भामति · अध्याय 2
अथ यदसंदिग्धमपिरयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रिय- संनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा ; तथा चेदं ब्रब्मेति व्यापकविरुद्धोपलब्धिः ।
तथा हि-- बृहत्त्वाद्बृंहणत्वाद्वात्मैव ब्रह्मेति गीयते ।
स चायम् आकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ऽअहम्ऽ इत्यसंदिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासारपदम् ।
न हि जातु कश्चिदत्र संदिग्धे ऽअहं वा नाहं वाऽ इति ।
न च विपर्यस्यति ऽनाहमेवऽ इति ।
न च ऽअहं कृशः, स्थूलः, गच्छामिऽ इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्नो ऽयमहङ्कार इति सांप्रतम् ।
तदालम्बनत्वे हि ऽयो ऽहं बाल्ये पितरावन्वभूवं स एव स्थाविरे प्रणप्तॄननुभवामिऽ इति प्रतिसंधानं न भवेत् ।
न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वं अध्यवसीयेत ।
तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रम् ।
तथा च बालादिशरीरेषु व्यावर्तमानेष्वपि परस्परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते ।
अपि च स्वप्नान्ते दिव्यं शरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ऽनाहं देवो मनुष्य एवऽ इति देवषशरीरे बाध्यमाने ऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते ।
अपि च योगव्याघ्रः शरीरभेदे ऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः ।
अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रियभेदे ऽपि ऽयो ऽहमद्राक्षं स एवैतर्हि स्पृशामिऽ इत्यहमा-लम्बनस्य प्रत्यभिज्ञानात् ।
विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव ।
बुद्धिमनसोश्च करणयोः ऽअहम्ऽ इति कर्तृप्रतिभासप्रख्यानालम्बनत्वायोगः ।
ऽकृशो ऽहम्ऽ ऽअन्धो ऽहम्ऽ इत्यादयस्तु प्रयोगा असत्यप्यभेदे कथञ्चित् ऽमञ्चाः क्रोशन्तिऽ इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः ।
तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् ।
अप्रयोजनत्वाच्च ।
तथा हि- संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् ।
संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः ।
स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतो ऽस्य निवृत्तिः अविरोधात् ? कुतश्चात्मयाथात्म्याननुभवः ? न हि ऽअहम्ऽ इत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति ।
न च ऽअहम्ऽ इति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम्, अनुभवविरोधात् ।
न ह्यागमाः सहस्रमपि घटं पटयितुमीशते ।
तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति- युष्मदस्मत्प्रत्ययगोचरयोः इति ।
अत्र च युष्मदस्मत् इत्यादिः मिथ्येति भवितुं युक्तं इत्यन्तः शङ्काग्रन्थः ।
तथापि इत्यादिः परिहारग्रन्थः ।
तथापि इत्यभिसंबन्धाच्छङ्कायां यद्यपीति पठितव्यम् ।
इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् ।
यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, ऽएते वयम्, इमे वयम्, आस्महेऽ इति बहुलं प्रयोगदर्शनादिति ।
चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः ।
एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति ; स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् ।
परस्परानध्यासहेतौ अत्यन्तवैलक्षण्ये दृष्टान्तः - तमः प्रकाशवत् इति ।
न हि जातु कश्चित्समुदाचारद्वृत्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति ।
तदिदमुक्तम् - इतरेतरभावानुपपत्तौ इति ।
इतरेतरभावः इतरेतरत्वम्, तादात्म्यमिति यावत् ; तस्यानुपपत्ताविति ।
स्यादेतत् ।
मा भूद्धर्मिणोः परस्परभावः ; तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनां इतरेतराध्यासो भविष्यति ।
दृश्यते हि धर्मिणोर्विवेकग्रहणे ऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणे ऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिणि ऽअरुणः स्फटिकःऽ इत्यारुण्यविभ्रम इत्यत इदमुक्तम् - तद्धर्माणामपि इति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयः, तस्यानुपपत्तिः ।
अयमभिसंधिः - रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि च्छायां गृह्णीयात्, चिदात्मा तु नीरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति ।
यथाहुः-
ऽशब्दगन्धरसादीनां कीदृशी प्रतिबिम्बताऽ इति ।
तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसंभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवितव्यम् , तौ चेद्धर्मिणौ अत्यन्तविवेकेन गृह्यमाणावसंभिन्नौ, असंभिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।
तदिदमुक्तम् - सुतरां इति ।
तद्विपर्ययेण इति ।
विषयविपर्ययेणेत्यर्थः ।
मिथ्याशब्दः अपह्नववचनः ।
एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति ।
मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।
इदमत्राकूचम् - भवेदेतदेवं यदि ऽअहम्ऽ इत्यनुभवे आत्मतत्वं प्रकाशेत ।
न त्वेतदस्ति ।
तथ् हि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनम्कमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते ।
न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति यथा ऽअहो दर्शनीया अहो दर्शनीयाऽ इति, नाल्पत्वमपि प्रागेवोपचरितत्वमिति ।
अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः ? न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं वेति युक्तम्, तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया च स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् ।
प्रमितावनपेक्षत्वे ऽप्युत्पतौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमस्याप्रामाण्यमिति चेत्, न, उत्पादकाप्रतिद्वन्द्वित्वात् ।
न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेत् ; अपि तु तात्त्विकम् ।
न च तात्त्विकमस्योत्पादकम्, अतात्त्विकप्रमाणभावेभ्यो ऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् ।
तथा च वर्णे ह्रस्वत्वदीर्घत्वादयो ऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः ।
न हि लौकिकाः ऽनागःऽ इति वा"नगः"इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः ।
न चानन्यपरं वाक्यं स्वार्थ उपचरितार्थं युक्तम् ।
उक्तं हि - ऽन विधौ परः शब्दार्थःऽ इति ।
ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् ।
तदमपबाधने तदपबाधात्मनः तस्योत्पत्तेरनुपपत्तेः ।
दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् ।
तथा च पारमर्षं सूत्रम् - ऽपौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्ऽ इति ।
तथा च -
पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥
- इति ॥
अपि च ये ऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम्, ऽअहमिहैवास्मि सदने जानानःऽ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहणात् उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् ।
न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतम् ।
न हि तदैवं भवति ऽअहम्ऽ इति, गौणत्वे वा न ऽजानानःऽ इति ।
अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्त्रोः संप्रतिपत्तिः स गौणः ।
स च भेदप्रत्ययपुरःसरः ।
तद्यथा, नैयमिकाग्निहोत्रवचने ऽग्निहोत्रशब्दः प्रकरणान्तरावधृतभेदे कुण्डपायिनामयनगते कर्मणि ऽमासमग्मिहोत्रं जुहोतिऽ इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः ।
न त्वहङ्कारस्य मुख्योर्ऽथो निर्लुठितगर्भतया देहादिभ्यो भिन्नो ऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् ।
न चात्यन्तनिरूठतया गौणे ऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् ।
तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानः, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः ।
तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तम्, तदिह व्यापकं विवेकविज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति ।
न च बालस्थविरशरीरभेदे ऽपि ऽसो ऽहम्ऽ इत्येकस्यात्मनः प्रतिसंधानदेहादिभ्यो भेदेनास्त्यात्मानुभव इति वाच्यम् ।
परीक्षकाणां खल्वियं कथा, न लौकिकानाम् ।
परीक्षका अपि हि व्यवहारसमये न लोकसामाम्यमतिवर्तन्ते ।
वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः -ऽपश्वादिभिश्चाविशेषात्ऽ इति ।
बाह्या अप्याहुः -ऽशास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारःऽ इति ।
तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारम् ऽअहमिहास्मि सदनेऽ इति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः ।
न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् ।
तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा ।
अणुपरिंमाणत्वे ऽस्थूलो ऽहम्, दीर्घःऽ इति च न स्यात् ।
देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः ।
किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्, प्रत्येकं वावयवाः ।
प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत ॥
समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनो ऽप्यवयवो वृक्ण इति न चेतयेत् ।
न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः ।
य एवावयवो यदा विशीर्णस्तदा तदभावे न चेतयेत् ।
विज्ञानालम्बनत्वे ऽपि अहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव, तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् ।
एतेन ऽस्थूलो ऽहम् अन्धो ऽहम् गच्छामिऽ इत्यादयो ऽपि अध्यासतया व्याख्याताः ।
तदेवमुक्तेन क्रमेण अहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिः अप्रत्यूहं कर्तृत्वभोक्तृत्वसुखदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति ।
तदेवं सर्वप्रवादश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् - अन्योन्यस्मिन् इत्यादि ।
अन्योन्यस्मिन्धर्मिण्यात्मशरीरादौ अन्योन्यात्मकतामध्यस्य - अहमिदं शरीरादिति ।
ऽइदम्ऽ इति च वस्तुतः, न प्रतीतितः ।
लोकव्यवहारः लोकानां व्यवहारः ।
स च ऽअयमहम्ऽ इति व्यपदेशः ।
इति शब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाणेन प्रमाय तदुपादानपरिवर्जनादिः ।
अन्योन्यधर्मांश्चाध्यस्य अन्योन्यस्मिन्धर्मिणि देहादिधर्मान् जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य ऽममेदं जरामरणपुत्रपशुस्वाम्यादिऽ इति व्यवहारो व्यपदेशः ।
इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः ।
अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्ता उन्नीतः स समान इति समानकर्तृकत्वेन ऽअध्यस्य व्यवहारःऽ इत्युपपन्नम् ।
पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति - मिथ्याज्ञाननिमित्तः व्यवहारः इति ।
मिथ्याज्ञानमध्यासः, तन्निमित्तः, तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः ।
तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह - इतरेतराविवेकेन इति ।
विवेकग्रहणेनेत्यर्थः ।
अथ अविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह - अत्यन्तविविक्तयोर्धर्मधर्मिणोः ।
परमार्थतो धर्मिणोरतादात्म्यं विवेकः धर्माणां चासंकीर्णता विवेकः ।
स्यादेतत् ।
विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते शुक्तेरिव रजताद्भेदाग्रहे रजततादात्म्यविभ्रमः ।
इह तु परमार्थसतः चिदात्मनो ऽन्यन्न देहाद्यस्ति वस्तुसत्, तत्कुतः चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह - सत्यानृते मिथुनीकृत्य इति ।
विवेकाग्रहादध्यस्येति योजना ।
सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादिः ; ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः ।
न च संवृतिपरमार्थसतोः पारमार्थकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः ।
एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति ।
स्यादेतत् ।
आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह - नैसर्गिक इति ।
श्वाभाविकः अनादिरयं व्यवहारः ।
व्यवहारानादितया तत्कारणस्याध्यासस्य, अनादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेः उत्तरोत्तराध्यासोपयोग इत्यनादित्वात् बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः ।
स्यादेतत् ।
अद्वा पूर्वप्रतीतिमात्रमुपयुज्यते आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता ।
प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेः नोपपद्यते ।
प्रकाशमानत्वमेव हि चिदात्मनो ऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वा द्वैतापत्तेः ।
सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पने अनवस्थापातात् प्रकाशमानतैव सत्ता अभ्युपेतव्या ।
तथा च देहादयः प्रकाशमानत्वान्नासन्तः चिदात्मवत्, असत्त्वे वा न प्रकाशमानाः ; तत्कथं सत्यानृतयोर्मिथुनीभावः ?
तदभावे वा कस्य कुतो भेदाग्रहः ? तदसंभवे कुतो ऽध्यासः ? इत्याशयवान् आह आक्षेप्ता- को ऽयमध्यासो नाम इति ।
क इत्याक्षेपे ।
समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति- उच्यते- स्मृतिरूपः परत्र पूर्वदृष्टावभास इति ।
अवसन्नः अवमतो वा भासः अवभासः ।
प्रत्ययान्तरबाधश्चास्य अवसादो ऽवमानो वा ।
एतावता मिथ्याज्ञानमित्युक्तं भवति ।
तस्येदमुपव्याख्यानम् ऽपूर्वदृष्ट-ऽ इत्यादि ।
पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः ।
मिथ्याप्रत्ययश्च आरोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति ।
तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् ।
तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्व- इत्युक्तम् ।
तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् ।
आरोपविषयं सत्यमाह- परत्र इति ।
परत्र शुक्तिकादौ परमार्थसति ।
तदनेन सत्यानृतमिथुनमुक्तम् ।
स्यादेतत् ।
परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात् ।
अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य परत्र कालाक्ष्यामवभासः ।
अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः ।
अवभासपदं च समीचीने ऽपि प्रत्यये प्रसिद्धम्, यथा नीलस्यावभासः पीतस्यावभास इति ।
अत आह- स्मृतिरूप इति ।
स्मृतेः रूपमिव रूपमस्येति स्मृतिरूपः ।
असंनिहितविषयत्वं च स्मृतिरूपत्वम् ।
संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः ।
नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्नृतिविभ्रमरूपस्यैवंरूपत्वात् ।
तत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः ।
एवम् ऽपीतः शङ्खःऽ ऽतिक्तो गुडःऽ इत्यत्राप्येतल्लक्षणं योजनीयम् ।
तथा हि- बहिर्विनिर्गच्छजत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन्, शङ्खं च दोषाच्छादितशुक्लिमानमनुभवन्, पीततायाश्च शङ्खासंबन्धमननुभवन्, असंबन्धाग्रहणसारूप्ये ऽपीतं तपनीयपिण्डंऽ ऽपीतं बिल्वफलंऽ इत्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याह ऽपीतः शङ्खःऽ इति ।
एतेन ऽतिक्तो गुडःऽ इति प्रत्ययो व्याख्यातः ।
एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौरेण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयेत्, दोषवशात्तद्देशतामनभिमुखतां च मुख्यस्याग्राहयत्, पूर्वदृष्टाभिमुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमो ऽपि लक्षितो भवति ।
एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासंभवं लक्षणं योजनीयम् ।
एतदुक्तं भवति- न प्रकाशमानतामात्रं सत्त्वम्, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् ।
न हि सर्पातदभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा ।
तथा सति मरुषु मरीचिकानिचयम् ऽउच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णभवतीर्णा मन्दाकिनीऽ इत्यभिसंधाय प्रवृत्तः तत्तोयमापीय पिपासामुपशमयेत् ।
तस्मादकामेनापि प्रकाशमानस्याप्यारोपितस्य न वस्तुसत्त्वमभ्युपगमनीयम् ।
न च मरीचिरूपेण सलिलमवस्तुसत् स्वरूपेण तु परमार्थसदेव देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम् ; यतो यद्यसन्तो नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयाद्यात्मतयानुभवगोचरत्वम् ? न च स्वरूपसत्त्वेन तोयाद्यात्मनापि सन्तो भवन्ति ।
यद्युच्येत- नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मना अभावः स्वेन रूपेण तु भावः ।
यथाहुः-
ऽभावान्तरमभावो हि कयाचित्तु व्यपेक्षयाऽ ।
इति ।
ततश्च भावात्मनोपाख्येयतया अस्य युज्येत अनुभवगोचरता ।
प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतो ऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः ? न च विषयस्य समस्तसामर्थ्यविरहे ऽपि विज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्याददृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनम्, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति सांप्रतम् ।
यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् ? असदिति चेत्, किमेतत्कार्यम्, आहोस्विदस्या ज्ञाप्यम् ? न तावत्कार्यम्, असतस्तत्त्वानुपपत्तेः ।
नापि ज्ञाप्यम्, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च ।
विज्ञानस्वरूपमेव असतः प्रकाश इति चेत्. कः पुनरेष सदसतोः संबन्धः ? असदधीननिरूपणत्वं सतो ज्ञानस्य असता संबन्ध इति चेत्, अहो बतायमतिनिर्वृतः प्रत्ययतपस्वी यदस्य असत्यपि निरूपणमायतते ।
न च प्रत्ययस्तत्राधत्ते किञ्चित्, असत आधारत्वायोगात् ।
असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावः न त्वसदधीनमस्य किञ्चिदिति चेत्, अहो बतास्य असत्पक्षपातः यदयमतदुत्पत्तिः अतदात्मा च तदविनाभावनियतः प्रत्यय इति ।
तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति ।
अत्र ब्रूमः- निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयो ऽपि तोयात्मना सतत्त्वाः यदनुभवगोचराः स्युः ।
न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात् ।
द्विविधं च वस्तूनां तत्त्वम्- सत्त्वमसत्त्वं च तत्र पूर्वं स्वतः, परं तु परतः ।
यथाहुः-
ऽस्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदाचन ॥
-इति ।
तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः ? तथा च समीचीन इति न भ्रान्तो नापि बाध्येत ।
अद्धा ! न बाध्येत यदि मरीचीनयं अतोयात्मतत्त्वानतोयात्मना गृह्णीयात् ।
तोयात्मना तु गृह्णन् कथम भ्रान्तः, कथं वा अबाध्यः ? हन्त ! तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत्, तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः ।
नाप्यसत् ; वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते ।
ऽभावान्तरमभावो ऽन्यो न कश्चिदनिरूपणात्ऽ इति वदद्भिः ।
न चारोपितं रूपं वस्त्वन्तरम् ; तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा ।
पूर्वस्मिन्कल्पे ऽमरीचयःऽ इति प्रत्ययः स्यात्, न ऽतोयम्ऽ इति ।
उत्तरस्मिंस्तु ऽगङ्गायां तोयम्ऽ इति स्यात्, न पुनः ऽइहऽ इति ।
देशभेदास्मरणे ऽतोयम्ऽ इति स्यात्, न पुल ऽइहऽ इति ।
न चेदमत्यन्तमसत् निरस्तसमस्तस्वरूपमलीकमेवास्तु इति सांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेः, इत्युक्तमधस्तात् ।
तस्मान्न सत्, नासत्, नापि सदसत् परस्परविरोधात्, इत्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् ; तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव ; तत्त्वतस्तु न तोयम्, न च पूर्वदृष्टम् ; किं तु अनृतम् अनिर्वाच्यम् ।
एवं च देहेन्द्रियादिप्रपञ्चो ऽपि अनिर्वाच्यः ; अपूर्वो ऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात् ।
देहेन्द्रियादिप्रपञ्चबाधनं च उपपादयिष्यते ।
चिदात्मा तु श्रुतिस्मृतीतिहासपुरामगोचरः तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः ।
