे स्रग्दामविभ्रमम्
स्वचारिणो ऽद्य सुचिरादिमे ते गिरयो वयम् ।
जाता वज्रधर क्ष्माभृत्पक्षच्छेदमदं त्यज
इति त्रासोत्पतन्तीनां विद्याधरमृगीदृशाम् ।
रशनानूपुरारावैः स जगादेव भूधरः
पर्यस्तप्रसरस्तोभक्षुभ्यत्केसरिगर्जितैः ।
स घोरघनसंघातानतर्जयदिवोर्जितान्
स समुन्मूलनायाससंभ्रान्तद्विपयूथपैः ।
बभौ खे शेखरोल्लेखपातितैरिव वारिदैः
घूर्णमानमहाशाखिकुसुमोत्कररेणुभिः ।
स रक्षामण्डलानीव धेनूनां विदधे मुहुः
त्रासापतत्सिद्धवधूतारहारैस्तरङ्गिभिः ।
अधःस्थान्गगनस्थो ऽद्रिर्जहासेव महीधरान्
तं दृष्ट्वा खेचराः प्राहुः किमयं गिरिरुत्थितः ।
यदि न प्रलयारम्भो यदि नाकालविप्लवः
ततः कृष्णगिरा गोपाः शैलोत्पाटनभूगृहम् ।
विपुलं विविशुः शान्त्यै निखिलैः सह गोधनैः
निवाते निर्जले तस्मिन्सुविशाले गिरेस्तटे ।
तस्थुर्जगान्निवासेन गावो गोपाश्च रभिताः
वृष्टिच्छन्ने प्रयाते ऽथ सप्तरात्रे मरुत्पतिः ।
जगाम विफलोद्योगलज्जितो जलदैः सह
ततस्तं विपुलाभोगतुङ्गशृङ्गं गुरुं गिरिम् ।
न्यवेशयन्निजपदे लीलयैव जगद्गुरुः
***** गोवर्धनोद्धरणम् ॥ 20 ॥ *****
सप्तरात्रं धृते तस्मिन्गिरौ गरुडलक्ष्मणाः ।
तं द्रष्टुमाययौ साक्षात्सहस्राक्षो ऽतिविस्मितः
जङ्गमादिव कैलासात्सो ऽवतीर्य सुरद्विपात् ।
गोवर्धनशिलासीनं ददर्श मधुसूदनम्
अन्तर्हितेन तार्क्ष्येण पक्षैराच्छादितातपम् ।
असत्याकलितेनैव तेजसापूरिताम्बरम्
मयूरकण्ठसच्छायं तप्तहेमप्रभांशुकम् ।
इन्द्रनीलगिरेः शृङ्गं तप्तं बालातपैरिव
तं वीक्ष्य कमलाकान्तं गोपवेषधरं हरिम् ।
सहस्रनेत्रमात्मानं मनसा प्रशशंस सः
मौलिकुण्डलकेयूरस्फाररत्नांशुसंचयैः ।
इन्द्रायुधसहस्राणि मुहुर्दिक्षु क्षिपन्निव
अभ्येत्य केशवं शक्रो बभाषे प्रणयोचितम् ।
दन्तत्विषा दश दिशः सुधया पूरयन्निव
अतिदैवमिदं कर्म तव कृष्ण किमद्भुतम् ।
शक्तिरल्पीयसी यस्य समग्रजगतां गतिः
सर्वलोकोपरि परं वर्तन्ते कामधेनवः ।
तासां त्रिदशपूज्यानां ब्रह्मणश्चास्मि शासनात्
प्राप्तो ऽभिषेक्तुं गोविन्द राज्ये त्वामीप्सितं गवाम् ।
इत्युक्त्वा रत्नकुम्भेन मूर्ध्नि तस्य ददौ पयः
उपेन्द्रमभिषिच्येन्द्रः प्रसाद्य च पुनः पुनः ।
पाल्यस्त्वया सखा बन्धुः स्वस्रेयो जनकस्य यः
त्वया दैत्यच्छिदा कृष्ण केशिकंसवधे कृते ।
भवत्सहायः पृथिवीं स जेष्यति धनंजयः
इति प्रणयिनो वाचं कृष्णः श्रुत्वा शचीपतेः ।
जानन्भारतवृत्तान्तं तथेति प्रत्यपद्यत
एवं रहः समाभाष्य जम्भहासुरसूदनम् ।
ऐरावणकरालूनमेघेन नभसा ययौ
***** गोविन्दाभिषेकः ॥ 21 ॥ *****
गोपवेषधरं गोपा देवं मत्वा तमद्भुतम् ।
मुद्रिता इव तच्छक्त्या मुग्धा नो किंचिदूचिरे
ततस्तं पद्मपत्त्राक्षं निवृत्ताशेषशौशवम् ।
जना निर्भरतारुण्यलावण्यं नयनैः पपुः
शरन्निशासु संपूर्णचन्द्रस्मितसितासु सः ।
हरिणीहारिनेत्राभिर्विजहार रतिप्रियः
स रागवृषयुद्धेषु नियुद्धेषु च कौतुकी ।
वीरशृङ्गाररभसः स बभूव मनोहरः
छेकोक्तिषु कृताभ्यासा वेशकर्मसु सादराः ।
बभुस्ता विस्मितो लापा विभ्रमेषु कृतक्षणाः
तल्लीलानुकृतौ यत्नस्तत्कथाश्रवणे रसः ।
तत्स्वैरभाषणे हर्षः को ऽप्यभूद्गोपयोषिताम्
तासामकृतकस्मेरस्फुरिताधरपल्लवम् ।
मुग्धानां वदनं प्रीत्यै बभूवाभ्यधिकं हरेः
यद्गुरूणामनायत्तायत्तास्त्यक्तगृहक्रियाः ।
द्वेषिण्यः स्वजने यच्च तत्कृष्णास्यविजृम्भितम्
सलज्जा अपि मानिन्यः प्रकटस्मरविक्रियाः ।
तन्व्यो ऽपि तनुतां प्रापुस्तास्तदर्पितमानसाः
कम्पस्वेदवती कस्मादकस्मात्सखि मूर्छिता ।
अपि कृष्णभुजङ्गेन न दष्टासि प्रमादिनी
नायं तव गृहे मार्गो मार्गो ऽयं विजने वने ।
यमुनातीरवानीरवल्लरीकेलिवेश्मनः
अमुष्मिन्कुसुमारामे कृष्णषट्चरणेन किम् ।
कृतव्रणा त्वमधरे येनासि विनतानना
गायन्ति यदि कृष्णस्य चरितं गोपकन्यकाः ।
त्वं न स्मरसि किं मूढे स्रस्तं शीलमिवांशुकम्
दामोदरमतास्मीति मदान्धे किं न पस्यसि ।
स कान्ताशतसंकेतसक्तो हि बहुवल्लभः
किं नु नाम स्तनौ तन्वि सोत्कम्पौ विनिगूहसे ।
पुलकाङ्ककपोलस्य वदनस्य करोषि किम्
इयमिन्दीवरश्यामा श्यामा कुसुमहासिनी ।
कृष्णश्च गूढसंचारी चरस्येकाकिनी कथम्
इति गोपाङ्गनाः सेर्ष्यं संभोगसुभगा मिथः ।
व्याहरन्ति स्म सासूयं स्वैरं स्मरशरातुराः
कान्ताकररुहालूनबालवञ्जुलपल्लवम् ।
रतिशय्यारसे शैरेवर्बभूव विललं वनम्
तस्य कान्ततरं कान्ताः समदाः संमदाकुलम् ।
वदनं वदनोदारा घूर्णमानेक्षणाः पपुः
तासामभिसरन्तीनामवशं केशवं प्रति ।
पेतुः शशाङ्के सासूया दृशो दर्शनशङ्कया
माधवे मधुरोदारसुन्दरीरतितत्परे ।
सफलं धन्यमात्मानं मन्ये मेने मनोभवः
अहो नु जयिनी शक्तिः समरस्य स्मयकारिणी ।
प्रजापतिगुरौ यस्याः संपूर्णप्रणया गतिः
***** गोपीसंक्रीडनम् ॥ 22 ॥ *****
ततः कदाचिल्ललनाकेलिशालिनि केशवे ।
अदृश्यत प्रदोषान्ते दैत्यो मत्तवृषाकृतिः
अरिष्टो दुष्टचरितस्तीक्ष्णशृङ्गो ऽरुणेक्षणः ।
पुञ्जीकृतः शशिकरैस्तमःकूट इवासितः
भाययन्वृषभान्भीमो भेरीगम्भीरनिःस्वनः ।
नीलशैलशिलापीठकाठोरस्कन्धबन्धुरः
प्रहाराभिमुखं कृष्णकुक्षिनिक्षिप्तचक्षुषः ।
तस्य शृङ्गयुगं लेभे कालतोरणतुल्यताम्
प्रहारिणं मदोदग्रं जग्राहोग्रं तमच्युतः ।
खलं मूर्खं नवैश्वर्यं प्रियवादीव वञ्चकः
गृहीतस्तेन बलिना बलदेवानुजेन सः ।
बभूवोद्भ्रान्तसावेगपुच्छोद्धुतरजःपटः
तस्यान्दोलिवक्त्रस्य घोरहुंकारकारिणः ।
व्यालघ्ना सङ्खमालेव स्फारफेनावली गले
ततः कण्ठं निपीड्यास्य धृत्वा मूर्ध्नि पदं जवात् ।
शृङ्गमेकं समुत्पाट्य जघान वदने हरिः
स तीक्ष्णशृङ्गाभिहतः पपात भुवि दानवः ।
प्रस्त्यानरुधिरोद्गारविचलद्धर्घरारवः
***** अरिष्टवधः ॥ 23 ॥ *****
अरिष्टे निहते तस्मिन्नरिष्टे त्रिदिवौकसाम् ।
प्रभावः पप्रथे शैरेर्मथुराधिपतेः पुरः
स वृष्णिवृद्धान्विबुधान्वसुदेवपुरोगमम् ।
उग्रसेनं च पितरं दार्दिक्याक्रूरसात्यकान्
अचिन्त्यत्समानाय्य निश्चयं नयकोविदान् ।
निःशब्दजनसंचारे निशीथे व्यस्तसेवकः
प्रदीपप्रतिबिम्बाङ्करत्नाभरणतेजसा ।
गूढचिन्तानलज्वालं बहिः प्रकटयन्निव
सो ऽब्रवीत्क्षणमालोक्य वदनान्यभिमानिनाम् ।
दीर्घोच्छ्वासेन कथयन्नवं वैरिपराभवम्
इयं प्रथितसाराणां विदुषां सत्वशालिनाम् ।
सूच्यते भवतामग्रे मानग्लानिकदर्थना
प्रमादादवलेपाद्वा विस्मृतेनाल्पकेन नः ।
चूडामणिषु विन्यस्तं चरणप्रभवं रजः
न सहन्ते सुरगुरोर्ये साम्यं गुरुकोविदाः ।
स्पर्धया बत लज्जन्ते युधि वज्रायुधेन ये
ते यूयं यस्य सचिवः सचिवारोपितश्रियः ।
तस्य का नाम गणना गणनाथे ऽपि जायते
अवज्ञोपेक्षितस्यायं विपाकः शत्रुजन्मनः ।
वयमप्यधुना येन याताश्चिन्ताविधेयताम्
श्रूयते नन्दगोपस्य प्रवृद्धचरितः शिशुः ।
दैत्यानामपि यः शङ्के शङ्कतङ्कगुरुर्नवः
विन्यस्य चरणं येन मूर्ध्नि कालियभिगिनः ।
स्वर्वीकृतानि शूराणां शिरांसि च यशांसि च
साग्रजेन हतास्तेन प्रलम्बारिष्टधेनुकाः ।
अवज्ञास्पदमेवाभूद्येषां शक्रो ऽपि संगरे
गिरिर्गोवर्धनो नाम सप्ताहं पाणिना धृतः ।
स्मयाय दुर्निमित्ताय नाशाय च न कस्य सः
न जानीमः स किं तावद्भूतमत्यद्भुतं क्षितौ ।
समुद्भूतमधो येन नीयते नः पराक्रमः
तस्मान्मनीषिभिर्वीरैर्भवद्भिश्चिन्त्यतमयम् ।
यशःकुसुमवल्लीनां परशुर्व्यसनोदयः
उक्तं च नारदेनैतत्पुनरेत्य पुरा स्वयम् ।
वसुदेवसुतः कृष्णो नन्दगोपगृहे स्थितः
नन्दगोपसुता चासौ शिलायामाहता त्वया ।
सा गत्वा विन्ध्यगहनं पुलिन्दशबरार्चिता
निशुम्भशुम्भौ दितिजौ जघान घनविक्रमौ ।
विहितो वसुदेवेन गर्भयोर्व्यत्ययस्तयोः
कृष्णः स ते भयस्थानमित्युक्त्वा नारदो ययौ ।
सो ऽयं बन्धुः कृतघ्नो मे वसुदेवः स्थितो ऽन्तिके
येन नः क्षयसंदेहतुलामारोपितं यशः ।
नरकावर्तकलिला यस्य किल्बिषविप्रुषः
स कृतघ्नो ऽधमः केन पातकेनोपमीयते ।
घोरहालाहलापूर्णः कुटिलो ऽयं मया स्वयम्
धृतः सर्पो निजगृहे येनाप्तः सत्कुले कलिः ।
मिथ्या धवलकूर्चो ऽयं बन्धुच्छद्मा जडो रिपुः
वसुदेवः सदा जिह्मो वधार्हे ऽप्येष रक्षितः ।
सर्वाभिशङ्किता राज्ञां सुनयज्ञैरुदाहृता
अतः संचिन्त्यते डिम्बो न तु मे गणनास्पदम् ।
जगद्ग्रसगरिष्ठस्य सत्प्रतापहविर्भुजः
अन्तेर न भवत्येव शिशुर्गोपपतङ्गकः ।
अथवा वर्तते साधुर्यद्यस्मान्प्रति साग्रजः
का क्षतिर्भोगभागी मे बन्धुमध्ये भविष्यति ।
अक्रूरो मद्गिरा यातु व्रजं दानपतिः स्वयम्
एतेन तौ समाहूतौ द्रष्टुमिच्छामि दारकौ ।
नन्दगोपप्रभृतयः करदा मम शासनात्
धनुर्मखे समायान्तु प्रस्तुताधिकदायिनः ।
वीराणां हर्षजननौ कृष्णसंकर्षणौ च तौ
मल्लाभ्यां युध्यमानौ मे रङ्गे प्रीततिं करिष्यतः ।
इति दिव्यदृशाक्रूरः श्रुत्वा कंसेन भाषितम्
ययौ यादवशार्दूलः शौरिदर्सनलालसः ।
अक्रूरे गोव्रजं याते वृद्धास्ते वृष्णिपुंगवाः
निन्दया वुसुदेवस्य क्रुद्धास्तस्थुरधोमुखाः ।
ततः पितामहः कंसं पितामह इवापरः
अभ्यधादन्धको ऽपीमान्दुर्जयः प्रतिबन्धकः ।
वन्ध्याः कुले ऽपि सततं मयन्ये धन्यतराः स्त्रियः
न कुलघ्नः सुतो यासां कदाचिदपि जायते ।
न जातु वज्रजिह्वेषु तीक्ष्णेषु क्रूरकारिषु
सुधालया तिष्ठति श्रीः कमलाङ्कुरकोमला ।
अहो नु शोच्यतां याताश्चिराद्यादववृष्णयः
वृद्धावमानकृद्बालो येषां कंस त्वमग्रणीः ।
क एवं नाम जडधीरनुन्मत्तः प्रभाषते
रक्षितो वसुदेवेन पित्रा पुत्रः किमप्यहो ।
नेह पुत्रात्प्रियतरं किंचिदस्ति शरीरिणाम्
पुत्र स्वजनकं पृच्छ पुत्रस्नेहस्य गौरवम् ।
परलोकपरित्राणां पित्रा चेद्रक्षितः सुतः
तस्यास्य वाच्यता केयं यूयं सर्वे ऽपि पुत्रिणः ।
वसुदेवात्मजो वीरः कृष्णः संकर्षणानुजः
बन्धुबुद्ध्या प्रणयिना संधेयः सर्वथा त्वया ।
हितं पथ्यं च मे मोहान्न करिष्यसि चेद्वचः
तदैश्वर्यप्रभावो ऽद्य संपूर्णावधिरेष ते ।
दृश्यन्ते क्षयसंसिन्यो दुर्निमित्तपरम्पराः
अन्यत्र कृष्णसंधानात्तासु शान्तिर्न ते परा ।
इत्यन्धकवचः श्रुत्वा निःश्वसन्भ्रकुटीमुखः
निर्जगाम ततः कंसः पराङ्मुख इव श्रियः ।
नायमस्तीति वृद्धेषु भाषमाणेषु वृष्णिषु
आदिदेशाशु श्वेताङ्गं कंसः केशितुरङ्गमम् ।
स कृष्णनिधनायोग्रः प्रेरितस्तेन दानवः
जगाम गोव्रजं घोरसंध्यासृक्संप्लुते ऽहनि ।
स कोपाद्रुधिरेणेव पूरिताक्षः श्वसन्मुहुः
उरःस्थलमिलत्प्रोथःकुञ्चितोरुशिरोधरः ।
वज्रसारस्वुराघातनिर्दारितशिलातलः
विस्फारकेसरसटाकरालस्कन्धकन्धरः ।
घट्टयन्निव हेषाभिः पिबन्निव दिशो दश
निर्मांसचर्वणास्वादप्रस्रवत्सृक्विशोणितः ।
कृतान्तचामराकारवलितोद्धूतवलधिः
विवृत्ताननविस्पष्टनिर्यद्दन्तांशुमण्डलः ।
दिक्षु मानुषमांसादः क्षिपन्नस्थिचयानिव
सो ऽभिदुद्राव वेगेन कृष्णमापाण्डुरच्छविः ।
पवनाप्रेरितस्फारः शरन्मेघ इवाचलम्
समुत्क्षिप्ताग्रचरणं केशवः केशिनं पुरः ।
दृष्ट्वा निवार्यमाणो ऽपि गौपैः क्रोधात्तमाद्रवत्
खुराभ्यां कृतशल्याभ्यां बलाद्वक्षसि ताडितः ।
घोरहेषारवोग्रेण तेन नाकम्पताच्युतः
केसराधूननोद्धूतरजसस्तस्य वल्गितैः ।
बभूवुः ककुभश्छन्ना धूमकेतुशतैरिव
तस्य प्रहारतो वक्त्रकुहरे विवरे हरिः ।
दारुणे दारुणायेव द्विगुणं भुजमाददे
केशिदन्तान्तरासक्तः स रराज हरेर्भुजः ।
फेनावलीपरिक्षिप्तः पारिजात इवार्णवे
केशीशैलशिलास्तम्भदृढे दोष्णि मुरद्विषः ।
भग्नदन्तश्चिरं चक्रे वक्त्राञ्जनकदर्थनाः
प्रस्रवत्सवेदसलिलः स्रोतः प्रोद्धान्तशोणितः ।
व्यावृत्तनयनः केशी निःश्वसन्निश्चलो ऽभवत्
स्फारिते दोष्णि कृष्णेन गण्डकूटतटान्तरे ।
स्फुटस्थूलास्थिटाङ्कारं तद्वक्त्रमभवद्द्विधा
स दामोदरदुर्वारदोर्दण्डदलिताकृतिः ।
पपात रुधिरोद्गारघोरस्तुरगदानवः
***** केशिवधः ॥ 24 ॥ *****
हते केशिनि कंसस्य प्रिये सुहृदि दानवे ।
भुवनेष्वभवत्को ऽपि हर्षोत्साहमहोत्सवः
अन्तर्हितो मुनिः प्रीत्या नारदः कृष्णमब्रवीत् ।
साधु माधव निःशल्यं त्वाया कृत्मिदं जगत्
केशिनिर्दारणात्स्वयातः केशवस्त्वं भविष्यसि ।
इत्युक्त्वा प्रययौ हर्षान्नारदो ऽभिमतां दिशम्
प्रादुरासीत्ततः शौरेर्निमित्तनिचयः शुभः ।
बन्धुना पितृतुल्येन यः शंसति समागमम्
मेरुपार्श्वान्तरं प्रायाद्दिनान्ते वासरेश्वरः ।
कृष्णकेशिवधाश्चर्यकथां वक्तुमिवादरात्
ततः पीतांशुकोदारदामोदरमनोहरम् ।
बभूव सहजश्यामं संध्यांशुशबलं नभः
शनैः संघट्टिताः श्यामास्तमोभिरभवद्दिशः ।
तारकांशुस्रुतक्षीरा गोपालैरिव धेनवः
व्योमाब्धिपाञ्चजन्यो ऽथ निशानाथः समुद्ययौ ।
यामिनीकामिनीकेलिमण्डनो मणिदर्पणः
शशाङ्ककरसारेण विहारेण सुरश्रियः ।
तमसः परिहारेण हारैणैव नभो बभौ
