भामति · अध्याय 4
#इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः# ॥
#प्रथमाध्याये द्वितीयः पादः# ।
1.2.1.1.
अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितया- #प्रथमे पाद इति# ।
उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।
न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम्- #समस्तजगत्कारणस्येति# ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र हेतुभावेनोपन्यास इत्यर्थः ।
#अर्थान्तरप्रसिद्धानां चेति# ।
यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् ।
तत्र कैव कथा मनोमयादीनामर्थान्तरं प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः ।
पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।
#सर्वत्र प्रसिद्धोपदेशात् ।
इदमाम्नायते ।
सर्वं खल्विदं ब्रह्मः# ।
कुतः, #तज्जलानिति# ।
यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म ।
अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।
#अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि# ।
तत्र संशयः-किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति ।
किं तावत्प्राप्तम् ।
शारीरो जीव इति ।
कुतः ।
ऽक्रतुम्ऽ इत्यादिवाक्येन विहितां क्रतुभावनामनूद्य ऽसर्वम्ऽ इत्यादिवाक्यं शमगुणे विधिः ।
तथा च ऽसर्वं खल्विदं ब्रह्मऽ इति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् ।
एवं च संकल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपदाकत्वात् ।
तस्माच्छान्ततागुणविधानात्पूर्वमेव ऽमनोमयः प्राणशरीरःऽ इत्यादिभिर्विषयोपनायकैः संबध्यते ।
मनोमयत्वादि च कार्यकारणसंघातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात् ब्रह्मणा संबद्धुमर्हति, उत्पत्तिशिष्टगुणावरोधात् ।
नच ऽसर्वं खल्विदम्ऽ इति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः, ऽशूर्पेण जुहोतिऽ ऽतेन ह्यन्नं क्रियतेऽ इतिवत् ।
न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् ।
सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति ।
एवं चाणीयस्त्वमप्युपपन्नम् ।
परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः ।
प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् ।
व्याख्यां च भाष्यकृता ।
एवं कर्मकर्तृव्यपदेशः सप्तमीप्रणमान्तता चाभेदे ऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या ।
ऽएतद्ब्रह्मऽ इति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मात्वात् ।
एवं सत्यसंकल्पत्वादयो ऽपि परमात्मवर्तिनो जीवे ऽपि संभवन्ति, तदव्यतिरेकात् ।
तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते-ऽसमासः सर्वनामार्थः संनिकृष्टमपेक्षते ।
तद्धितार्थो ऽपि सामान्यं नापेक्षाया निवर्तकः ॥
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथा च सत्यसंकल्पप्रभृतीनां यथार्थता ॥
ऽ भवेदेतदेवं यदि प्राणशरीर च सर्वनामार्थं संप्राप्य तदभिधानं पर्यवस्येत् ।
तत्र मनोमयपदं पर्यमसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते ।
तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः ।
न चैष जीव एव समवेताथो न ब्रह्मणीति, तस्य ऽअप्राणो ह्यमनाःऽ इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्, तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः ।
स्यादेतत् ।
जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा ।
तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म ।
ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणो ऽभेदाज्जीवे ऽप्युपपत्स्यन्ते ।
तदेतदत्र संप्रधार्यम्-किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि ।
जीवलिङ्गैस्तु ब्रह्म तद्वत, तथाच ब्रह्मलिङ्गानां दर्शनात्, तेषां च जीवे ऽनुपपत्तेर्ब्रह्मैवोपास्यमिति ।
वयं तु पश्यामः-ऽसमारोप्यस्य रूपेण विषयो रूपवान्भवेत्ष विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
ऽ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् ।
तदा भुजङ्गस्यैवाभावात्किं रूपवत् ।
भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः ।
तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसंभवात् ।
तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसंभवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् ।
एतदुपलक्षणणाय च ऽसर्वं खल्विदं ब्रह्मऽ इति वाक्यमुपन्यस्तमिति
1.2.1.2.
#यद्यप्यपौरुषेय इति# ।
शास्त्रयोनित्वे ऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसंदर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् ।
परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादयेयत्वमेव ।
अन्यथोद्देश्यतयानपपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् ।
तस्मादनुपादेयत्वे ऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः ।
तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् ।
इच्छानिच्छे च भक्तितः ।
तदिदक्तम्- #वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति# ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम्, अतत्परेण चानुपात्तमविवक्षितमित्यर्थः
1.2.1.3.