अबाधिता स्वयंप्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायः अर्थक्रियाकारिता वा इति सर्वमवदातम् ।
स चायमेवंलक्षणको ऽध्यासः अनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणाम् ; तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह- तं केचित् इति ।
अन्यधर्मस्य ज्ञानधर्मस्य रजतस्य ; ज्ञानाकारस्येति यावत् ।
अध्यासः अन्यत्र बाह्ये ।
सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तुसत् ; तत्र ज्ञानाकारस्यारोपः ।
विज्ञानवादिनामपि, यद्यपि न बाह्यं वस्तुसत् तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् ; तत्र ज्ञानाकारस्यारोपः ।
उपपत्तिश्च- यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेव अभ्युपेतव्यमित्युत्सर्गः ; अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात् ; ऽनेदं रजतम्ऽ इति बाधकस्य इदन्तामात्रबाधेनाप्युपपत्तौ न रजतगोचरतोचिता ।
रजतस्य धर्मिणो भाधे हि रजतं च तस्य धर्म इदन्ता च बाधिते भवेताम् ; तद्वरमिदन्तैवास्य धर्मो बाध्यताम्, न पुना रजतमपि धर्मि ; तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।
केचित्तु- ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति- यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति ।
अपरितोषकारणं चाहुः- विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येत, अनुमानाद्वा ।
तत्रानुमानमुपरिष्टान्निराकरिष्यते ।
अनुभवो ऽपि रजतप्रत्ययो वा स्यात्, बाधकप्रत्ययो वा ।
न तावद्रजतानुभवः ।
स हि इदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् ।
ऽअहम्ऽ इति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनस्य बाधकप्रत्ययमालोचयत्वायुष्मान् ।
स किं पुरोवर्ति द्रव्यं रजताद्विवेचयति आहो ज्ञानाकारतामप्यस्य दर्शयति ? तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः ।
पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेत्, न ।
असंनिधानाग्रहनिषेधादसंनिहितो भवति ।
प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यम् ? न चैष रजतस्य निषेधः, न च इदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य ।
न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन ।
न हि रजतनिर्भासस्य शुक्तिकालम्बनं युक्तम्, अनुभवविरोधात् ।
न खलु सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात् ।
सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् ।
नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात् ।
तथा च भासमानतैवालम्बनार्थः ।
न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् ? भासमानताभ्युपगमे वा कथं नानुभवविरोधः ? अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः ? दोषसहितानां तेषां मिथ्याप्रत्यये ऽपि सामर्थ्यमिति चेत्, न, दोषाणां कार्योपजननसामर्थ्यविधातमात्रे हेतुत्वात् ; अन्यथा प्लुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् ।
अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः ।
तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् ।
तथा च ऽरजतम्ऽ,ऽइदम्ऽ इति च द्वे विज्ञाने स्मृत्यनुभवरूपे ।
तत्र ऽइदंऽ इति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात् तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति ।
सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाच् ग्रहणमात्रमवतिष्ठते ।
तथा च रजतसमृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात्, संनिहितरजतगोचरज्ञानसारूप्येण ऽइदम्ऽ,
टरजतम्ऽ, इति द्वे एते अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः ।
क्वचित्पुनर्ग्रहणे ए मिथः अगृहीतभेदे, यथा ऽपीतः शङ्खःऽ इति ।
अत्र हि विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते ।
शङ्खो ऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते ।
तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात् पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च ।
भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च ऽनेदम्ऽ इति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते ; तदुपपत्तौ च प्राक्तनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति ।
तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः संदेहविभ्रमाः, प्रत्ययत्वात्, घटादिप्रत्ययवत् ।
तदिदमुक्तम्- यत्र यदध्यास इति ।
यस्मिन् शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किं तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण गृहीतमात्रस्य यः ऽइदम्ऽ इति पुरो ऽवस्थिताद्द्रव्यमात्रात्तत्प्रज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः ।
भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतादिव्यवहारश्चेति ।
अन्ये तु- अत्राप्यपरितुष्यन्तः- यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनामाचक्षते ।
अत्रेदमाकूतम्- अस्ति तावद्रजतार्थिनः ऽरजतमिदम्ऽ इति प्रत्ययात्पुतोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनाम् ।
तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति ।
ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् ? ननूक्तं नाग्रहणमात्रात्, किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसादृश्येनाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः ।
अथ समीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण ।
गृह्यमाणे ऽपि ऽसमीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोःऽ इति ग्रहणम्, अथ वा ऽतयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहःऽ इति ग्रहणम् ।
तत्र न तावत्समीचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् ।
न हि ऽगोसदृशो गवयःऽ इति ज्ञानं गवार्थिनं गवये प्रवर्तयति ।
ऽअनयोरेव भेदाग्रहःऽ इति तु ज्ञानं पराहतम् ; न हि भेदाग्रहे अनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति न भवति ।
तस्मात्सत्तामात्रेण भेदाग्रहः अगृहीत एव व्यवहारहेतुरिति वक्तव्यम् ।
तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुः, आहो अनुत्पादितारोप एव स्वत इति ? वयं तु पश्यामः- चेतनव्यवहारस्य अज्ञानपूर्वकत्वानुपपत्तेः आरोपज्ञानोत्पादक्रमेणैव- इति ।
ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः, किं तु अविदितविवेकग्रहणस्मरणपूर्वक इति ।
मैवम् ।
न हि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते ।
इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् ।
कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि तु न तदिच्छेत् ? अन्यदिच्छत्यन्यत्करोतीति व्याहतम् ।
न चेदिदङ्कारास्पदं रजतमिति जानीयात् कथं रजतार्थी तदिच्छेत् ? यदि अतथात्वेनाग्रहणात् इति ब्रूयात्, स च प्रतिवक्तव्यः, अथ तथात्वेनाग्रहणात् कस्मान्नोपेक्षेतेति ।
सो ऽयमुपादानोपेक्षाभ्यामुभयत आकृष्यमाणश्चेचनः अव्यवस्थितः इदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यते, इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः ।
तथा हि - भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजते तमनुमाय, तदर्थी प्रवर्तते इत्यानुपूर्व्यं सिद्धम् ।
न च तटस्थरजतस्मृतिः इदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् ।
एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् ।
यदाहुः-"ज्ञातसंबन्धस्यैकदेशदरेशनात्"इति ।
समारोपे त्वेकदेशदर्शनमस्ति ।
तत्सिद्धम्- एतद्विवादाध्यासितं रजतादिज्ञानं पुरोवर्तिवस्तुविषयम्, रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात्, यद्यदर्थिनं यत्र नियमेन प्रवर्तकत्वात् ; यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम् ; तथा चेदम् ; तस्मात्तथा- इति ।
यच्चोक्तम् अनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम्- किं शुक्तिकात्वस्य ऽइदं रजतम्ऽ इति ज्ञानं प्रत्यनालम्बनत्वम् आहोस्वित् द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य ? यदि शुक्तिकात्वस्य अनालम्बनत्वम्, अद्धा ! उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः ।
तथा हि-ऽरजतमिदम्ऽ इत्यनुभवन्ननुभविता पुरोवर्ति वस्तु अङ्गुल्यादिना निर्दिशति ।
दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्, यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बह्वन्नपचनमिति ।
प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतवहानुष्णत्वानुमानवत् ।
यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्यायकणिकायामिति नेह प्रतन्यते ।
दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् ; विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति ।
तदिदमुक्तम्- अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनामाचक्षते इति ।
यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना ।
ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह- सर्वथापि इति ।
अन्यस्यान्यधर्मकल्पना अनृतता, सा च अनिर्वचनीयतेत्यधस्तादुपपादयितुम् ।
तेन सर्वेषामेव परीक्षकाणां मते अन्यस्यान्यधर्मकल्पनानिर्वचनीयावश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः ।
अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः ।
न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह- तथा च लोके अनुबवः शुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।
स्यादेतत् ।
अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतः चिदात्मनो ऽभिन्नानां जीवानां भेदविभ्रम इत्यत आह- एकश्चन्द्रः सद्वितीयवत् इति ।
पुनरपि चिदात्मन्यध्यासमाक्षिपति- कथं पुनः इति ।
अयमर्थः- चिदात्मा प्रकाशते न वा ? न चेत् प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम् ? न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवति ।
प्रतिभासमाने वा न तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् ।
न खलु स एव कर्ता च कर्म च भवति, विरोधात् ।
परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्याः कर्म ? न च तदेव स्वं च परं च, विरोधात् ।
आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनः अनात्मत्वप्रसङ्गः ।
एवं तस्य तस्येत्यनवस्थाप्रसङ्गः ।
स्यादेतत् ।
आत्मा जडो ऽपि सर्वार्थज्ञानेषु भासमानो ऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात्, चैत्रवत् ।
यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुबयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात्, न तु चैत्रस्य क्रियाफलशालिनो ऽपि, चैत्रसमवायाद्गमनक्रीयाया इति ।
तन्न, श्रुतिविरोधात् ।
श्रूयते हि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति ।
उपपद्यते च ।
तथा हि- यो ऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयंप्रकाशो वा ? जडश्चेत् विषयात्मावपि जडाविति कस्मिन् किं प्रकाशेत अविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः ।
तथा चाभाणकः -
ऽअन्धस्येवान्धलग्नस्य विनिपातः पदे पदेऽ
इति ।
न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति चक्षुरादिवदिति वाच्यम् ।
ज्ञापनं हि ज्ञानजननम्, जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति ।
एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था ।
तस्मादपराधीनप्रकाशा संविदुपेतव्या ।
तथापि किमायातं विषयात्मनोः स्वभावजडयोः ? एतदायातं यत्तयोः संविदजडेति ।
तत्किं पुत्रः पण्डित इति पितापि पण्डितो ऽस्तु ? स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेत्, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसंबन्धितेति समानम् ।
सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत्, तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ ।
तथा च न स्वयंप्रकाशा संवित्, न च संवित् अर्थात्मप्रकाश इति ।
अथ संविदर्थात्मप्रकाशो न संविदो भिद्येते, संविदेव तौ ।
एवं चेत् यावदुक्तं भवति संवित्
आत्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति ।
तथा च न विवक्षितार्थसिद्धिः ।
न चातीतानागतार्थगोचरायाः संविदोर्ऽथसहभावो ऽपि ।
तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेत्, न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः ।
हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत्, तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थ इत्यर्थप्रकाशो ऽस्तु ? जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्रकाशो ऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् ।
न च प्रकाशस्यात्मानो विषयाः ; ते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते ; प्रकाशश्चायं अन्तरो ऽस्थूलो ऽनणुरह्रस्वो ऽदीर्धश्चेति प्रकाशते ; तस्माच्चन्द्रे ऽनुभूयमाने इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योर्ऽथः अनिर्वचनीय एवेति युक्तमुत्पश्यामः ।
न च अस्य प्रकाशस्याजानतः स्वलक्षणभेदो ऽनुभूयते ।
न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् ।
न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते ।
तदयं प्रकाश एव स्वयंप्रकाश एकः कूटस्थो नित्यो निरंशः प्रत्यगात्मा अशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्, स चात्मेति प्रत्यगात्मा ।
स चापराधीनप्रकाशात् अनंशत्वाच्च अविषयः, तस्मिन्नध्यासो विषयधर्माणाम्, देहेन्द्रियादिधर्माणाम्, कथम् ? किमाक्षेपे ।
अयुक्तो ऽयमध्यास इत्याक्षेपः ।
कस्मादयमयुक्त इत्यत आह - सर्वो हि पुरो ऽवस्थिते विषये विषयान्तरमध्यस्यति ।
एतदुक्तं भवति- यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे करणदोषवशाच्च विशेषाग्रहे अन्यथा प्रकाशते ।
प्रत्यगात्मा तु अपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्देषैर्दुष्येत् ।
न चांशवान्, येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत ।
न हि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशतापक्षे अध्यासः ।
सदातने ऽप्यप्रकाशे पुरो ऽवस्थितत्वस्य अपरोक्षत्वस्याभावान्नाध्यासः ।
न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यति ऽइदं रजतम्ऽ इति ।
तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।
स्यादेतत् ।
अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मा अस्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह- युष्मत्प्रत्ययापेतस्य इति ।
विषयत्वे हि चिदात्मनो ऽन्यो विषयी भवेत् ।
तथा च यो विषयी स एव चिदात्मा ।
विषयस्तु ततो ऽन्यो युष्मत्प्रत्ययगोचरो ऽभ्युपेयः ।
तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वम् ; अत एव अविषयत्वमात्मनो वक्तव्यम् ; तथा च नाध्यास इत्यर्थः ।
परिहरति- उच्यते- न तावदयमेकान्तेनाविषयः ।
कुतः ? अस्मत्प्रत्ययविषयत्वात् ।
अयमर्थः- सत्ये प्रत्यगात्मा स्वयंप्रकाशत्वादविषयो ऽनंशश्च ; तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदकभेदेन अनवच्छिन्नो ऽपि वस्तुतो ऽवच्छिन्न इव अभिन्नो ऽपि भिन्न इव अकर्तापि कर्तेव अभोक्तापि भोक्तेव अविषयो ऽप्यस्मत्प्रत्ययविषय इव जीवभावमापन्नः अवभासते, नभ इव घटमणिकमल्लिकाद्युपाध्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति ।
न हि चिदेकरसस्यात्मनः चिदांशे गृहीते अगृहीतं किञ्चिदस्ति ।
न खलु आनन्दनित्यत्वविभुत्वादयः अस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् ।
गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति ।
न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः येन चिदात्मनि गृह्यमाणे सो ऽपि गृहीत एव भवेत्, बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् ।
तस्माच्चिदात्मनः स्वयंप्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात् तदध्यासेन जीवभाव इति ।
तस्य च अनिदमिदमात्मनः अस्मत्प्रत्ययविषयत्वमुपपद्यते ।
तथा हि- कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते ।
न च उदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा संभवति ।
यस्य च बुद्ध्यादेः कार्यकरणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् ।
तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशो ऽपि बुद्ध्यादिविषयविच्छुरणात् कथञ्चिदस्मत्प्रत्ययविषयः अहङ्कारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते ।
न खलु जीवश्चिदात्मनो भिद्यते ।
तथा हि श्रुतिः- ऽअनेन जीवेनात्मनाऽ इति ।
तस्माच्चिदात्मनो ऽव्यतिरेकात् जीवः स्वयंप्रकाशो ऽपि अहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते ।
न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति सांप्रतम्,बीजाङ्कुरवदनादित्वात्, पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्य उत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तम्-"नैसर्गिको ऽयं लोकव्यवहारः"इति भाष्यग्रन्थेन ।
तस्मात् सुष्ठूक्तम्- न तावदयमेकान्तेनाविषय इति ।
जीवो हि चिदात्मतया स्वयंप्रकाशतया अविषयो ऽपि औपाधिकेन रूपेण विषय इति भावः ।
स्यादेतत् ।
न वयमपराधीनप्रकाशतया अविषयत्वेनाध्यासमपाकुर्मः, किं तु प्रत्यगात्मा न स्वतो नापि
परतः प्रथत इत्यविषय इति ब्रूमः ।
तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतो ऽध्यास इत्यत आह- अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः इति ।
प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् ।
यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति तथापि भेदोपचारः, यथा ऽपुरुषस्य चैतन्यम्ऽ इति ।
एतदुक्तं भवति- अवश्यं चिदात्मा अपरोक्षो ऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् ।
श्रुतिश्चात्र भवति- ऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभातिऽ इति ।
तदेवं परमार्थपरिहारमुक्त्वा अभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह- न चायमस्ति इति ।
पुरो ऽवस्थित एव, अपरोक्ष एव ।
कस्मादयं न नियम इत्यत आह- अप्रत्यक्षे ऽपि इति ।
हिर्यस्मादर्थे ।
नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् ।
नापि मानसम्, मनसो ऽसहायस्य बाह्ये अप्रवृत्तेः ; तस्मादप्रत्यक्षम् ।
अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति ।
तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य वा रूपस्य परत्र नभसि स्मृतिरूपो ऽवभास इति ।
एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतमहेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः ।
उपसंहरति- एवम् उक्तेन प्रकारेण सर्वाक्षेपपरिहारात्, अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम्- बुद्ध्यादीनाम्- अध्यासः ।
ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह- तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।
अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु सुप्रसिद्धम्, तदुच्छेदाय च वेदान्ताः प्रवृत्ता इति वक्ष्यति ।
प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् ।
अत्र च"एवंलक्षणम्"इति एवंरूपतया अनर्थहेतुतोक्ता ।
यस्मात्प्रत्यगात्मन्यशनायादिरहिते अशनायाद्युपेतान्तःकरणाद्यहितारोपेण प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।
न चैवं पृथग्जना अपि मन्यन्ते अध्यासम्, येन न व्युत्पाद्येतेत्यत उक्तम्-"पण्डिता मन्यन्ते"इति ।
ननु इयमनादिरतिनिरूढनिबिडवासनानुबद्धा अविद्या न शक्या निरोद्धुम्, उपायाभावात्, इति यो मन्यन्ते तं प्रति तन्निरोधोपायमाह - तद्विवेकेन च वस्तुस्वरूपावधारणम्, निर्विचिकित्सं ज्ञानम्, विद्यामाहुः पण्डिताः ।