नेत्रप्रेम्णि सुधासीम्नि सितिम्नि व्योम्नि गाढताम् ।
यशसीवाश्रिते शौरेर्निशाकरकरच्छलात्
प्रहर्षयन्नीलकण्ठान्रथेन घननादिना ।
शेखरो वृष्णिवीराणामक्तूरः प्रत्यपद्यत
नन्दगोपस्य सदनं स समासाद्य गोकुले ।
ददर्श शतपत्त्राक्षं कृष्णं केशिनिसूदनम्
अयं स कैटभारातिर्भगवान्मधुसूदनः ।
भुवो भारावताराय जातो यादवनन्दनः
श्रीवत्सलक्षणो वक्षो बिभ्राणः कुस्तुभोचितम् ।
निःस्पन्दालिङ्गने योग्यं कमलाकुचकुम्भयोः
मेघश्यामेन वपुषा नयनामृतवर्षिणा ।
धत्ते सौदामिनीदामरम्यं पीतांशुकद्वयम्
अनेन नृत्यति मनःस्फारं प्रसरतो दृशौ ।
एतदालिङ्गनायेव भुजौ मे परिधावतः
एहि माधव कृष्णेति व्याहरन्प्रीतिनिर्भरः ।
पूजितो नन्दगोपेन कृष्णेन च विवेश सः
प्राप्तपूजासनः सो ऽथ ससंकर्षणमच्युतम् ।
उवाच पुण्डरीकाक्षमापिबन्निव चक्षुषा
इयं ते धीरगम्भीरा हर्षपीयूषवर्षिणी ।
प्रयाति ना पुण्यवतां मूर्तिर्लोचनगोचरम्
मोहात्त्वद्भक्तिविमुखस्त्वां दृष्ट्वा प्रातरागतम् ।
वाञ्छितः कृतकृत्यश्च भविता मथुरेश्वरः
द्रष्टुमिच्छति कंसस्त्वां प्रातर्गन्तासि तत्पुरीम् ।
त्वद्वपुः पूर्णपूण्येन धन्याः पश्यन्तु यादवाः
तत्र कंसस्य संभारधनाधाम्नि धनुर्महीम् ।
उपतिष्ठन्तु धनिनः सर्वे गोपाः करप्रदाः
एतावदेव प्रचुरं ममागमनकारणम् ।
इदं तु बान्धवस्नोहाद्यत्किंचिदभिधीयते
वृद्धः स सुकृती तत्र पुत्र पुत्रवतां वरः ।
विलोक्य वसुदेवस्त्वां फलं प्राप्नोतु जन्मनः
त्वत्कृते सततं यस्य कंसवाक्यशराः स्वराः ।
त्वामवाप्नोतु माहात्म्यं रोहणाद्रिवसुंधरा
अपि कंसभयात्पुत्रैरसंपीतपयोधरा ।
कृष्णेति नाम्ना सततं सीदति प्रस्नुस्तनी
गूढचिन्ताविनिःश्वासधूसराधरपल्लवा ।
दूरीकृतसुतस्नेहवैक्लव्याप्तविपल्लवाम्
रहितामिव रामेण कौसल्यां कुलमौलिना ।
दर्शनामृतवर्षेण निर्वापय समेत्य ताम्
अहो तृष्णेव सहजाच्छायेव सहचारिणी ।
वासनेवापरिक्षीणा सर्वथा भवितव्यता
विश्वोद्धरणदक्षस्य जगद्रक्षाशिखामणेः ।
तवापि जन्म सवुधाचिन्तया यत्प्रशुष्यति
कंसनिर्भर्त्सनानम्रस्त्वां प्राप्य जनकश्चिरात् ।
वहतु त्रिजगत्पूज्य पुत्र मानोन्नतं शिरः
***** अक्रूरसंदेशः ॥ 25 ॥ *****
इत्युक्ते दानपतिना स्नेहवात्सल्यशालिना ।
सर्वं करोमीति वदन्निर्विकाराननो ऽभवत्
गन्तुं कृताभ्युपगमे कृष्णे गोपमृगीदृशाम् ।
चिन्तासंतप्तनिःश्वासैरिवेन्दुर्म्लानतां ययौ
दुग्धा निशीथत्सेन ज्योत्स्ना पूरपयस्विनी ।
प्रातर्द्यैः सांध्यरागेण कपिला गौरिवाबभौ
अथोदयाचलशिरोरत्नतामागते रवौ ।
उद्यत्प्रदीप्तचक्रस्य शोभां लेभे हरेर्नभः
करोपनयसंपूर्णैः शकटैरथ भूरिभिः ।
गन्तुमभ्युद्ययुर्गोपपतयः कंसशासनात्
रथैः प्रययुरक्रूररौहिणेयाच्युतादयः ।
अर्घ्यमाना इवोत्तालगोपालीलोचनोत्पलैः
अवाप्य यमुनातीरमक्रूरः कृष्णमब्रवीत् ।
अस्मिन्ह्रदे भोगिवृते कृष्ण शेषं फणीश्वरम्
निमज्ज्य भगवन्मन्त्रैः पूजयाम्यमृताशनः ।
इत्युक्त्वा कृष्णनिक्षिप्तरथस्तत्र ममज्ज सः
निमग्नः सो ऽथ पातालं दिव्यखस्तिकलाञ्छनम् ।
शेषं सहस्रमूर्धानं ददर्शासीनमीश्वरम्
हेमाब्जमालाभरणं सर्वरत्नाभूषितम् ।
सहस्रशिखरस्फारतुषारगिरिविभ्रमम्
आसेव्यमानं प्रणतैर्निखिलैः कुलभोगिभिः ।
नीलाम्बरं नालकेतुं हलिनं मुसलायुधम्
उत्सङ्गे तस्य कृष्णं च शीतांशोरिव लाञ्छनम् ।
निषण्णं विस्मितो ऽपश्यञ्जपन्ब्रह्य सनातनम्
रौहिणेयाच्युतौ मत्वा तावेवोन्मज्जय सत्वरः ।
दृष्ट्वा रथस्थौ तावेव ममज्ज पुनरादरात्
पुनस्तथैव तौ दृष्ट्वा समुन्मज्ज्यास्तसंशयः ।
त्वमेव सर्वमित्यूचे पृष्टः कृष्णेन सस्मितम्
***** ह्रददर्शनम् ॥ 26 ॥ *****
दिनान्ते प्राप्य मथुरामक्रूरः स्वगृहान्तरे ।
स्वैरं जगाद गोविन्दं कंसदुर्नयशङ्कितः
वसुदेवगृहं तात न गन्तव्यं त्वयाधुना ।
न च रामेण नितरां कंसादाप्नोति भर्त्सनाम्
इत्युक्ते दानपतिना कृष्णः सस्मितमब्रवीत् ।
सत्यं तत्र न गच्छावः पश्यावः कौतुकात्पुरीम्
इत्याभाष्य मदोदारौ रामकृष्णौ विचेरतुः ।
अवतीर्णौ विमानाभ्यां वीरौ विद्याधराविव
तौ राजरजकं प्राप्य ययाचाते महाभुजौ ।
वासांसि रुचिराभांसि न ददावधमश्च सः
क्रोधदर्पावलिप्तं तं रजकं क्रूरवादिनम् ।
हत्वा जहार वासांसि बलदेवानुजो बलात्
स्वयं माल्योपनयनं मालाकारी वलीमती ।
श्रीपतेः श्रीप्रदं प्रादात्प्रीत्या प्रणयवादिनी
क्रमेण लीलया कृष्णः सुस्पष्टावयवां क्षणात् ।
तां चक्रे यौवनोद्यानपूर्णलावण्यवल्लरीम्
ततः प्राप्यायुधागारं पूजितं दैत्यदानवैः ।
उत्साहार्हं शिलास्तम्भसारं ददृशतुर्धनुः
दामोदरस्तदादाय दोर्भ्यामाकृष्य दुर्धरम् ।
बभञ्ज स्फारिटाङ्कारं मृणालीनाललीलया
तेन शब्देन पवनस्कन्धसंघट्टकारिणा ।
ररास दारितेव द्यौश्चकम्पे च वसुंधरा
आयुधागारिको ऽप्याशु धनुर्भङ्गं न्यवेदयत् ।
कंसायाकम्पितमनाश्चक्रे दर्पात्स चाश्रुतम्
भग्नं केनापि मल्लेन श्रुत्वा चापं नरेश्वरः ।
दिदेश सर्वमल्लानां युद्धप्रेक्षामहोत्सवम्
स्वैरं ततः समाहूय मल्लौ चाणूरमौष्टिकौ ।
चिरसंधारितौ चक्रे वधसज्जौ मुरद्विषः
गजशालाधिपं कंसः संग्रामसचिवं रहः ।
ऊचे मोहे ऽपि संप्राप्तसुकृतः शौरिचिन्तया
प्रातर्धनुर्महीरङ्गमागन्ता वसुदेवजः ।
साग्रजो दर्पसंमत्तो मत्तः स वधर्महति
रङ्गद्वारि त्वया चासौ निर्घाती व्यालकुञ्जरः ।
कार्यः कुवलयापीडः क्रोधात्तन्निधनोद्यतः
हतपुत्रं करोम्येव वसुदेवं निरंशकम् ।
बन्धुच्छद्मप्रतिच्छन्नान्नृपांश्चान्धकयादवान्
पुरा ममार्तववती जननी नवकौतुकात् ।
प्रियासनादिकटके चचार कुसुमोज्ज्वले
तत्र वालानिलोल्लासवेल्लिताशोकपल्लवे ।
स्फूर्जद्बकुलकिञ्जल्कपिञ्जरीकृतषट्पदे
पुञ्जीकृतलताकुञ्जमञ्जुगुञ्जद्विहङ्गमे ।
रतिरागरसोदारस्मरसंजीवने वने
ददर्श तां सौरपतिर्द्रुमिलो दानवेश्वरः ।
लतां स्तनस्तबकिनीं कामकल्पतरोरिव
मयो योगीश्वरः सो ऽथ रूपं कृत्वा पितुर्मम ।
भेजे तां मन्मथाविष्टः सतीं प्रेमनिरर्गलाम्
ततः सा वृत्तकर्तव्या शङ्किता वीक्ष्य दानवम् ।
पापं शशाप कुपिता दूषितास्मीति दुःखिता
वधं प्राप्स्यसि दुर्वृत्त मद्भर्तृकुलजाद्युधि ।
अयं च मम गर्भे ऽद्य त्वया यस्तनयो धृतः
इत्युक्त्वा शनकैः प्रायादिति मामाह नारदः ।
तस्मादहं दैत्यपतेर्द्रुमिलस्यात्मजो मतः
सुतो ऽहं नोग्रसेनस्य यादवा मे न बान्धवाः ।
ते हिर् वे ममोच्छेद्याः कृष्णोत्साहप्रतीक्षिणः
संदिश्येति महामात्यं संकॢप्तमपे ऽहनि ।
संगतप्रेक्षकं रङ्गं विवेश विषदांशुकः
वलभीतुङ्गरत्नांशुंतरङ्गालिङ्गिताम्बरे ।
संगतानन्तसामन्तसमागमनिरन्तेर
भोजवृष्ण्यन्धकैस्तत्र वीरैः परिवृतो बभौ ।
हेमसिंहासनासीनः पीनांसः कंसभूपतिः
मोलिकुण्डलकेयूररत्नांशुशबलद्युतिः ।
कान्ताभिश्चामरप्रान्तकम्पितोष्णीषपल्लवः
नानादेशागतास्तस्य शासनादथ दुर्मदाः ।
समुत्पेतुर्महामल्ला भुजास्फालनशालिनः
संकर्षणाच्युतौ वीरौ नीलपीताम्बरौ ततः ।
सितासितघनच्छायौ रङ्गद्वारमवापतुः
गात्रैः कुवालयापीडाकारिणं तत्र गौरवात् ।
पुनः कुवलयीपीडं सज्जं ददृशतुर्गजम्
भोगीन्द्राभोगसंभ्रान्तिकरं कज्जलमेचकम् ।
कालकूटच्छटाटोपनिर्दग्धमिव मन्दिरम्
आधोरणेन दुर्वारदर्पप्रेरितमोजसा ।
तं युद्धसंमुखं दृष्ट्वा दन्ताघातक्षताचलम्
पुनः कुण्डलितोद्दण्डघोरशुण्डालमण्डलम् ।
त्रैलोक्यकवलीकारविकरालमिवान्तकम्
मण्डलानि चरन्कृष्णः सव्यदक्षिणपार्शवयोः ।
स्वसहस्तालम्बनं कुर्वन्वेगेन तममोहयत्
आघताकुलितः सो ऽथ विवलत्पर्वताकृतिः ।
प्रवृद्दश्रमशूत्कारशीकरापुरिताम्बरः
दन्ताभिघावैफल्याज्जानुभ्यामवनिं गतः ।
सहसोत्थाय गोविन्दं लघुचित्रपराक्रमम्
चरन्तं करदन्ताग्रचरणाभ्यन्तरे ऽपि सः ।
न प्राप कृतयत्नो ऽपि भाग्यहीन इवोप्सितम्
हरिर्ददत्सुकटकं दत्वास्य चरणं मुखे ।
संग्रामतोरणस्तम्भं पाणिभ्यां दन्तमग्रहीत्
कंसश्रीनलिनीमूलमिवोत्पाट्य द्विपाननात् ।
तीक्ष्णाग्रं दन्तमुसलं तेनैव निजघान तम्
निजदन्तप्रहारेण रक्तोद्गारी विदारितः ।
हस्ती स्रुतशकृन्मूत्रश्चचालाचलसंनिभः
आकृष्टपृच्छो रामेण हतारोहः स शौरिणा ।
दन्तनिर्दारितकटः पपात विकटः क्षितौ
***** कुवलयापीडवधः ॥ 27 ॥ *****
हत्वा कुवलयापीडं जगत्पीडाक्षयोद्यतः ।
रङ्गं विवेश गोविन्दः कामिनीकौतुकप्रदः
गजरक्तच्छटाङ्कस्य लीलावल्गितवाससः ।
रूपं तस्य बभौ रङ्गे मेघस्येव सविद्युतः
दन्तिदन्तः स शुशुभे करे कालियविद्विषः ।
अष्टमीशीतकिरणः प्रभादीप्त इवाम्बरे
ततः कंसाज्ञया मल्लो बलवानन्ध्रदेशजः ।
चाणूरः पर्वताकारस्तत्र कृष्णमयोधयत्
तयोर्जानुभुजाबन्धैः प्रेरणाकर्षणाच्चनैः ।
पीडनास्फालनाघातैः पृथिवी समकम्पतः
पुत्रः पीयूषवर्षीति हर्षबाष्पार्द्रचक्षुषा ।
सकम्पं वसुदेवेन मात्रा च जयसंश्रये
श्रीकान्त इत्यप्सरोभिर्दैत्यच्छेदीति खेचरैः ।
बन्धुरित्यादराद्गोपैः प्रवीर इति यादवैः
मल्लो वराको ऽस्य कियानिति संकर्षणेन च ।
तरस्वी वीक्ष्यमाणो ऽसौ मल्लानां विस्मयं व्यधात्
ततः कोपाकुलः कंसः कृष्णोत्साहविवर्धनम् ।
भुजमुद्यम्य विपुलं तूर्यस्वनमवारयत्
उत्साहवाद्ये कंसेन कृष्णद्वेषान्निवारिते ।
देवदुन्दुभयो नेदुस्तारतूर्यरवैर्दिवि
मल्लं कृष्ण जहीत्याशु सप्तर्षिभिरुदीरिते ।
पपातोद्द्योतिताकाशः कंसस्य मुकुटान्मणिः
अथ दैत्यावतारस्य मल्लस्याद्भुतविक्रमः ।
मुष्टिप्रहारेण शिरश्चकार दलितेन्द्रियम्
तस्य स्फुटल्ललाटस्य लोचने दीपसंनिभे ।
निपेततुः क्षितितले तारायुगलशोभने
ततो निपतिताशेषमल्ले मल्ले निपातिते ।
अभूत्क्षुब्धाब्धिगम्भीरो रङ्गक्षोभभवः स्वनः
संकर्षणो ऽपि जग्राह मल्लं मण्डलकोविदः ।
मौष्टिकं नाम विकटं तामराख्यं च केशवः
जन्मावर्तं परिभ्राम्य तोमलं कालियान्तकः ।
पपात भुवि निष्पिष्य मौष्टिकं च हलायुधः
हतेषु तेषु मल्लेषु शल्येषु त्रिदिवौकसाम् ।
विस्मिते यादवकुले लुलिते रङ्गमण्डले
सुधासारैरिवासिक्ते वसुदेव वधूसखे ।
चुकोप भ्रुकुटीभीष्मः कंसः कम्पितमानसः
सावेगैस्तस्य निःश्वासैरिव प्रलयतां गते ।
कोपाग्नौ सर्वभूतानां घोरमाविरभूद्भयम्
तस्य गण्डतटे स्पष्टं खेदबिन्दुलता बभौ ।
लडत्कुण्डलसक्तेव बिम्बिता मौक्तिकावली
भ्रूभङ्गेन निवार्यैव रङ्गकोलाहलस्वनम् ।
वेत्रिप्रोत्सारितजनो जगाद जगतीपतिः
इयं सरलता जातु जाता सारक्षयाय नः ।
कथं प्रथितसाराणां मध्ये गोपः प्रदृश्यते
जम्बुकेन हताः सिंहा यदि तत्क्रियते ऽत्र किम् ।
निष्कास्यन्तामितो गोपा नन्दगोपश्च बध्यताम्
बान्धवव्यसनश्चायं वसुदेवः कुलाधमः ।
निधीयतां क्षयमुखे स्वपक्षैः सह यादवैः
उग्रसेनसुतस्येति शासनादुग्रविक्रमः ।
समुद्ययुर्यथादिष्टं कर्तुं तन्मतिवर्तिनः
ततस्त्रासाकुलान्वीक्ष्य गोपान्गोप्ता दिवौकसाम् ।
देवीं च देवकीं पुत्रस्नेहवैक्लव्यविक्लवाम्
हेमसंहासनोपान्तमभिपत्य त्रिविक्रमः ।
जग्राह लोलमाल्येषु कंसं केशेषु केशवः
अग्रे दिग्भिरिव न्यस्तमवतीर्णमिवाम्बरात् ।
सहसा पतितं कृष्णं कंसः कालममन्यत
कृष्णेनाकृष्यमाणेषु माल्यवत्सु महीपतेः ।
केशेषु विललापेव राजश्रीर्भङ्गशिञ्जितैः
नाम्यमानाननः कंसः शौरिणा भारपीडिताम् ।
वधे निमित्ततां यातामालुलोके महीमिव
वक्त्राम्बररविर्लक्ष्मीविहारमणिपर्वतः ।
मौलिस्तस्यापतत्स्रस्तमुक्तास्रुकणसंततिः
तमाकृष्य स्फुटन्मुक्ताहारकेयूरकुण्डलम् ।
स्फारैश्वर्यादिव महाहेमसिंहासनाच्च्युतम्
रक्तकुट्टिमनिर्घृष्टगात्रप्रस्रुतशोणितम् ।
उत्ससर्ज विशीर्णासुं कंसं दूरे हरिर्व्यसुम् ।
अजितं सर्वभूपालैरभग्नं वज्रिसंगरे
तं वीक्ष्य सर्वभूतानामवश्यं शौरिणा हतम् ।
रङ्गे समुदभूद्धोरः क्षणं हलहलारवः
***** कंसवधः ॥ 28 ॥ *****
तस्मिन्वीरकुलोत्तंसे हते कंसे मुरारिणा ।
कंसानुजं सुनामानं निजघान हलायुधः
देवो ऽथ देवकीसूनुर्ववन्दे देववन्दितः ।
वसुदेवस्य पादाब्जो(ब्जे) मातुश्चानन्दनिर्भरः
सहसा हतमाकर्ण्य कंसं कंसवधूजनः ।
अकाण्डवज्रपातेन निर्दारित इवाययौ
तं पांसुरूषितं भूमौ सिंहाहतमिव द्विपम् ।
संवीक्ष्योन्मथितं वेगाद्वातेनेव महाद्रुमम्
क्रोशन्त्यस्तारकरुणं छिन्नहारविबूषणाः ।
विवेष्टन्त्यः क्षितितले जगदुस्तुं मृगीदृशः
हा नाथ ललनाकेलिकलनाकुसुमायुध ।
युधि प्रचण्डदोर्दण्डखण्डितारातिमण्डल
कथं प्रियासु विमुखः प्रेमप्रणयभूमिषु ।
भूमिमालिङ्ग्य सुप्तो ऽसि भुभाभ्यां विस्मृतादरः
जरासंधितो वारिनाथरत्नापहारिणः ।
क्षतयक्षस्य ते वीरः वधः कथमनायुधः
ऐरावणविषाणाग्रविषमोल्लिखितोरसः ।
वधे तवापि भूपाल कथं न क्षुभितं जगत्
अक्षौहिणीनां नाथस्य राजराजस्य ते कथम् ।
निजः परो वा संग्रामे नैको ऽपि निहतः पुरः