यथा सत्यसंकल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरे ऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणो ऽभेदात् ।
शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः- #अनुपपत्तेस्तु न शारीरः#
1.2.1.4.
1.2.1.5.
1.2.1.6.
यत्तदवोचाम समारोप्यधर्माः समारोपविषये संभवन्ति, नतु विषयधर्माः समारोप्य इति ।
तस्येत उत्थानम् ।
अत्राह चोदकः- #कः पुनरयं शारीरो नामेति# ।
न तावद्भेदप्रतिषेधाद्भेदव्पदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् ।
तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत्, तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च तेनाद्वैतमेव परमार्थः ।
तथा च ऽअनुपपत्तेस्तुऽ इत्याद्यसंगतार्थमित्यर्थः ।
परिहरति- #सत्यमेवैतत् ।
पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते# ।
अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते ।
तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः ।
न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति सांप्रतम् ।
अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् ।
नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतो ऽकस्मात्संसारिता, यो हि परतन्त्रः सो ऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् ।
नहि तद्भागस्य जीवस्य संप्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वि.मनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति ।
न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति ।
तस्माद्यत्किञ्चेदितदपीति
1.2.1.7.
1.2.1.8.
विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् ।
तथाह्यविद्याकल्पितः सुखादिसंगो ऽविद्यात्मन एव युज्यते ।
नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः ।
शेषमतिरोहितार्थम्
1.2.2.9.
#अत्ता चराचरग्रहणात् ।
कठवल्लीषु पठ्यते-यस्य ब्रह्म च क्षत्रं चोभे भवत ओदमः# ।
#मृत्युर्यस्योपसेतचनं क इत्था वेद यत्र स इति# ।
अत्र चादनीयौदानोपसेचनसीचितः कश्चिदत्ता प्रतीयते ।
अत्तृत्वं च भोक्तृता वा सहर्न्तृता वा स्यात् ।
नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, ऽअनश्रन्नन्यो ऽअभिचाकशीतिऽ इति श्रुत्या भोक्तृताप्रतिषेधात् ।
जीवात्मनश्च भोक्तृताविधानात्-ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इति ।
तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः ।
ब्रह्मक्षत्रादि चास्य कार्यकारणसंघातो भोगायतनतया वा साक्षाद्वा ।
संभवति भोग्यम् ।
अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयः-किमत्ता अग्निराहो जीव उताहो परमात्मेति ।
तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता ।
तथा च जीव एव ।
ऽन जायते म्रियतेऽ इति च तस्यैव स्तुतिः ।
यदि तु संहारकाले ऽपि संस्कारमात्रेण तस्यावस्थानात् ।
दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् ।
तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् ।
यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता, ऽअग्निरन्नादःऽ इति श्रुतिप्रसिद्धिभ्याम् ।
एवं प्राप्तेभिधीयते-अत्तात्र परमात्मा, कुतः, चराचरग्रहणात् ।
ऽउभे यस्योदनःऽ इति ऽमृत्युर्यस्योपसेचनम्ऽ इति च श्रूयते ।
तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसंघातः स्थितः, न तर्ह्येदनः ।
नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः ।
नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् ।
न चात्र मृत्युरुपसेचनतया कल्प्यते ।
नच जीवस्य कार्यकारणसंघातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य ।
तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् ।
न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासंभवमत्तृत्वं योज्यत इति युक्तम् ।
नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया ।
नच लाक्षणिकभोग्यत्वानुरोधेन ऽमृत्युर्यस्योपसेचनम्ऽ इति, ऽब्रह्म च क्षत्रं चऽ इति च श्रुती संकोचमर्हतः ।
नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् ।
प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अनर्थत्वाच्च ।
तथाच चराचरसंहर्तृत्वं परमात्मन एव ।
नाग्नेः ।
नापि जीवस्य ।
तथाच ऽन जायते म्रियते वा विपश्चित्ऽ इति प्रकृतस्य न हानं भविष्यति ।
ऽक इत्था वेद यत्र सःऽ इति च दुर्ज्ञानतोपपत्स्यते ।
जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता ।
तस्मादत्ता परमात्मैवेति सिद्धम्
1.2.2.10.
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0