प्रत्यगात्मनि खलु अत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः ।
तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।
स्यादेतत् ।
अतिनिरूढनिबिढवासनानुविद्वा अविद्या विद्यया अपबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादिकार्यं स्वोचितमित्यय आह - तत्रैवं सति, एवंभूतवस्तुतत्त्वावधारणे सति, यत्र यदध्यासः
तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न संबध्यते, अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिना अन्तःकरणादि न संबध्यते ।
एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति ।
तत्त्वपक्षपातो हि स्वभावो धियाम्, यथाहुर्बाह्या अपि--
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधो ऽयत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततः ॥
इति ।
विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्य अत्यन्तान्तरङ्गस्य कुतो ऽनिर्वाच्यया अविद्यया बाध इति ।
यदुक्तम्"सत्यानृते मिथुनाकृत्य, विवेकाग्रहादध्यस्य, ऽअहमिदम्ऽ ऽममेदम्ऽ इति लोकव्यवहारः"इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।
इतिशब्दसूचितं लोकव्यवहारमादर्शयति- तमेतमविद्याख्यम् इति ।
निगदव्याख्यातम् ।
आक्षिपति- कथं पुनरविद्यावद्विषयीणि प्रत्यक्षादीनि प्रमाणानि ।
तत्त्वपरिच्छेदो हि प्रमा विद्या ; तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि ? नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वात् इति भावः ।
सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा ; शास्त्राणि तु पुरुषहितानुशासनपराणि अविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह - शास्त्राणि च इति ।
समाधत्ते- उच्यते इति ।
देहेन्द्रियादिषु अहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य, प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः ।
अयमर्थः- प्रमातृत्वं हि प्रमां प्रति कर्तृत्वम् ।
तच्च स्वातन्त्र्यम् ।
स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् ।
तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् ।
न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति ।
न च कूटस्थनित्यश्चिदात्मा अपरिणामी स्वतो व्यापारवान् ।
तस्मात् व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।
अथ मा प्रवर्तिषत प्रमाणानि, किं नश्छिन्नमित्यत आह- न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति ।
व्यवह्रियते अनेनेति व्यवहारः फलम्, प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः ।
इन्द्रियाणि इति इन्द्रियलिङ्गादीनीति द्रष्टव्यम्, ऽदण्डिनो गच्छन्तिऽ इतिवत् ।
एवं हि प्रत्यक्षादि इत्युपपद्यते ।
व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता ।
अनुपादाय यो व्यवहार इति योजना ।
किमिति पुनः प्रमाता उपादत्ते प्रमाणानि ? अथ स्वयमेव कस्मान्न प्रवर्तन्ते इत्यत आह- न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः, प्रमाणानां व्यापारः, संभवति ।
न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।
अथ देह एवाधिष्ठाता कस्मान्न भवति ? कृतमत्रात्माध्यासेनेत्यत आह- न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ; सुषुप्ते ऽपि व्यापारप्रसङ्गादिति भावः ।
स्यादेतत् ।
यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादि व्यापारयन् भविष्यति तदभिज्ञः प्रमाता इत्यत आह- न चैतस्मिन्सर्वस्मिन्, इतरेतरात्माध्यासे इतरेतरात्माध्यासे इतरेतरधर्माध्यासे च, असति, आत्मनो ऽसङ्गस्य, सर्वथा सर्वदा सर्वधर्मधर्मिवियुक्तस्य, प्रमातृत्वमुपपद्यते ।
व्यापारवन्तो हि कुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगो ऽसङ्गत्वादित्यर्थः ।
आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह- न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।
प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति ।
अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा ।
कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत्,
यदि चिदात्मा तत्र नाध्यस्येत ? कथं चैष चिदात्मकर्तृको भवेत्, यद्यन्तःकरणं व्यापारवत् चिदात्मनि नाध्यस्येत् ? तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति, तत्सिद्धौ च प्रमातृत्वम् ।
तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः ।
प्रमातृत्वेन च प्रमा उपलक्ष्यते ।
प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत ।
तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।
उपसंहरति- तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।
स्यादेतत् ।
भवतु पृथग्जनानामेवम् ; आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह- पश्वादिभिश्चाविशेषात् इति ।
विदन्तु नाम आगमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् ; प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मत्वं नातिवर्तन्ते ।
यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते ।
तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् ।
चशब्दः समुच्चये ।
उक्तशङ्कानिवर्तनसहिता पूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।
एतदेव विभजते- यथा हि पश्वादय इति ।
अत्र च शब्दादिभिः श्रोत्रादीनां संबन्धे सति इति प्रत्यक्षं प्रमाणं दर्शितम् ।
शब्दादिविज्ञाने इति तत्फलमुक्तम् ।
प्रतिकूले इति च अनुमानफलम् ।
तथा हि- शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमत इति ।
उदाहरति- यथा दण्ड इति ।
शेषमतिरोहितार्थम् ।
स्यादेतत् ।
भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि ।
शास्त्रं तु ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति ।
अत्र हि आमुष्मिकफलोपभोगयोग्यः अधिकारी प्रतीयते ।
तथा च पारमर्षं सूत्रम्- ऽशास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्ऽ इति ।
न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् ; तदवगमश्च विद्या ; इति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह- शास्त्रीयेतु इति ।
तु-शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् ।
अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वरयासंसारित्वमपि ; तस्याधिकारे ऽनुपयोगात् ; प्रत्युत औपनिषदस्य पुरुषस्य अकर्तुरभोक्तुरधिकारविरोधात् ।
प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति ।
तत्र कथमकर्ता प्रयोक्ता ? कथं च अभोक्ता कर्मजनितफलभोगभागी ? तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते ।
एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव ।
न हि प्रमात्रादिविभागादृते तदर्थाधिगमः ।
ते त्वविद्यावन्तमनुशासतो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपो व्यवस्थापयन्तीत्येतावानेषां विशेषः ।
तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।
स्यादेतत् ।
यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषः अधिकारे नापेक्ष्यते तथाप्युपनिषद्भ्यो ऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् ।
ततश्च परस्परपराहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह- प्राक् च तथाभूतात्म- इति ।
सत्यमौपनिषदपुरुषाधिगमः अधिकारविरोधी ; तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारमभिनिर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् ।
न च परस्परपराहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः ।
यथा-ऽन हिंस्यात्सर्वा भूतानिऽ इति साध्यांशनिषेधे ऽपि ऽश्येनेनाभिचरन् यजेतऽ इति शास्त्रं प्रवर्तमानं ऽन हिंस्यात्ऽ इत्यनेन न विरुध्यते ; तत्कस्य हेतोः ? पुरुषभेदादिति ।
अवजितक्रोधारातयः पुरुषा निषेधे अधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्रे इति ।
अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फुटयति- तथा हि इति ।
वर्णाध्यासः ऽराजा राजसूयेन यजेतऽ इत्यादिः ।
आश्रमाध्यासः ऽगृहस्थः सदृशीं भार्यां विन्देतऽ इत्यादिः ।
वयो ऽध्यासः ऽकृष्णकेशो ऽग्नीनादधीतऽ इत्यादिः ।
अवस्थाध्यासः ऽअप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागःऽ इत्यादिः ।
आदिग्रहणं पातकोपपातकसंकरीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसंग्रहार्थम् ।
तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानहर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयन् तत्स्वरुपमुक्तं स्मारयति- अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।
ऽस्मृतिरूपः परत्र पूर्वदृष्टावभासःऽ इत्यस्य संक्षेपाभिधानमेतत् ।
तत्र ऽअहम्ऽ इति धर्मितादात्म्याध्यासमात्रम् ऽममऽ इत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चानाह- तद्यथा पुत्रभार्यादिषु इति ।
देहतादात्म्यमात्मन्यध्यस्य देहमर्थं पुत्रकलत्रादिस्वाभ्यं च कृशत्वादिवत् आरोप्याह- अहमेव विकलः, सकलः इति ।
स्वस्य खलु साकल्येन स्वाभ्यसाकल्यात् स्वामीश्वरः सकलः संपूर्णो भवति ; तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् स्वामीश्वरो विसलो ऽसंपूर्णो भवति ।
बाह्यधर्मा ये वैकल्यादयः स्वाभ्यप्रणालिकया संचरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।
यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिषु इत्याशयवानाह- तथा देहधर्मान् इति ।
देहादप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान् मूकत्वादीन्, ततो ऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसंकल्पादीन् आत्मन्यध्यस्यतीति योजना ।
तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह- एवमहंप्रत्ययिनम् ।
अहंप्रत्ययो वृत्तिर्यस्मिन् अन्तःकरणादौ, सो ऽयमहंप्रत्ययी ; तं स्वप्रचारणसाक्षिणि, अन्तःकरणप्रचारसाक्षिणि, चैतन्योदासीनताभ्यां प्रत्यगात्मन्यध्यस्य ।
तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।
चैतन्यमुपपादयति- तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण, अन्तःकरणादिविपर्ययेण- अन्तःकरणाद्यचेतनम्, तस्य विपर्ययः चैतन्यम्, तेन, इत्थंभूतलक्षणे तृतीया-अन्तःकरणादिष्वध्यस्यति ।
तदनेन अन्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारो ऽहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः तदुपादानश्चाध्यास इत्यनादित्वात् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।
प्रमाणप्रमेयव्यवहारदृढीकृतमेव शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतया अध्यासं सुदृढीकरोति- एवमयमनादिरनन्तः, तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।
अनाद्यनन्तत्वे हेतुरुक्तः- नैसर्गिक इति ।
मिथ्याप्रत्ययरूपः मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम् ; तद्यस्य स तथोक्तः ; अनिर्वचनीय इत्यर्थः ।
प्रकृतमुपसंहरति- अस्यानर्थहेतोः प्रहाणाय ।
विरोधिप्रत्ययं विना कुतो ऽस्य प्रहाणमित्यय उक्तम्- आत्मैकत्वविद्याप्रतिपत्तये ।
प्रतिपत्तिः प्राप्तिः, तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये ।
आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वम् आनन्दरूपस्य सतः ।
तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति ।
एतदुक्तं भवति- अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वात् निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् ; तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् ; अपि तु अविवक्षितार्था जपमात्रे उपयुज्येरन् ।
न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते ।
न चासावप्रमाणमभ्यस्तो ऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनो ऽपनेतुमर्हति ।
आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन ।
न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुमुत्सहन्ते ।
मिथ्याज्ञानप्रसञ्जितं तु रूपं शक्यं तत्त्वज्ञानेन अपवदितुम्, मिथ्याज्ञानसंस्कारश्च सुदृढो ऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्धकालासेविततत्त्वज्ञानाभ्यासजन्मनेति ।
स्यादेतत् ।
प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते ।
तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह- यथा चायमर्थः इत्यादि ।
शरीरमेव शरीरकम् ; तत्र निवासी शारीरको जीवात्मा ।
तस्य त्वंपदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतया या मीमांसा सा तथोक्ता ।
एतावानत्रार्थसंक्षेपः- यद्यपि स्वाध्यायाध्ययनविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतां आपादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम्, यद्यपि च ऽअविशिष्टस्तु वाक्यार्थःऽ इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम्, यद्यपि च वेदान्तेभ्यः चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोक-
मोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सेदेहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वा इत्यविवक्षितस्वार्थाः ।
तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या ।
न च सर्वजनीनाहमनुभवसिद्ध आत्मा संदिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीत- इति पूर्वपक्षः ।
सिद्धान्तस्तु- भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् ।
तस्य तु उक्तेन क्रमेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् ।
एवं च वेदान्ता नाविवक्षितार्थाः, नापि उपचरितार्थाः, किं तु उक्तक्षणाः ।
प्रत्यगात्मैव तेषां मुख्योर्ऽथः ।
तस्य च वक्ष्यमाणेन क्रमेण संदिग्धत्वात् प्रयोजनत्वाच्च युक्ता जिज्ञासा- इत्याशयवान् सूत्रकारः तज्जिज्ञासामसूत्रयत्, अथातो ब्रह्मजिज्ञासा इति ।
जिज्ञासया च संदेहप्रयोजने सूचयति ।
तत्र सक्षादिच्छाव्याप्यत्वाद्ब्रह्मज्ञानं कणठोक्तं प्रयोजनम् ।
न च कर्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किञ्चिदस्ति, येनैतदवान्तरप्रयोजनं भवेत् ।
किं तु ब्रह्ममीमांसाख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराहितं निर्विचिकित्सं ब्रह्मज्ञानमेव समस्तदुःखोपशमरूपमानन्दैकरसं परमं प्रयोजनम् ।
तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् ।
तच्च प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेप्सितं भवति ; यथा स्वग्रीवागतमपि ग्रैवेयकं कुतश्चिद्भ्रमान्नास्तीति मन्यमानः परेण प्रतिपादितमप्राप्तमिव प्राप्नोति ।
जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति ।
संशयश्च मीमांसारम्भं प्रयोजयति ।
तथा च शास्त्रे प्रेक्षावत्प्रवृत्तिहेतुसंशयप्रयोजनसूचनात् युक्तमस्य सूत्रस्य शास्त्रादित्वम्, इत्याह भगवान्भाष्यकारः-
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य अस्माभिः, इदमादिमं सूत्रम् ।
पूजितविचारवचनो मीमांसाशब्दः ।
परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलतया च विचारस्य च पूजितता ।
तस्य मीमांसायाः शास्त्रम्, सा ह्यनेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यत इति ।
सूत्रं च बह्वर्थसूचनात् भवति ।
यथाहुः-
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥
इति ।
तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदं अथ इति व्याचष्टे- तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।
तेषु सूत्रपदेषु मध्ये यो ऽयं अथशब्दः स आनन्तर्यार्थ इति योजना ।
ननु अधिकारार्थो ऽप्यथशब्दो दृश्यते, यथा ऽअथैष ज्योतिःऽ इति वेदे, यथा वा लोके ऽअथ शब्दानुशासनम्ऽ इति, ऽअथ योगानुशासनम्ऽ इति च ; तत्किमत्राधिकारार्थो न गृह्यत इत्यत आह- नाधिकारार्थः ।
कुतः ? ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ।
जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तज्ज्ञानाच्च शब्दतः प्रधानं प्रतीयते ।
न च यथा ऽदण्डी प्रैषानन्वाहऽ इत्यत्र अप्रधानमपि दण्डशब्दार्थो विवक्ष्यते एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्, ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् ।
तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव न ब्रह्ममीमांसायां प्रेक्षावन्तः प्रवर्तेरन् ।
न हि तदानीं ब्रह्म तज्ज्ञानं च अभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेर्ऽथे प्रामाण्यानुपपत्तेः ; कर्मप्रवृत्त्युपयोगितया उपचरितार्थानां वा जपोपयोगिनां वा ऽहुम्ऽ इत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य संभवात् ।
तस्मात्संदेहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या ।
न च तस्या अधिकार्यत्वम्, अप्रस्तूयमानत्वात्, येन तत्समभिव्याहृतो ऽथशब्दो ऽधिकारार्थः स्यात् ।
जिज्ञासाविशेषणं तु ब्रह्मज्ञानमधिकार्यं भवेत् ।
न च तदप्यथशब्देन संबध्यते, प्राधान्याभावात् ।
न च जिज्ञासा मीमांसा येन योगानुशासनवदधिक्रियेत ; नान्तत्वं निपात्य ऽमाङ् मानेऽ इत्यस्माद्वा ऽमानपूजायाम्ऽ इत्यस्माद्वा धातोः ऽमान्बन्ध-ऽ इत्यादिना अनिच्छार्थे सनि व्युत्पादितस्य मीमांसापदस्य पूजितविचारवचनत्वात् ; ज्ञानेच्छावाचकत्वाज्जिज्ञासापदस्य ।
प्रवर्तिका हि मीमांसायां जीज्ञासा स्यात् ।
न च प्रवर्त्यप्रवर्तकयोरैक्यम्, एकत्वे तद्भावानुपपत्तेः ।
न च स्वार्थपरत्वस्योपपत्तौ सत्यां अन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् ।
तस्मात्सुष्ठूक्तम् ऽजिज्ञासाया अनधिकार्यत्वात्ऽ इति ।
अथ मङ्गलार्थो ऽथशब्दः कस्मान्न भवति ? तथा च मङ्गलहेतुत्वात् प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः संपद्यत इत्यत आह- मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।
पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो लक्ष्यो वा ।
न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् ।
न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।
तत्किमिदानीं मङ्गलार्थो ऽशब्दः तेषु तेषु न प्रयोक्तव्यः ? तथा च ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
इति स्मृतिव्याकोप इत्यत आह- अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।
अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तः अथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् मङ्गलप्रयोजनो भवति अन्यार्थमानीयमानोदकुम्भदर्शनवत् ।
तेन न स्मृतिव्याकोपः ।
तेन च इह आनन्तर्यार्थस्य सतः श्रवणमात्रेण मङ्गलार्थतेत्यर्थः ।
स्यादेतत् ।
पूर्वप्रकृतापेक्षो ऽथशब्दो भविष्यति विनैवानन्तर्यार्थत्वम् ।
तद्यथा- इयमेवाथशब्दं प्रकृत्य विमृश्यते ऽकिमयमथशब्द आनन्तर्ये अथाधिकारेऽ इति ।
अत्र विमर्शकवाक्ये ऽथशब्दः पूर्वप्रकृतमथशब्दमपेक्ष्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासे ।
न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवायात् ।
न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेन असमानविषयतया विकल्पानुपपत्तेः ।
न हि जातु भवति- किं नित्य आत्मा, अथ अनित्या बुद्धिरिति ।
तस्मादानन्तर्यं विना पूर्वप्रकृतापेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आह-
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।
अस्यार्थः- न वयमानन्तर्यार्थतां व्यसनितया रोचयामहे, किं तु ब्रह्मजिज्ञासाहेतुभूतपूर्वप्रकृतसिद्धये ।
सा च पूर्वप्रकृतार्थापेक्षत्वे ऽप्यथशब्दस्य सिध्यतीति व्यर्थ आनन्तर्यार्थत्वावधारणाग्रहो ऽस्माकमिति ।
तदिदमुक्तम् ऽफलतःऽ इति ।
परमार्थतस्तु कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा ; न चेह कल्पान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ।