उदञ्चय दृशं देव विलोकय वधूजनम् ।
इयं कृतकनिद्रा वा कोपः प्रणयिनीषु वा
अयं निष्करुणः को ऽपि पुंसां पर्यन्तयात्रिकः ।
पन्थाः प्रतीक्ष्यते क्षिप्रं न यत्र दयितो जनः
इत्यन्तःपुरनारीषु विलपन्तीषु कम्पिता ।
आययौ कंसजननी सहसा शोकविक्लवा
उत्सङ्गे सा शिरः कृत्वा पुत्रस्य क्षितिशायिनः ।
बाष्पं दुर्धरमादाय शुशोचार्तप्रलापिनी
अहो नु त्वां नृशंसेन पुत्र कालेन निघ्नता ।
छिन्नः पितुस्ते वृद्धस्य जलाञ्जलिमनोरथः
एकाकी पांशुशयने महार्हशयनोचितः ।
कथं पृथग्जन इव स्थितो ऽसि पृथिवीपते
ज्ञातिभ्यो दुःसहं पुंसां जायते नान्यतो भयम् ।
इति रक्षः सभासीनः सत्यमूचे दशाननः
स्वभुजोपार्जिता येन बन्धुसाधारणीकृता ।
लक्ष्मीः स त्वं हतः पुत्र ज्ञातिना ज्ञातिवत्सलः
इत्युक्त्वा नृपतिं वृद्धमुग्रसेनमुवाच सा ।
भर्तारं पुत्रशोकेन विषेणेवातिमूर्छितम्
अयं ते तनयो राजन्बान्धवैः परिवर्जितः ।
हतश्चौर इवैकाकी संस्कारं याचतां हरिम्
राज्ये प्रवीरो भोजो ऽस्मिन्नथवा माधवो विभुः ।
इयं श्रीः सततं राजन्वीरवक्त्रावलोकिनी
गच्छ विज्ञापय विभो कृष्णं यादवसंसदि ।
कंसो ऽयं पृथिवीपालस्त्यज्यतामैर्ध्वदैहिके
कस्य नाम हते वैरं प्राणैः संशोधितागसि ।
त्यक्त्वा प्रयातः सर्वस्वं नोत्तिष्ठिति हतः पुनः
उग्रसेनो निशम्येति संध्यारक्तांशुमानिव ।
वसुदेवालयं प्रायाद्गले दष्ट इवाहिना
स बन्धुसहितः कृष्णं ददर्शावनताननः ।
स्वबन्धुनिधनध्यानपश्चात्तापाकुलाशयम्
तमब्रवीदुग्रसेनः क्रियतामुचितं त्वया ।
अपरिम्लानसद्वृत्तान्परिपालय यादवान्
त्वदाज्ञया करोम्येष क्रियां कंसस्य पश्चिमाम् ।
दत्वा जलाञ्जलिं चास्य भवामि विपिने मुनिः
प्राप्ते विधेर्नियोगेन वियोगे योगिनो नये ।
कानने कानने तेषां बाष्पमात्रोचिते प्रभा
तच्छ्रुत्वोवाच कंसारिः सकत्यमेतत्कुलोचितम् ।
सदृशं तव भूपाल श्रुतस्य चरितस्य च
भवाभवपरिच्छेदरेखेयं भवितव्यता ।
जन्तोर्ललाटपाषाणलिखितेवाविनाशिनी
मा कृथाः शोकमधुना वृत्ते ऽस्मिन्ननिवर्तिनि ।
काले कलितकालाग्रा न हि मुह्यन्ति धीधनाः
सत्क्रियां भजतां कंसो राज्यं च भजतां भवान् ।
राज्यार्थिनो न हि वयं न कंसस्तत्कृते हतः
जगत्कार्यकृते ऽस्मासु प्रसन्नं यदि ते मनः ।
तद्राज्यमपरित्याज्यं निजं निर्व्याजकारिणः
इत्युक्त्वाधोमुखः कृष्णो यदुवंशविभूषणः ।
वृद्धमैश्वर्यविमुखं बलान्नृपपदे व्यधात्
ततः कंसस्य राजार्हे सत्कार्ये बन्धुभिः कृते ।
उवास सानुजः कृष्णस्तत्र वृष्णिभिरर्चितः
***** कं ससत्क्रिया ॥ 29 ॥ *****
ततः संदीपनेर्गत्वा कश्यपस्यान्तवासिनः ।
तौ गुरोर्व्रतसंपन्नौ सर्वविद्याविधेर्गृहम्
दिव्यास्त्रेषु सशब्देषु वेदेषु विदितात्मसु ।
निरवद्यासु विद्यासु कलास्वविकलासु च
अवापतुः परं पारं प्रतिभामणिदर्पणौ ।
पूजयन्तौ शिवं साक्षात्तौ पर्वसु विसंभ्रमम्
उक्तस्ततो गुरुस्ताभ्यां दक्षिणा गृह्यतामिति ।
उवाच प्राप्तुमिच्छामि प्रभावाद्युवोयरहम् ।
पुत्रं प्रभासयात्रायां समुद्रे तिमिना हृतम्
गुरोरिति गिरा कृष्णः संकर्षणमते स्थितः ।
गत्वा जलनिधिं घोरं ममज्ज महसां निधिः
गुरोर्मम सुतः क्वासाविति वादिनमाशु तम् ।
कृताञ्जलिर्जलनिधिर्जगाद जगतां पतिम्
इह पञ्चजनो नाम दैत्यो वसति दुःसहः ।
तिमिरूपेण तेनासौ हृतः सांदीपनेः सुतः
इत्यम्बुधिगिरा वीरो हत्वा पञ्चजनं हरिः ।
अवाप पाञ्चजन्याख्यं शङ्खं न तु गुरोः सुतम्
ततो वैवस्वतं जित्वा गुरोः प्रेतपुरादपि ।
सशरीरं समादाय ददौ दामोदरः सुतम्
मथुरामथ संप्राप्य कृतास्त्रः सर्वयादवान् ।
रामेण सार्धं विदधे विस्मयानन्दनिर्भरान्
***** इष्वस्त्रशिक्षा ॥ 30 ॥ *****
अत्रान्तरे कंसवधार्मर्षदीप्तानलाकुलः ।
स्वसुते विधवे दृष्ट्वा दुःखितः कंसवल्लभे
समभ्यायाज्जरासंधो मगधाधिपतिर्बली ।
राज्यं यत्संश्रयात्कंसो बद्ध्वा पितरमाप्तवान्
वीरास्तदनुगाश्चान्ये भूमिपालाः समाययुः ।
कारीषो दन्तवक्राख्यः शिशुपालश्च चेदिपः
कलिङ्गः कौशिकः पौण्ड्रः क्राथो रुक्मी सभीष्मकः ।
अंशुमानाहृतः साल्ववेणुदारिसमुद्रगाः
त्रैगर्तः सुह्यसौवीरशैब्यपाण्ड्यविदेहपाः ।
काश्यकौसल्यगान्धारकाश्मीरयवनादयः
दशार्मभगदत्ताद्यास्ते नृपा बलशालिनः ।
रुन्धाना मथुरां चक्रुर्जग्निर्विवरं गजैः
तच्छत्त्रचामरस्फारफेनान्क्षितिपसागरान् ।
वीक्ष्य तान्समयं मेने प्राप्तं कालियसूदनः
अक्षौहिणीनां विंशत्या मागधेन तरस्विना ।
मथुरायां निरुद्धायां निर्ययुर्वृष्णियादवाः
ततः प्रवृत्ते समरे लाङ्गली मुसलायुधः ।
शार्ङ्गपाणिः स कंसारिर्वहन्कौमोदकी गदाम्
तालतार्क्ष्यध्वजाग्राभ्यां रथाभ्यां हेमकङ्कटाम् ।
वीरौ विविशतुर्वैरिसेनां रणसमाकुलाम्
तस्मिन्नाकृष्टदेहेषु पिष्टेषु मसुलेन च ।
रामेण कुञ्जरेन्द्रेषु निपतत्सु रथेषु च ।
वृष्णिभिर्युध्यमानेषु शौर्यशालिषु राजसु
शब्देनाकृष्यमाणस्य शार्ङ्गस्य मुरवैरिणः ।
दैत्यातमनां नरेन्द्राणां हृदयानि चकम्पिरे
जरासंधशरासारैर्विरथौ रामकेशवौ ।
पद्भ्यां विचेरतुर्वीरौ कुर्वाणौ सुभटक्षयम्
संकर्षणेन गदया निष्पिष्टस्यन्दनो युधि ।
गदापाणिर्जरासंधः स्वयं कोपात्तमाद्रवत्
तयोर्घोरगदायुद्धे सुशिक्षाबलशालिनोः ।
बभूव कौतुकायातसुरनिर्विवरं नभः
तयोः प्राहरैः सावेगैर्गिरिसंचूर्णनोचितैः ।
धैर्यतुल्यानि गात्राणि दृढानि च चकम्पिरे
ततः समुद्यते घोरे प्रहारे जीवहारिणि ।
जरासंधाय रामेण प्रोच्चचार वचो दिवः
अलं मिथ्याप्रयासेन युधि धेनुकसूदनः ।
नायं वध्यस्त्वया राजा प्राजातो ऽस्यान्तकः परः
श्रुत्वैतद्विरते रामे याति चास्तं दिवाकरे ।
बलयोरवहारो ऽभुद्दारितोदारवीरयोः
***** जरासंधयुद्धम् ॥ 31 ॥ *****
याते जिते जरासंधेवीतविघ्नेषु वृष्णिषु ।
बालक्रीडाः स्मरन्रामः कदाचिद्गोव्रजं ययौ
प्रहृष्टः पूजितस्तत्र गोपैर्गोविन्दपूर्वजः ।
विजहार वनान्तेषु कान्तेषु कुसुमश्रिया
स कदम्बतरोर्मूले निषण्णः पुष्पहासिनः ।
विलोलपल्लवैस्तेन व्यजनैरिव वीजितः
हृष्टः पानोत्सुकः शुभ्रः कदम्बोदरनिर्गताम् ।
पपौ कादम्बरीं दिव्यां पुष्पामृतमयीं सुराम्
मदताम्रकपोलाग्रं संध्यारुणशशिप्रभम् ।
शुशुभे वदनं तस्य लीलान्दोतकुण्डलम्
ततः कादम्बरी देवी दिव्याम्बरविभूषणा ।
कदम्बकेसरावाससंक्रान्तोदारसौरभा
व्यालोलकमलाकारमदाघूर्णितलोचना ।
सिषेवे रूपिणी रामं रममांणं मनोरमम्
कान्तामुखोपमानस्य कान्तिश्च तुहिनद्युतेः ।
प्रियाभिर्गीर्भिरभ्येत्य प्रहृष्टा तमतोषयत्
श्रीश्च विग्रहिणी तस्मै ददौ हेमाम्बुजस्रजम् ।
कुण्डलं किरणोदारं हारं च हरिणेक्षणा
नीलाम्बरः स विबभौ हेममालाविभूषितः ।
कैलास इव संसक्तविद्युद्द्योतिततोयदः
रराजराजसस्तस्य हारस्तर्जिततारकः ।
दुग्धाब्धेरिव फेनैघश्चन्द्रस्येवामृतद्रवः
ततः स मज्जनक्रीडाजातोत्कण्ठो मदालसः ।
एहीति दूराद्यमुनामुवाच स्स्वलिताक्षरम्
सा तद्वाक्यमनादृश्य किंचिन्नोवाच निम्नगा ।
यदा तदा रुषा रामः समुत्थायादहे हलम्
तां लोलनीलसलिलां हलाग्रेणाचकर्ष सः ।
संरम्भस्रस्तकबरीं मानिनीं कुपितामिव
क्षोभाकुलितहंसालीमेखलामुखरा मुहुः ।
संलक्ष्य पुलकश्रेणी क्वचितस्रस्तजलांशुका
क्वचित्तरङ्गभ्रूभङ्गपरिवृत्तिपराङ्मुखी ।
छिन्नफेनावलीहाराकीर्णशीकरमौक्तिका
क्विचित्सलिलकल्लोलदुकूलग्रहणाकुला ।
क्विचिद्वीचीकराच्छन्नचक्रवाकोन्नतस्तनी
त्रासाकुलितवाचालविहङ्गवलया क्वचित् ।
आवर्तनर्तितोत्फुल्लनीलाब्जचकितेक्षणा
क्वचिद्वारिकुहूत्कारसनिःश्वासप्रलापिनी ।
सावेगगमनायासविषस्खलिता क्वचित्
हलेनाकृष्यमाणा सा समुद्भ्रान्ताभवन्नदी ।
मध्ये बृन्दावनं नीता ततः प्रत्यक्षरूपिणी
उवाच रामं यमुना कम्पमाना कृताञ्जलिः ।
विस्रस्तवारिवसना कम्पण्याकुलगामिनी ।
फेनैर्मां प्रहसिष्यन्ति सरितः सागरान्तिके
स्वरूपं प्राप्तुमिच्छामि प्रसन्ने त्वयि मानद ।
महात्मनां निकारे ऽपि माननीया हि योषितः
इति प्रसादितो रामस्तया बालमृगीदृशा ।
विररामाद्भुताक्रान्तैर्चितो व्रजवासिभिः
***** यमुनाकर्षणम् ॥ 32 ॥ *****
ततः प्राप्तः स मथुरां पूजितः कालियद्विषा ।
दिव्यमालाम्बरः श्रीमान्यादवानन्दकृद्बभौ
विचिन्त्याथ जरासंधं गतं भग्नमनोरथम् ।
तं दुःसहमहानीकं पुनरागमनोत्सुकम्
अत्यल्पां मथुरां वीक्ष्य वर्धमानांश्च यादवान् ।
उग्रसेनादिभिर्वृद्धैरमन्त्र्यत केशवः
सो ऽब्रवीदयमत्यन्तप्रणयोपचितः क्रमः ।
गुरूणां भवतामग्रे यदस्माभिरिहोच्यते
इयं नयविदां कापि प्रख्याताभिमता मतिः ।
तिष्ठस्तु चिन्त्यते नीतिर्यद्वीरेषु महत्स्वपि
जरासंधेन नस्तावत्प्रजातो बलशालिना ।
निःसामसीमा वैराग्निरङ्गच्छेदसमुद्भवः
विरक्ताः पृथिवीपालास्ते ते तदनुयायिनः ।
जरासंधेन सहिता ये न जेयाः सुरैरपि
स कालयवनो म्लेच्छदरच्चीनशकाग्रगः ।
तथा बलनिरोधेन पुरीं नः समपीडयत्
स गार्ग्यस्योग्रतपसा संजातस्त्रिजगज्जयी ।
अवध्यः सर्वभूतानां वराद्वीरः पिनाकिनः
इयमस्मत्पुरीबन्धे तस्याश्वाकृदुद्भवा ।
सरिदश्वशकृत्संज्ञा लोके ख्याता प्रसर्पति
क्रमेण विनिपातानां भयं ते महतां द्विषाम् ।
नगर्यां प्राप दुर्गायां कालदेशोदयेन न
तस्माद्द्वारवतीं दुर्गां परिखाट्टलमालिनीम् ।
निवेशयितुमिच्छामि पश्चिमाब्धौ कुशस्थलीम्
इत्युक्ते शौरिणा प्राहुस्तथेति यदुपुंगवाः ।
श्रद्धा हि हितवाक्येषु भाविकल्याणसंपदाम्
कृष्णसर्पः ततः कृष्णः कुम्भे प्रक्षिप्य मुद्रिते ।
प्राहिणोद्यवनेन्द्राय दुःसहो ऽस्मीत्युदाहरन्
तं दृष्ट्वा कालयवनः प्रहस्योग्रैः पिपीलकैः ।
भक्षितं प्रेषयामास सर्पं सेनाढ्यतां वदन्
ततः कृष्मेन सहिताः पुरीं जलधिमेखलाम् ।
प्रययुर्मथुरां त्यक्त्वा सर्वे यादववृष्णयः
ततः परिवृता वीरैर्भ्राजमाना सुरैरिव ।
पुरी कृष्णेन शुशुभे शक्रेणेवामरावती
ततः कदाचिदेकाकी पादचारी जनार्दनः ।
आक्रष्टुं कालयवनं प्रययौ नयकोविदः
गोविन्दमागतं दृष्ट्वा प्रहृष्टो यवनाधिपः ।
अभ्याद्रवन्महाकायः कालः काल इवोत्कटः
मनोजवं जगद्वैरी स जिघृक्षुर्जनार्दनम् ।
वेगाभिसारी विदधे कम्पक्षुभाकुला दिशः
स्वमायामिव गम्भीरां धीरो गिरिगुहां ततः ।
विवेश विपुलायामामचिन्त्यगतिरच्युतः
मान्धातुस्तनयस्तत्र मुचुकुन्दः क्षितीश्वरः ।
देवासुररणे कृत्वा शक्रस्य रिपुसंक्षयम्
श्रान्तो निद्रां वरात्प्राप्य विदधे संविदं सुरैः ।
निद्राक्षयं मे यः कुर्यात्स गच्छेद्भस्मसादिति
सुचिरं रत्नपर्यङ्के शयानस्याथ तस्य सः ।
राज्ञो गुहायां गोविन्दः शीर्षन्ते समुपाविशत्
ततः प्रविश्य सावेगं कोपप्रज्वलितः श्वसन् ।
सुप्तं ददर्श राजर्षिं यवनः पर्वताकृतिम्
पिहिताननमालोक्य तं कालयवनः क्रुधा ।
कृष्मो ऽयमिति संचिन्त्य पदा पस्पर्श भूमिपम्
सहसा प्रतिबुद्धो ऽथ मुचुकुन्दनृपः पदा ।
स्पृशन्तं दुःकहरुषा चक्षुषा भस्मसाद्व्यधात्
निर्दग्धे कालयवने परिवृत्ताननो नृपः ।
निद्राकषायनयनः पुण्डरीकाक्षमैक्षत
स दृष्ट्वा मन्दराकारः कृष्णमत्यल्पविग्रहम् ।
विपुलं कालसंज्ञासीदतीतं जगतीपतिः
को भवानिति पृष्टो ऽथ मुचुकुन्देन केशवः ।
न्यवेदयत्स्ववृत्तान्तमभिवाद्य कृताञ्जलिः
युगत्रयं गतं ज्ञात्वा निद्रायाः पृथिवीपतिः ।
गुल्फप्रमाणा दृष्ट्वा च प्रजा ह्रस्वत्वमागताः ।
न चकार मतिं राज्ये विरसे विगतस्पृहः
समानेषु व्यतीतेषु शून्यासु प्रेमभूमिषु ।
जीर्णे जगति विच्छाये सजने का रतिः सताम्
स गत्वा तपसे धीमान्कन्दरं हिमभूभृतः ।
आरुरोह नृपः स्वर्गं स्वारोहं पुण्यसंपदाम्
***** कालयवनवधः ॥ 33 ॥ *****
कृष्णो ऽथ द्वारकां गत्वा विहितां विश्वकर्मणा ।
हेमप्रतोलीप्राकारां रत्नगोपुरतोरणाम्
स्फारस्फटिकहर्म्यांशुमालारचितचन्द्रिकाम् ।
अमृतोद्गारिणीं क्षीरसागरादिव निर्मिताम्
मणिभित्तिषु संक्रान्तकान्तावदनमालिकाम् ।
विजज्य बहुधात्मानं शशाङ्केनेव सेविताम्
विवेश विषदोद्द्योतां सानुगां सततो ऽसवाम् ।
स सैन्यधनमादाय निखिलं यवनार्जितम्
तस्यां पोरजनं सर्वं शङ्खो नाम निधीश्वरः ।
कृष्णस्य शासनात्तूर्णं हेमरत्नैरपूरयत्
विसृज्य पवनं साक्षात्त्रिदिवं देवकीसुतः ।
आनिनाय सुधर्माख्यां दिव्यां देवसभां विभुः
सा पुरी सुभटैर्गुप्ता वृष्णिसात्वतयादवैः ।
मेरोरिव गुहासिंहैः शुशुभे कान्तिनिर्भरा
दत्तेव काले विपुले समुद्रेण हरेर्गिरा ।
अनेकयोजनायामा पुरी साभूद्गरीयसी
अत्रान्तरे भीष्मकस्य दाक्षिणात्यस्य भूपतेः ।
शुश्राव रुक्मिणीं कृष्मः कन्यां रूपेम विश्रुताम्
सापि शुश्राव कंसारिं कृष्णं कमललोचनम् ।
अभिलाषरसोदारं किमप्यासीन्मनस्तयोः
भीष्मकस्यात्मजो रुक्मी भुजशाली रणोत्कटः ।
