भामति · अध्याय 7
#अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात्# ।
ऽस्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।
तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत्
प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति ।
नहि जातु वटाङ्कुरः कुटजबीजाज्जायते ।
तदनेन ऽजन्माद्यस्य यतःऽ इत्येदप्याक्षिप्तं वेदितव्यम् ।
तस्मात्परमात्मनः शरीरेन्द्रियादिरहहितस्यान्तर्यामित्वाभावात्, प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् ।
तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमनृत्वविज्ञातृत्वानां श्रुतानामभावात्, अनात्मत्वाच्च ऽएष त आत्माऽ इति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता ।
यद्यपि पृथिव्याद्यबिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च, ऽपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिःऽ इत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात् ऽयः सर्वंल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयतिऽ इति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतविशतया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रानेकविधदेहेन्द्रियादिनिर्माणेन ऽस एकधा भवति त्रिधा भवतिऽ इत्यादिश्रुतिभ्यः, तथापि ऽजगद्व्यापारवर्जं प्रकरणात्ऽ इति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सो ऽपि नान्तर्यामी ।
तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसंपन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् ।
अमृतश्च, देहेन्द्रियादिनाशे ऽप्यनाशात् ।
अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् ।
ऽय आत्मनि तिष्ठन्ऽ इति चाभेदे ऽपि कथञ्चिद्भेदोपचारात् ऽस भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्निऽ इतिवत् ।
ऽयमात्मा न वेदऽ इति च स्वात्मनि वृत्तिविरोधाभिप्रायम् ।
ऽयस्यात्मा शरीरम्ऽ इत्यादि च सर्वं ऽस्वे महिम्निऽ इतिवद्योजनीयम् ।
यदि पुनरात्मनो ऽपि नियन्तूरन्यो नियन्ता भवेत् वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् ।
सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा ।
तदुपार्जितौ हि धर्माझर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति ।
एकवचनं च जात्यभिप्रायम् ।
तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति ।
एवं प्राप्ते ऽभिधीयते-ऽदेहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् ।
तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत् ॥
ऽ श्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य स4वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते ।
न तत्पृथग्जनसाधारम्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् ।
तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् ।
न चानवस्था ।
नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था ।
तथाच ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ इत्याद्या अपि श्रुतय उपपन्नार्थाः ।
परमार्थतो ऽन्तर्यामिणो ऽन्यस्य जीवात्मनो द्रष्टुरभावात् ।
अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादिनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च ।
एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, ऽयः सर्वांल्लोकान्ऽ ऽयः सर्वाणि भूतानिऽ इत्यत्र य इत्येकवचनमुपपद्यते ।
अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र ।
ऽय आत्मनि तिष्ठन्ऽ इत्यादौ चाभेदे ऽपि भेदोपचारक्लेशो न भविष्यति ।
तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् ।
पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् ।
ऽयः सर्वेषु लोकेषुऽ इत्याधिलोकम् ।
ऽयः सर्वेषु वेदेषुऽ इत्यधिवेदम् ।
ऽयः सर्वेषु यज्ञेषुऽ इत्यधियज्ञम् ।
ऽयः सर्वेषु भूतेषुऽ इत्यधिभूतम् ।
प्राणाद्यात्मान्तमध्यात्मम् ।
संज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः
#दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात्# ।
कर्तरि आत्मनि प्रवृत्तिविरोधादित्यर्थः
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0