भवत्वानन्तर्यार्थः, किमेवं सतीत्यत आह- सति चानन्तर्यार्थत्व इति ।
न तावद्यस्य कस्यचिदत्रानन्तर्यम् इति वक्तव्यम्, तस्याभिधानमन्तरेणापि प्राप्तत्वात् ।
अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति ।
न चानन्तर्यमात्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः ।
तस्मात्तस्यात्रानन्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।
तदिदमुक्तम्- यत्पूर्ववृत्तं नियमेनापेक्षत इति ।
स्यादेतत् ।
धर्मजिज्ञासाया इव ब्रह्मजिज्ञासाया अपि योग्यत्वात् स्वाध्यायाध्ययनानन्तर्यम्, धर्मवद्ब्रह्मणो ऽप्याम्नायैकप्रमाणगम्यत्वात् ।
तस्य चागृहीतस्य स्वविषये विज्ञानाजननात्, ग्रहणस्य च ऽस्वाध्यायो ऽध्येतव्यःऽ इत्यध्ययनेनैव नियतत्वात् ।
तस्माद्वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ इत्यत आह- स्वाध्यायानन्तर्यं तु समानं धर्मब्रह्मजिज्ञासयोः ।
अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति ।
तथा च ऽअथातो धर्मजिज्ञासाऽ इत्यनेनैव गतमिति नेदं सूत्रमारब्धव्यम् ; धर्मशब्दस्य वेदार्थमात्रोपलक्षणतया धर्मवद्ब्रह्मणो ऽपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः ।
चोदयति - नन्विह कर्मावबोधानन्तर्यं विशेषः धर्मजिज्ञासातो ब्रह्मजिज्ञासायाः ।
अस्यार्थः- ऽविविदिषन्ति यज्ञेनऽ इति तृतीयाश्रुत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनियोगात्, ज्ञानस्यैव कर्मतया इच्छां प्रति प्राधान्यात्, प्रधानसंबन्धाच्चाप्रधानानां पदार्थान्तराणाम् ।
तत्रापि च न वाक्यार्थज्ञानोत्पत्तावङ्गभावो यज्ञादीनाम्, वाक्यार्थज्ञानस्य वाक्यादेवोत्पत्तेः ।
न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम् ; अकृतकर्मणामपि विदितपदपदार्थसंबन्धानां समधिगतशाब्दन्यायतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियोग्यतानुसंधानवतामप्रत्यूहं वाक्यार्थप्रत्ययोत्पत्तेः ।
अनुत्पत्तौ वा विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभावप्रसङ्गः ।
तद्बोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः, तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्बोध इति ।
न च वेदान्तवाक्यानामेव स्वार्थप्रत्यायने कर्मापेक्षा न वाक्यान्तराणामिति सांप्रतम्, विशेषहेतोः अभावात् ।
ननु ऽतत्त्वमसिऽ इति वाक्यात् त्वंपदार्थस्य कर्तृभोक्तृरूपस्य जीवात्मनो नित्यशुद्धबुद्धोदासीनस्वभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागित्येव प्रतिपत्तुं आपाततो ऽशुद्धसत्त्वैः, योग्यताविरहविनिश्चयात् ।
यज्ञदानतपो ऽनाशकतनूकृतान्तर्मलास्तु विशुद्धसत्त्वाः श्रद्दधानायोग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत्, तत्किमिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणो वक्तुमध्यवसितो ऽसि, प्रत्यक्षाद्यतिरिक्तं वा कर्मापि प्रमाणम् ।
वेदान्ताविरुद्धतन्मूलन्यायबलेन तु योग्यतावधारणे कृतं कर्मभिः ।
तस्मात् ऽतत्त्वमसिऽ इत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भावनापराभिधानायां दीर्घकालनैरन्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामुपयोगः ।
यथाहुः- ऽस तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिःऽ इति ।
ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्काराः ।
अत एव श्रुतिः- ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणःऽ ।
इति ।
विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः ।
अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित् ।
पुरुषसंस्कारद्वारेणेत्यन्ये ।
यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति ; ततो ऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति ।
अत एव स्मृतिः- ऽमहायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुःऽ ।
इति, ऽयस्यैते ऽष्टाचत्वारिंशत्संस्काराःऽ इति च ।
अपरे तु ऋणत्रयापाकरणेन ब्रह्मज्ञानोपयोगं कर्मणामाहुः ।
अस्ति हि स्मृतिः- ऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्ऽ ।
इति ।
अन्ये तु ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽ इत्यादिश्रुतिभ्यः तत्तत्फलाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्यार्थताम्, ऽएकस्य तूभयार्थत्वे संयोगपृथक्त्वम्ऽ इति न्यायात् ।
अत एव पारमर्षं सूत्रम् ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ इति ।
यज्ञतपोदानादि सर्वम्, तदपेक्षा ब्रह्मभावनेत्यर्थः ।
तस्मात् यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषणत्रयवती अनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि ।
न चैतानि दृष्टादृष्टसामवायिकारादुपकारहेतुभूतौपदेशिकातिदेशिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मस्वरूपतदधिकारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् ।
न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम् ।
तस्मात्साधूक्तम् ऽकर्मावबोधानन्तर्यं विशेषःऽ इति ।
कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।
तदेतन्निराकरोति- न इति ।
कुतः ? कर्मावबोधात् प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।
इदमत्राकूतम्- ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम् ।
तत्र ब्रूमः- क्व पुनरस्याः कर्मापेक्षा ? किं कार्ये यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा ? स्वरूपे वा यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा ? न तावत्कार्ये, तस्य विकल्पासहत्वात् ।
तथा हि- ब्रह्मोपासनाया ब्रह्मस्वरूपसाक्षात्कारः कार्यमभ्युपेयः ।
स चोत्पाद्यो वा स्यात् यथा संयवनस्य पिण्डः, विकार्यो वा यथावघातस्य व्रीहयः, संस्कार्यो वा यथा प्रोक्षणस्योलूखलादयः, प्राप्यो वा यथा दोहनस्य पयः ।
न तावदुत्पाद्यः ।
न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः संभवति, ब्रह्मणो ऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः ।
ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत् संशयाक्रान्ततया प्रामाण्यायोगात्, तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः ।
न खलु अनुमानावगतं सिद्धं वह्निं भावयतः शीतार्तस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् ।
तस्मात् प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा ।
न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः संभवन्ति ।
स्यादेतत् ।
मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः ।
संस्कार्यस्तु अनिर्वचनीयाविद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्गव्यापृतेन ।
तत्र च कर्मणामुपयोगः ।
एतावांस्तु विशेषः- प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति ।
इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् ।
अत्रोच्यते- का पुनरियं ब्रह्मोपासना ? किं शाब्दज्ञानमात्रसंततिः, आहो निर्विचिकित्सशाब्दज्ञानसंततिः ? यदि शाब्दज्ञानमात्रसंततिः, न तर्हीयमभ्यास्यमानाप्यविद्यां समुच्छेत्तुमर्हति ।
तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत्, न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा ।
न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशो ऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम्, ऋते विशेषदर्शनात् ।
ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति ।
तस्मान्निर्विचिकत्सशाब्दज्ञानसंततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः ।
न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता ।
साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् ।
नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते ।
तस्मात् त्वंपदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः ।
एतावता हि त्वंपदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा ।
न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम्, अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् ; अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् ।
तस्मान्निर्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामाविर्भावयतीति युक्तम् ।
न चायमनुभवतो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः ।
न चैतावता ब्रह्मणो ऽपि पराधीनप्रकाशता ।
न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति ।
सर्वोपाधिविहीनं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि ।
यथाह स्म भगवान्भाष्यकारः- ऽन तावदयमेकान्तेनाविषयःऽ इति ।
न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपरोपाधिविरोधिनो विद्यमानत्वात् ।
अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् ।
न चानुमितभावितवह्निसाक्षात्कारवत् प्रतिभात्वेनास्याप्रामाण्यम्, तत्र वह्निस्वलक्षणस्य परोक्षत्वात् ।
इह तु ब्रह्मस्वरूपस्य उपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षत्वात् ।
न हि शुद्धबुद्धत्वादयो वस्तुतस्ततो ऽतिरिच्यन्ते ।
जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते ।
न च तत्तदुपाधिविरहो ऽपि ततो ऽतिरिच्यते ।
तस्मात् यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवः श्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति ।
अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत्, न, तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः ।
न खलु ऽतत्त्वमसिऽ इत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावं अकर्तृत्वाद्युपेतं अपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तं एकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति ।
अनर्हश्च कथं कर्ता वाधिकृतो वा ।
यद्युच्येत निश्चिते ऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारो ऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् ।
तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम्, तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते ।
न च- कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम्, सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः ।
यथा पयः पयो ऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजो ऽन्तराविले पाथसि प्रक्षिप्तं रजो ऽन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति, एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमप्यपगच्छतीति ।
अत्रोच्यते- सत्यम् ; ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रमात् ऽतत्त्वमसिऽ इत्यन्ताच्छब्दाद्ब्रह्ममीमांसोपकरणादसकृदभ्यस्तान्निर्विचिकित्से ऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जाते ऽपि अविद्यासंस्कारानुवृत्त्यानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथापि तानप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान् च श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् ।
तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम ? विदुषो ह्यधिकारः ।
अन्यथा पशुशूद्रादीनामपि अधिकारो दुर्वारः स्यात् ।
क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे ।
अत एव भगवान् अविद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूव भाष्यकारः ।
तस्माद्यथा राजजातीयाभिमानिकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः, एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनो ऽधिकारः ।
न चानधिकृतेन समर्थेनापि कृते वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् ।
तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम्, दृष्टत्वात् ।
अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनाकार्ये कर्मापेक्षा ।
स्यादेतत् ।
मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयो ऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत पश्वादिवत् ; तथा चायं निषिद्धमनुतिष्ठन् न प्रत्यवेयात् तिर्यगादिवदिति भिन्नकर्मतापातः ।
मैवम् ।
न खल्वयं सर्वथा मनुष्याभिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानो ऽनुवर्तते ।
अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् ।
किमतो यद्येवम् ? एतदतो भवति- विधिषु श्राद्धो ऽधिकारी नाश्राद्धः ।
ततश्च मनुष्याद्यभिमाने नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते ।
तथा च स्मृतिः-
ऽअश्रद्धया हुतं दत्तम्ऽ-
इत्यादिका ।
निषेधशास्त्रं तु न श्रद्धामपेक्षते ।
अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते ।
तथा च सांसारिक इव श्रद्धावगतब्रह्मतत्त्वो ऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः ।
तस्मान्नोपासनायाः कार्ये कर्मापेक्षा ।
अत एव नोपासनोत्पत्तावपि ; निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् ।
तथा च श्रुतिः-
ऽन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःऽ ।
इति ।
तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम् ? तथा च ऽविविदिषन्ति यज्ञेनऽ इत्याद्याः श्रुतयो विरुध्येरन् ।
न, आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् ।
तथा हि- तमेतमात्मानं वेदानुवचनेन नित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्ति, वेदितुमिच्छन्ति, न तु विदन्ति ।
वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात्, इच्छायाश्च प्रत्ययार्थतया प्राधान्यात्, प्रधानेन च कार्यसंप्रत्ययात् ।
न हि ऽराजपुरुषमानयऽ इत्युक्ते वस्तुतः प्रधानो ऽपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयते, अपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् ।
एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् ।
एवं तपसो ऽनाशकस्य ।
कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथा अनश्नतः, मरणात् ।
नापि चान्द्रायणादि तपः, तच्छीलस्य धातुवैषम्यापत्तेः ।
एतानि च नित्यानि उपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति ।
तथा च श्रुतिः- ऽस ह वा आत्मायाजी यो वेद इदं मे ऽनेनाङ्गं संस्क्रियत इदं मे ऽनेनाङ्गमुपधीयतेऽ इति ।
अनेनेति प्रकृतं यज्ञादि परामृशति ।
स्मृतिश्च-
ऽयस्यैते ऽष्टाचत्वारिंशत्संस्काराःऽ इति ।
नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्याविदुष एव उत्पन्नविविदिषस्य ज्ञानोत्तपत्तिं दर्शयत्याथर्वणी श्रुतिः-
ऽ.................. विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽ इति ।
स्मृतिश्च ऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणःऽ इत्यादिका ।
कॢप्तेनैव च नित्यानां कर्मणां नित्येहितेनोपात्तदुरितनिबर्हणेन पुरुषसंस्कारेण ज्ञानोत्पत्तावङ्गभावोपपत्तौ न संयोगपृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्पनागौरवापत्तेः ।
तथाहि- नित्यकर्मणामनुष्ठानाद्धर्मोत्पादः, ततः पाप्मा निवर्तते ; स हि अनित्याशुचिदुःखरूपे संसारे नित्यशुचिसुखख्यातिलक्षणेन विपर्यासेन चित्तसत्त्वं मलिनयति ; अतः पापनिवृत्तौ प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य अनित्याशुचिदुःस्वरूपत्वमप्रत्यूहमवबुध्यते ; ततो ऽस्य अस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते ; ततस्तज्जिहासोपावर्तते ; ततो हानोपायं पर्येषते ; पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते ; ततः श्रवणादिक्रमेण तज्जानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम् ।
इयमेवार्थमनुवदति भगवद्गीता-
ऽआरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यतेऽ ॥
इति ।
एवं च अननुष्ठितकर्मापि प्राग्भवीयकर्मवशात् यो विशुद्धसत्त्वः संसारासारतादर्शनेन निष्पन्नवैराग्यः, कृतं तस्य कर्मानुष्ठानेन वैराग्योत्पादोपयोगिना, प्राग्भवीयकर्मानुष्ठानादेव तत्सिद्धेः ।
इयमेव च पुरुषधौरेयभेदमधिकृत्य प्रववृते श्रुतिः- ऽयदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्ऽ इति ।
तदिदमुक्तम्, कर्मावबोधात्, प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ।
अत एव न ब्रह्मचारिण ऋणानि सन्ति येन तदपाकरणार्थं कर्मानुतिष्ठेत् ।
एतदनुरोधाच्च ऽजायमानो वै ब्राह्मणस्त्रिभिरृणवा जायतेऽ इति गृहस्थः संपद्यमान इति व्याख्येयम् ।
अन्यथा ऽयदि वेतरथा ब्रह्मचर्यादेवऽ इति श्रुतिर्विरुध्येत ।
गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव ।
जरामर्यवादो भस्मान्ततावादो ऽन्त्येष्टयश्च कर्मजडानविदुषः प्रति, न त्वात्मतत्त्वविदः पण्डितान् ।
तस्मात्तस्यानन्तर्यमथ-शब्दार्थः यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव ।
न चेत्थं कर्मावबोधः ।
तस्मान्न कर्मावबोधानन्तर्यमात्राथशब्दार्थ इति सर्वमवदातम् ।
स्यादेतत् ।
मा भूदग्निहोत्रयवागूपाकवदर्थः क्रमः ; श्रौतस्तु भविष्यन्ति ; ऽगृही भूत्वा वनी भवेत् वनी भूत्वा प्रव्रजेत्ऽ इति जाबालश्रुतिर्गार्हस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति ।
स्मरन्ति च -
ऽअधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥
ऽ इति ।
निन्दन्ति च-
ऽअनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् ।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधःऽ ॥
इति ; आह- यथा च हृदयाद्यवदानानामानन्तर्यनियमः ।
कुतः ? ऽहृदयस्याग्रे ऽवद्यति अथ जिह्वाया अथ वक्षसःऽ इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात् ।
न तथेह क्रमो विवक्षितः, श्रुत्या तयैवानन्तरमनियमस्य दर्शितत्वात्, ऽयदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽ इति ।
एतावता हि वैराग्यमुपलक्षयति ।
अत एव ऽयदहरेव विरजेत्तदहरेव प्रव्रजेत्ऽ इति श्रुतिः ।
निन्दावचनं च अविशुद्धसत्त्वपुरुषाभिप्रायम् ।
अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपाये ऽप्रवर्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन्प्रतिक्षणमुपचीयमानपाप्मा अधोगतिं गच्छतीत्यर्थः ।
स्यादेतत् ।
मा भूच्छ्रौत आर्थो वा क्रमः ; पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आह- शेषशेषित्वे प्रमाणाभावात् ।
शेषाणां समिदादीनां शेषिणां चाग्नेयादीनां एकफलवदुपकारोपनिबद्धानां एकफलावच्छिन्नानाम् एकप्रयोगवचनोपगृहीतानाम् एकाधिकारिकर्तृकाणां एकपौर्णमास्यमावास्याकालसंबद्धानां युगपद् अनुष्ठानाशक्तेः, सामर्थ्यात्क्रमप्राप्तौ तद्विशेषापेक्षायां पाठादयस्तद्भेदनियमाय प्रभवन्ति ।
यत्र तु न शेषशेषिभावः नाप्येकाधिकारावच्छेदः यथा सौर्यार्यम्णप्राजापत्यादीनाम्, तत्र क्रमभेदापेक्षाभावान्न पाठादिः क्रमविशेषनियमे प्रमाणम्, अवर्जनीयतया तस्य तत्रावगतत्वात् ।
न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमसतीति ।
ननु शेषशेषिभावाभावे ऽपि क्रमनियमो दृष्टः यथा गोदोहनस्य पुरुषार्थस्य दार्शपौर्णमासिकैरङ्गैः सह, यथा वा ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽ इति दर्शपूर्णमाससोमयोरशेषशेषिणोरित्यत आह- अधिकृताधिकारे वा प्रमाणाभावात्- इति योजना ।
स्वर्गकामस्य हि दर्शपूर्णमासाधिकृतस्य पशुकामस्य सतो दर्शपूर्णमास-
क्रत्वर्थाप्प्रणयनाश्रिते गोदोहने अधिकारः ।
नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात्पशून् भावयितुमर्हति ।
न च व्यापारान्तराविष्टं श्रूयते यतस्तदङ्गक्रममतिपतेत् ; अप्प्रणयनाश्रितं तु प्रतीयते, ऽचमसेनापः प्रणयेद्गोदोहनेन पशुकामास्यऽ इति समभिव्याहारात्, योग्यत्वाच्चास्यापां प्रणयनं प्रति ।
तस्मात्क्रत्वर्थाप्प्रणयनाश्रितत्वाद्गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् ।
श्रुतिनिराकरणेनैव इष्टिसोमक्रमवदपि क्रमो ऽपास्तो वेदितव्यः ।