वीरो बिभर्ति यः स्पर्धां भुवि भार्गवभीष्मयोः
अनुजां रुक्मिणीं दृप्तः स कृष्मेनार्थितां सदा ।
न ददौ कंसदासो ऽयमिति द्वेषादुदाहरन्
ततो जरासंधगिरा शिशुपालाय भूभुजे ।
तां दातुमुद्ययौ पुत्रीं भीष्मकः पुत्रसंमते
वसुदेवस्वसुः पुत्रः शिशुपालो ऽथ तत्पुरीम् ।
कृष्णादिभिर्वृष्णिवीरैर्वारयात्राभिमन्त्रितैः
दन्तवक्रजरासंधमुख्यैश्च सह राजभिः ।
स विवाहोत्सवे प्रायाद्भीष्मकेनाभिपूजितः
इन्द्राणीपूजनव्यग्रां तत्र लोचनचन्द्रिकाम् ।
ददर्श रुक्मिणीं कृष्णः कृष्णशारायतेक्षणाम्
सुमुखीं कान्तिललितामाताम्राधरपल्लवाम् ।
लक्ष्मीमिव सहोत्पन्नां चन्द्रामृतसुरद्रुमैः
तीं वीक्ष्य पद्मवदनां मदनोद्यानमाधवीम् ।
माधवो मधुसंसिक्त इव क्षणमचिन्तयत्
इयं शुभ्रांशुकोत्फुल्लफेना कान्तितरङ्गिणी ।
हरहुंकारदग्धस्य जीवती पुष्पधन्वनः
लज्जैव जलजस्पर्धा प्रभेयं शशिनः कुतः ।
उपमानं सुखस्यास्याः स्वमुखं दर्पणे यदि
चिन्तयन्निति वैकुण्ठः सोत्कण्ठं मन्मथाकुलः ।
जहार संमते भ्रातुः सहसा भीष्मकात्मजाम्
रथेन रथिना तेन हृतायां वातरंहसा ।
उदबूत्सुभटक्षोभगम्भीरो भूभुजां रवः
इयं कृष्णेन कृष्णेन कन्या कन्या हृता हृता ।
इति व्याहरतामेव राज्ञां मोह इवाभवत्
वृष्णीनां राममुख्यानां भारं विन्यस्य दुःसहम् ।
तार्क्ष्यकेतौ द्रुतं याते घोरं युद्धमवर्तत
रामसात्यकिहार्दिक्यगदाक्रूरविदूरथैः ।
वक्रदेवसुनक्षत्रसारणाद्यैश्च यादवैः
शिशुपालजरासंधमुख्यानां भूभुजां रणे ।
अकालरजनीवाभूत्क्षणं निर्विवरैः शरैः
बलिना बलदेवेन वध्यमानेषु वैरिषु ।
शिशुपालेन चान्येषु संक्षयः सैन्ययोरभूत्
अत्रान्तरे पुरो राज्ञां स्क्मी क्रोधाग्निना ज्वलन् ।
पितुश्चोवाच संनद्धः श्वसन्नाग इवाहतः
नाहत्वा मलिनाचारं कृष्णं दुर्नयकारिणम् ।
स्वपुरं समुपेष्यामि वीरव्रतपरिच्युतः
इत्युक्त्वा रथमारुह्य वीरैरनुगतो नृपैः ।
जवोद्धूतपताकाग्रः स ययौ नादयन्दिशः
दूरादायान्तमालोक्य रथस्थो रुक्मिणीसखः ।
तस्थौ हरिः परावृत्य कर्णान्ताकृष्टकार्मुकः
ततः श्रेणीकृतैः क्षिप्रं घनैः कृष्णशिलीमुखैः ।
आच्छाद्यमाना विबभुर्भूपालकमलाकराः
शौरिरापूर्यमाणो ऽथ रुक्मिचापच्युतैः शरैः ।
हेमपुङ्खैरभूद्व्याप्तः सूर्यांशुभिरिवाचलः
अक्षयां क्षितिपैः क्षिप्तां दीप्तशस्त्रपरस्पराम् ।
भिन्दानः सायकैस्तूर्णं बभौ नृत्यन्निवाच्युतः
ततः कृष्णशरैः क्षिप्रं छिन्नच्छत्ररथध्वजाः ।
बभूवुः कृत्तकोदण्डास्ते खण्डितमनोरथाः
दिव्यास्त्रवर्षिणः शौरिश्छित्वा सर्वायुधान्यथ ।
रुक्मिणस्तीव्रनाराचैर्विव्याध हृदयं त्रिभिः
मूर्च्छिते पतिते तस्मिन्विद्रुते राजमण्डले ।
ररक्ष शौरिर्दयया रुक्मिणं रुक्मिणीगिरा
याते द्वारवतीं कृष्णे विनिवृत्तेषु वृष्णिषु ।
कुण्डिनाख्यं पुरं रुक्मी प्रविवेश न लज्जया
प्रतिज्ञया परित्यक्तपुरः स विदधे परम् ।
पुरं भोजकटं नाम मानभङ्गं विचिन्तयन्
***** रुक्मिणीहरणम् ॥ 34 ॥ *****
जयश्रियमिवादाय श्रियं मूर्त्यन्तरागतम् ।
भेजे विवाहविधिना रुक्मिणीं रुक्मिणीप्रियः
स तया पुण्डरीकाक्षः फुल्लोन्दीवचतक्षुषा ।
विजहार सुधासारपरिपूरितमानसः
तस्यमजीजनत्पुत्रान्दश त्रिदशसंनिभान् ।
प्रद्युम्नचारुदोष्णाद्यान्कन्यां चारुमतीं तथा
ततः प्राप प्रियाः प्रेमप्रणयोद्यानवल्लरीः ।
अन्या जगत्पतिः पत्नीर्मूर्ता इव दिशो दश
कालिन्दी सत्यभामा च सत्या जाम्बवती तथा ।
मित्रविन्दा सुशीला च लक्ष्मणा जालवासिनी
सुदन्ता रोहिणी चेति ताश्चन्द्रवदनाः सदा ।
श्यामाः श्यामा इव प्रीत्या भेजिरे शेषशायिनम्
स षोडशसहस्राणि दिव्यानां हरिणीदृशाम् ।
स्वैरं कन्दर्पलीलासु विश्वरूपं सिषेविरे
तासु विश्वसृजस्तस्य लक्षसंख्यो ऽभवद्विभोः ।
पुत्रवर्गः सुरारातिक्षयक्षमपराक्रमः
नारायणीं चन्द्रसेनां वैदर्भीं कृष्णनन्दनः ।
लेभे स्वयंवरे कन्यां प्रद्युम्नश्चारुलोचनः
तेनाजनि सुतस्तस्यामनिरुद्धः स्मरद्युतिः ।
रूपं यस्यायताक्षीणां दृग्वशीकरणाञ्जनम्
कालेन रुक्मिणः पौत्रीमनिरुद्धः सुलोचनाम् ।
प्राप्तुं ययौ रुक्मवतीं सह यादववृष्णिभिः
हलायुधप्रधानेषु तेषु तत्र स्थितेष्वथ ।
छद्मद्यूते मतिरभूद्दाक्षिणात्यमहीभुजाम्
ते संमन्त्र्य सभासीना रत्नासनजुषो नृपाः ।
कितवे चक्रुराह्वानं संहतास्ताललक्ष्मणः
तस्य तैः संप्रवृत्ते ऽथ द्यूते कलहदोहदे ।
पणेषु वर्तमानेषु मिथः कनककोटिभिः
क्षद्रैर्निकृत्यानिर्व्याजो राम एव जितो ऽसकृत् ।
तमुवाचाजितो रुक्मी विहस्याक्षान्प्रतोलयन्
अविद्यो दुर्बलश्चायमहो बहुधनो जितः ।
तच्छ्रुत्वा मन्युसंतप्तः श्वसन्कृष्णाग्रजो ऽवदत्
दशकोटिसहस्राणि हिरण्यस्य पणो मम ।
इत्युक्तो हलिना रुक्मी न किंचित्प्रत्युवाच तम्
निपातितेष्वथाक्षेषु जितः कृष्णाग्रजेन सः ।
मौनकृन्न जितो ऽस्मीति जगाद व्याजमाश्रितः
तेनास्य जिह्ववचसा कुपिते मुसलायुधे ।
उच्चचार स्फुटा वाणी गगनादशरीरिणी
रामेण विजितो रुक्मी कृत्वाभ्युपगमो धिया ।
प्रमाणं हि मनोवृत्तिः सर्वकार्येषु देहिनाम्
तच्छ्रुत्वा न जितो ऽस्मीति वादिनं पुनरेव तम् ।
अष्टापदेन सावेगमवधीन्मुसलायुधः
दन्तान्कलिङ्गराजस्य निपात्य समदो बलः ।
उत्पाट्य कलभस्तम्भमाद्रवत्क्रथकैशिकान्
कालानलद्विषस्तस्य त्रासाद्यातेषु राजसु ।
रुक्मिणि क्ष्माभृतां नाथे हते शक्रपराक्रमे
यातेषु वृष्णिवीरेषु शनैः सानुशयेष्विव ।
वृत्तं न्यवेदयत्सर्वमच्युतायाच्युताग्रजः
ततो विलापमुखरां रुक्मिणीं मधुसूदनः ।
परिसान्त्व्यानतमुखं किंचिन्नोचे हलायुधम्
***** रुक्मिवधः ॥ 35 ॥ *****
एवं भार्गवतुल्यो ऽसाववध्यस्त्रिदशैरपि ।
हतः शेषावतारेण स रुक्मी तालकेतुना
साम्बो नाम कदाचित्तु जाम्बवत्यां हरेः सुतः ।
दुर्योधनसुतां हर्तुं प्रययौ हस्तिनापुरम्
कन्याहरणकोपेन तस्मिन्राजस्वयंवरे ।
संरुद्धो धार्तराष्ट्रेण मानिना माधवात्मजः
क्रुद्धो ऽथ तद्विमोक्षाय स्वयमेत्य हलायुध ।
पुरं कौरवराजस्य तरसा भङ्क्तुमुद्यतः
प्राकारवप्रे विदधे हलं गङ्गातटोन्मुखम् ।
चचाल येन निखिल सहसां हस्तिनापुरम्
पुरं सगोपुराट्टालं हलाकर्षणघूर्णितम् ।
गङ्गायामुद्यतं क्षेप्तुं ज्ञात्वा क्रुद्धं हलायुधम्
दुर्योधनः स्वंय गत्वा प्रणिपत्य प्रसाद्य च ।
साम्बं मुक्त्वा गदायुद्धे प्रययौ तस्य शिष्यताम्
इत्येवं बलदेवस्य बलमत्यद्भुतं विभोः ।
येन नागायुतप्राणो भीमो दोर्भ्यां पराजितः
***** बलदेवमाहात्म्यम् ॥ 36 ॥ *****
अत्रान्तरे भुवः सूनुर्नरको नाम दानवः ।
जहार सर्वरत्नानि स्त्रियश्च त्रिदिवौकसाम्
अदितेः कुण्डलाहारी भयदीक्षां चकार यः ।
युधि सेहे न तं कश्चित्प्रवृद्धं लोककण्टकम्
ततः कदाचिद्वैडूर्यस्तम्भभूरिप्रभां सभाम् ।
आसीने वृष्मिभिः सार्धं कृष्णे रत्नासनोज्ज्वलाम्
अदृश्यत स्फुरत्तेजःपुञ्जैः पिञ्जरितं नभः ।
रविवाजिखुरक्षुण्णमेरुहेमरजःप्रभैः
तन्मध्ये शनकैः श्रीमान्सुरेन्द्रः स्फुटमाबभौ ।
ऐरावणकराशीर्णव्योमगङ्गाम्बुनिर्झरः
सो ऽवतीर्य दिवश्चन्द्रधवलच्छत्त्रचामरः ।
भूषणांशुवनैर्व्याप्तः शक्रचापचयैरिव
सहसाभ्युत्थितैर्हर्षविस्मयादरशालिभिः ।
पूजितो वृष्मिभिः कृष्णबलदेवाह्वकादिभिः
अवतीर्य गजातूर्णमलंकृतमहासनः ।
प्रीत्या विलोकयन्विष्णुं सहस्राक्षः समभ्यधात्
अहो सुचरितश्लाघ्ना धन्या माधववृष्णयः ।
उदिते दृश्यसै यैस्त्वं रविः पद्माकरैरिव
कर्तारं लोककार्याणां हर्तारं सुरविद्विषाम् ।
त्रैलोक्योपप्लवच्छित्त्यै त्वामहं समुपागतः
जगन्ति जगतां नाथ नरको नाम भूमिजः ।
बाधते कामगं यस्य पुरं प्राग्ज्योतिषं दिवि
देव्या दिवौकसां मातुरदितेर्दिव्यकुण्डले ।
जहार तरसा दीप्ते स महादित्यतेजसा
दैत्या सुरहयग्रीवनिसुन्दाख्यास्तदाश्रयाः ।
क्षपयन्त्यक्षया भांसि महांसि च यशांसि नः
तस्यान्धतमसस्येव निधने धरणीभुवः ।
क्षमस्त्वमेव प्रोच्चण्डचक्रसूर्योदयाचलः
मनोरथ इवास्माकमयं त्वां पतगेश्वरः ।
प्रापयिष्यति यत्रासौ दैत्यः स्वपुरसंश्रयः
इत्युक्त्वा विरते शक्रे तथेत्युक्ते मुरारिणा ।
विद्युत्पुञ्ज इवाकाशे गरुडः प्रत्यपद्यत
चक्रायुधः समारुह्य सत्यभामासखः क्षणात् ।
ऐरावणं सुरेन्द्रश्च व्योममार्गेण जग्मतुः
नाकं नाकपतौ याते हरिः प्राग्ज्योतिषं पुरम् ।
व्रजन्पाशसहस्राणि षट् छित्त्वासुरमन्दिरे
सभृत्यामात्यतनयं मुरं हत्वा सबान्धवम् ।
निसुन्दं च शिलासंघान्विदार्याशनिसंहातान्
हयग्रीवं च यो वर्षसहस्रं युयुधे सुरैः ।
विरूपाक्षं च पाप्मानमलकायां सहानुगम्
मध्ये लोहितगङ्गस्य तारं पञ्चकरं तथा ।
हत्वा प्राग्ज्योतिषपुरं समासाद्य मनोजवम् ।
अष्टौ लक्षाणि दैत्यानां निंजघान घनौजसाम्
ततो युद्धमभूद्धोरं नरकेन(ण) मधुच्चिदः ।
भयदं सर्वभूतानां भुवनाकम्पनं महत्
अथ क्रकचधारेण वज्रनाभेन भास्वता ।
चक्रे चक्रेण नरकं द्विधा चक्रायुधः क्रुधा
विस्फारभूधराकारे पतिते भुवि भूमिजे ।
चक्रधारानलप्लुष्टे तस्मिन्सपुरमन्दिरे
पुत्रशोकाकुला देवी छत्रं च प्रददौ मही ।
तत्प्रजापरिरक्षायै कुण्डले कैटभद्विषः
***** नरकवधः ॥ 37 ॥ *****
तस्याथ लुण्ठिताशेषसुरेन्द्रधनदश्रियः ।
रत्नसंचयमाहृत्य तत्पुरान्निर्ययौ हरिः
नरकेण महच्छत्त्रं हृतं यत्पाथसां पतेः ।
धाराशतसहस्राङ्कं दाशार्हस्तज्जहार च
निरुद्धास्तेन गन्धर्वसुरकिन्नरकन्यकाः ।
रत्नशैले विनिहिता ददर्श मधुसूदनः
गोविन्दददर्शनानन्दसुधास्यन्दतरङ्गिताः ।
मणिपर्वतमुत्पाद्य तार्क्ष्यकेतुर्निनाय ताः
स दृष्ट्वा दिवि देवेशं पूजितस्तेन सादरम् ।
शच्या संमानितां सत्यभामामालोकयन्मुदा
देवीं च देवजननीमदितिं दानवान्तकः ।
प्रणम्य सह शक्रेण दत्वास्यै दिव्यकुण्डले
ददर्श नन्दनोत्तंसं सर्वकामप्रदं सदा ।
पारिजातं सुधाजातमभिजातमिवेश्वरम्
तं दृष्ट्वा नयनानन्दबान्धवं माधवः स्वयम् ।
समुत्पाद्य जहाराशु तच्चामन्यत बृत्रहा
सत्यभामासखः पारिजातयुक्तो व्रजन्दिवि ।
सुपर्णवाहनः सो ऽभून्मूर्तो रस इवाद्भुतः
विद्याधरवधूवृन्दैर्विस्मयानन्दनिर्भरैः ।
मुहुः स कौतुकोत्कण्ठैः पीयमान इवेक्षणैः
द्वारकां स समासाद्य विसृज्य विहगेश्वरम् ।
भूयो विचित्रसंस्कारैर्भूषितां शक्रशासनात्
रत्नान्तःपुरसंबाधामद्भुतां विश्वकर्मणा ।
लोलहेमलताजालैर्मणिकाञ्चनशेखरैः ।
भूधरैरभितो गुप्तां निर्झरोदारकन्दरैः
भूधरैरभितो पुरीं वीरः पूजितो वृष्मियादवैः ।
स्वसारं मध्यगां भ्रात्रोर्नुत्वा देवीं बलाधिकाम्
चरितैर्विजयोदारैर्नारदेन स्तुतः स्वयम् ।
हरिणीहारिनेत्राभिर्विजहार हरिश्चिरम्
***** पारिजातहरणम् ॥ 38 ॥ *****
प्रद्युम्नो यस्तु रुक्मिण्यामजायत हरेः सुतः ।
दैत्येन शम्बराख्येन हृतो यः सूतिकालयात्
यश्चोक्षुमति दैत्यस्य प्रवृद्धो नगरे शिशुः ।
प्रीत्याः शनैः कृतस्तेन सर्वमायास्त्रापारगः
निजं हरणवृत्तान्तं ज्ञात्वा तद्वल्लभागिरा ।
समं समस्तमायाज्ञं हत्वाष्टम्भां महारणे
तं कालशम्बरं घोरं साभिलाषां च तद्वधूम् ।
विहितप्रार्थनां कान्तः कान्तां मायावतीं जवात्
हृत्वा गगनमार्गेण द्वारकामभिपत्य यः ।
ववन्दे निर्भरानन्दं जनकं रुक्मिणीसखम्
स्मरवतारो यः श्रीमान्शम्बरस्य विमोहनः ।
स बभूव परं वीरः कार्ष्णिलोकेषु विश्रुतः ।
तत्तुल्याः साम्बमुख्याश्च विख्याता माधवात्मजाः
***** शम्बरवधः ॥ 39 ॥ *****
त्रिदशस्पृहणीयां तामाश्चर्यां भुवि दुर्लभाम् ।
सपुत्रस्य हरेर्भूपा विभूतिं द्रष्टुमाययुः
दुर्योधनप्रधानास्ते नानादेश्या नराधिपाः ।
अक्षौहिणीभिर्वीराणामष्टादशभिरावृताः
गिरिं रैवतकं सर्वे परिवार्य सविस्मयाः ।
तस्थुर्विविक्तरम्यासु द्वारकोपान्तभूमिषु
ततो निर्गत्य भगवन्सर्वैर्वृष्णिगणैः सह ।
यथाक्रमं हरिः सर्वान्पूजयंस्तान्क्षितीश्वरान्
तेषु सिंहासनस्थेषु भेजे रत्नासनं महत् ।
धाम्नां निधिरिव श्रीमान्रोहणाचलशेखरम्
राजाम्बुजवनोत्था श्रीर्बन्दिनूपुरराविणी ।
गोविन्दमालिङ्गेव च्छत्त्रचामरहासिनी
तं भूपतिसभासीनं द्रष्टुमभ्येत्य नारदः ।
उवाच देव धन्यस्त्वमाश्चर्यं त्रिदिवौकसान्
दक्षिणाभिः सहास्मीति प्रत्युक्ते तेन नारदे ।
किमेतादिति पप्रच्छ भूपालाः कौतुकाकुलाः
कथ्यतामिति कृष्णेन सादरं प्रेरितो ऽवदत् ।
अहं त्रिषवणस्नायी कदाचिद्द्युनदीतटे ।
अवदं कूर्ममालोक्य धन्यो ऽस्मीत्यद्भुताकृतिम्
सो ऽब्रवीदद्भुता गङ्गा धन्या वा(या)स्मद्विधैः श्रिता ।
धन्यासीति मया सापि पृष्टा मां प्रत्यभाषत
धन्यो ऽब्धिरद्भुतततरः सर्वासां सरिता पतिः ।
पृष्टः सो ऽपि मया प्राह मत्तः क्षितिरियं वरा
साप्युवाचाद्भुततरा भूधरा यैरहं धृता ।
जगदुस्ते ऽपि जगतां स्रष्टा पद्मोद्भवो ऽद्भुतः
