भामति · अध्याय 5
1.2.3.11.
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
संशयमाह- #तत्रेति# ।
पूर्वपक्षे प्रयोजनमाह- #यदि बुद्धिजीवाविति# ।
सिद्धान्ते प्रयोजनमाह- #अथ जीवपरमात्मनाविति# ।
औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासंभवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति- #अत्राहाक्षेप्तेति# ।
ऋतं सत्यम् ।
अवश्यंभावीति यावत् ।
समाधत्ते- #अत्रोच्यतद इति# ।
अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् ।
तदिह बुद्धेरचैतन्येन परमात्मनश्च पिबच्छब्दो लक्षयन्स्वार्तमजहन्निचरेचरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।
अस्तु वा मुख्य एव, तथापि न दोष इत्याह- #यद्वेति# ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सो ऽपि कर्ता ।
अत एव चाहुः-ऽयः कारयति स करोत्येवऽ इति ।
एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति ।
तस्मान्मुख्यत्वे ऽप्यविरोध इति ।
तदेवं संशयं समाधाय पूर्वपक्षं गृह्णाति- #बुद्धिक्षेत्रज्ञाविति# ।
ऽनियताधारता बुद्धिवसंभविनी नहि ।
क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि ॥
ऽ नच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात्, बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः ।
अपिच ऽसुकृतस्य लोकेऽ इति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः ।
बुद्धिजीवौ च कर्मगोचरंमनतिक्रान्तौ ।
जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् ।
किञ्च छायातपाविति तमःप्रकाशावुक्तौ ।
तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते ।
एवंप्राप्तेभिधीयते-ऽऋतपानेन जीवात्मा निश्चितो ऽस्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया
1.2.3.12.
प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति ।
गुहाश्रयत्वं चरमं व्याख्येयमविरोधतः
1.2.3.13.
गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना ।
तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या ।
तदेवम् ऽऋतं पिबन्तौऽ इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितवद्व्याख्येयम् ।
बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।
तदिदमुक्तम्- #तद्दर्शनादिति# ।
तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति ।
एवञ्च प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् ।
छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकशस्वभावस्य तदनाश्रयतया मन्तव्यम्
1.2.3.14.
इममेव न्यायं ऽद्वा सुपर्णाऽ इत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयति- #एष एव न्याय इति# ।
अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशट्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराबुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् ।
सिद्धान्तश्च भाष्यकृता स्फोरितः ।
तद्दर्शनादिति च ऽसमाने वृक्षे पुरुषो निमग्नःऽ इत्यत्र मन्त्रे ।
न खलु मुख्ये कर्तृत्वे संभवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्घाटयति- #अपर आह# ।
सत्त्वं बुद्धिः ।
शङ्कते- #सत्त्वशब्द इति# ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।
निराकरोति- #तन्नेति ।
येन स्वप्नं पश्यतीति# ।
येनेति करणमुपदिशति ।
ततश्च भिन्नं क्रतारं क्षेत्रज्ञम् ।
#यो ऽयं शारीर उपद्रष्टेति# ।
अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः, वचनाविरोधे न्यायस्याभासत्वादित्यत आह- #नाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति# ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रत्रे संसारिणि पर्यवस्येत ।
तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।
अपिच ।
#तावेतौ#
#सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि रज आध्वंसत इति# ।
रजो ऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।
एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याह- #तावता चेति# ।
चेदयति- #कथं पुनरिति# ।
निराकरोति- #उच्यते-नेयं श्रुतिरिति# ।
अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्कते, यदि जीवो ब्रह्मात्मना नाश्नाति, कथं तर्ह्यन्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि भोक्तृत्वमवभासत इति ।
तन्निरासायाह श्रुतिः-ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इति ।
एतदुक्तं भवति-नेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं मुखादिरुपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते ।
तदेतदध्यासाभाष्ये कृतव्याख्यानम् ।
तदनेन कृत्वाचिन्तोद्घाटिता
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0