शेषशेषित्वाधिकृताधिकाराभावे ऽपि क्रमो विवक्ष्येत यद्येकफलावच्छेदो भवेत्, यथाग्नेयादीनां षण्णामेकस्वर्गफलावच्छिन्नानाम् ; यदि वा जिज्ञास्यब्रह्मणः अंशो धर्मः स्यात्, यथा चतुर्लक्षणीव्युत्पाद्यं ब्रह्म केनचित्केनचित् अंशेनैकेन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसंबन्धे सति क्रमो विवक्षितः, तथेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येत ; न चैतदुभयमप्यस्तीत्याह- फलजिज्ञास्यभेदाच्च ।
फलभेदं विभजते- अभ्युदयफलं धर्मज्ञानम् इति ।
जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वात् ज्ञानफलं जिज्ञासाफलमिति भावः ।
न केवलं स्वरूपतः फलभेदः, तदुत्पादनप्रकारभेदादपि तद्भेद इत्याह- तच्चानुष्ठानापेक्षम् ।
ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ।
शाब्दज्ञानाभ्यासान्नानुष्ठानान्तरमपेक्षते, नित्यनैमित्तिककर्मानुष्ठानसहभावस्य अपास्तत्वात्- इति भावः ।
जिज्ञास्यभेदमात्यन्तिकमाह- भव्यश्च धर्म इति ।
भविता भव्यः ; कर्तरि कृत्यः ।
भविता च भावकव्यापारनिर्वर्त्यतया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः ।
भूतम्, सत्यम् ; सदेकान्ततः, न कदाचिदसदित्यर्थः ।
न केवलं स्वरूपतो जिज्ञास्ययोर्भेदः, ज्ञापकप्रमाणप्रवृत्तिभेदादपि भेद इत्याह- चोदनाप्रवृत्तिभेदाच्च ।
चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।
प्रवृत्तभेदं विभजते- या हि चोदना धर्मस्य इति ।
आज्ञादीनां पुरुषाभिप्रायभेदानामसंभवात् अपौरुषेये वेदे चोदनोपदेशः ।
अत एवोक्तम्- ऽतस्य ज्ञानमुपदेशःऽ इति ।
सा च स्वसाध्ये पुरुषव्यापारे भावनायां तद्विषये च यागादौ ; स हि भावनाविषयः, तदधीननिरूपणत्वात् प्रयत्नस्य भावनायाः, ऽषिञ् बन्धनेऽ इत्यस्मात् धातोर्विषयपदव्युत्पत्तेः ।
भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्ती तत्रेच्छोपहारमुखेण पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा ।
ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्तयन्त्यवबोधयति ।
कुतः ? अवबोधस्य प्रवृत्तिरहितस्य चोदनाजन्यत्वात् ।
ननु ऽआत्मा ज्ञातव्यःऽ इत्येतद्विधिपरैर्वेदान्तैः तदेकवाक्यतयावबोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आह- न पुरुषो ऽवबोधे नियुज्यते ॥
अयमभिसंधिः- न तावद्ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्मस्वाभाव्येन नित्यत्वात् अकार्यत्वात् ।
नाप्युपासनायाम्, तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् ।
नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहमुत्पत्तेः ।
अत्रैव दृष्टान्तमाह- यथाक्षार्थ इति ।
दार्ष्टान्तिके योजयति- तद्वत् इति ।
अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्यात् ।
न हि तदा आत्मतत्त्वपरास्ते, किं तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषां अर्थाः ।
न च बोधस्य बोध्यनिष्ठत्वादपेक्षितत्वात्, अन्यपरेभ्यो ऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणापि तदुपपत्तेः ।
तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।
प्रकृतमुपसंहरति- तस्मात्किमपि वक्तव्यम् इति ।
यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।
तदाह- उच्यते- नित्यानित्यवस्तुविवेक इत्यादि ।
नित्यः प्रत्यगात्मा, अनित्याः देहेन्द्रियविषयादयः ।
तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद्ब्रह्मणः ।
अथ विवेको ज्ञानमात्रम्, न निश्चयः ; तथा सति एष विपर्यासादन्यः संशयः स्यात् ; तथा च न वैराग्यं भावयेत् ; अभावयन्कथं ब्रह्मजिज्ञासाहेतुः ? तस्मादेवं व्याख्येयम् ।
नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः ; नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः ।
एतदुक्तं भवति- मा भूत् इदं ऋतं नित्यम्, इदं तदनृतमनित्यमिति धर्मिविशेषयोर्विवेकः ; धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव ।
नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम् ; तथा चास्थागोचरः ।
अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतम् ; तथा चानास्थागोचरः ।
तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति ; यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति सो ऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् ।
न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् ।
तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।
अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः आ च सत्यलोकात् आ चावीचेः जायस्व म्रियस्व इति विपरिवर्तमानं क्षणमुहूर्तयामाहोरात्रार्धमासमासर्त्वयनवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहाप्रलयमहासर्गावान्तरसर्गसंसारसागरोर्मिभिरनिशमुह्यमानं तापत्रयपरीतमात्मानं जीवलोकं चावलोक्य अस्मिन्संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसंख्यानमुपावर्तते ।
ततो ऽस्येदृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसंख्यानात् इहमुत्रार्थभेगविरागः भवति ।
अर्थ्यते प्रार्थ्यत इत्यर्थः, फलमिति यावत् ।
तस्मिन्विरागो नामानाभोगात्मिकोपेक्षाबुद्धिः ।
ततः शमदमादिसाधनसंपत् ।
रागादिकषायमदिरामत्तं हि मनः तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत् विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत् पुरुषमतिघोरे विविधदुःखज्वालाजटाले संसारहुतभुजि जुहोति ।
प्रसंख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकषायमदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते ।
सो ऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकरसंज्ञ इति चाख्यायते ।
विजितं च मनस्तत्त्वविषयविनियोगयोग्यतां नीयते ; सेयमस्य योग्यता दमः, यथा दान्तो ऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते ।
आदि-ग्रहणेन च विषयतितिक्षातदुपरमतत्त्वश्रद्धाः संगृह्यन्ते ।
अत एव श्रुतिः- ऽतस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्, सर्वमात्मनि पश्यतिऽ इति ।
तदेतस्य शमदमादिरूपस्य साधनस्य संपत्, प्रकर्षः, शमदमादिसाधनसंपत् ।
ततो ऽस्य संसारबन्धनान्मुमुक्षा भवतीत्याह- मुमुक्षुत्वं च इति ।
तस्य च नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मज्ञानं मोक्षस्य कारणमित्युपश्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च ; तस्मात्तेषामेवानन्तर्यं न धर्मजिज्ञासाया इत्याह- तेषु हि इति ।
न केवलं जिज्ञासामात्रम्, अपि तु ज्ञानमपीत्याह- ज्ञातुं च ।
उपसंहरति- तस्मात् इति ।
क्रमप्राप्तमतःशब्दं व्याचष्टे- अतःशब्दो हेत्वर्थः ।
तमेवातःशब्दस्य हेतुरूपमर्थमाह- यस्माद्वेद एव इति ।
अत्रैवं परिचोद्यते- सत्यं यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा भवति ।
सैव त्वनुपपन्ना, इहामुत्रफलभोगविरागस्यानुपपत्तेः ।
अनुकूलवेदनीयं हि फलम्, इष्टलक्षणत्वात्फलस्य ।
न चानुरागहेतावस्य वैराग्यं भवितुमर्हति ।
दुःखानुषङ्गदर्शनात्सुखे ऽपि वैराग्यमिति चेत्, हन्त भोः सुखानुषङ्गाद्दुःखे ऽप्यनुरागो न कस्माद्भवति ? तस्मात् सुखे उपादीयमाने दुःखपरिहारे प्रयतितव्यम् ; अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते ।
तद्यथा- मत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते, स यावदादेयं तावदादाय निवर्तते ; यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदादाय निवर्तते ।
तस्माद्दुःखभयान्नानुकूलवेदनीयमैहिकं वामुष्मिकं वा सुखं परित्यक्तुमुचितम् ।
न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते ।
अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म क्षयितालक्षणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्याविनाशित्वात् ।
श्रूयते हि- ऽअपाम सोमममृता अभूमऽ इति ; तथा च ऽअक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतिऽ इति ।
न च कृतकत्वहेतुकं विनाशित्वानुमानमत्र संभवति, नरशिरःकपालशौचानुमानवदागमबाधितविषयत्वात् ।
तस्माद्यथोक्तसाधनसंपत्त्यभावान्न ब्रह्मजिज्ञासेति प्राप्तम् ।
एवं प्राप्ते आह भगवान्सूत्रकारः ऽअतःऽ इति ; तस्यार्थं व्याचष्टे भाष्यकारः- यस्माद्वेद एव इति ।
अयमभिसंधिः- सत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाचककृषीवलादिभिः ; दुःखं त्वनेकविधानेककारणसंपातजमशक्यपरिहारम् ; अन्ततः साधनापारतन्त्र्यक्षयितलक्षणयोर्दुःखयोः समस्तकृतकसुखाविनाभावनियमात् ।
न हि मधुविषसंपृक्तमन्नं विषं परित्यज्य मधुमिश्रं शक्यं शिल्पिवरेणापि भोक्तुम् ।
क्षयितानुमानोपोद्वलितं च ऽतद्यथेह कर्मचितःऽ इत्यादिवचनं क्षयिताप्रतिपादकम्, ऽअपाम सोमम्ऽ इत्यादिकं वचनं मुख्यासंभवे जघन्यवृत्तितामापादयति ।
यथाहुः पौराणिकाः-
ऽआभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽ इति ।
अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः ।
स च योग्यत्वात् ऽतद्यथेह कर्मचितःऽ इत्यादिः ऽअतःऽ इति सर्वनाम्ना परामृश्य हेतुपञ्चम्या निर्दिश्यते ।
स्यादेतत् ।
यथा स्वर्गादेः कृतकस्य सुखस्य दुःखानुषङ्गः तथा ब्रह्मणो ऽपीत्यत आह- तथा ब्रह्मविज्ञानादपि इति ।
तेनायमर्थः- अतः स्वर्गादीनां क्षयिताप्रतिपादकात् ब्रह्मज्ञानस्य च परमपुरुषार्थताप्रतिपादकात् आगमात् यथोक्तसाधनसंपत् ; ततश्च जिज्ञासेति सिद्धम् ।
ब्रह्मजिज्ञासापदव्याख्यानमाह- ब्रह्मण इति ।
षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्मजिज्ञासेति चतुर्थीसमासः परास्तो वेदितव्यः ।
ऽतादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्ऽ इति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभूतेषु चतुर्थीसमासनियमात् अप्रकृतिविकारभूते इत्येवमादौ तन्निषेधात्, ऽअश्वघासादयः षष्ठीसमासा भविष्यन्तिऽ इत्यश्वघासादिषु षष्ठीसमासप्रतिविधानात् ।
षष्ठीसमासे ऽपि च ब्रह्मणो वास्तवप्राधान्योपपत्तेरिति ।
स्यादेतत् ।
ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्ब्रह्मशब्दस्य संशयः- कस्य ब्रह्मणो जिज्ञासा ?- इति ।
अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथा- ब्रह्महत्येति ; अस्ति च वेदे, यथा- ब्रह्मोज्झमिति ; अस्ति च परमात्मनि, यथा- ऽब्रह्म वेद ब्रह्मैव भवतिऽ इति ।
तमिमं संशयमपाकरोति- ब्रह्म च वक्ष्यमाणलक्षणम् इति ।
यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततो ऽवगच्छामः परमात्मजिज्ञासैवेयं न विप्रत्वजात्यादिजिज्ञासा, इत्यर्थः ।
षष्ठीसमासपरिग्रहे ऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा ; संबन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसंबन्धिनी जिज्ञासेत्युक्तं भवति ।
तथा च ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था ब्रह्मजिज्ञासयावरुद्धा भवन्ति, साक्षात् पारम्पर्येण वा ब्रह्मसंबन्धात् ।
कर्मणि षष्ठ्यां तु ब्रह्मशब्दार्थः कर्म ; स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन् ; तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेत्- इति ये मन्यन्ते तान्प्रत्याहब्रह्मण इति कर्मणि इति ।
अत्र हेतुमाह- जिज्ञास्य इति ।
इच्छायाः प्रतिपत्त्यनुबन्धो ज्ञानम्, ज्ञानस्य च ज्ञेयं ब्रह्म ।
नो खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विना, इति प्रतिपत्त्यनुबन्धत्वात् प्रथमं जिज्ञासा कर्मैवापेक्षते, न तु संबन्धिमात्रम्, तदन्तरेणापि सति कर्मणि तन्निरूपणात् ।
न हि चन्द्रमसमादित्यं वोपलभ्य कस्यायमिति संबन्ध्यन्वेषणा भवति ।
भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति ।
तस्मात्प्रथममपेक्षितत्वात् कर्मतयैव ब्रह्म संबध्यते, न तु संबन्धितामात्रेण, तस्य जघन्यत्वात् ।
तथा च कर्मणि षष्ठी, इत्यर्थः ।
ननु सत्यं न जिज्ञास्यमन्तरेण जिज्ञासा निरूप्यते ; जिज्ञास्यान्तरं त्वस्या भविष्यति ; ब्रह्म तु शेषतया संभन्त्स्यत इत्यत आह- जिज्ञास्यान्तर इति ।
निगूढाभिप्रायश्चोदयति- ननु शेषषष्ठीपरिग्रहे ऽपि इति ।
सामान्यसंबन्धस्य विशेषसंबन्धाविरोधेन कर्मताया अविघातेन जिज्ञासानिरूपणोपपत्तेरित्यर्थः ।
निगूढाभिप्राय एव दूषयति- एवमपि प्रत्यक्षं ब्रह्मण इति ।
वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेक्षितस्य प्रथमसंबन्धार्हस्य चान्वयपरित्यागेन पश्चात्कथञ्चिदपेक्षितस्य संबन्धिमात्रस्य संबन्धो, जघन्यः प्रथमः प्रथमश्च जघन्यः, इति सुव्याहृतं न्यायतत्त्वम् ।
प्रत्यक्षपरोक्षताभिधानं च प्राथम्याप्राथम्यस्फुटत्वास्फुटत्वाभिप्रायम् ।
चेदकः स्वाभिप्रायमुद्घाटयति- न व्यर्थः ब्रह्माश्रिताशेष इति ।
व्याख्यातमेतदधस्तात् ।
समाधाता स्वाभिसंधिमुद्घाटयति- न, प्रधानपरिग्रह इति ।
वास्तवं प्राधान्यं ब्रह्मणः ।
शेषं सनिदर्शनमतिरोहितार्थम् ।
श्रुत्यनुगमश्चातिरोहितः ।
तदेवमभिमतं समासं व्यवस्थाप्य जिज्ञासापदार्थमाह- ज्ञातुम् इति ।
स्यादेतत् ।
न ज्ञानमिच्छाविषयः ।
सुखदुःखावाप्तिपरिहारौ वा तदुपायो वा तद्द्वारेणेच्छागोचरः ।
न चैवं ब्रह्मज्ञानम् ।
न खल्वेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वानुभूयते ।
नापि तयोरुपायः ; तस्मिन्सत्यपि सुखभेदस्यादर्शनात्, अनुवर्तमानस्य च दुःखस्यानिवृत्तेः ।
तस्मान्न सूत्रकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत आह- अवगतिपर्यन्तम् इति ।
न केवलं ज्ञानमिष्यते किं त्ववगतिं साक्षात्कारं कुर्वदवगतिपर्यन्तं सन्वाच्याया इच्छायाः कर्म ।
कस्मात् ? फलविषयत्वादिच्छायाः तदुपायं फलपर्यन्तं गोचरयतीच्छेति शेषः ।
ननु भवत्ववगतिपर्यन्तं ज्ञानम् ; किमेतावतापीष्टं भवति ? न ह्यनपेक्षणीयविषयमवगतिपर्यन्तमपि ज्ञानमिष्यत इत्यत आह- ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म ।
भवतु ब्रह्मविषयावगतिः, एवमपि कथमिष्टेत्यत आह- ब्रह्मावगतिर्हि पुरुषार्थः ।
किमभ्युदयः ? न, किं तु निःश्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मावगतिर्ब्रह्मणः स्वभाव इति सैव निःश्रेयसं पुरुषार्थ इति ।
स्यादेतत् ।
न ब्रह्मावगतिः पुरुषार्थः ।
पुरुषव्यापारव्याप्यो हि पुरुषार्थः ।
न चास्या ब्रह्मस्वभावभूताया उत्पत्तिविकारसंस्कारप्राप्तयः संभवन्ति, तथा सत्यनित्यत्वेन तत्स्वाभाव्यानुपपत्तेः ।
न चोत्पत्त्याद्यभावे व्यापारव्याप्यता ।
तस्मान्न ब्रह्मावगतिः पुरुषार्थ इत्यत आह-निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् ।
सत्यम्, ब्रह्मावगतौ ब्रह्मस्वभावे नोत्पत्त्यादयः संभवन्ति ; तथाप्यनिर्वचनीयानाद्यविद्यावशाद्ब्रह्मस्वभावो ऽपराधीनप्रकाशो ऽपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाश इव देहेन्द्रियादिभ्यो भिन्नो ऽप्यभिन्न इव भासत इति संसारबीजाविद्याद्यनर्थनिबर्हणात्प्रागप्राप्त इव तस्मिन्सति प्राप्त इव भवतीति पुरुषेणार्थ्यमानत्वात्पुरुषार्थ इति युक्तम् ।
अविद्यादीत्यादिग्रहणेन तत्संस्कारो ऽवरुध्यते ।
अविद्यादिनिवृत्तिस्तूपासनाकार्यादन्तः करणवृत्तिभेदात् साक्षात्कारादिति द्रष्टव्यम् ।
उपसंहरति- तस्माद्ब्रह्म जिज्ञासितव्यम् उक्तलक्षणेन मुमुक्षुणा ।
न खलु तज्ज्ञानं विना सवासनविविधदुःखनिदानमविद्योच्छिद्यते ।
न च तदुच्छेदमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दघनब्रह्मात्मतासाक्षात्काराविर्भावो जीवस्य ।
तस्मादानन्दघनब्रह्मात्मतामिच्छता तदुपायो ज्ञानमेषितव्यम् ।
तच्च न केवलेभ्यो वेदान्तेभ्यः अपि तु ब्रह्ममीमांसोपकरणेभ्य इति इच्छामुखेन ब्रह्ममीमांसायां प्रवर्त्यते, न तु वेदान्तेषु तदर्थविवक्षायां वा ; तत्र फलवदर्थावबोधपरतां स्वाध्यायाध्ययनविधेः सूत्रयता ऽअथातो धर्मजिज्ञासाऽ इत्यनेनैव प्रवर्तितत्वात्, धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेनाधर्मवद्ब्रह्मणो ऽप्युपलक्षणत्वात् ।
यद्यपि च धर्ममीमांसावत् वेदार्थमीमांसया ब्रह्ममीमांसाप्याक्षेप्तुं शक्यते, तथापि प्राच्या मीमांसया न तद्व्युत्पाद्यते, नापि ब्रह्ममीमांसाया अध्ययनमात्रानन्तर्यमिति ब्रह्ममीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपौनरुक्त्यम् ।
स्यादेतत् ।
एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तम् ; तदयुक्तम्, विकल्पासहत्वात्, इति चोदयति- तत्पुनर्ब्रह्म इति ।
वेदान्तेभ्यो ऽपौरुषेयतया स्वतःसिद्धप्रामाण्येभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् ।
यदि प्रसिद्धम्, वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम् ; ततो न जिज्ञासितव्यम्, निष्पादितक्रिये कर्मणि अविशेषाधायिनः साधनस्य साधनन्यायातिपातात् ।
अथाप्रसिद्धं वेदान्तेभ्यः, तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाप्रसिद्धं नैव शक्यं जिज्ञासितुम् ।
अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतापूर्वे ।
न चेष्यमाणमपि शक्यं ज्ञातुम्, प्रमाणाभावात् ।
शब्दो हि तस्य प्रमाणं वक्तव्यम् ।
यथा वक्ष्यति ऽशास्त्रयोनित्वात्ऽ इति ।
स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् ? न च प्रमाणानन्तरं ब्रह्मणि प्रक्रमते ।
तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात् अप्रसिद्धस्येच्छाया अविषयत्वात् अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।
परिहरति- उच्यते- अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।
अयमर्थः- प्रागपि ब्रह्ममीमांसाया अधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसंबन्धस्य ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रमात् ऽतत्त्वमसिऽ इत्यन्तात्संदर्भात् नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति ।
अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिर्णयात् ।
नित्येति क्षयितालक्षणं दुःखमुपक्षिपति ।
शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति ।
बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।
स्यादेतत् ।
मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम्- मुक्त इति ।
सदैव मुक्तः सदैव केवलो ऽनाद्यविद्यावशात्तु भ्रान्त्या तथावभासत इत्यर्थः ।
तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वा अविद्योपाधिकं रूपमाह- सर्वज्ञं सर्वशक्तिसमन्वितम् ।
तदनेन जगत्कारणत्वमस्य दर्शितम्, शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।
कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिः इत्यत आह- ब्रह्मशब्दस्य हि इति ।
न केवलम् ऽसदेव सोम्येदम्ऽ इत्यादीनां वाक्यानां पौर्वापर्यपर्यालोचनया इत्थंभूतब्रह्मावगतिः ।
अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।
निर्वचनमाह- बृहतेर्धातोरर्थानुगमात् ।
वृद्धिकर्मा हि बृहतिरतिशायने वर्तते ।
तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।
तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वंपदार्थस्याप्याह- सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वस्य पांसुलपादकस्य हालिकस्यापि ब्रह्मास्तित्वप्रसिद्धिः ; कुतः ? आत्मत्वात् ।
एतदेव स्फुटयति- सर्वो हि इति ।
प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति- न न इति ।
न न प्रत्येति ऽअहमस्मिऽ इति, किं तु प्रत्येत्येवेति योजना ।
ननु ऽअहमस्मिऽ इति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह- यदि इति ।
अहमस्मीति न प्रतीयात् ।
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् ऽअहम्ऽ इति न प्रतीयादित्यर्थः ।
ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम्, ब्रह्मणि तु किमायातम् इत्यत आह- आत्मा च ब्रह्म ; तदः त्वमासामानाधिकरण्यात् ।
तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः त्वंपदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वंपदार्थस्य ब्रह्मभावावगमः ऽतत्त्वमसिऽ इति वाक्यादुपपद्यत इति भावः ।
आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह- यदि तर्हि लोक इति ।
अध्यापकाध्येतृपरम्परा लोकः ।