पृष्टः सो ऽप्यवदद्वेदाः सर्वाश्चर्यमहत्तराः ।
दे ऽप्यूचुरद्भुता यज्ञा येषामर्थे वयं स्थिताः
ते ऽप्यूचिरे मया पृष्टा गतिर्नो विष्णुरद्भुतः ।
सत्यः सनातनः पुण्यो यः सर्वहुतमश्नुते
एतच्छ्रुत्वा मयाभ्येत्य कृष्णः पृष्टो ऽतिकौतुकात् ।
दक्षिणाभिः सहास्मीति विभुर्मामेतदुक्तवान्
इत्युक्त्वा नारदे याते विस्मिते राजमण्डले ।
गते संप्राप्तसत्कारे विवेश स्वपुरं हरिः
***** आश्चर्यपर्व ॥ 40 ॥ *****
कदाचिद्विपूले यज्ञे दीक्षितः केशवः स्वयम् ।
त्रायस्वेत्यर्थितो ऽभ्येत्य दुःखितेन द्विजन्मना
ब्रूहि किं ते भयमिति ब्राह्मणः शौरिणोदितः ।
उवाच भाग्यहीनस्य जाता जाताः सुतास्त्रयः
हृताः केनापि भूतेन चतुर्थं परिरक्ष मे ।
जायायाः सूतिकालो ऽयं ममेत्युक्ते द्विजन्मना ।
तद्रक्षायै ददौ विष्णुर्वृष्णिवीरैः सहार्जुनम्
गाण्डीवधन्वा संप्राप्य ब्राह्मणावसथं क्षणात् ।
दिशो वृष्णिभिरावृत्य तस्थौ रक्षाकृतक्षणः
ततोर्ऽधरात्रे सूतायां बाह्मण्यां दुर्निमित्तवान् ।
हृतो हृतः सुत इति प्रादुरासीज्जनस्वनः
स्त्रीणामार्तस्वनं श्रुत्वा बालस्य करुमस्वनम् ।
पार्थसात्यकिमुख्यास्ते सायकैः स्वमपूरयन्
तेषु मोघश्रमेष्वेव धिक्कृतेषु द्विजन्मना ।
लज्जितेषु प्रयातेषु श्रुत्वा तद्वृत्तमच्युतः
शैब्यसुग्रीवयुक्तेन रथेनार्जुनसारथिः ।
दत्तवर्त्मा समुद्रेण प्रतस्थे गरुडध्वजः
स्तब्धतोयं समुत्तीर्य सागरं स मनोजवः ।
प्रणतैर्मेरुकैलासमुख्यैर्दत्तान्तरः पथि
पुनश्चक्रेण तिमिरं समुत्पाट्य शिलाघनम् ।
आसाद्य विमलं व्योम तेजः पुरुषविग्रहम्
अविच्छिन्नं जगद्व्यापि दृष्ट्वा त्यक्त्वा च तं रथम् ।
प्रविश्यार्कसहस्राभं मुहूर्तान्निर्ययौ हरिः
तत एव समादाय ददौ पुत्रचतुष्टयम् ।
सहर्षविस्मयापूर्णहृदयाय द्विजन्मने
द्वारकामथ संप्राप्तः कैटभारिः किरीटिना ।
पृष्टस्तदद्भूततरं प्रोवाचाश्चर्यसागरः
ते शैलास्तच्च तिमिरं तेजस्तच्चातिभास्करम् ।
अहमेव जगज्जन्मस्थितिसंहारकारणम्
तेजोमयेन ते तेन मत्समागमकाङ्क्षिणा ।
ब्राह्मणस्य हृताः पुत्रा वितीर्णाश्च महात्मना
***** वासुदेवमाहात्म्यम् ॥ 41 ॥ *****
अत्रान्तरे बडेः(लेः) सूनुर्बाणो नाम महासुरः ।
जहार सुरसंघानां तेजांसि च यशांसि च
ततः प्रसन्नो भगवान्भवो भक्तजनप्रियः ।
आस्थाने यस्य स गणः सभ्यतां सततं ययौ
यः सहस्रभुजस्तम्भस्तम्भितामरविक्रमः ।
त्रिविक्रमस्याप्यनयत्प्राप्तं वामनतां यशः
स वीरः समराकाङ्क्षी कदाचित्त्रिपुरान्तकम् ।
पप्रच्छ विजिताशेषः प्रणयावर्जिताञ्जलिः
चिरविस्मृतसंग्रामः प्रार्थये भगवन्युधि ।
अमीषां भुजदण्डानां रणकण्डूतिखण्डनम्
तं विहस्याब्रवीद्देवः शूलपाणिर्भुजोचितः ।
भविता तव संग्रामः केतुभङ्गेन सूचितः
श्रुत्वैतत्साहसं हर्षनिर्भरो भूरिविक्रमः ।
बाणः स्वभवनं गत्वा मन्त्रिणे तन्न्यवेदयत्
तमुवाचाथ कुम्भाण्डो मन्त्री मतिमतां वरः ।
अहो नु फलशून्यो ऽयं राजन्युद्धादरस्तव
त्रैलोक्यलक्ष्मीः संप्राप्ता जिताः सर्वे दिवौकसः ।
किं युद्धेन प्रवृद्धानामपि लोलौ जयाजयौ
इति वादिनि कुम्भाण्डे बाणे च समरोत्सुके ।
ध्वजः पपात दैत्यश्रीक्रीडाशैल इवोच्छ्रितः
केतौ निपतिते तस्मिन्दानवक्षयशंसिनि ।
घोरेषु दुर्निमित्तेषु प्रादुर्भूतेषु सर्वतः
प्रहर्षविवशे बाणे पानक्रीडाविलासिनि ।
नयचक्षुषि कुम्भाण्डे चिन्तासंतापिताशये
कदाचिद्बाणनगरे सर्वर्तुकुसुमे वने ।
विजहाराचलसुतासखश्चन्द्रर्धशेखरः
गीतनृत्यकलालोलगन्धर्वाप्सरसां गणैः ।
सेव्यमानस्य संभोगविभ्रमः शुशुभे विभोः
हासाय चित्रलेखाख्या तत्र देवविलासिनी ।
नाट्यं चकार विधिवत्सेवितुं पार्वतीपतिम्
नर्मक्रीडाविनोदेन परिहासविडम्बनैः ।
अप्सरोविहितैस्तैस्तैर्जहास भववल्लभा
तत्रोषा नाम बाणस्य कन्या कुवलयेक्षणा ।
ददर्श शिवयोः क्रीडाविलासममरोत्सवम्
तां वीक्ष्य सादरां देवी बभाषे ललिताननाम् ।
उषे त्वमपि कान्तेन केलिसक्ता भविष्यसि
वैशाखे हर्म्यसक्ताया द्वादश्यां निशि येन ते ।
भविता संगमः स्वप्ने स ते प्राग्जातिवल्लभः
इत्युक्ता बाणतनया भवान्या भक्तिशालिनी ।
जगामान्तःपुरं हर्षव्याकोशनयनोत्पला
किमेतदिति पृष्टेव शिञ्जानमणिभूषणैः ।
तां सोत्कम्पकचन्यस्तहस्तां लज्जानताननाम्
पप्रच्छ चित्रलेखाख्या कुम्भाण्डदुहितासखी ।
कुतस्ते भयमुत्पन्नं किं लतेव प्रकम्पसे
तनया ह्यसि बाणस्य जम्भारिभयकारिणः ।
इत्युषा सहसा सख्या पृष्टा तां प्रत्यभाषत
मुकेन्दौ लाञ्छनच्छायां कुर्वाणामञ्जनास्रुभिः ।
कथं नु दूषिता नाम पूज्यासि जनमानिनी
उत्सहे जीवितं जातु कलङ्कितकुला सती ।
इति प्रलापमुखरां सखीं तामवदन्मुदा
स्वप्नसङ्गेन दूष्यन्ते न मुग्धे कुलयोषितः ।
किं न स्मरसि यद्गौर्या सूचितं केलिकानने ।
स्वप्ने हृदयचौरस्ते भविता भीरु वल्लभः
इति संस्मारिता स्वैरं सहसा चित्रलेखया ।
प्रदध्यौ वलल्भं हर्षान्मनसामृतदीधितिम्
अभिलाषरसस्तस्या नवः को ऽपि व्यवर्धत ।
सहसा येन जज्वाल प्रबलो मन्मथानलः
तां वीक्ष्य संततोच्छ्वासधूसराधरपल्लवाम् ।
लतामिवातपक्लान्तां चित्रलेखावदत्सखीम्
सखि को ऽयमनालेख्यचित्रत्रकौतुकविभ्रमः ।
स्वप्नदृष्टजने रागः स्वपुष्पोत्तंसशेखरः
दर्पणप्रतिमालाभस्तारकाचन्द्रयाचनम् ।
हेवाकः स्वप्नदृष्टे च बाले बालमनोरथः
न जानीमः स कः क्वास्ते कथं वा केन लभ्यते ।
अवश्यमेव भविता स्वयं ते तत्समागमः
अथवा सुरगन्धर्वकिन्नरोरगरक्षसाम् ।
वपूंषि भूमिपानां च त्रैलोक्यान्तरवर्तिनाम्
पटान्ते निर्विशेषाणि लिखित्वा सखि मायया ।
दर्शयामि तव क्षिप्रं ततो जानीहि वल्लभम्
इत्युक्त्वा सप्तरात्रेण लिखित्वा सकलान्पटे ।
अचित्रयच्चित्रलेखा सख्याः सर्वानुकारिणी
चित्रपट्टगतान्वीक्ष्य सुरभोगिनृमानुषान् ।
ददर्श वृष्णिवीराणां मध्ये गोविन्दसुन्दरम्
अनिरुद्धं तमालोक्य विस्मयानन्दनिर्भरा ।
उषा बभाषे कौमारव्रतचौरो ममैष सः
सखि प्राज्यभुजः कान्तः को ऽयं कमललोचनः ।
प्रसह्यापहृतं येन धैर्यं मे मनसा सह
चित्रलेखा निशम्यैतदुवाच रुचिरस्मिता ।
अयं सखि मुरारातेः कृष्णस्य तनयात्मजः
वीरो ऽनिरुद्धस्ते देव्यादिष्टो हृदयवल्लभः ।
स्वप्ने त्वां रतिमन्वेष्टुं नूनं कामो ऽयमागतः
विस्मितैर्विक्रमेणास्य संग्रामेषु सुरासुरैः ।
खर्वीक्रियन्ते सुभटाः सबान्धवमनोरथाः
श्रुत्वैतन्मन्मथाविष्टा प्रतिमान्यस्तलोचना ।
उषावदद्विना कान्तं नाहं जीवितुमुत्सहे
यदि तेर्ऽथो मम प्राणैर्यदि ते ऽहं प्रिया सखी ।
तदनेन कुरु क्षिप्रं कान्तेन मम संगमम्
इति ब्रुवाणामसकृच्चित्रलेखा जगाद ताम् ।
पितुस्ते शोणितपुरं यथा सुभटरक्षितम्
तथैव द्वारका वीरैर्वृष्णिबिः परिपालिता ।
आगम्या च परस्यापि विकटाट्टालमालिनी
ततः सखि कथं नाम वीरं ते जीवितेश्वरम् ।
प्रसह्याहर्तुमबलाजनो जातु प्रगल्भते
तथापि त्वत्प्रियायैषां गच्छामि गगने ऽग्रगा ।
सिद्धिस्तु देव्यैवादिष्टा त्वद्भाग्येषु सखि स्थिता
इत्युक्त्वा खं विवेशाशु सा रत्नाभरणांशुभिः ।
घनश्रीरिव कुर्वाणा शक्रचापचिता दिशः
मुहूर्ते बाणनगरात्तृतीये सा गता जवात् ।
क्षणेन द्वारकां प्राप कान्त्या कैलासहासिनीम्
तत्रोरुरत्नवललक्षीप्रभाप्रोद्भासिताम्बरम् ।
अनिरुद्धस्य भवनं विवेशालक्षिताकृतिः
तत्र बालमृगाक्षीभिः कान्ताभिः परिवारितम् ।
अनिरुद्धं मनोजन्मलीलाललितचेष्टितम्
ददर्श स्निग्धललना कटाक्षशबलद्युतिम् ।
रतिकर्णोत्पलाघातलग्नच्छदमि वस्मरन्
अङ्गनालिङ्गनालीनस्तनपत्त्रलताङ्कितम् ।
धम्मिल्लकुसुमैर्व्याप्तं पारिजातमिवापरम्
तं वीक्ष्य विक्रमोदारं शृङ्गारललिताकृतिम् ।
अचिन्तयच्चित्रलेखा मुहूर्तं जातसाध्वसा
अहो बत महत्यस्मिन्नुद्याताहं ससंशये ।
कार्ये प्रियसखीप्रीत्या प्रेम्णि वा किं विचिन्त्यते
इति ध्यात्वा मुहुर्वीरा सा तमोविद्यया पुरः ।
आच्छाद्य स्त्रीगणं सर्वं प्र(प्रा)द्युम्न(म्नि)मनयत्क्षणात्
संकल्पशक्तिरिव सा मायया क्षिप्रगामिनी ।
प्रविश्य शोणितपुरं हर्म्यस्थां प्रययौ सखीम्
उषापि वल्लभावाप्तिमनोरथशताकुला ।
सहसा दयितं वीक्ष्य सख्यातीतं विहायसा
पीयूषप्लावितेवाशु हर्षलज्जाभयाकुला ।
किं करोमीति संभ्रान्ता कम्पमाना लतेव सा
अनिर्वाच्यदशां याता शिञ्जानमणिभूषणा ।
प्रहृष्टा सा तमादाय दयितं गुह्यमन्दिरम्
विवेश जनसंचारभीता तरललोचना ।
स्रस्तया बाणभीत्येव त्यक्ता मेखलया स्वयम्
तत्र सुस्फारमन्दारशेखरं लोलकुण्डलम् ।
तारतारावलीचारुहारं ताराधिपप्रभम्
शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा ।
उषा सस्मार संभोगसौभाग्यविभवं रतेः
शृङ्गारदीक्षागुरुणा तेन साङ्गस्मरत्विषा ।
उषा सस्मार संभोगासौभाग्यविभवं रतेः
अनिरुद्धो ऽपि तां प्राप्य वल्लभां भुवि दुर्लभाम् ।
मेने भाजनमात्मानं स्मरसाम्रज्यसंपदाम्
रममाणस्तया गूढं तत्र प्रद्युम्नसंभवः ।
लक्षणैर्बहुभिर्ज्ञातः कन्यान्तःपुररक्षिभिः
तनयादूषणरुषा निर्दिष्टा बलिसूनुना ।
बाणेन किंकरा घोराः प्राद्युम्निं हन्तुमाययुः
दंष्ट्राविकटवक्त्रोग्रबद्धभ्रुकुटिभीषणान् ।
वीरो ऽनिरुद्धस्तान्दृष्ट्वा कृष्टघोरासिकार्मुकान्
उत्थाय समरारम्भनिःसंरम्भपराक्रमः ।
उत्थाय द्वारपरिघं मृगान्सिंह इवाद्रवत्
कान्ताकटाक्षदृष्टस्य तस् शौर्यनिधेर्वपुः ।
वीरशृङ्गाररभसं बभौ मन्मथरूपिणः
शस्त्रवृष्टिं तदुत्सृष्टां पुष्पमालामिवोरसा ।
आदाय दानवभटाञ्जघान घननिःस्वनः
ते तत्प्रहाराभिहता भग्नभीषणविग्रहाः ।
हतशेषा ययुर्भीता यत्र बाणो रणोत्कटः
पुरंदरपुरध्वंससाक्षिणां को ऽयमागतः ।
संभ्रमः कोपसंमोहजनकः कातरोचितः
क्रियतामादर शौर्ये यशःकुसुममाधवे ।
त्रासो ऽयमभिमानाद्रिवज्रपातो हि दुःसहः
वचोभिरिति वीराणां ते बाणस्य च शासनात् ।
अनिरुद्धं सुमहता सैन्येन पुनराद्रवन्
आमुक्तहेमकवचैः प्रदीप्तविविधायुधैः ।
निशि दीप्तौषधिवनैर्गिरीन्द्रैरिव जङ्गमैः
युयुधे युधि संरब्धैश्चक्रायुधसुतात्मजः ।
सोत्कम्पकुचविन्यस्तहस्तामालोक्यन्प्रियाम्
आदाय तत्समुत्सृष्टं खड्गं चर्म च भास्वरम् ।
मण्डलानि चरन्वीरः स चकर्त रणे रिपून्
तेन कृत्तशिरःस्कन्धभुजजानुकरोदराः ।
पेतुर्महाघनाः कल्पवातेनोन्मथिता इव
विद्रुते दानवानीके भग्नस्यन्दनकुञ्जरे ।
निवर्तितबलाम्भोधिर्बाणः स्वयमदृश्यत
कुम्भाण्डाहितवल्गेन सहस्राश्वेन भास्वता ।
रथेन भीमनादेन सहस्राश्वेन भाश्वता ।
रथेन भीमनादेन युक्तस्त्रिदशमर्दिना
दोःसहस्रसमुद्भ्रान्तदीप्तायुधवरोत्कटः ।
फणरत्नोग्रभुजगव्याप्तशृङ्ग इवाचलः
मुकुटेनार्कवर्णेन रत्नज्वालाजटाजुषा ।
तर्जयन्निव तेजांसि सितपट्टाट्टहासिना
मार्तण्डमण्डलोच्चण्डकुण्डलोदग्रवर्चसा ।
भ्रूभङ्गभीमवक्त्रेण संत्रासितजगत्त्रयः
निशाकरकरोदारतारहारतरङ्गितः ।
विस्फारनिर्झरोद्गार इव नीलधराधरः
उत्तप्तकाञ्चनच्छायश्मश्रुकेशविभूषणः ।
क्रोधनिर्घृष्टदन्ताग्रजातज्वाल इवादितः
गर्जन्तं तिष्ठ तिष्ठेति प्रलयाम्भोजनिःस्वनम् ।
तमापतन्तमालोक्य प्राद्युम्निर्न व्यकम्पत
बाणबाहुवनोन्मुक्तैर्बाणजालैर्निरन्तरैः ।
छादितोर्ऽक इवाम्भोदैर्निर्विभागैर्बभूव सः
तयोर्हरिहरण्याक्षरणस्मरणहेतुताम् ।
भुवनाकम्पनाकम्पमगमद्युद्धमुद्धतम्
अनिरुद्धो ऽथ खड्गेन बाणबाणपरम्पराम् ।
छित्त्वास्य लघुसंचारी चिच्छेद रथकूबरम्
ज्वालाकुलां ततः शक्तिं शोणपट्टङ्कितामिव ।
चिक्षेप दानवपतिस्तस्मै भोगिवधूमिव
हस्तेन कालदंष्ट्राभां तामेवादाय धैर्यभूः ।
प्राहिणोद्दानवेन्द्राय दाशार्हे ऽद्भुतविक्रमः
बाणस्य भित्त्वा सा देहं विवेश धरणीतलम् ।
शक्त्या विदारितं दृष्ट्वा कुम्भाण्डो बाणमब्रवीत्
मायामाश्रित्य युध्यस्व दुर्जयो ऽयमुपेक्षितः ।
निःसंशयजयावाप्तिर्द्युते युद्धे च मायिनाम्
इति कुम्भाण्डवचसा बाणो मायां विमोहनीम् ।
आदाय तामसीं घोरां सहसान्तरधीयत
अदृश्यः स महाभागैर्बाणैर्भुजगविग्रहैः ।
नभोगतस्तं विदधे विष्टिताङ्गं विषोल्बणैः
रुफुरत्फणामणिज्वालाज्वलितैर्वेष्टितो ऽहिभिः ।
स बभौ शबलच्छायश्चन्दनद्रुमविभ्रमः
नागपाशनिरुद्धस्य धैर्यनिष्कम्पचेतसः ।
अनिरुद्धस्य विदधे वधे दैत्यपतिर्मतिम्
महाप्रभावः को ऽप्येष नाज्ञातो वधमर्हति ।
इति कुम्भाण्डवचसा विरराम बडेः(लेः) सुतः
अत्रान्तरे द्वारकायां तारमन्तःपुरोदरे ।
हृतो ऽनिरुद्धः केनापि प्रोच्चचारेति निःस्वनः
मुहुर्विमोहविवशास्तत्र त्रस्ता मृगीदृशः ।
अनिरुद्धस्य दयिताः शुशुचुः शोकविह्वलाः
अथ वृष्णिप्रवीराणां कैटभारिसभान्तरे ।
भेरीनिनादहूतानां समाजः सुमहानभूत्
ततो निवातनिष्कम्पसप्तसागरसंनिभम् ।
ददृशुः साश्रुनेत्रास्ते चिन्तास्तिमितमच्युतम्
शोकमोहविषाक्रान्ते मूके यादवमण्डले ।
उवाच विपृथुर्धीमान्विष्णुं जिष्णुं सुरद्विषाम्
को ऽयं तवापि भगवन्भुवनाभयदायिनः ।
अचिन्त्यमहासश्चितासंतापप्रसरो नवः
न हि नाम महाम्भोधिगम्भीरोदारचेतसाम् ।
भवन्ति सुखदुःखेषु हर्षशोकपरिप्लवाः
यदि देव त्वमप्येवं चिन्तासंतापितो ऽच्युतः ।
तदिदानां निरालम्बा धैर्यस्य स्खलिता गतिः
त्रैलोक्यरक्षां निक्षिप्य त्वद्भुजे जम्भसूदनः ।
शेते शचीकुचाभोगसभोगानन्दनिर्वृतः
इति तेनोक्तमाकर्ण्य कृष्णो गम्भीरमन्थरम् ।
समादधे गिरं वैरियशोहंसकुलाम्बुदः
परावज्ञा निकारेण करोति हृदये पदम् ।
चिन्ताभीमानिनां सत्यमविद्येव शरीरिणाम्
अयं यदुकुलस्याद्य केनाप्युत्सिक्तचेतसा ।
पातितश्चरणो मूर्ध्नि रथ्यापङ्कपरिप्लुतः
अनिरुद्धे हृते यातः पुरोमन्ये महीभुजाम् ।
उपहासकथामात्रपात्रतां नः पराक्रमः
अविज्ञातेन विहिते निकारे ऽस्मिन्विदारणे ।
किं कुर्मः कोपतुल्योग्रदण्डैर्गगनताडनम्
चाराश्चरन्तु सर्वत्र बाह्याभ्यन्तरचारिणः ।
आहुकस्याज्ञया तूर्णमनिरुद्धोपलब्धये
इत्युक्ते कंसरिपुणा देवर्षिस्तत्र नारदः ।
अदृश्यत निधिर्धाम्नां कलिकेलिविशारदः
स चिन्तास्तिमितं दृष्ट्वा जगन्नाथमचिन्तयत् ।
अहो नु बालशफरोत्फालेनाकुलितो ऽम्बुधिः
इत्याकलयतस्तस्य पाद्यासनपुरः सराम् ।
पूजां जनार्दनश्चक्रे पूजितः सो ऽप्यभाषत
अहो बत विमोहो वः प्रतिपक्षः पराक्रमे ।
लक्ष्यते येन जानीध्वमनिरुद्धस्य चेष्टितम्
अनिरुद्धस्य बाणेन बलिना बलिसूनुना ।
वृत्तः प्रवृत्तशस्त्रास्त्रभैरवः समरोत्सवः
कृष्ण पौत्रो ऽनिरुद्धस्ते हृतो दैत्येन्द्रकन्यया ।
मन्ये मुह्यति यां दृष्ट्वा स्मरो ऽपि स्मरपीडितः
सहस्रबाहोर्बाणस्य बलिसूनोः सुरद्विषः ।
उषा नामाम्बुजाक्षी सा लावण्यनलिनी सुता
स स्वैरकामुकं पुत्र्या ज्ञात्वा हृदयनन्दनम् ।
दृष्ट्वा च दुर्जयं युद्धे बबन्ध फणिमण्डलैः
तदितः शोणितपुरं बाणस्य गगनाग्रगम् ।
गन्तव्यं भवता योद्धुं सामसाध्या न दानवाः
अमर्त्यभूमिर्दुर्लङ्घ्या तार्क्ष्यमारुह्य गम्यताम् ।
यस्यां त्रिदशहृद्बाणो बाणो नामाशनिर्द्विषाम्
उक्त्वेति याते देवर्षौ देवो ऽपि मधुसूदनः ।
हर्षविस्मयकोपानां तुल्यां प्राप विधेयताम्
ततः प्रदध्यौ भगवान्गरुडं गरुडध्वजः ।
स च ध्यातोर्ऽकलंक्षाभः सहसा प्रत्यदृश्यत
तमारुरोह विश्वात्मा हर्म्यारोहणलीलया ।
बलदेवसखः श्रीमान्रुक्मिणीतनयानुगः
स बभौ विषदश्यामः कौस्तुभाभरणो विभुः ।
मध्यावतीर्णसूर्यस्य नभसो ऽभिभवन्प्रभाम्
चतुर्भुजस्य विभभुस्तस्य प्राज्यभुजद्रुमाः ।
चक्रप्रभापल्लविताः पाञ्चजन्यांशुपुष्पिताः
व्रजन्स पवनोद्धूतपीताम्बरमनोहरः ।
तार्क्ष्यपक्षप्रबाचक्रैश्चक्रे हेमप्रभं नभः
सर्वाभरणरत्नोषु बिम्बितैः कौतुकागतैः ।
सिषेवे व्योमतटनीवर्तितोष्णीषपल्लवैः
सुरविद्याधरवधूपाणिपद्मवनोज्झितैः ।
मन्दारवृन्दैरभवंस्तस्य स्रग्दामविभ्रमाः
रुद्धो ऽनिरुद्धः समरे यदा वीरः सहोषया ।
भुजङ्गपाशैः स्वपुरे बाणेन बलशालिना
दुर्गसंतारिणीं दुर्गां तदा स शरणं गतः ।
महेन्द्रोपेन्द्रभगिनीं दिव्यैस्तुष्टाव नामभिः
नौमि कंसासुरैश्वर्यतमःपटलचन्द्रिकाम् ।
पूर्णचन्द्राननां देवीं दुष्टसंमोहनक्षमाम्
दीप्तशूलप्रभाजालभीषणां ललिताकृतिम् ।
वेल्लद्विषोल्बणव्यालामिव चन्दनवल्लरीम्
महिषन्यस्तचरणां श्यामां हारविभूषिताम् ।
सकालियह्रदां फेनहासिनीं यमुनामिव
पाणिसंसक्तभुजगाभोगनीलासिवल्लरीम् ।
एकपद्मोदरोद्गच्छदलिमालामिवाब्जिनीम्
मयूरपक्षाभरणैः शबलैर्मेचकप्रभैः ।
सेवितां प्रावृषमिव स्फुरदिन्द्रायुधैर्घनैः
करालकेशविस्फारशुद्धसंचारलालसाम् ।
हिमाद्रिशिखरोद्भूतां कालागुरुलतामिव
कवीन्द्रमानसावासराजहंसीं सरस्वतीम् ।
विचित्रमधुरोदारशब्दां चारुपदक्रमाम्
संसारमरुसंतापनिर्वापणसमुद्यताम् ।
संवित्समरसानन्दसुधास्यन्दतरङ्गिणीम्
रणसंरम्भसंभारगम्भीरारम्भविभ्रमाम् ।
निशुम्भशुम्भारवष्टम्भभीतसंभावितामराम्
संध्यामवन्ध्यां विन्ध्याद्रिवासिनीं वासवानुजाम् ।
शशिखण्डशिखण्डाङ्कां मुण्डमण्डलमण्डिताम्
फुल्लोत्पलवनश्यामां फुल्लोत्पलविलोचनाम् ।
गम्भीरनाभिकुहरामिभकुम्भनिभस्तनीम्
धन्यां कात्यायनीं चण्डां चामुण्डां खण्डिताहिताम् ।
शर्वाणीं शर्वरीं शर्वां सिद्धगन्धर्वसेविताम्
कालसंकर्षिणीं घोरां त्रिजगद्ग्रामलालसाम् ।
कमलासनकङ्कालमालाकलितशेखराम्
शिवां शिवप्रदां शान्तां शिवकान्तां शताननाम् ।
त्रिनेत्रां सौम्यवदनां मदनारिमदप्रभाम्
स्फीतफेनसुधाम्भोधिदुकूलां रत्नमेखलाम् ।
कराकलितहेमाद्रिमातुलङ्गांशुपिङ्गलाम्
अक्षसूत्रकृतावृत्तनक्षत्रमणिमालिकाम् ।
पाणिसक्तसुधाम्भोधिपूर्णब्रह्माण्डकर्पराम्
संवित्प्रकाशविषदव्याकोशाकाशदर्पणाम् ।
शेषादिकुलभोगीन्द्रहारकेयूरकङ्कणाम्
तारकामौक्तिकस्मेरशशिमार्तण्डमण्डलाम् ।
त्रिशृङ्गरत्नशैलेन्द्रविटङ्कमुकुटोज्ज्वलाम्
कल्लोललोस्वःसिन्धुधवलोष्णीषभूषिताम् ।
सेन्द्रायुधक्षयाम्भोदमायूरच्छत्त्रविभ्रमाम्
कन्दाग्रकुण्डलितनाभिमृणालदण्डहृत्पुण्डरीकनिबिडामृतपानशौण्डाम् ।
भृङ्गाङ्गनामिव सदोदितनादशक्तिसंवेद्यवेद्यजननीं जननीं प्रपद्ये
***** दुर्गास्तोत्रम् ॥ 42 ॥ *****
इति स्तुता भगवती भक्त्या प्रद्युम्नसूनुना ।
सांनिध्यमकरोत्साक्षाद्दुर्ग दशभुजा पुरः
भुजङ्गपञ्जरं घोरं पाणिना कमलत्विषा ।
दुर्भेद्यं स्फोटयित्वास्य वज्रप्राकारसंनिभम्
निजतेजोभिरभितः स्फीतैरनुसृता मुहुः ।
आयूंषि दितिजेन्द्राणां कर्षन्तीवाविशन्नभः
अत्रान्तरे महावेगो भगवान्गरुडध्वजः ।
बाणस्य शोणितपुरं प्राप पावकरक्षितम्
अष्टबाहुरभूद्भीमविग्रहः कालियान्तकः ।
शङ्खचक्रगदापद्मशरशाङ्गोसिचर्मभृत्
सहस्रशिखरस्फारतुषारगिरिसंनिभः ।
सहस्रकायवदनो बभूव च हलायुधः
सनत्कुमारकल्पश्च प्रद्युम्नः समपद्यत ।
तेष्वेव पृथुरूपेषु पृथिवी समकम्पत
तार्क्ष्यपक्षानिलाक्षेपक्षुम्भ(त्)स्तब्धाब्धिमण्डलः ।
उदभूज्जगतां को ऽपि प्रलयारम्भसंभ्रमः
बभाषे विस्मयाविष्टस्ततः कृष्णं हलायुधः ।
कस्मादकस्मात्संवृत्ताः कनकद्युतयो वयम्
तमब्रवीत्तार्क्ष्यकेतुर्बाणस्य पुररक्षिता ।
अग्निराहवनीयो ऽत्र पुरो ऽस्मानुद्यतः क्रुधा
जगत्यकालसंध्येव तेजसास्य विभाव्यते ।
सुपर्णायत्तमधुना कार्यमेतद्भविष्यति
इत्युक्ते शौरिणा तार्क्ष्यः पक्षाक्षेपधुताम्बुधिः ।
गङ्गामादाय विदधे प्रशमं जातवेदसः
ततो विस्फारशिखराकारज्वालाजटाकुलाः ।
रुद्रस्यानुचरा घोरा वह्नयो ऽन्ये समुद्ययुः
तेषां मध्ये ऽङ्गिरा दीप्तशूलज्वालाविभूषणः ।
सुमेरुरिव मार्तण्डमण्डलाङ्कः समाबभौ
तस्यार्धचन्द्रेण हरिः प्रहर्तुः शूलमुत्कटम् ।
चिच्छेद स प्रयत्नस्य वामो विधिरिवेप्सितम्
स्थूलाकर्णेन निहतः स महास्त्रेण शौरिणा ।
पपात पातितरिपुर्निर्दग्धो ऽग्निरिवाग्निना
ततो भग्ने ऽग्निगहने बाणानीके ससंभ्रमे ।
दध्मौ निजयशः शुद्धं पाञ्चजन्यं जनार्दनः
तस्य शब्देन महता वातस्कन्धविमर्दिना ।
बभूव भुवनाभोगसंघट्टविषमः स्वनः
ततः प्रविश्य बाणस्य नगरं गरुडध्वजः ।
अवाप युद्धसंनद्धक्षुब्धदैत्यमहार्णवम्
तदपारं हरिः सैन्यं पावकास्त्रशिलाशितैः ।
व्याप्तं चकार माञ्जिष्ठैर्बद्धैर्वध्यपटैरिव
ततस्तूर्णं रणरसादवतीर्य गरुत्मतः ।
विबुधारातिभिर्वीरो युयुधे लाङ्गलायुधः
शुद्धस्तमालमलिने स दैत्यसदने बभौ ।
ऐरावण इवादभ्रनीलाभ्रे नभसि भ्रमन्
संकर्षणहलाकृष्टास्ततस्तन्मुसलाहले ।
निपेतुर्दानवाः सर्वे वज्रभिन्ना इवाचलाः
अवतीर्य सुपर्णाग्रात्प्रद्युम्नेन सहाच्युतः ।
जहार शरजालेन दैत्यजीवविहङ्गमान्
ते चण्डचञ्चुचरणैः पक्षाक्षेपैश्च पीडिताः ।
क्षपिताः पक्षिराजेन क्षणं शर्म न लेभिरे
ततो भस्मप्रहरणास्त्रिमुखस्त्रिशिखस्त्रिपात् ।
निद्राव्याघूर्णिताताम्रनेत्रो जृम्भालसः स्वयम्
शीतोद्धतैः खरतरैर्लोमभिर्मकरोपमः ।
भ्रमग्लानिपरिम्लानधूसरो ऽदृश्यत ज्वरः
स रौहिणेयमाहूय चित्रमण्डलचारिणम् ।
कम्पमानतनुः कोपात्तत्क्षये विदधे मतिम्
चिक्षेप दुःसहं तस्मै भस्मापस्मारसंनिभः ।
वक्षोवलक्षं रामस्य येन व्याप्तमभूत्क्षणात्
तद्वक्षसः प्रदीप्तोत्थं भस्म मेरुतटे पतत् ।
ददाह पृथुटाङ्कारि शिखरं सहसा ज्वलत्
शेषेण दीप्तसर्वाङ्गो भस्मना विस्मृतस्मृतिः ।
स्खलद्गतिस्तालकेतुः परं क्षीब इवाबभौ
सो ऽब्रवीत्कृष्ण कृष्णाहं प्रदीप्तो न लभे धृतिम् ।
कुलालचक्रविभ्रान्तं पश्यामि निखिलं जगत्
इति ब्रुवाणमभ्येत्य शार्ङ्गधन्वा हलायुधम् ।
भस्मशान्त्यै पिरष्वज्य जग्राह ज्वरमोजसा
स तेन समरे घोरे समाक्रान्तः क्रुधा ज्वलन् ।
ज्वरश्चिक्षेपे मुष्टिभ्यां भस्म ज्वालाजटाकुलम्
क्षणं प्रदीप्तः कृष्णो ऽपि प्रशान्ताग्निश्च तत्क्षणात् ।
तुल्यं तेनाहतो दोर्भिस्त्रिभिर्नाकम्पताच्युतः
स कृष्णज्वरयोर्घोरः संग्रामो वज्रनिःस्वनः ।
बभूव सर्वभूतानां भयकृल्लोमहर्षणः
काञ्चनाभरणच्छाया बभूवुर्ज्रविग्रहे ।
विनिर्गता इव ज्वालाः कृष्णदोर्दण्डपीडनात्
निपीड्य निबिडं दोर्भिः क्षितौ क्षिपत्तः स शौरिणा ।
अलक्षितो ऽविशत्क्षिप्रं तच्छरीरं समीरवत्
तेनाविष्टः श्वसञ्जृम्भाभ्रमनिद्रालसः स्खलन् ।
क्षणं बभूव भूतात्मा प्रोद्धूताद्भुतविप्लवः
अहो बताप्रतिहता वस्तुशक्तिर्गरीयसी ।
जगन्नाते ऽपि यद्भेजे ज्वरसंस्पर्शविक्रियाम्
सो ऽसृजद्वैष्णवं घोरं ज्वरं पूर्वज्वरापहम् ।
कृष्णस्तेन ज्वरेणाशु पुनः पूर्वो ऽभवज्ज्वरः
तं हन्तुमुद्यतो यावत्कालियारिः स्वयं क्रुधा ।
उच्चचार वचस्तावद्गगनाद्धोरनिःस्वनम्
संरक्ष्यो भगवन्नेष रुद्रस्यानुचरो ज्वरः ।
श्रुत्वेति विररामाशु तद्वधान्मधुसूदनः
कृताञ्जलिस्तमवदज्ज्वरो विष्णुज्वरार्दितः ।
निजं संहर विश्वेश ज्वरं मदनुकम्पया
माधवेन तु तद्वाक्यात्संहृते च निजे ज्वरे ।
प्रणनाम हरिं हर्षाज्ज्वरः शर्वपुरःसरः
किं ते प्रियं करोमीति वादिनं हृष्टमानसम् ।
तमब्रवीन्मधुरिपुः प्रसादमधुराक्षरम्
भुजायुधमिदं युद्धमावयोः प्रणिपत्य माम् ।
ये मन्मयाः संस्मरन्ति सन्तु ते विज्वरा नराः
त्रिपाद्भूतिप्रहरणस्त्रिशिराः सास्रुलोचनः ।
ध्यातः प्रीतिसुखं दद्यात्त्वदाकारः शरीरिणाम्
नाद्यन्ताः कवयः पूर्वे शास्तारो ऽल्पमहात्तमाः ।
घ्नन्तु ज्वरांश्चानिरुद्धप्रद्युम्नबलकेशवाः
इत्युक्तः शौरिणा प्रीत्या तथेत्याह हरि ज्वरः ।
अभ्यधान्मौलिरत्नाग्रे प्रणयावर्जिताञ्जलिः
अहं हरेण त्रिपुरान्तकेन विनिर्मितः कालियसूदनेन ।
जितस्त्वाया दानवकाननाग्रे प्रसह्य युद्धे तव किं करोमि
इत्युक्त्वापसृते शर्वज्वरे पूर्वं रणाङ्गनात् ।
तार्क्ष्यमारुह्य युयुधे सात्मजः साग्रजो हरिः
विदारिताः कृष्णशरैः स्वामिसन्मानयन्त्रिताः ।
मानिनो दैत्यसुभटा न तस्थुर्न ययुः क्षणम्
ततो विघटितव्यूहा भग्नस्यन्दनकुञ्जराः ।
ययुस्त्यकत्वा रणं दैत्या दामोदरविदारिताः
विद्रावितास्ते हरिणा हरिणा हरिणा इव ।
नदीवेगा इव गताः प्रतीपं न समाययुः
प्राणैस्तृणाग्रलघुभिः कल्पापायस्थिरं यशः ।
विक्रीय किं गता यूयं मृत्युः सर्वत्र देहिनाम्
मानपर्वतवज्रेण कीर्तिवल्ली दवाग्निना ।
औचित्यचित्रधूमेन भयेनाभिहताः कथम्
इति बाणेन बहुशः कुम्भाण्डेन च मानिना ।
निवार्यमाणा अपि ते जग्मुरेव दिशो दश
ततो रणाङ्गने रुद्रो भगवान्भगनेत्रहा ।
देवः पिनाकी सगुहः स्वयं योद्धुमथाययौ
तुषारनिकरस्मेरस्फारैर्गात्रांशुसंचयैः ।
कुर्वन्निव जगन्नाथो भूरिभूतिविभूषितम्
वलद्वलयकेयूरकुण्डलव्यालमण्डलैः ।
त्रिपुरानलधूमालीभङ्गैरिव तरङ्गितः
सृजन्कण्ठप्रभाचक्रैर्दिग्वधूनीलकञ्चुकैः ।
प्रलयारम्भसचिवान्पुष्करावर्तकानिव
गाढबन्धजटाजूटस्फुटच्चन्द्रकलाङ्कुरः ।
स्फूर्जत्फेनामरनदीरचितोष्णीषविभ्रमः
रथेन नन्दियुक्तेन सिंहयुक्तेन भास्वता ।
कोपपावकपुञ्जेन मूर्तेनेवावृताम्बरः
तारकावजयोदारकुमारानुगतं हरम् ।
हरिरालोक्य निष्कम्पः सज्जं चक्रे निजं धनुः
क्रुद्धस्य खण्डपरशोः समराडम्बरे स्वयम् ।
अभूदकाण्डप्रलयारम्भशङ्का शरीरिणाम्
ततः कनकनाचैर्भर्गः कृष्णमपूरयत् ।
तृतीयनयनोद्धूतभूरिवह्निशिखोपमैः
उग्रैरुग्रभुजोत्सृष्टैर्वेगस्पष्टीकृतैर्वृतः ।
स तैस्तद्वलयव्यालैर्ज्याकृष्टित्रुटितैरिव
शरधारासहस्रोग्रं विस्फूर्जद्गर्जितोर्जितम् ।
मुमोच भद्रं रुद्राय पर्जन्यास्त्रं जनार्दनः
अस्त्रेण त्रिपुरारातिर्व्याप्तस्तेन प्रमाथिना ।
आग्नेयमस्त्रं विदधे वित्रासितजगत्त्रयम्
वह्निज्वालावलयितः साग्रजो गरुडध्वजः ।
हेमपञ्जरबद्धस्य भेजे केसरिणः श्रियम्
वारुणेन शमं नीते तस्मिन्नस्त्रे मुरारिणा ।