तत्र ऽतत्त्वमसिऽ इति वाक्याद्यदि ब्रह्म आत्मत्वेन प्रसिद्धमस्ति ।
ऽआत्मा ब्रह्मत्वेनऽ इति वक्तव्ये ऽब्रह्म आत्मत्वेनऽ इति अभेदविवक्षया गमयितव्यम् ।
परिहरति- नः ; कुतः ? तद्विशेषं प्रति विप्रतिपत्तेः ।
तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् ।
ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः ।
विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धो ऽभ्युपेयः ; अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः ।
विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः ; न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः ; न च भिन्नाश्रया विरुद्धाः ।
न हि ऽअनित्या बुद्धिःऽ ऽनित्य आत्माऽ इति प्रतिपत्तिविप्रतिपत्ती ।
तस्मात्तत्पदार्थस्य शुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वंपदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः ।
तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः ।
तस्मात् सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।
तत्र त्वंपदार्थे तावद्विप्रतिपत्तीर्दर्शयति- देहमात्रम् इत्यादिना भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।
अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वंपदार्थेन संबध्यन्ते, योग्यताविरहात् ।
शून्यपक्षे ऽपि सर्वोपाख्यारहितमपदार्थः कथं तत्त्वमोर्गोचरः ? कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसंगतिरेव ।
अकर्तृत्वे ऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसंगतिः ।
अभोक्तृत्वे ऽपि नानात्मत्वपक्षे नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासंगतिस्तदवस्थैव ।
त्वंपदार्थविप्रतिपत्त्या च तत्पदार्थे ऽपि विप्रतिपत्तिर्दर्शिता- वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते, वेदप्रामाण्यवादिनो ऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।
तदेवं त्वंपदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे ऽपि विप्रतिपत्तिमाह- अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।
#तत्#इति जीवात्मनः परामृशति ।
न केवलं शरीरादिभ्यः जीवात्मभ्यो ऽपि व्यतिरिक्तः ।
स च सर्वस्यैव जगत ईष्टे ।
ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् ऽसर्वज्ञः सर्वशक्तिःऽ इति ।
तस्यापि जीवात्मभ्यो ऽपि व्यतिरेकात् न त्वंपदार्थेन सामानाधिकरण्यमिति स्वमतमाह- #अत्मा स भोक्तुरित्यपरे# ।
भोक्तुर्जीवात्मनो ऽविद्योपाधिकस्य स ईश्वरः तत्पदार्थ आत्मा ; तत ईश्वरादभिन्नो जीवात्मा, परमाकाशादिव घटाकाशादय इत्यर्थः ।
विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाह- #एवं बहव#इति ।
युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।
ननु सन्तु विप्रतिपत्तयः तन्निमित्तश्च संशयः ; तथापि किमर्थं ब्रह्ममीमांसा आरभ्यते इत्यत आह- #तत्राविचार्य#इति ।
तत्त्वज्ञानाच्च निःश्रेयसाधिगमः, नातत्त्वज्ञानाद्भवितुमर्हति ।
अपि च अतत्त्वज्ञानान्नास्तिक्ये सति अनर्थप्राप्तिरपीत्याह- #अनर्थं च#इति ।
सूत्रतात्पर्यमुपसंहरति- #तस्मात्#इति ।
वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च ये ऽन्ये ऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्ताः त् उपकरणं यस्याः सा तथोक्ता ।
तस्मात्परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसा आरब्धव्येति सिद्धम् ।
ब्रह्म जिज्ञासितव्यमित्युक्तम् ।
किंलक्षणं पुनस्तद्ब्रह्म इत्यत आह भगवान्सूत्रकारः -
#जन्माद्यस्य यतः#
तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते- #जन्माद्यस्य यतः# ।
एतस्य सूत्रस्य पातनिकामाह भाष्यकारः - #ब्रह्म जिज्ञासितव्यमित्युक्तम् ; किंलक्षणं# #पुनस्तद्ब्रह्म# ।
अत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते ।
तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुदधमबुद्धं विध्वंसि च ; न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् ।
न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति ।
न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात् ।
प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम् ।
एवं च न शब्दो ऽप्यत्र प्रक्रमते, अत्यन्ताप्रसिद्धतया ब्रह्मणो ऽपदार्थस्यावाक्यार्थत्वात् ।
तस्मात् लक्षणाभावात् न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः ।
तमिममाक्षेपं भगवान् सूत्रकारः परिहरति- #ऽजन्माद्यस्य यतःऽ#इति ।
मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् ; तदुत्पत्त्या तु भविष्यति देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः ।
सूत्रावयवान् विभजते- #जन्मोत्पत्तिरादिरस्य#इति ।
लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतः ;
तदुपपादनाय समाहारमाह- #जन्मस्थितिभङ्गम्#इति ।
#जन्मनश्च#इत्यादिः #कारणनिर्देशः#इत्यन्तः संदर्भो निगदव्याख्यातः ।
स्यादेतत् ।
प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः संभावनेत्यत आह- #अस्य जगत#इति ।
अत्र #नामरूपाभ्यां व्याकृतस्य#इति चेतनभावकर्तृकत्वसंभावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति ।
यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम्, यथा घटादि ।
विवादाध्यासितं च जगन्नाम्ना रूपेण च व्याकृतम् ; तस्माच्चेतनकर्तृकं संभाव्यते ।
चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति ।
अत एव घटस्य निर्वर्त्यस्याप्यन्तः संकल्पात्मना सिद्धस्य कर्मकारकभावः ऽघटं करोतिऽ इति ।
यथाहुः-ऽबुद्धिसिद्धं तु न तदसत्ऽ इति ।
तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं संभावयितुमिति भावः ।
स्यादेतत् ।
चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतम् उक्तस्वभावेन ब्रह्मणेत्यत आह- #अनेककर्तृभोक्तृसंयुक्तस्य#इति ।
केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः ।
केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरेष्ट्यादिषु पितापुत्रादयः, न कर्तारः ।
तस्मादुभयग्रहणम् ।
देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः ।
देशादीनि च तानि प्रतिनियताति चेति विग्रहः ।
तदाश्रयो जगत् ; तस्य ।
केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः ।
केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलारवादयः ।
केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः ।
केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयः, नेतरेषाम् ।
एवं केचित्प्रतिनियतफलाः, यथा केचित्सुखिनः केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः ।
सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे च स्वाभाविकत्वे चासर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।
तदिदमुक्तम्- #मनसाप्यचिन्त्यरचनारूपस्य#
इति ।
एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित्, प्रागेव जगद्रचनायाः ; किमङ्ग पुनः कर्तुमित्यर्थः ।
सूत्रवाक्यं पूरयति- #तद्ब्रह्मेति वाक्यशेषः# ।
स्यादेतत् ।
कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते न तु वृद्धिपरिणामापक्षया अपीत्यत आह- #अन्येषामपि भावविकाराणां#वृद्ध्यादीनान् #त्रिष्वेवान्तर्भाव#इति ।
वृद्धिस्तावदवयवोपचयः ।
तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः ।
परिणामो ऽपि त्रिविधः धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव ।
धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिः तस्योत्पत्तिः ।
एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः लक्षणपरिणाम उत्पत्तिः ।
एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः ।
अपक्षयस्तु अवयवह्रासो नाश एव ।
तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।
अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् ।
तथा सति हि तत्प्रतिपादके ऽयतो वा इमानि भूतानिऽ इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति ।
अन्यथा तु जायते अस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् ; तच्च न मूलकारणप्रतिपादनपरम्, महासर्गादूर्ध्वं स्थितिकाले ऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः,- इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह- #यास्क-#
#परिपठितानां तु#इति ।
नन्वेवमपि उत्पत्तिमात्रं सूच्यताम् ; तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह- #योत्पत्तिर्ब्रह्मणः कारणात्#इति ।
त्रिभिरस्योपादानत्वं सूच्यते ; उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानत्वं सूचयेत् ; तदिदमुक्तम्- #तत्रैव#इति ।
पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह- #न यथोक्त#इति ।
तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण संभावनोक्ता ।
तत्र प्रमाणं वक्तव्यम् ।
यथाहुर्नैयायिकाः-
ऽसंभावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥
यथा च वन्ध्या जननीऽ इत्यादिरिति ।
इत्थं नाम जन्मादि संभावनाहेतुः ।
यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्ति, इति संभावनाहेतुतां द्रढयितुमाह- #एतदेव#इति ।
चोदयति- #नन्विहापि#इति ।
एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन्सुहृद्भावेन परिहरति- #न, वेदान्त#इति ।
वेदान्तवाक्यकुसुमग्रथनार्थत्वमेव दर्शयति- #वेदान्त#इति ।
विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः ।
ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः ।
तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम् ? तथा च कुतो मननम् ? कुतश्च तदनुभवः साक्षात्कारः ? इत्यत आह- #सत्सु तु वेदान्तवाक्येषु#इति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् ।
शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् ।
युक्तिश्च अर्थापत्तिरनुमानं वा ।
स्यादेतत् ।
यथा धर्मो न पुरुषबुद्धिसाहाय्यम्, एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह- #न धर्मजिज्ञासायामिव#इति ।
#श्रुत्यादय#इति ; श्रुतीतिहासपुराणास्मृतयः प्रमाणम् ।
अनुभवः अन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारः ; तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम् ।
तच्च फलमिव फलमिति गमयितव्यम् ।
यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारः तथापि साक्षान्नास्ति ।
ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां संभवो ऽनुभवार्था च ब्रह्मजिज्ञासेत्याह- #अनुभवावसानत्वात्# ।
ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परमपुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति ।
ननु भवतु ब्रह्मानुभवार्था जिज्ञासा ; तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वात् इत्यत आह- #भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य#इति ।
व्यतिरेकसाक्षात्कारस्य विकल्परूपो विषयविषयिभावः ।
न त्वेवं धर्मज्ञानमनुभवावसानम्, तदनुभवस्य स्वयमपुरुषार्थत्वात्, तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेः इत्याह- #कर्तव्ये हि#इत्यादिना ।
न चायं साक्षात्कारविषयतायोग्यो ऽपि, अवर्तमानश्चानवस्थितत्वादित्याह- #पुरुषाधीन#इति ।
पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाह- #कर्तुमकर्तुं#इति ।
लौकिकं कार्यमनवस्थितमुदाहरति- #यथाश्वेन#इति ।
लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति- #तथातिरात्र#इति ।
कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम् ।
कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाह - #उदित#इति ।
स्यादेतत् ।
पुरुषस्वातन्त्र्यात् कर्तव्ये विधिप्रतिषेधानामानर्थक्यम्, अतदधीनत्वात् पुरुषप्रवृत्तिनिवृत्त्योः इत्यत आह- #विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः# ।
गृह्णातीति विधिः ; न गृह्णातीति प्रतिषेधः ।
उदितानुदितहोमयोर्विधिः ।
एवं नारास्थितस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिः- इत्येवञ्जातीयका विधिप्रतिषेधा अर्थवन्तः ।
कुत इत्यत आह- #विकल्पोत्सर्गापवादाश्च# ।
चो हेतौ ।
यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात् समुच्चयासंभवे तुल्यबलतया च बाध्यबाधकभावाभावे सति अगत्या विकल्पः ।
नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः ; किं तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः ।
एतदुक्तं भवति- विधिप्रतिषेधैरेव स तादृशो विषयो ऽनागतोत्पाद्यरूप उपनीतः येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति ।
भूते वस्तुनि तु नेयमस्ति विधा, इत्याह- #न तु वस्त्वेवं नैवम्#इति ।
तदनेन प्रकारविकल्पो निरस्तः ।
प्रकारिविकल्पं निषेधति - #अस्ति नास्ति#इति ।
स्यादेतत् ।
भूते ऽपि वस्तुनि विकल्पो दृष्टः, यथा ऽस्थाणुर्वा पुरुषो वाऽ इति ।
तत्कथं न वस्तु विकल्प्यते, इत्यत आह- #विकल्पनास्तु#इति ।
#पुरुषबुद्धिः#अन्तःकरणं ; तदपेक्षा विकल्पनाः संशयविपर्यासाः ।
सवासनमनोमात्रयोनयो वा यथा स्वप्ने ; सवासनेन्द्रियमनोयोनयो वा यथा ऽस्थाणुर्वा पुरुषो वाऽ इति स्थाणौ संशयः, ऽपुरुष एवऽ इति च विपर्यासः ; #अन्य#शब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात् ।
न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते, समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात् ।
तस्मादयथावस्ततो विकल्पना न वस्तु विकल्पयन्ति वा अन्यथयन्ति वेत्यर्थः ।
तत्त्वज्ञानं तु न बुद्धितन्त्रम्, किं तु वस्तुतन्त्रम् ; अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह- #न वस्तुयाथात्म्य#इति ।
एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाह- #तत्रैवं सति#इति ।
अत्र चोदयति- #ननु भूत#इति ।
यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम्, यथा- नद्यास्तीरे फलानि सन्तीति ।
तथा च वेदान्ताः ।
तस्मात् भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः ।
उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम् ।
एवं च मौलिकं तदेव परीक्षणीयम्, न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः ।
परिहरति-
#न, इन्द्रियाविषयत्वेन#इति ।
कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आह- #स्वभावत#इति ।
अत एव श्रुतिः-
ऽपराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्ऽ इति ।
#सति हीन्द्रिय#इति प्रत्यगात्मनस्त्वविषयत्वमुपपादितम् ।
यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः ।
उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् ।
न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः ।
तस्मात्सर्वमवदातम् ।
श्रुतिश्च ऽयतो वाऽ इति जन्म दर्शयति, ऽयेन जातानि जीवन्तिऽ इति जीवनं स्तितिम्, ऽयत्प्रयन्ति-ऽ इति तत्रैव लयम् ।
#तस्य च निर्णयवाक्यम्# ।
अत्र च प्रधानादिविषयत्वसंशये निर्णयवाक्यम्- आनन्दाध्येव इति ।
एतदुक्तं भवति-यथा रज्ज्वज्ञानसहितरज्जूपादाना धारा रज्ज्वां सत्यामस्ति रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगत् ब्रह्मण्येवास्ति तत्रैव च लीयत इति सिद्धम् ।
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् ; तदेव द्रढयन्नाह-
#शास्त्रयोनित्वात्#
सूत्रान्तरमवतारयितुं पुर्वसूत्रसंगतिमाह- #जगत्कारणत्वप्रदर्शनेन#इति ।
न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या ।
शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थगते- #महत ऋग्वेदादेः शास्त्रस्य#इति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्रह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्रमृग्वेदादिः ; अत एव महाविषयत्वात् महत् ।
न केवलं महाविषयत्वेनास्य महत्त्वम्, अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह- #अनेकविद्यास्थानोपबृंहितस्य# ।
पुराणन्यायमीमांसादयो दश विद्यास्थानानि ; तैः तया तया द्वारोपकृतस्य ।
तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता ।
पुराणादिप्रणेतारो हि महर्षयः शिष्टाः ; तैः तया तया द्वारा वेदान् व्याचक्षाणैस्तदर्थं चादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति ।
न चायमनवबोधको नाप्यरपष्टबोधको येनाप्रमाणं स्यादित्याह-
#प्रदीपवत्सर्वार्थावद्योतिनः# ।
सर्वमर्थजातं सर्वथावबोधयन् नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः ।
अत एव #सर्वज्ञकल्पस्य#सर्वज्ञसदृशस्य ।
सर्वज्ञस्य हि ज्ञानं सर्वविषयं शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् ।
तदेवमन्वयमुक्त्वा व्यतिरेकमाह- #न हीदृशस्य#इति ।
सर्वज्ञस्य गुणः सर्वविषयता ; तदन्वितं शासत्रम्, अस्यापि सर्वविषयत्वात् ।
उक्तमर्थं प्रमाणयति- #यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्#
#संभवति स#पुरुषविशेषः #ततो ऽपि#शास्त्रात् #अधिकतरविज्ञानः#इति योजना ।
अद्यत्वे ऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् ।
न हि ते ते असाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् ।
न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् ।
विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं #विस्तर#ग्रहणम् ।
सोपनयं निगमनमाह- #किमु वक्तव्यम्#इति ।
वेदस्य यस्मात् महतो भूतात् योनेः संभवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।
#अनेकशाखा#इति ।
अत्र च #अनेकशाखाभेदभिन्नस्य#इत्यादिः #संभव#
इत्यन्त उपनयः ।
#तस्य#इत्यादि #सर्वशक्तित्वं च#इत्यन्तं निगमनम् ।
#अप्रयत्नेनैव#इति ।
ईषत्प्रयत्नेन, यथा ऽअलवणा यवागूःऽ इति ।
देवर्षयो हि महापरिश्रमेणापि यत्राशक्ताः तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति ।
अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता ऽअस्य महतो भूतस्यऽ इति ।
ये ऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपायम् ।
आनुपूर्वीभेदवन्तो हि वर्णाः पदम् ।
पदानि चानुपूर्वीभेदवन्ति वाक्यम् ।
व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् ।
व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या ?
पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता ।
तस्मान्नृत्तानुकरणवत् पदाद्यनुकरणमपि ।
यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् ।
तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः ; केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः ।
यथाहुः- ऽयत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रताऽ इति ।
तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामनादिमाचक्षते ।
वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेण अनाद्यविद्योपधानलब्धसर्वशक्तिसर्वज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम्, पूर्वपूर्वसर्गानुसारेण तादृशानुपूर्वीविरचनात् ; यथा हि यागादिब्रह्महत्यादयोर्ऽथानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरे विपरियन्ति ।
न हि जातु क्वचित्सर्गे ब्रह्महत्यार्थहेतुरनर्थहेतुश्चाश्वमेधो भवति, अग्निर्वा क्लेदयति, आपो वा दहन्ति, तद्वत् ।
यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुः, अन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात् सर्वज्ञो ऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः ।
पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि ।
तच्चास्माकमपि समानम्, अन्यत्राभिनिवेशात् ।
न चैकस्य प्रतिभाने अनाश्वास इति युक्तम् ।
न हि बहूनामप्यज्ञानां विज्ञानां वा आशयदोषवतां प्रतिभाने युक्त आश्वासः ; तत्त्वज्ञानवतस्त्वपास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः ।