पैशाचरौद्राङ्गिरसैर्युयुधे ऽस्त्रैस्त्रिलोचनः
निवार्यास्त्राणि तान्याशु सौरवायव्यवासवैः ।
संदधे क्रोधविधुरस्त्रिपुरान्तकरं शरम्
चिराच्चापप्रणयितां तस्मिन्नीते ऽन्धकद्विषा ।
हरिर्विजृम्भमाणास्त्रं तं विजृम्भाकुलं व्यधात्
घोरघोषेण शार्ङ्गस्य पाञ्चजन्यस्य चासकृत् ।
जृम्भिते भैरवे भीमं भयं भूतानि लेभिरे
ततः कुम्भाण्डसूतेन रथेन पृथुरंहसा ।
प्रत्युद्ययौ रामकृष्णप्रद्युम्नान्कुपितो गुहः
अनिलानलपर्जन्यैरस्त्रैरभिहतः स तैः ।
दीप्तास्त्रजालैर्विदधे जगत्संक्षोभविभ्रमम्
षण्मुखो ऽपि बभौ हेमपुङ्खैस्तद्विविधैर्वृतः ।
जन्मक्षेत्रं शरवरं प्रीत्या पुनरिवाश्रितः
अस्त्रं ब्रह्मशिरो रौद्रमसृजत्तारकान्तकः ।
ज्वालाभिज्वलिता यस्य शैलाः प्रापुः सुमेरुताम्
तस्मिन्विश्वक्षयाक्षेपदीक्षाविक्षोभिताखिले ।
अस्त्रानले प्रविसृते हरिश्चक्रं समादधे
तत्सर्वास्त्रहरं घोरं मार्तण्डोच्चण्डमण्डलम् ।
हरिदोर्दण्डसंसक्तं जहारास्त्रानलप्रभाम्
चक्रांशुक्रकचोत्कृत्ते तस्मिन्नस्त्रप्रभावने ।
प्रजग्राह गुहः शक्तिं क्रूरां क्रौञ्चाद्रिदारिणीम्
मृत्युदन्तावलीताररत्नराजिविराजिताम् ।
तारकासृक्कणाकारशोणपट्टविभूषिताम्
चिक्षेप कार्तिकेयस्तां घण्टापटलराविणीम् ।
क्रोशन्तीं त्रिजगद्ग्रासलालसां क्षुधितामिव
सा दीप्ताग्रप्रभाताभ्रभ्रूकेशश्मश्रुभीषणे ।
चक्रे व्योम महाकालवक्त्रे जिह्वाविजृम्भितम्
स्वस्ति स्वस्त्यच्युतायेति दिवि देवैरुदीरितम् ।
सा कृष्णाभिमुखी शक्तिर्वेगाद्विद्युदिवाबभौ
सा कृष्णहुंकारहता तस्मान्निष्फलतां ययौ ।
आशेव बद्धा मुग्धेन लब्धे कुटिलचेतसि
ततश्चक्रायुधश्चक्रे कलयन्वलयं रुषः ।
गुहं वीक्ष्य कटाक्षेण तद्वधे विदधे मतिम्
निरम्बरा मुक्तकेशी श्यामा लोहितलोचना ।
तस्थौ कुमाररक्षायै मूर्ता शक्तिरिवाग्रतः
अपगच्छापगच्छेति सासूयं कालियाद्विषा ।
निवार्यमाणाप्यसकृत्ततो नापससार सा
अत्रान्तरे घनध्वानधीरगम्भीरनिःस्वनैः ।
तारतीररवैः सैन्यैर्बाणः स्वयमदृश्यत
स कौमारमयूरस्य शुशुभे पृष्ठमास्थितः ।
अञ्जनाद्रितटं नीलमेघसंघ इवोच्छ्रितः
सो ऽवदत्कृष्णमभ्येत्य बहुबाहुबलोर्जितः ।
प्रत्यासन्नविनाशो ऽद्य दीपवद्बत वर्धसे
हतो मया विदेशे ऽस्मिन्नविज्ञातः सुहृज्जनैः ।
ध्रुवं त्यक्ष्यसि कृच्छ्रेण जीवितं मृतबान्धवः
इति बाणेन गदिते गर्वाद्गरुडलाञ्छनः ।
कत्थनेनैव शूरो ऽसि नूनमित्याह सस्मितः
ततः शितशरासारैः पूरितः स मुरारिणा ।
असृजद्दोःसहस्रेण घोरायुधपरम्पराम्
तत्कृशानुकणाकारपूरपूरितमम्बरम् ।
विकीर्णस्वर्णचूर्णाया लेभे मणिभुवः प्रभाम्
अस्त्रं हिरण्यकशिपोरथ बाणः समादधे ।
यद्भीत्येव दिशः क्वापि ययुः संतमसावृताः
तदुद्भूतास्त्रनिचयैः पूरिते गगनाङ्गने ।
वायोरपि गतिर्नाभूत्का कथा व्योमचारिणाम्
पर्जन्यास्त्रेण हरिणा तस्मिन्नस्त्रे निवारिते ।
बाणबाहुवनोत्सृष्टा शरवृष्टिः समुद्ययौ
बभर्तुर्बर्हिगरुडौ युद्धे चञ्चुनखायुधौ ।
मिश्रीभूताविव मुहुर्नीलशैलसुराचलौ
ततस्तार्क्ष्येण पक्षाग्रक्षेपविक्षेपकारिणा ।
आकृष्णाभिहतो मूर्ध्नि मयूरो ऽद्रिरिवापतत्
दैत्येन्द्रे निहते नन्दी प्रेरितस्त्रिपुरारिणा ।
रौद्रं रथं समादाय सज्जो ऽभूत्समरे पुनः
बाणस्तूर्णं समारुह्य मानी मन्युविषाकुलः ।
चकार ब्रह्मशिरसा महास्त्रेण जगत्क्षयम्
ततश्चक्रं सहस्रारं संहारं त्रिदशद्विषाम् ।
उद्यम्य ग्रस्तदैत्यास्त्रं हरिर्दैत्येन्द्रमाद्रवत्
पुनः संन्यस्तवसना काली कुवलयेक्षणा ।
पुरो बभूव रक्षार्थं बाणस्य प्राणसंशये
दृष्ट्वा तामवदत्कुष्णस्त्राणं वः कथमङ्गना ।
बाण संशयकालेषु नेदं वीरव्रतोचितम्
इत्युक्त्वा मीलिताक्षस्तां परिवर्ज्याङ्गनां हरिः ।
उत्ससर्ज प्रभाचक्रदुष्प्रेक्षं चक्रमञ्जसा
तदलक्ष्यभ्रमोद्भ्रान्तं बाणबाहुवने मुहुः ।
चक्रं पूर्णानलापूरक्रूरं क्रकचतां ययौ
क्षणेन मूलनिर्लूनप्रभूतभुजापादपः ।
बभूव बाणः सावेगस्रवद्रुधिरनिर्झरः
कण्ठच्छेदोद्यतं दृष्ट्वा बाणस्य मधुसूदनम् ।
अभ्येत्य भगवान्भर्गः सगुहः प्रणतो ऽभ्यधात्
कृष्ण जाने जगज्जनमस्थितिसंहारकारणम् ।
त्वां तथाप्येष नः को ऽपि दैत्यपक्षपरिग्रहः
मद्भक्त एव भक्तस्ते संरक्ष्यस्ते महाश्रयः ।
अहमेव भवान्ब्रह्ममूर्तिस्त्रैगुण्यसङ्गतः
मदेकशरणस्तस्माद्रक्ष्यो बाणस्त्वयाधुना ।
उक्तो हरेणेति हरिस्तथेत्युक्त्वानुरक्षितम्
ततस्त्रिनेत्रमामन्त्र्य प्रयाते गरुडध्वजे ।
पश्चात्कृत्तभुजं बाणं नन्दी चिन्ताकुलो ऽभ्यधात्
अहो बत न जानीमः कियती भवितव्यता ।
बाणस्त्र्यक्षे सपक्षे ऽपि प्राप्तो जीवितसंशयम्
बाण च्छिन्नभुजो ऽप्यत्र नृत्येनाराधय प्रभुम् ।
भवं भवभयोच्छेदकोविदं वरदं सखे
इत्युक्तो नन्दिना बाणश्चिरचारी पदक्रमैः ।
ननर्त भगवान्येन वरदो ऽस्याभवद्भवः
अमरो निर्व्यथः श्रीमाञ्जातः पूज्यभुजद्वयः ।
बाणो ऽभूदीश्वरवरान्महाकालो गणाग्रणीः
अन्तर्हिते ऽथ सगणे सहसा पार्वतीपतौ ।
बभूव शोणितपुरं शून्यं दैत्यजनोज्झितम्
उषासहायमादाय बाणान्तःपुरमन्दिरात् ।
अनिरुद्धं प्रमुदितः प्रययौ गरुडध्वजः
व्रजन्स तार्क्ष्यपक्षांशुपिशङ्गीकृतदिङ्मुखः ।
सस्मार सत्यभामाया वचनं चारुलोचनः
सन्ति दिव्यामृतक्षीरा दिव्या बाणस्य धेनवः ।
ता मदर्थं त्वया देव हर्तव्या इति सस्मितः
ता हर्तुमुद्ययौ यावच्चरन्तीर्जलधेस्तटे ।
तावत्ता विविशुः सर्वा जवेन वरुणालयम्
ततः सुपर्णपक्षोग्रवातसंक्षोभिते ऽम्बुधौ ।
घोरं रथसहस्रौघैरुद्ययौ वारुणं बलम्
मुरारिशरसंभारदारिते च बलार्णवे ।
उदतिष्ठन्मणिच्छत्रः कुपितो वरुणः स्वयम्
दिव्यास्त्रवर्षी समरे वैष्णवास्त्रेण शौरिणा ।
निर्दह्यमानो वरुणः प्राञ्जलिस्तमभाषत
मूर्तिराद्या तवैवाहं जगत्सर्गे जगत्पते ।
क्षन्तुमर्हसि मे देव जहि कोपं तमोमयम्
न्यासीकृतं गोधनं च बाणेन परिरक्ष मे ।
इत्युक्तस्तेन भगवान्प्रीतः प्रायाद्विहायसा
स्तूयमानः सुरगणैर्द्वारकोपान्तमेत्य सः ।
निक्षिप्य निजवक्त्रे च पाञ्चजन्यमपूरयत्
तस्य गम्भीरगोषेण सुस्निग्धघननादिना ।
हर्षोत्सवो ऽभवत्को ऽपि वृष्णिवीरशिखण्डिनाम्
प्रविश्य द्वारकां देवः पूजितः सर्वयादवैः ।
पश्चादवाप्तसत्कृत्यं विसृज्येन्द्रं सहानुगम्
गरुडं च प्रियतमाप्रणयप्रेमलालसः ।
विजहार सुरारातिर्निःशेषक्षयनिर्वृतिः
***** बाणयुद्धम् ॥ 43 ॥ *****
वैशम्पायन इत्यूचे राजानं जनमेजयम् ।
इति तस्य वचः श्रुत्वा पुनः पप्रच्छ शौनकः
पूर्वे वंशाः श्रुताः सर्वे जनमेजयभूपतेः ।
संतानवंशमिच्छामि श्रोतुं सूत त्वयोदितम्
इति पृष्टो ऽब्रवीत्सूतो जनमेजयसंभवौ ।
चन्द्रापीडो महीपालः सूर्यापीडश्च मक्तिभाक्
चन्द्रपीडसुतः सत्यकर्णो भ्रातृशताग्रजः ।
तत्पुत्रः श्वेतकर्णाख्यो महाप्रस्थानमाविशत्
तं जाया मालिनी नाम सगर्भानुययौ सती ।
प्रतिजातस्तया त्यक्तः कुमारो गिरिकन्दरे
रुरोद तस्य कारुण्यात्प्रादुरासन्पयोमुचः ।
गृहीतो मुनिपुत्राभ्यां धृष्टपार्श्वद्वयो गिरौ
अजपार्श्व इति ख्यातः सो ऽभवद्यन्वनां वरः ।
तत्पुत्रपौत्रैर्विपुलैः पूरुवंशो विवर्धितः
ययातिप्रोक्तमप्यर्कग्रहहीना मही भवेत् ।
पूरुवंशविहीना तु न कदाचिद्भविष्यति
***** जनमेजयवंशः ॥ 44 ॥ *****
भारते पूर्वपूजासु जनमेजयभूभुजा ।
श्रुत्वा दानविधिं पृष्टो व्यासशिष्यो ऽब्रवीत्पुनः
आदिपर्वणि विप्रेभ्यः प्रदद्यान्मधुपायसम् ।
अपूपमोदकैः कुर्यात्सभापर्वणि तर्पणम्
आरण्यके मूलफलैर्वैराटे वस्त्रमर्पयेत् ।
विचित्रभोज्यपानान्नं दद्यादुद्योगभीष्मयोः
द्रोणपर्वण्यायुधानि शुद्धान्नं कर्णपर्वणि ।
शल्यपर्वण्यपूपादिसमोदकगुडोदनम्
मुद्गमिश्रं गदायुद्धे स्त्रीपर्वणि विभूषणम् ।
घृतौदनमथैषू(षी)के हविष्यं शान्तिपर्वणि
अश्वमेधे यताकामं हविष्यं तद्वदाश्रमे ।
मौसले गन्धमाल्यादि प्रस्थानाख्ये उपानहौ
स्वर्गपर्वणि भक्ष्यादि हरिवंशे तु पायसम् ।
भारतान्ते सरस्वत्याः पूजामादाय पुस्तके
हिरण्यदो ऽचिंतहरिः सर्वयज्ञफलोचितः ।
पर्वपूजां निशम्येति पुनः पप्रच्छ शौनकः
***** पर्वपूजा ॥ 45 ॥ *****
सर्वसत्रे निवृत्ते तु रक्षिते तक्षके तथा ।
ततः किमकरोत्सूत स राजा जनमेजयः
सूतो ऽवदत्ततो राजा विद्वन्मन्त्रिपुरोहितैः ।
चिन्तयित्वाश्वमेधाय पूर्णं संभारमादधे
अथाजगाम भगवान्दिव्यज्ञानमयो मुनिः ।
वेदविद्यानिधिः श्रीमान्व्यासः सत्यतपोनिधिः
तं महार्हासनासीनं पूजयित्वा नतो नृपः ।
पप्रच्छ भारतसुधाचर्वणानन्दनिर्भरः
भगवन्राजसूयेन कृतः क्षत्त्रक्षयो महान् ।
स कथं पाण्डुपुत्राणां भवता न निवारितः
पृष्टो नृपेणेत्यवदन्मुनिर्दन्तांशुभिर्दिशन् ।
मुखे सरस्वतीवासकमले केसरावलीम्
अवश्यभाविनि कथं तस्मिन्क्षत्त्रक्षये वयम् ।
प्रभवामो हितं कश्च मन्यते विधिचोदितः
इयं भवासक्तजन्तुयातायातानिलाहतिः ।
सर्वात्मना बलवती जृम्भते भवित्वयता
शुभाशुभफलैः प्राप्तिः सहजाप्यग्रवर्तिनी ।
भ्रूलतेव ललाटस्था स्वदृशा केन दृश्यते
तेषां कालपरीतानां धीरभूद्दृढनिश्चया ।
सर्वंकषो हि भगवान्कालः कवलिताखिलः
देहिभर्दैवनिर्दिष्टं वचसा यदि लङ्घ्यते ।
तत्सत्त्रमप्यश्वमेधं मा कृथा विघ्नदो हि सः
श्रुत्वा शतक्रतुर्द्वैषात्तव क्रतुशतत्रयम् ।
पत्नी प्रविश्य यज्ञाश्वं रागान्धो धर्षयिष्यति
ततः प्रभृति लोके ऽस्मिन्प्रवृद्धे कलिकल्मषे ।
महायज्ञकथामात्रमपि दूरे भविष्यति
सेनानीः काश्यपिः कश्चिदौद्भिदः कलिगोचरे ।
अश्वमेधं कृती विप्रः पुनः प्रत्याहरिष्यति
इति श्रुत्वा विष्ण्णेन मुनिः पृष्टो महीभुजा ।
उवाच ज्ञाननयनः पर्यन्तयुगलक्षणम्
वर्णाश्रमाचारचर्चा विपरीता यतेप्सिता ।
भविष्यति यदा लोके तद्युगान्तस्य यौवनम्
शिथिलक्षणसौहार्दाः सत्यशीलविवर्जिताः ।
केशवेशा भविष्यन्ति निरुष्णीषाम्बरा नराः
दस्यवो राजचरिता राजाने दस्तुचेष्टिताः ।
करिष्यन्ति कलेः सर्वे साहाय्यं धर्मसंक्षये
पक्वान्नविक्रयो लोके वेदविक्रयिणो द्विजाः ।
भविष्यन्ति युगे क्षीणे गृहीण्यो भगविक्रयाः
उपदेशकृतः शूद्रा ब्रह्मदीक्षाविधायिनः ।
भोःशब्देन भविष्यन्ति विप्रा अवमताः पुनः
मुण्डाः कषायवसना नानाव्रतविकारिणः ।
प्रतिग्रहान्ग्रहीष्यन्ति शूद्रा विद्रावितद्विजाः
रूपलावण्यमाधुर्ये परिक्षीणे सुभूषणे ।
केशालांकरणा नार्यो भविष्यन्ति गतत्रपाः
स्वशास्त्रपण्डिताः सर्वे निर्विवेका मुमुक्षवः ।
भविष्यन्ति कुले जाता निष्प्रयत्नफलेप्सवः
वञ्चना वञ्चनाज्ञानां तस्कराणां च तस्कराः ।
किमन्यत्प्रभविष्यन्ति राजानो दारहारिणः
बबुस्त्रीको ऽल्पपुरुषो हिमवत्पार्श्वसंश्रयः ।
लोकस्कन्धार्पितापत्यो हाहाभूतश्चरिष्यति
दम्भः शौचं वक्रमायाकृतित्वं हिंसाशौर्यं वृत्तिरन्योपघातः ।
तर्कः शास्त्रं नास्तिकत्वं च बोधः शौचाचारत्याग एवाशु मुक्तिः
इत्येवं कलिना लोके किल्बिषैराकुलीकृते ।
पुनः कालविपाकेन कृतधर्मः प्रवर्तते
***** भविष्यत् ॥ 46 ॥ *****
ततस्तिरोहिते क्षिप्रं मुनौ ज्ञानदिवाकरे ।
अश्वमेधो नरपतेः क्रतुः श्रीमानवर्तत
तस्मिन्यज्ञे प्रविश्याश्वं राजपत्नीं वपुष्टमाम् ।
अकामां कामवशतः शतक्रतुरधर्षयत्
तदध्वर्युगिरा प्राप्तो राजा कोपविषोल्बणः ।
शशाप शक्रं यज्ञांशनिषेधेनाजितेन्द्रियम्
निरस्य सर्वान्सासूयं ब्राह्मणाद्विषयान्निजात् ।
प्रविश्याकम्पिततनुः पत्नीशालामभाषत
इयं निष्कास्यतां पङ्ककुल्या कुटिलचारिणी ।
किल्बिषालोलकल्लोलाकुलकूलावपातिनी
गृहे दूषिताचारित्रा नेयं मे स्थातुमर्हति ।
यशःपूर्णशशाङ्कस्य मेघमालायितं यया
स्वादु नाश्नन्ति संतप्ता न च रात्रिषु शेरते ।
शल्यं मर्मान्तरे येषां गृहे भार्या हि दूषिता
इति वादिनि भूपाले गन्धर्वाधिपतिः स्वयम् ।
विश्वावसुस्तमभ्येत्य सौहार्दादिदमब्रवीत्
राजन्रम्भा तव वधूरियं देवविलासिनी ।
वपुष्टमा सुरेन्द्रेण यज्ञे ऽस्मिन्धर्षिता सती
त्वत्प्रभावभयाद्विप्रभयाद्द्वेषान्मनोभवात् ।
दैवदिष्टश्च शक्रेण विघ्नस्ते विहितः क्रतौ
विप्रेभ्यो मा क्रुधः पत्नीं मा त्याक्षीः शुद्धमानसाम् ।
गुह्यस्पर्शो ह्यकामाया दृश्ययाङ्गस्पर्शसंनिभः
जनजन्म महीरन्ध्रे पुरंध्रीणां स्वभावतः ।
अशुद्धं शुद्धिमाधत्ते ब्राह्मणान्मा मुधा वधीः
इति गन्धर्वराजेन बोधितो जनमेजयः ।
प्रशान्तकोपः संचिन्त्य तथेति प्रत्यपद्यत
***** जनमेजययज्ञसमाप्तिः ॥ 47 ॥ *****
निशम्य विष्णुचरितं वैशम्पायनकीर्तितम् ।
पुनः प्रपच्छ वाराहं प्रादुर्भावं महीपतिः
स पृष्टस्तेन विनयात्प्रणिपत्य हरिं मुनिः ।
विष्णोरानाययद्दिव्यं प्रभावं कल्मषापहम्
पूर्णे युगसहस्रान्ते निवृत्ते ब्रह्मवासरे ।
हिरण्यरेतास्त्रिशिराः स्वयं देवो वृषाकपिः