सर्गादिभुवां च प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसंपन्नानामुपपद्यते तत्स्वरूपावधारणम् ; तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम्, शास्त्रस्य चापौरुषेयत्वम्, प्रामाण्यं चेति ।
इति प्रथमवर्णकम् ।
वर्णकान्तरमारभते- #अथ वा#इति ।
पूर्वेणाधिकरणेन ब्रह्मस्वरूपलक्षणासंभवाशङ्कां व्युदस्य लक्षणसंभव उक्तः ।
तस्यैव तु लक्षणस्यानेन अनुमानत्वाशङ्कामपाकृत्य आगमोपदर्शनेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् ।
अक्षरार्थस्तु अतिरोहितः ।
शास्त्रप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण ; तदनेन सूत्रेण प्रतिपादनीयम् ; इत्युत्सूत्रं पूर्वपक्षमारचयति भाष्यकारः- #कथं पुनः#इति ।
किम् आक्षेपे- शुद्धबुद्धोदासीनस्वभावतया उपेक्षणीयं ब्रह्म भूतमभिदधतां वेदान्तानामपुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेः ; भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेनाप्रामाण्यप्रसङ्गात् ।
न खलु लौकिकानि वाक्यानि प्रमाणान्तरविषयमर्थमवबोधयन्ति स्वतः प्रमाणम् ;
एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत ।
न च तैरप्रमाणैर्भवितुं युक्तम् ।
न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् ।
तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् ।
यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वा वेदान्तानाम् ।
एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः ।
पारमर्षसूत्रोपन्यासः तु पूर्वपक्षदार्ढ्याय ।
#आनर्थक्यं#च अप्रयोजनवत्त्वम्, सापेक्षतया प्रमानुत्पादकत्वं चानुवादकत्वादिति ।
#अतः#इत्यादि #वा#न्तं ग्रहणकवाक्यम् ।
अस्य विभागभाष्यं #न हि#इत्यादि #उपपन्ना वा#इत्यन्तम् ।
स्यादेतत् ।
अक्रियार्थत्वे ऽपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति ; तथा च ऽविधिना त्वेकवाक्यत्वात्-ऽ
इति राद्धान्तसूत्रमनुग्रहीष्यते ।
न खल्वप्रवृत्तप्रवर्तनमेव विधिः ; उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् ; वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावात् , इत्यत आह- #न च परिनिष्ठित#इति ।
अनागतोत्पाद्यभावविषय एव हि सर्वो विधिरुपेयः, अधिकारविनियोगप्रयोगोत्पत्तिरूपाणां परस्परमविनाभावात्, सिद्धे च तेषामसंभवात् ।
तद्वाक्यानां त्वैदंपर्यं भिद्यते ।
यथा ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यादिभ्यो ऽधिकारविनियोगप्रयोगाणां प्रतिलम्भात्, ऽअग्निहोत्रं जुहोतिऽ इत्युत्पत्तिमात्रपरं वाक्यम् ।
न त्वत्र विनियोगादयो न सन्ति ; सन्तो ऽप्यन्यतो लब्धत्वात्केवलमविवक्षिताः ।
तस्मात् भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।
उपसंहरति- #तस्मात्#इति ।
अत्रारुचिकारणमुक्त्वा पक्षान्तरमुपसंक्रमते- #अथ#इति ।
एवं च सति उक्तरूपे ब्रह्मणि शब्दस्यातात्पर्यात् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते ; तस्योपासनापरत्वात्, समारोपेण चोपासनाया उपपत्तेरिति ।
प्रकृतमुपसंहरति- #तस्मान्न#इति ।
सूत्रेण सिद्धान्तयति- #उच्यत#इति ।
तदेतद्व्याचष्टे- #तुशब्द#इति ।
तदित्युत्तरपक्षप्रतिज्ञां विभजते- #तद्ब्रह्म#इति ।
पूर्वपक्षी कर्कशाशयः पृच्छति- #कथम्#इति ।
कुतः प्रकारादित्यर्थः ।
सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाह- #समन्वयात्# ।
सम्यगन्वयः समन्वयः ; तस्मात् ।
एतदेव विभज्यते- #सर्वेषु हि वेदान्तेषु#इति ।
वेदान्तानामैकान्तिकीं ब्रह्मपरतामाचिख्यसुर्बहूनि वाक्यान्युदाहरति- #सदेव#इति ।
ऽयतो वा इमानि भूतानिऽ इति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेह स्मारितमिति न पठितम् ।
येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते स एव वाक्यार्थ इति शाब्दाः ।
यथोपांशुयाजवाक्ये ऽनूचोः पुरोडाशयोर्जामितादोषसंकीर्तनपूर्वकोपांशुयाजविधानेन तत्प्रतिसमाधानोपसंहारेण चापूर्वोपांशुयाजकर्मविधिपरता एकवाक्यताबलादाश्रिता, एवमत्रापि ऽसदेव सोम्येदम्ऽ इति ब्रह्मोपक्रमात् ऽतत्त्वमसिऽ
इति च जीवस्य ब्रह्मात्मनोपसंहारात् तत्परतैव वाक्यस्य ।
एवं वाक्यान्तराणामपि पौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् ।
न च तत्परत्वस्य दृष्टस्य सति संभवे ऽन्यपरता अदृष्टा युक्ता कल्पयितुम्, अतिप्रसङ्गात् ।
न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह- #न च तेषाम्#इति ।
सापेक्षत्वेनाप्रामाण्यं पूर्वपक्षबीजं स्मारयित्वा दूषयति- #न च परिनिष्ठितवस्तुस्वरूपत्वे ऽपि#इति ।
अयमभिसंधिः- पुंवाक्यनिदर्शनेन हि भूतार्थतया वेदान्तानां सापेक्षत्वमाशङ्क्यते ।
तत्रैवं भवान् पृष्टो व्याचष्टाम्,
किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन ? यदि भूतार्थत्वेन ततः प्रत्यक्षादीनामपि परस्परापेक्षत्वेनाप्रामाण्यप्रसङ्गः ; तान्यपि हि भूतार्थान्येव ।
अथ पुरुषबुद्धिपुर्वकतया पुंवाक्यं सापेक्षम्, एवं तर्हि अतत्पूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं प्रत्यक्षादीनामिव नियतेन्द्रियलिङ्गादिजन्मनाम् ।
यद्युच्येत- सिद्धे किलापौरुषेयत्वे वेदान्तानामनपेक्षतया प्रामाण्यं सिध्येत् ; तदेव तु भूतार्थत्वेन न सिध्यति ; भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्यज्ञानत्वाद्बुद्धिपूर्वं विरचनोपपत्तेः ; वाक्यत्वादिलिङ्गकस्य वेदपौरुषेयत्वानुमानस्याप्रत्यूहमुत्पत्तेः ।
तस्मात्पौरुषेयत्वेन सापेक्षत्वं दुर्वारम्, न तु भूतार्थत्वेन ।
कार्यार्थत्वे तु कार्यस्यापूर्वस्य मानान्तरागोचरतया अत्यन्ताननुभूतपूर्वस्य तत्त्वेन समारोपेण वा पुरुषबुद्धावसमारोहात् तदर्थानां वेदान्तानामशक्यरचनतया पौरुषेयत्वाभावादनपेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानामपि कार्यपरत्वमातिष्ठामहे ।
अत्र ब्रूमः- किं पुनरिदं कार्यमभिमतमायुष्मतः यदशक्यं पुरुषेण ज्ञातुम् ? अपूर्वमिति चेत्, हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम् ? तेनालौकिकेन संगतिसंवेदनविरहात् ; लोकानुसारतः क्रियाया एव लौकिक्याः कार्यतया लिङादेरवगमात् ।
ऽस्वर्गकामो यजेतऽ इति साध्यस्वर्गविशिष्टो नियोज्यो ऽवगम्यते ; स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् ।
न च क्रिया क्षणभङ्गुरा आमुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां संबन्धग्रह इति चेत्, हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसंबन्धादपूर्वकार्यत्वप्रसङ्गः ; तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः ।
स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदान्तानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् ।
अन्यतस्तु वाक्यत्वादीनामनुमानाभामत्वोपपादने कृतमपूर्वार्थत्वेनात्र तदुपपादकेन ।
उपपादितं चापौरुषेयत्वमस्माभिर्न्यायकणिकायाम् ; इह तु विस्तरभयान्नोक्तम् ।
तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः ।
न चानधिगतगन्तृता नास्ति येन प्रामाण्यं न स्यात्, जीवस्य ब्रह्मताया अन्यतो ऽनधिगमात् ।
तदिदमुक्तम् - #न च परिनिष्ठितवस्तुस्वरूपत्वऽपि#इति ।
द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयति- #यत्तु हेयोपादेयरहितत्वात्#इति ।
विध्यर्थावगमात् खलु पारम्पर्येण पुरुषार्थप्रतिलम्भः ।
इह तु ऽतत्त्वमसिऽ इत्यवगतिपर्यन्ताद्वाक्यार्थज्ञानात् बाह्यानुष्ठानायासानपेक्षात्साक्षादेव पुरुषार्थप्रतिलम्भः, ऽनायं सर्पो रज्जुरियम्ऽ इति ज्ञानादिवेति ।
सो ऽयमस्य विध्यर्थज्ञानात् प्रकर्षः ।
एतदुक्तं भवति- द्विविधं हीप्सितं पुरुषस्य ; किञ्चिदप्राप्तम्, यथा ग्रामादि ; किञ्चित्पुनः प्राप्तमपि भ्रमवशादप्राप्तमित्यवगतम्, यथा स्वग्रीवावनद्धं ग्रैवेयकम् ।
एवं जिहासितमपि द्विविधम् ; किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम् ; किञ्चित्पुनर्हीनमेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् ।
तत्राप्राप्तप्राप्तौ चात्यक्तत्यागे च बाह्योपायानुष्ठानसाध्यत्वात् तदुपायतत्त्वज्ञानादस्ति पराचीनानुष्ठानापेक्षा ।
न जातु ज्ञानमात्रं नस्त्वपनयति ।
न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते ।
समारोपिते तु प्रेप्सितजिहासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठानानपेक्षेणैव शक्येते प्राप्तुमिव हातुमिव ।
समारोपमात्रजीविते हि ते ; समारोपितं च तत्त्वसक्षात्कारः समूलघातमुपहन्तीति ।
तथेहाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समारोपितनिबन्धनस्तद्भावः ऽतत्त्वमसिऽ इति वाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते ।
तन्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्तं भवति ; त्यक्तमपि शोकदुःखाद्यत्यक्तमिव त्यक्तं भवति ।
तदिदमुक्तम् - #ब्रह्मात्मावगमादेव#जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य- स हि क्लिश्नाति जन्तूनतः क्लेशः- तस्य प्रकर्षेण हानात् #पुरुषार्थस्य,#दुःखनिवृत्तिसुखाप्तिलक्षणस्य #सिद्धेः#इति ।
यत्तु ऽआत्मेत्येवोपासीतऽ, ऽआत्मानमेव लोकमुपासीतऽ
इत्युपासनावाक्यगतदेवतादिप्रतिपादनेनोपासनापरत्वं वेदान्तानामुक्तं तद्दूषयति- #देवतादिप्रतिपादनस्य तु#
आत्मेत्येतावन्मात्रस्य #स्ववाक्यगतोपासनार्थत्वे ऽपि न कश्चिद्विरोधः# ।
यदि न विरोधः, सन्तु तर्हि वेदान्ता देवताप्रतिपादनद्वारेणोपासनाविधिपरा एवेत्यत आह- #न तु तथा ब्रह्मण#इति ।
उपास्योपासकोपासनादिभेदसिद्ध्यधीनोपासना न निरस्तसमस्तभेदप्रपञ्चे वेदान्तवेद्ये ब्रह्मणि संभवतीति नोपासनाविधिशेषत्वं वेदान्तानां तद्विरोधित्वात् इत्यर्थः ।
स्यादेतत् ।
यदि विधिविरहे ऽपि वेदान्तानां प्रामाण्यम्, हन्त तर्हि ऽसो ऽरोदीत्ऽ इत्यादीनामप्यस्तु स्वतन्त्राणामेवोपेक्षणीयार्थानां प्रामाण्यम् ; न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपेक्षाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वात् ; इति कृतम् ऽबर्हिषि रजतं न देयम्ऽ इत्यादिनिषेधविधिपरत्वेनैतेषामित्यत आह- #यद्यपि#इति ।
स्वाध्यायविध्यधीनग्रहणतया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् ।
तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् ; किं पुनरियता ऽसो ऽरोदीत्ऽ इत्यादिना पदप्रबन्धेन ।
न च वेदान्तेभ्य इव तदर्थावगममात्रादेव कश्चित्पुरुषार्थ उपलभ्यते ।
तेनैष पदसंदर्भः साकाङ्क्ष एवास्ते पुरुषार्थमुदीक्षमाणः ।
ऽबर्हिषि रजतं न देयम्ऽ इत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते ; न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् ।
तद्यदि दूरतो ऽपि न निन्दामवाप्स्यत्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्विहेनतस्वस्य सामर्थ्यद्वयमकल्पयिष्यत् ।
तदेवमुत्तप्तयोः ऽसो ऽरोदीत्ऽ इति च ऽबर्हिषि रजतं न देयम्ऽ इति च पदसंदर्भयोर्लक्ष्यमाणनिन्दाद्वारेण नष्टाश्वदग्धरथवत् परस्परं समन्वयः ।
न त्वेवं वेदान्तेषु पुरुषार्थापेक्षा, तदर्थावगमादेवानपाक्षात्परमपुरुषार्थलाभादित्युक्तम् ।
ननु विध्यसंस्पर्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आह- #न चानुमानगम्यं#इति ।
अबाधितानधिगतासंदिग्धबोधजनकत्वं हि प्रमाणत्वं प्रमाणानाम् ; तच्च स्वत इत्युपपादितम् ।
यद्यपि चैषामीदृग्बोधजनकत्वं कार्यार्थापत्तिसमधिगम्यम्, तथापि तद्बोधोपजनने मानान्तरं नापेक्षन्ते नापीमामेवार्थापत्तिम्, परस्पराश्रयप्रसङ्गादिति स्वत इत्युक्तम् ।
ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम्, वेदान्तानामपि ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति ।
अन्यथा नेन्द्रियान्तराणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।
प्रकृतमुपसंहरति- #तस्मात्#इति ।
आचार्यैकदेशीयानां मतमुत्थापयति- #अत्रापरे प्रत्यवतिष्ठन्ते#इति ।
तथा हि-
अज्ञातसंगतित्वेन शास्त्रत्वेनार्थवत्तया ।
मननादिप्रतीत्या च कार्यार्थद्ब्रह्मनिश्चयः ॥
न खलु वेदान्ताः सिद्धब्रह्मरूपपरा भवितुमर्हन्ति, तत्राविदितसंगतित्वात् ।
यत्र हि शब्दा लोकेन न प्रयुज्यन्ते न तत्र तेषां संगतिग्रहः ।
न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान्, तस्याबुभुत्सितत्वात् ।
अबुभुत्सितावबोधने च प्रेक्षावत्ताविधातः स्यात् ।
तस्मात् प्रतिपित्सितं प्रतिपिपादयिषन्नयं लोकः प्रवृत्तिनिवृत्तिहेतुभूतमेवार्थं प्रतिपादयेत्, कार्यं चावगते तद्धेतुरिति तदेव बोधयेत् ।
एवं च वृद्धप्रयोगात् पदानां कार्यपरतामवगच्छति ।
तत्र किञ्चित्साक्षात् कार्याभिधायकम्, किञ्चित्तु कार्यार्थस्वार्थाभिधायकम्, न तु भूतार्थपरता पदानाम् ।
अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्ययमनुमाय तस्य च पदशब्दभावाभावानुविधानमवगम्यय शब्दस्य तद्विषयबोधकत्वं निश्चेतव्यम् ।
न च भूतार्थरूपमात्रप्रत्यये परनरवर्तिनि किञ्चिल्लिङ्गमस्ति ।
कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृत्तिनिवृत्ती स्तो हेतू इत्यज्ञातसंगतित्वान्न ब्रह्मरूपपरा वेदान्ताः ।
अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति ।
प्रवृत्तिनिवृत्तिपराणां च पदसंदर्भाणां शास्त्रत्वम् ।
यथाहुः-
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥
इति ।
तस्माच्छास्त्रत्वप्रसिद्ध्या व्याहतमेषां स्वरूपपरत्वम् ।
अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः ।
न च ऽरज्जुरियं न भुजङ्गःऽ इति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चयाद्यथा भयकम्पादिनिवृत्तिः, एवम् ऽतत्त्वमसिऽ इति वाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम्. श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् ।
अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः कस्मात् पुनः श्रवणस्योपरि मननादयः श्रूयन्ते ? तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः ।
तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते ।
न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति ।
यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति तदेव कार्यम् ।
यथाहुः- ऽयत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारःऽ इति ।
विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता ; तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः ।
आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् ।
तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यः तादृगात्मविनिश्चयः ।
तदेतत्सर्वमाह- #यद्यपि#इति ।
विधिपरेभ्यो ऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम्- #यथा यूप#इति ।
ऽयूपे पशुं बध्नातिऽ इति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्को ऽसौ यूप इत्यपेक्षिते ऽखादिरो यूपो भवतिऽ, ऽयूपं तक्षतिऽ, ऽयूपमष्टाश्रीकरोतिऽ इत्यादिभिर्वाक्यैस्तक्षणादिविधिपपैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यते ।
एवमाहवनीयादयो ऽप्यवगन्तव्याः ।
प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च संबन्धो न स्वरूपो, इति हेतुद्वयं भाष्यवाक्येनोपपादितम्- #प्रवृत्तिनिवृत्तिप्रयोजनत्वात्#इत्यादिना #तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्#इत्यन्तेन ।
न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाह- #सति च विधिपरत्वे#
इति ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽ इति सिद्धवदर्थवादादवगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्क्षायां ब्रह्म बुभूषोर्नियोज्यविशेषस्य रात्रिसत्रन्यायेन प्रतिलम्भः ।
पिण्डपुतृयज्ञान्यायेन तु स्वर्गकामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतयात्यन्तपरोक्षा वृत्तिः स्यादिति ।
ब्रह्मभावश्चामृतत्वमिति #अमृतत्वकामस्य#इत्युक्तम् ।
अमृतत्वं च अमृतत्वादेव न कृतकत्वेन शक्यमनित्यमनुमातुम्, आगमविरोधादिति भावः ।
उक्तेन धर्मब्रह्मजिज्ञासयोर्वैलक्षण्येनन विध्यविषयत्वं चोदयति- #ननु#इति ।
परिहरति- #नार्हत्येवम्#इति ।
अत्र चात्मदर्शनं न विधेयम् ।
तद्धि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात् प्रत्यक्षं वा ।
प्रत्यक्षमपि लौकिकमहंप्रत्ययो वा, भावनाप्रकर्षपर्यन्तजं वा ।
तत्र श्रावणं न विधेयम्, स्वाध्यायविधिनैवास्य प्रापितत्वात्, कर्मश्रावणवत् ।
नापि लौकिकं प्रत्यक्षम्, तस्य नैसर्गिकत्वात् ।
न चौपनिषदात्मविषयं भावनाधेयवैशद्यं विधेयम्, तस्योपासनाविधानादेव वाजिनवदनुनिष्पादितत्वात् ।
तस्मादौपनिषदात्मोपासना अमृतत्वकामं नियोज्यं प्रति विधीयते ।
ऽद्रष्टव्यःऽ इत्यादयस्तु विधिसरूपा न विधय इति ।
तदिदमुक्तम्- #तदुपासनाच्च#इति ।
अर्थवत्त्या मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो विदजव्याख्यातः ।
तदेकदेशिमतं दूषयति- #अत्राभिधीयते-न#एकदेशिमतम् ।
कुतः? #कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्# ।
पुण्यापुण्यकर्मणोः फले सुखदुःखे ।
तत्र मनुष्यलोकमारभ्य आ ब्रह्मलोकात्सुखस्य तारतम्यमधिकाधिकोत्कर्षः ।
एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् ।
तच्च सर्वं कार्यं च विनाशि च ।
आत्यन्तिकं त्वशरीरत्वमनतिशयं स्वभावसिद्धतया नित्यमकार्यमात्मज्ञानस्य फलम् ।
तद्धि फलमिव फलम्, अविद्यापनयनमात्रेणाविर्भावात् ।
एतदुक्तं भवति- त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य स्वाभाविकी वेदान्तगम्यास्थीयते ।
सा चोपासनाविषयस्य विधेर्न फलम्, नित्यत्वादकार्यत्वात् ।
नाप्यनाद्यविद्यापिधानापनयः, तस्य स्वविरोधिविद्योदयादेव भावात् ।
नापि विद्योदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसो भावात् ।
उपासनासंस्कारवदुपासनापूर्वमपि चेतःसहकारि ; दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा चित्राकारीर्यादिनियोगानामनियतनियतफलानामैहिकफलेति चेत्, न ; गान्धर्वशास्त्रार्थेपासनावासनाया इवापूर्वानपेक्षायाः षट्जादिसाक्षात्कारे वेदान्तार्थोपासनावासनाया जीवस्य ब्रह्मभावसाक्षात्कारे ऽनपेक्षाया एव सामर्थ्यात् ।
तथा चामृतीभावं प्रत्यहेतुत्वादुपासनापूर्वस्य नामृतत्वकामस्तत्कार्यमवबोद्धुमर्हति ।
अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् ।
न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति सांप्रतम् ; तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात् ।
न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतो ऽनवगतेः ।
न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत ।
विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयिष्णुत्वं चेति न नित्यफलत्वमुपासनायाः ।
तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात्, अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव संभवात्, उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात्. ऽआत्मेत्येवोपासीतऽ इति न विधिः ; अपि तु विधिसरूपो ऽयम् ; यथोपांशुयाजवाक्ये ऽविष्णुरुपांशु यष्टव्यःऽ इत्यादयो विधिसरूपा न विधयः-इति तात्पर्यार्थः ।
#श्रुतिस्मृतिन्यायप्रसिद्धम्#इत्युक्तम् ।
तत्र श्रुतिं दर्शयति- #तथा च श्रुतिः#इति ।
न्यायमाह- #अत एव#इति ।
यत्किल स्वाभाविकं तन्नित्यम्, यथा चैतन्यम् ; स्वाभाविकं चेदम् ; तस्मान्नित्यम् ।
परे हि द्वयीं नित्यतामाहुः-कूटस्थनित्यता परिणामिनित्यतां च ।
तत्र नित्यमित्युक्ते मा भूदस्य परिणामिनित्यतेत्याह- #तत्र किञ्चित्#इति ।
परिणामिनित्यता हि न पारमार्थिकी ।
तथा हि-तत्सर्वात्मना वा परिणमते एकदेशेन वा ? सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः ? एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा ? भिन्नश्चेत् कथं तस्य परिणामः ? न ह्यन्यस्मिन् परिणममाने ऽन्यः परिणमति, अतिप्रसङ्गात् ।
अभेदे वा कथं न सर्वात्मना परिणामः ?