शिखाभिर्लोकमखिलं दग्ध्वा सगिरिसागरम् ।
एको नारायणः शेते गर्भीकृतजगत्त्रयः
स गर्भीकृतविश्वः प्राङ्मुमोचाण्डं हिरण्मयम् ।
ऊर्ध्वाधस्तेन तद्भिन्नं विवृतं दिक्षु चाष्टधा
बभूव त्रिजगत्क्षेत्रं भूतलान्तं खशेखरम् ।
गर्भं हिरण्यगर्भस्य यमाहुर्ब्रह्मवादिनः
स्वच्छं यत्सलिलं तत्र सुमेरुः काञ्चनाचलः ।
ममज्ज मेदिनी तस्मिन्गिरीन्द्रशतपीडिता
अशक्ता धर्तुमखिलं प्राणितं विष्णुतेजसा ।
वैकुण्ठं शरणं प्रायानमग्ना गौरिव मेदिनी
ततो विश्वंभरोद्धारधीरं वपुरकल्पयत् ।
वाराहं दुष्टसंहारि हरिर्गिरिमवोच्छ्रितम्
भिन्नाञ्जनचयच्छायं शुभदंष्ट्रांशुसंचयम् ।
नीलजीमूतसंघातादिव निर्यन्निशाकरम्
बभ्रुभ्रूश्मश्रुकेशेन वक्त्रणारञ्जिताम्बरम् ।
नीलाद्रिशिखरेणेव हेमराजिरजोजुषा
स पातालतलं तालतमालमलिनोदरम् ।
विवेश दंष्ट्राखण्डेन्दुखण्डितध्वान्तमण्डलः
मन्त्रात्मा वेद यज्ञाङ्गः स वराहो महाकृतिः ।
दंष्ट्राग्रेणोज्जहार क्ष्मां शेवाललतिकामिव
सा तस्य दंष्ट्रापर्यन्ते सक्ता कुवलयेक्षणा ।
बभौ लाञ्छनलेखेन श्यामशीतांशुमण्डले
जगन्निवासो वसुधामुद्धृत्य जगतः स्थितिम् ।
विदधे दिग्विभागेन भूधरांश्च न्यवेशयेत्
शङ्खचक्रगदाकारान्पर्वतान्विनिवेश्य सः ।
असृजत्पुरुषं वक्त्राद्देवमाद्यं प्रजापतिम्
किं करोमीति पुरतस्तस्मिन्वदति सादरम् ।
विभजात्मानमित्युक्त्वा विश्वयोनिस्तिरोदधे
ततश्चिन्तयतस्तस्य चिदाकाशसमुद्भवः ।
ओमित्युदचरन्नादः संपूरितजगत्त्रयः
ततो ऽभवद्वषट्कारो महाव्याहृतयस्तथा ।
वेदमाता च सावित्री वेदैः सह सनातनैः
विशुद्धमानसावासराजहंसाः प्रजापतेः ।
अजायन्त जगद्वन्द्याः सप्त पूर्वे महर्षयः
दक्षस्तु दक्षिमाङ्गुष्ठादुदभूद्यः प्रजापतिः ।
तत्सुताः कन्यकाः प्रापुर्धर्मेन्दुमनुकश्यपाः
तासामयं विश्वसर्गः संतानः स सुरासुरः ।
असूत देवानदितिर्दितिर्दैत्यांश्च कश्यपात्
हिरण्याक्षं समाश्रित्य कदाचिद्दितिजेश्वरम् ।
सपक्षाः पर्वताश्चक्रुर्गत्या भुवनविप्लवम्
पक्षब्छेदोद्यते तेषां शक्रे तत्पक्षपातिना ।
हिरण्याक्षेण देवानां दारुणः संगरो ऽभवत्
तस्मिन्महास्त्रविक्षेपभूतक्षोभविभीषणे ।
हिरण्याक्षो ऽजयद्देवान्भुवनाकम्पने रणे
सुरेषु ध्वस्तधैर्येषु वराहो गिरिविग्रहः ।
भगवान्स्वयमभ्येत्य तस्थौ दैत्यवधोत्सुकः ।
दध्मौ दंष्ट्राकरालेन शङ्खं वक्त्रेण चक्रभृत्
नादेन तस्य ब्रह्मण्डमण्डलावर्तकारिणा ।
ओङ्कारायितमुद्दर्पदैत्यक्षयमहाध्वरे
ततो ऽभ्येत्य हिरण्याक्षः क्षयदूतिकया द्विषाम् ।
शक्त्या वक्षसि देवेशं जघान घननिःस्वनः
लीलया वीक्ष्य भगवान्दैत्यमद्भूतविक्रमम् ।
असृजद्वैरिसंहारं सहस्रारं सुदर्शनम्
कृतोत्तमाङ्गशृङ्गे ऽथ तेन दैत्यमहीभृति ।
पतिते भुवि विध्वस्ताः प्रययुर्दानवा दिशः
हिरण्याक्षे हते वीरे शेखरे त्रिदशद्विषाम् ।
धृता महावराहेण स्वपदं भेजिरे सुराः
दंष्ट्रानिर्भिन्नभिन्नञ्जनगिरिगहनस्फारदैत्यान्धकारश्चन्द्रार्कोदारतारापथरुचिरतरप्रस्पुरच्छङ्खचक्रः ।
पायान्नः शेषशीर्षाक्रमणसमुदितैर्व्याप्तकायः फणाग्रैः क्षुभ्यत्क्षीराब्धिफेनैरिव मणिशबलैर्मन्दराभो वराहः
***** वराहप्रादुर्भावः ॥ 48 ॥ *****
पुरा कृतयुगे श्रीमान्काश्यपो दितिनन्दनः ।
चक्रे हिरण्यकशिपुः साग्रं वर्षायुतं तपः
अवध्यः सुरगन्धर्वकिन्नरोरगरक्षसाम् ।
आयुधानां च सर्वेषां सो ऽभवद्ब्रह्मणो वरात्
समं प्राप्तपदो दर्पादाक्रान्तभुवनत्रयः ।
वीरः सुराङ्गनाः सर्वाश्चक्रे प्रोषितभर्तृकाः
ततः संत्रस्तविध्वस्तास्तत्प्रतापाग्निनिष्प्रभाः ।
ब्रह्मवाक्यायुर्देवाः शरणं देवमच्युतम्
स दत्त्वा वरदस्तेषामभयं भूतभावनः ।
ओङ्कारानुगतं चक्रे नारसिंहं महद्वपुः
सो ऽभूज्ज्वलितहेमाद्रिप्रभासंभारघस्मरः ।
सावेगचरणाक्रान्तिखर्वीकृतमहीधरः
विद्रुमाग्राङ्गुराकारैश्चञ्चद्रोमाञ्चकञ्चुकैः ।
क्रूरक्रोधानलोद्भूतैर्विस्फुलिङ्गैरिवावृतः
प्रतापमन्दिरागारकनकस्तम्भसंनिभैः ।
शङ्खचक्रगदापद्मलाञ्छनैर्भूषितो भुजैः
कृतान्तद्विरदोदीर्णकर्णचामरविभ्रमैः ।
नखरांशुचयैः कुर्वन्साट्टहासमिवाम्बरम्
मेरुकूटोन्नतस्कन्धशिखरासक्तकेसरैः ।
घोरः करालकालाग्निजीवनव्यजनैरिव
जृम्भाविस्पष्टदंष्ट्रांशुपटलैरादिशन्मुहुः ।
चण्डांशुपुण्डरीकस्य विसिनीकाण्डमण्डलम्
दृप्तदैत्यशतोत्पातशंसिनीं रुधिरारुणाम् ।
अकालसंध्यां कुर्वाणः पिङ्गोग्रनयनातपैः
बभ्रुभ्रुभङ्गविकटं ललाटतटमुन्नतम् ।
अदभ्रमिव संध्याभ्रं स्फुरत्तारतडिद्गणम्
स गत्वा दैतेयनिलयं प्रलयानलसंनिभः ।
ददर्शार्कसहस्राभां हिरण्यकशिपोः सभाम्
स्थितां जगत्त्रयीमूर्ध्नि हेममालामिवोज्ज्वलाम् ।
दिव्यरत्नफलोदारसर्वर्तुकुसुमद्रुमाम्
मणिकुट्टिमसंक्रान्तकान्तकान्तामुखाम्बुजाम् ।
तस्यां दैत्यपतिः श्रीमान्विरराजोर्जितद्युतिः
पृथुरत्नासनोत्सङ्गे सहस्रांशुरिवोदये ।
शुशुभे हेमपद्मस्रग्विपुले तस्य वक्षसि
कल्पान्तसूर्यमालेव तटे कनकभूभृतः ।
निषिद्धा लोकपालानां स्थितिरत्रेति शासनम्
क्षणं दिक्षु लिलेखेव रत्नकुण्डलरश्मिभिः ।
विटङ्करत्नमुकुटोद्द्योतैरिन्द्रायुधप्रभैः
मुहुर्व्योममयूरस्य रत्नाभारमिवाकरोत् ।
सेवितः सिद्धगन्धर्वकिन्नराप्सरसां गणैः
विश्वैश्वर्याब्धिफेनौघं बभारोष्णीषमुज्ज्वलम् ।
तस्मिन्स्वर्गाङ्गानापाणिमन्दान्दोलितचामरैः ।
राजलक्ष्मीर्जहासेव तरङ्गितसितांशुके
अथादृश्यत दिग्दाहोद्गारदारुणमम्बरम् ।
केनापि........क्षरत्क्षतजनिर्भरम्
प्रादुरासीत्ततः सिंहः श्रीमान्पुरुषविग्रहः ।
देवो देवारिदलनः कृशानुशतपिङ्गलः
तं वीक्ष्य हृदयोत्कम्पनवदीक्षाविधायिनम् ।
मिथोमुखानि दितिजा विस्मयार्ता व्यलोकयन्
को ऽयमित्याकुले क्षिप्रं दैत्यास्थानसभाङ्गणे ।
धीमानुवाच प्रह्लादो हिरण्यकशिपोः सुतः
सर्वदेवमयः को ऽपि देवो ऽयं महसां निधिः ।
येन नः स्थगितानीव चेतांसि च वचांसि च
स एवायं हिरण्याक्षो येन नीतः प्रमाथिना ।
कालकापालिकोत्तलस्कन्धवल्कलकेतुताम्
इति ब्रुवाणे प्रह्लादे भ्रुकुटीकुटिलाननः ।
हिरण्यकशिपुर्दैत्यान्गृह्यतामित्यभाषत
विप्रचितिप्रभृतयस्ततस्ते दानवर्षभाः ।
प्रदीप्तकङ्कटा घोरास्तं सर्वे पर्यवारयन्
शस्त्रवृष्टिं तदुत्सृष्टां ज्वालाजालजटाकुलाम् ।
जग्राह निश्चलो देवः शोणपुष्पामिव स्रजम्
स स्वद्योतैरिव व्याप्तः शरैः शिखदिदारुणैः ।
दृङ्मात्रेणैव तांश्चक्रे वातक्षिप्ततृणोपमान्
नदत्प्रलयजीमूतनिःस्वनस्तान्विधूय सः ।
सभां बभञ्ज संजातजनक्षोभविराविणीम्
दैत्यचक्रे ऽथ विध्वस्ते सहसा तस्य तेजसा ।
दष्टौष्ठः स्वयमुत्तस्थौ हिरण्यकशिपुः क्रुधा
स क्षिपन्नस्त्रसंघातं दण्डं चिक्षेप भीषणम् ।
कालचक्रं त्रिशूलं च कङ्कालं मुसलं तथा
ब्रह्मास्त्रमशनिं त्वाष्ट्रं शक्तिं पाशुपतं हलम् ।
कालमुद्गरमत्युग्रं कृतान्तास्त्रं सविग्रहम्
इत्येतैश्छाद्यमानो ऽपि न चकम्पे नृकेसरी ।
नानाप्राणिमुखैर्दैत्यैर्घोरामायामयैर्वृतः
ततो हिरण्यकशिपुः क्रोधान्धः पृथुविग्रहः ।
चकार जगतां क्षोभं येन लोकाश्चकम्पिरे
सपत्तनपुरीद्वीपपुरीनगरशासना ।
मही चचाल तटिनी मालिनी शैलशालिनी
अथाकृष्य बालद्दैत्यं कृत्वोत्सङ्गे रणोत्कटम् ।
वक्षस्यदारयद्देवो वज्रोग्रनखरैः खरैः
दैत्यहृत्कमलोदीर्णा निर्ययुः शोणितच्छटाः ।
नखक्रकचनिष्पेषजातवह्निशिखा इव
हते दैत्येश्वरे वीरे प्रवरे दर्पशालिनाम् ।
देवा नृहरिनिर्दिष्टां निजां लक्ष्मीं प्रपेदिरे
स्तुतश्चतुर्मुखमुखैर्ध्येयो मोक्षपथार्थिनाम् ।
ततः क्षीरोदधेः कूलमुत्तरं प्रययौ हरिः
रक्तच्छटाछुरितदारुणदैत्यवश्रःसंध्याभ्ररन्ध्रविसृता नखशुक्तयस्ताः ।
देवस्य सिंहवपुषः सुरवैरिनारीवक्त्राब्जपुञ्जशिशिरांशुकला जयन्ति
***** नरसिंहप्रादुर्भावः ॥ 49 ॥ *****
हिरण्यकशिपोः सूनुः प्रह्लादो दैत्यशेखरः ।
प्रल्हादस्य सुतो वीरः सुरवैरी विरोचनः
विरोचनस्य तन्यस्त्रैलोक्यविजयी बडिः(लिः) ।
धृतः शक्रपदे चक्रवर्ती दैत्यगणैः स्वयम्
प्रययौ त्रिदशाञ्जेतुं त्रिजगद्व्यापिभिर्बलैः ।
मत्तद्विपघटाघण्टाटाङ्कार्घट्टिताम्बरः
रथैर्नगरनिस्फारैर्गिरिराजनिभैर्गजैः ।
वातवेगैश्च तुरगैस्तेन खं समपूर्यत
स्वर्भानुविन्दनमुचिप्रह्लादबलशम्बरैः ।
जम्भकुम्भोदरोग्राक्षतारकाक्षविरोचनैः
विप्रचित्तिहयग्रीवमयमुख्यैः सुरारिभिः ।
प्रदीप्तध्वजसंनाहैः कोटीनां कोटिभिर्वृतः
चकार धवलोष्णीषच्छत्रचामरमण्डलैः ।
स्फारफेनावलीस्फीतदुग्धोदधिनिभं नभः
शक्रो ऽपि सह लोकेशैर्धृतस्त्रिदशकोटिभिः ।
चक्रे कुटिलदीप्तांशुमण्डलीकपिशा दिशः
अताड्यत ततश्चण्डस्त्रिदशासुरसैन्ययोः ।
प्रलयाम्बुधरध्वानधीरः समरदुन्दुभिः
अथ शस्त्रास्त्रसंघट्टज्वालाजटिलविग्रहाः ।
कोपानले खड्गयूपे रुधिराज्ये धनुःस्रुवे ।
तस्मिन्रणमहायज्ञे विबभौ दीक्षितो बलिः
इतः शक्रार्कदहनैर्बाणासुरमुखौरितः ।
शरान्धकारे विहिते घोरो ऽभूत्सैन्ययोः क्षयः
ततो दैत्यास्त्रनिस्त्रिंशदारितास्त्रिदशा दिशः ।
त्रस्ता ययुर्देहमात्रपरित्राणत्रपाकुलाः
भग्नचक्रे गते शक्रे दहने गहनैषणि ।
विरते मारुते युद्धाद्गृहीतप्रशमे यमे
त्रैलोक्याधिपतिर्वीरः शशास त्रिदशान्बलिः ।
निःशेषभुवनाधीशमस्तकन्यस्तशासनः
सुरराज्ये कथाशेषे प्राज्ये राज्ये सुरद्विषाम् ।
सुराश्चतुर्मुखगिरा त्राणां नारायणं ययुः
अव्यक्तरूपो भगवन्गीर्वाणैरर्थितो विभुः ।
विवेश योगाददितेर्गर्भं वार्षसहस्रिकम्
स काश्यपस्ततो विष्णुः श्यामो वामनविग्रहः ।
अजायत जगच्च्येष्ठो बालः श्रेष्ठो दिवौकसाम्
अत्रान्तरे बडि(लिर्)धीमानश्वमेधाय दीक्षितः ।
बभूव सर्वकामानां दाता कल्पद्रुमो ऽर्थिषु
तस्य यज्ञभुवं देवो बृहस्पतिसखः स्वयम् ।
गत्वा विवेश त्रिशिखः किरीटि छत्रदण्डवत्
श्यामं पद्मपलाशाक्षं चलत्कुटिलकुन्तलम् ।
तं लावण्यमयं वीक्षअय ययौ निश्चलतां बडिः(लिः)
दैत्येन्द्रं स समभ्येत्य महात्मा वामनाकृतिः ।
उवाच मधुरोदारगिरा वर्षन्निवामृतम्
महेन्द्रस्य कुबेरस्य चन्द्रस्य वरुमस्य च ।
ब्रह्मणश्चाभवद्यज्ञस्त्वत्क्रतुश्च विराजते
यज्ञानामश्वमेधो ऽयं वरस्त्वमिव देहिनाम् ।
श्रुत्वेति वामनवचः पूतात्मा बडि(लि)रभ्यधात्
इदं ते दर्शनं साधो प्रीणाति मम मानसम् ।
श्रोत्रशुक्तिसुधाधारा वाणी ते कस्य न प्रिया
ददानि किं ते ऽभिमतं त्वादृशां हि महात्मनाम् ।
शरीरमपि नादेयं किं पुनर्बाह्मतश्चिरम्
इत्युक्ते बडि(लि)ना प्रीत्या प्रत्यभाषत वामनः ।
दन्तत्विषा मुहुः कुर्वन्क्षीरक्षालितमम्बरम्
पदत्रयं त्वया मह्यं गुर्वर्थं संप्रदीयताम् ।
अतः परं भवत्प्रीतिं बहु मन्ये प्रियंवद
श्रुत्वेति विस्मितमना बडिः(लिः) प्रोवाच सस्मितः ।
दाता बडि(लिर्)भवानर्थी त्रिपदी दीयतां कथम्
दयितं बहुमानं मे यथेष्टं गृह्यतां मुने ।
ससागरगिरीन्द्रापि स्वल्पा ते रत्नसूर्मही
इत्युच्छमाने ऽपि यदा ययाचे नाधिकं हरिः ।
हस्तोदकं तदा प्रादाद्बडि(लिर्)लज्जानताननः
ततः प्रववृधे देवः सर्वदेवमयो विभुः ।
व्याप पद्भ्यां वसुमतीं शिरसा च दिवं क्षणात्
तस्य प्रवर्धमानस्य त्रैलोक्याक्रान्तिकारिणः ।
ब्रह्मण्डमानदण्डो ऽभूदण्डपादो ऽन्तरिक्षगः
जगत्पर्याप्तमेतन्मे न संपूर्णे पदद्वये ।
इतीव कम्पविलुठद्गिरिशब्दैर्जगाद सः
यः पूर्वमभवद्रत्नं मुकुटे प्राप्तमौक्तिके ।
वक्त्रे स्मितांशुचक्रं च शनैः शङ्खो ऽपि वक्षसि
व्योम्नि चन्द्रः स एवास्य परमाक्रन्तिकारिणः ।
ऊरुमाले जगामाशु स्रग्दाम सितपद्मताम्
ब्रह्मणा क्षालिते तस्य पादपद्मे इवाम्बुभिः ।
जाता हरजटाजूटमाला जगति जाह्नवी
इति त्रैलोक्यमात्क्रम्य हृत्वा दैत्यपतेः क्षणात् ।
सुतले नाम्नि पातालतले तस्यादिशत्स्थितिम्
अहो महोदधिस्फीतं सत्त्वं बलवतो बलेः ।
येन स्वकायबन्धेन दानशेषो विशोधितः
विस्मिताश्च प्रहृष्टाश्च लज्जिताः कम्पितास्तथा ।
बभूवुः सुरगन्धर्वसिद्धचारणकिंनराः
हत्वा दितिजसंघातं बडे(लेर्)वृत्तिमकल्पयत् ।
अश्रद्धया हुतं दत्तं श्राद्धमश्रोत्रियं तथा
अमन्त्रमव्रतं यश्च यज्ञादिकमदक्षिणम् ।
विधिहीनं यदन्यच्च तदस्मै प्रददौ हरिः
ततो निजपदे देवान्यथास्थानं निवेश्य सः ।
आदिदेश सुरेन्द्रस्य श्रियं स्रजमिवोज्ज्वलाम्
इति ते चरितं पुण्यं देवस्य कमलापतेः ।
प्रादुर्भावप्रसङ्गेन कथितं किल्बिषापहम्
त्रैलोक्याक्रान्तिलीलोदितचरणनखखच्छकान्तिप्रवाहैः कुर्वन्ब्रह्माण्डमूर्ध्नि प्रसृतसुरसरिद्वैजयन्तीविलासम् ।
प्रोद्भूतब्रह्मपद्मप्रतिमपरिसरन्नाभिलग्नार्कबिम्बं निःशेषातङ्कशान्त्यै भवतु भगवतो रूपमत्यद्भुतं नः
मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0