भिन्नाभिन्नं तदिति चेत् ; तथा हि-तदेव कारणात्मनाभिन्नम्, भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना ।
न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् ।
विरुद्धमिति नः क्व संप्रत्ययः ? यत्प्रमाणविपर्ययेण वर्तते ।
यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव ।
ऽकुण्डलमिदं सुवर्णम्ऽ इति सामानाधिकरण्यप्रत्यये व्यक्तं भेदाभेदौ चकास्तः ; तथा हि-आत्यन्तिके ऽभेदे ऽन्यतरस्य द्विरवभासप्रसङ्गः ; भेदे चात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् ; आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् ; न हि भवति कुण्डं बदरमिति ; नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति ; सो ऽयमबाधितो ऽसंदिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति ; तथा च कार्याणां कारणात्मत्वात् कारणस्य च सद्रूपस्य सर्वत्रानुगमात्, सद्रूपेणाभेदः कार्यस्य जगतः ; भेदः कार्यरूपेण गोघटादिनेति ; यथाहुःकार्यरूपेण नानात्वमभेदः कारणात्मना ।
हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा ॥
इति ।
अत्रोच्यते-कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् ? परस्पराभाव इति चेत्, किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा ? न चेत्, एकत्वमेवास्ति, न च भेदः ।
अस्ति चेत् भेद एव, नाभेदः ।
न च भावाभावयोरविरोधः, सहावस्थानासंभवात् ।
संभवे वा कटकवर्धमानयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् ।
अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन्, कटकस्य हाटकादभेदात् ।
तथा च हाटकमेव वस्तुसत् न कटकादयः, भेदस्याप्रतिभासनात् ।
अथ हाटकत्वेनैवाभेदो न कटकत्वेन ; तेन तु भेद एव कुण्डलादेः ।
यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते ? नानुवर्तते चेत् कथं हाटकादभिन्नः कटकः ? ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः ।
नानुवर्तन्ते चानुवर्तमाने ऽपि हाटकत्वे कुण्डलादयः ; तस्मात्ते ऽपि हाटकाद्भिन्ना एवेति ।
सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ऽइदमिह नेदम्, इदमेवं नेदम्ऽ इति विभागो न स्यात्, कस्यचित् क्वचित् कदाचित् कथञ्चिद्विवेकहेतोरभावात् ।
अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन्, कनकादभेदात्तेषाम्, तस्य च ज्ञातत्वात् ।
अथ भेदो ऽप्यस्ति कनकात् कुण्डलादीनामिति कनकावगमे ऽप्यज्ञातास्ते ।
नन्वभेदो ऽप्यस्तीति किं न ज्ञाताः ? प्रत्युत ज्ञानमेव तेषां युक्तम् ; कारणाभावे हि कार्यभाव औत्सर्गिकः ; स च कारणसत्तया अपोद्यते ।
अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः ।
तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते ; यथा करभे गृह्यमाणे ऽगृह्यमाणे रासभः करभात् ।
गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः ; तस्मात्ते हेम्नो भिद्यन्ते ।
कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यम् इति चेत्, न ह्याधाराधेयभावे समानाश्रयत्वे वा वा सामानाधिकरण्यमित्युक्तम् ।
अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् ? न खल्वभेदे ऐकान्तिके ऽनैकान्तिके चैतदुभयमुपपद्यते इत्युक्तम् ।
तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेये ऽभेदो पादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् ।
भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात्, एकाभावे चानाश्रयस्य भेदस्यायोगात्, एकत्वस्य च भेदानधीनत्वात्, नायमयं इति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात्, एकत्वग्रहस्य चान्यानपेक्षत्वात्, अभेदोपादानैवानिर्वचनीयभेदकल्पनेति सांप्रतम् ।
तथा च श्रुतिः ऽमृत्तिकेत्येव सत्यम्ऽ इति ।
तस्मात् कूटस्थनित्यतैव पारमार्थिकी. न परिणामिनित्यतेति सिद्धम् ।
#व्योमवत्#इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् ।
अत्र च #कूटस्थनित्यम्#इति निर्वर्त्यकर्मतामपाकरोति ।
#सर्वव्यापि#इति प्राप्यकर्मताम् ।
#सर्वविक्रियारहितम्#इति विकार्यकर्मताम् ।
#निरवयवम्#इति संस्कार्यकर्मताम् ।
व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयो ऽस्ति, अनवयवत्वात् ; अनंशत्वादित्यर्थः ।
पुरुषार्थतामाह- #नित्यतृप्तम्#इति ।
तृप्त्या दुःखरहितं सुखमुपलक्षयति ।
क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः ।
सुखं चाप्रतीयमानं न पुरुषार्थ इत्यत आह-
#स्वयञ्ज्योतिः#इति ।
तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति-
#तद्यदि#इति ।
न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः ।
अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह- #अपि च ब्रह्म वेद#इति ।
अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वम्, न स्वतो ऽपूर्वोत्पादेन वा इत्यत्रापि श्रुतिरुदाहरति- #त्वं हि नः पिता#इति ।
न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह- #तथा चाचार्यप्रणीतम्#इति ।
आचार्यश्चोक्तलक्षणः पुराणे-
आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥
इति ।
तेन हि प्रणीतं सूत्रम्-ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ इति ।
पाठापेक्षया कारणमुत्तरम्, कार्यं च पूर्वम् ; कारणापाये कार्यापायः, कफापाये इव कफोद्भवस्य ज्वरस्यापायः ।
जन्मापाये दःखापायः ; प्रवृत्त्यपाये जन्मापायः ; दोषापाये प्रवृत्त्यपायः ; मिथ्याज्ञानापाये दोषापायः ।
मिथ्याज्ञानं चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् ।
सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते ।
ततो ऽविद्यानिवृत्त्या ब्रह्मस्वरूपाविर्भावो मोक्षः ; न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वा- इति सूत्रार्थः ।
तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण सूत्रोपन्यासः ; न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् ।
तदनेनाचार्यान्तरसंवादेनायमर्थो दृढीकृतः ।
स्यादेतत् ।
नैकत्वविज्ञानं यथावस्थितवस्तुविषयम्, येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् ; अपि तु संपदादिरूपम् ।
तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत् विधिगोचरो भविष्यति; यथा वृत्त्यन्तरत्वेन मनसो विश्वेदेवसाम्याद्विश्वान्देवान्मनसि संपाद्य मन आलम्बनमविद्यमानसमं कृत्वा प्राधान्येन संपाद्यानां विश्वेषामेव देवानामनुचिन्तनम्, तेन चानन्तलोकप्राप्तिः ; एवं चिद्रूपसाम्याज्जीवे ब्रह्मस्वरूपं संपाद्य जीवमालम्बनमविद्यमानसमं कृत्वा प्राधान्येन ब्रह्मानुचिन्तनम्, तेन चामृतत्वफलप्राप्तिः ।
अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपिततद्भावस्यानुचिन्तनम् ; यथा ऽमनो ब्रह्मेत्युपासीतऽ, ऽआदित्यो ब्रह्मेत्यादेशःऽ ; एवं जीवमब्रह्म ऽब्रह्मेत्युपासीतऽ इति ।
क्रियाविशेषयोगाद्वा, यथा ऽवायुर्वाव संवर्गःऽ, ऽप्राणो वाव संवर्गःऽ ; बाह्या खलु वायुदेवता संवर्गः ; बाह्या खलु वायुदेवता संवर्गः ; स हि वह्न्यादीन् संवृङ्क्ते ; महाप्रलयसमये हि वायुर्वह्न्यादीन्संवृत्य संहृत्यात्मनि स्थापयति ।
यथाह द्रविडाचार्यः- ऽसंहरणाद्वा संवरणाद्वा स्वात्मीभावाद्वायुः संवर्गःऽ इति ।
अध्यात्मं च प्राणः संवर्ग इति ; स हि सर्वाणि वागादीनि संवृङ्क्ते ; प्रायणकाले हि स एव सर्वाणीन्द्रियाणि संगृह्योत्क्रामतीति ।
सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिस्मृतत्वाय फलाय कल्पत इति ।
तदेतेषु त्रिष्वपि पक्षेष्वात्मदर्शनोपासनादयः प्रधानकर्माणि, अपूर्वविषयत्वात्, स्तुतशस्त्रवत्; आत्मा तु द्रव्यं कर्मणि गुण इति ।
संस्कारो वात्मनो दर्शनं विधीयते ।
यथा दर्शपूर्णमासप्रकरणे ऽपत्न्यवेक्षितमाज्यं भवतिऽ इति समाम्नातम्, प्रकरणिना च गृहीतमुपांशुयागाङ्गभूताज्यद्रव्यसंस्कारतया, अवेक्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनि ऽआत्मा वा अरे द्रष्टव्यःऽ इति दर्शनं गुणकर्म विधीयते, ऽयैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेतऽ इति न्यायात् ।
अत आह- #न चेदं ब्रह्मात्मैकत्वविज्ञानम्#इति ।
कुतः ? #संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने#इति ।
दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते ।
न च ऽआत्मा वा अरे द्रष्टव्यःऽ इत्यादि कस्यचित्प्रकरणे समाम्नातम् ।
न चानारभ्याधीतमपि ऽयस्य पर्णमयी जुहूर्भवतिऽ इत्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतुशेषभावमापादयति, नैवमात्माप्यव्यभिचारितक्रतुसंबन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् ।
तेन यद्यप्ययं विधिः, तथापि ऽसुवर्णं हिरण्यं भार्यम्ऽ इतिवत् विनियोगभङ्गेन प्रधानकर्मैव, अपूर्वविषयत्वात्, न गुणकर्मेति स्थवीयस्तयैतद्दूषणमनभिधाय सर्वपक्षसाधारणं दूषणमुक्तम् ।
तदतिरोहितार्थतया न व्याख्यातम् ।
किं च ज्ञानक्रियाविषयत्वविधानमस्य बहुश्रुतिविरुद्धमित्याह- #न च विदिक्रिय#इति ।
शङ्कते- #अविषयत्वे#इति ।
ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।
निराकरोति- #न# ।
कुतः? #अविद्याकल्पितभेदनिवृत्तिपरत्वात्#इति ।
सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति ।
न हीक्षुक्षीरगुडादीनां मधुररसभेदः शक्य आख्यातुम् ।
एवमन्यत्रापि सर्वत्र द्रष्टव्यम् ।
तेन प्रमाणान्तरसिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यलौकिके ।
अदूरविप्रकर्षेण तु कथञ्चित्प्रतिपादनमिहापि समानम् ।
त्वंपदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नोतीत्यविद्याविलसितम् ।
तदस्य अविषयीभूतोदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमातृत्वाभावात् तन्निवृत्तौ प्रमाणादयस्तिस्रो विधा निवर्तन्ते ।
न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति ।
तथा हि-
विगलितपराग्वृत्त्यर्थत्वं पदस्य तदस्तदा त्वमिति हि पदनैकार्थत्वे त्वमित्यपि यत्पदम् ।
तदपि च तदा गत्वैकार्थ्यं विशुद्धचिदात्मतां त्यजति सकलान्कर्तृत्वादीन्पदार्थमलान्निजान् ॥
इत्यान्तरश्लोकः ।
अत्रैवार्थे श्रुतीरुदाहरति,- #तथा च शास्त्रम्-यस्यामतम्#इति ।
प्रकृतमुपसंहरति- #अतो ऽविद्याकल्पित#
इति ।
परपक्षे मोक्षस्यानित्यतामापादयति- #यस्य तु#इति ।
कार्यमपूर्वं यागादिव्यापारजन्यम् ; तदपेक्षते मोक्षः स्वोत्पत्ताविति ।
#तयोः पक्षयोः#इति ; निर्वर्त्यविकार्ययोः ।
क्षणिकं विज्ञानमात्मेति बौद्धाः ।
तथा च विशुद्धविज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः ।
अन्येषां तु संस्काररूपावस्थामपहाय या कैवल्यावस्थावाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः ; यथा पयसः पूर्वावस्थापहानेनावस्थान्तरप्राप्तिर्विकारो दधीति ।
तदेतयोः पक्षयोर्न नित्यता मोक्षस्य, कार्यत्वात्, दधिघटादिवत् ।
ऽअथ यदतः परो दिवो ज्योतिर्दीप्यतेऽ इति श्रुतेर्ब्रह्मणो विकृताविकृतदेशभेदावगमादविकृतदेशब्रह्मप्राप्तिस्वरूपासनादिविधिकार्या भविष्यति ; तथा च प्राप्यकर्मता ब्रह्मण इत्यत आह- #न चाप्यत्वेनापि#इति ।
अन्यदन्येन विकृतदेशपरिहाण्याविकृतदेशं प्राप्यते ।
तद्यथोपवेलं जलधिरतिबहलचपलकल्लोलमालापरस्परास्फालनसमुल्लसत्फेनपुञ्जस्तबकतया विकृतः, मध्ये तु प्रशान्तसकलकल्लोलोपसर्गः स्वच्छः स्थिरतयाविकृतः, तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति ।
जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम्? भेदाश्रयात्वात्प्राप्तेरित्यर्थः ।
अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्यप्राप्तत्वादित्याह - #स्वरूपव्यतिरिक्तत्वे ऽपि#इति ।
संस्कारकर्मतामपाकरोति- #नापि संस्कार्य#इति ।
द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः ; तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते ; दोषापनयेन वा ; यथा मलिनमादर्शतलं निघृष्टमिष्टकाचूर्णेनोद्भासितभास्वरत्वं संस्कृतं भवति ।
तत्र न तावद्ब्रह्मणि गुणाधानं संभवति ।
गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा ? स्वभावश्चेत् कथमाधेयः, तस्य नित्यवात् ।
भिन्नत्वे तु कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः ।
न च भेदे धर्मधर्मिभावः, गवाश्ववत् ।
भेदाभेदश्च व्युदस्तः, विरोधात् ।
तदनेनाभिसंधिनोक्तम्- #अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य#इति ।
द्वितीयं पक्षं प्रतिक्षिपति- #नापि दोषापनयनेन#इति ।
अशुद्धिः सती दर्पणे निवर्तते ; न तु ब्रह्मणि असती निवर्तनीया, नित्यनिवृत्तत्वादित्यर्थः ।
शङ्कते- #स्वात्मधर्म एव#इति ।
ब्रह्मस्वभाव एव मोक्षो ऽनाद्यविद्यामलावृत उपासनादिक्रिययात्मनि संस्क्रियमाणे ऽभिव्यज्यते, न तु क्रियते ।
एतदुक्तं भवति- नित्यशुद्धत्वमात्मनो ऽसिद्धम्, संसारावस्थायामविद्यामलिनत्वादिति ।
शङ्कां निराकरोति- #न# ।
कुतः ? #क्रियाश्रयत्वानुपपत्तेः# ।
नाविद्या ब्रह्माश्रया, किं तु जीवे ; सा त्वनिर्वचनीयेत्युक्तम् ; तेन नित्यशुद्धमेव ब्रह्म ।
अभ्युपेत्य त्वशुद्धिं क्रियासंस्कार्यत्वं दूष्यते ।
क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात्, यथा निघर्षणमिष्टकाचूर्णसंयोगविभागप्रचयो निरन्तर आदर्शतलसमवेतः ; अन्यसमवेता वा ।
न तावद्ब्रह्मधर्मः क्रिया, तस्याः स्वाश्रयविकारहेतुत्वेन ब्रह्मणो नित्यत्वव्याघातात् ।
अन्याश्रया तु कथमन्यस्योपकरोति, अतिप्रसङ्गात् ।
न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।
#तच्चानिष्टम्#इति ।
तदा बाधनं परामृशति ।
अत्र व्यभिचारं चोदयति- #ननु देहाश्रयया#इति ।
परिहरति- #न देहसंहतस्य#इति ।
अनाद्यनिर्वाच्याविद्योपधानमेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते ।
स च स्थूलसूक्ष्मशरीरेन्द्रियादिसंहतस्तत्संघातमध्यपतितस्तदभेदेनाहमितिप्रत्ययविषयीभूतः ; अतः शरीरादिसंस्कारः शरीरादिधर्मो ऽप्यात्मनो भवति, तदभेदाध्यवसायात् ; यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते ।
तेनात्रापि यदाश्रिता क्रिया सांव्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः ।
तत्त्वतस्तु न क्रिया न संस्कार इति ।
सनिदर्शनं तु शेषमध्यासभाष्ये एव कृतव्याख्यानमिति नेह व्याख्यातम् ।
#तयोरन्यः पिप्पलम्#इति ।
अन्यो जीवात्मा ।
पिप्पलं कर्मफलम् ।
#अनश्नन्नन्य#इति ।
परमात्मा ।
संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णः- #आत्मेन्द्रिय#इति ।
अनुपहितशुद्धस्वभावब्रह्मप्रदर्शनपरौ मन्त्रौ पठति- #एको देव#इति ।
शुक्रं दीप्तिमत् ; अव्रणं दुःखरहितम् ; अस्राविरं अविगलितम्, अविनाशीति यावत् ।
उपसंहरति- #तस्मात्#इति ।
ननु मा भून्निर्वर्त्यादिकर्मताचतुष्टयी ; पञ्चमी तु काचित् विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आह- #अतो ऽन्यत्#इति ।
एभ्यः प्रकारेभ्यो न प्रकारान्तरमन्यदस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।
एतदुक्तं भवति- चतसृणां विधानां मध्ये ऽन्यतमतया क्रियाफलत्वं व्याप्तम् ; सा च मोक्षाद्व्यावर्तमाना व्यापकानुपलब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति ।
तत्किं मोक्षे क्रियैव नास्ति ? तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो ऽनर्थकानीत्यत उपसंहारव्याजेनाह- #तस्माज्ज्ञानमेकम्#इति ।
अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः ? कस्माच्च तस्याः फलं निर्वर्त्यादिष्वन्यतमं न मोक्षः ? इति चोदयति- #ननु ज्ञानम्#इति ।
परिहरति- #न# ।
कुतः ? #वैलक्षण्यात्# ।
अयमर्थः-सत्यम्, ज्ञानं मानसी क्रिया ; त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयंप्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् ।
तदेतस्मिन्वैलक्षण्ये स्थिते एव वैलक्षण्यान्तरमाह- #क्रिया हि नाम सा#इति ।
#यत्र#विषये #वस्तुस्वरूपनिरपेक्षैव चोद्यते#- यथा देवतासंप्रदानकहविर्ग्रहणे देवतावस्तुस्वरूपानपेक्षा देवताध्यानक्रिया ; यथा वा योषिति अग्निवस्त्वनपेक्षाग्निबुद्धिः- #या सा क्रिया हि नाम#इति योजना ।
न हि ऽयस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्ऽ इत्यस्माद्विधेः प्राग्देवताध्यानं प्राप्तम् ।
प्राप्तं त्वधीतवेदान्तस्य विदितपदतदर्थसंबन्धस्याधिगतशब्दन्यायतत्त्वस्य ऽसदेव सोम्येदम्ऽ इत्यादेः ऽतत्त्वमसिऽ इत्यन्तात्संदर्भात् ब्रह्मात्मभावज्ञानम्, शब्दप्रमाणसामर्थ्यात्, इन्द्रियार्थसंनिकर्षसामर्थ्यादिव प्रणिहितमनसः स्फीतालोकमध्यवर्तिकुम्भानुभवः ।
न ह्यसौ स्वसामग्रीबललब्धजन्मा मनुजेच्छयान्यथाकर्तुमकर्तुं वा शक्यः, देवताध्यानवत्, येनार्थवानत्र विधिः स्यात् ।
न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयोरन्वयव्यतिरेकावधृतसामर्थ्ययोः साक्षात्कारे वा अनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्छयान्यथाकर्तुमकर्तुं वा अशक्यत्वात् ।
तस्माद्ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः ।
पुरुषचित्तव्यापाराधीनायास्तु क्रियाया वस्तुस्वरूपनिरपेक्षिता क्वचिदविरोधिनी, यथा देवताध्यानक्रियायाः ; न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः ; क्वचिद्वस्तुस्वरूपविरोधिनी, यथा योषित्पुरुषयोरग्निबुद्धिः-इत्येतावता भेदेन निदर्शनामिथुनद्वयोपन्यासः ।
#क्रियैव#इत्येवकारेण वस्तुतन्त्रत्वमपाकरोति ।
ननु ऽआत्मेत्येवोपासीतऽ इत्यादयो विधयः श्रूयन्ते ।
न च ते प्रमत्तगीताः ; तुल्यं हि सांप्रदायिकम् ; तस्माद्विधेयेनात्र भवितव्यमित्यत आह- #तद्विषये लिङ्गादय#इति ।
सत्यं श्रूयन्ते लिङ्गादयः ; न त्वमी विधिविषयाः, तद्विषयत्वे ऽप्रामाण्यप्रसङ्गात् ।
हेयोपादेयविषयो हि विधिः ।
स एव च हेय उपादेयो वा, यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तुं शक्नोति ।
तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति ।
न चैवंभूतान्यात्मश्रवणमननोपासनदर्शनानीति विषयतदनुष्ठात्रोर्विधिव्यापकयोरभावाद्विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठमप्रमाणीभवन्तीति ।
#अनियोज्यविषयत्वात्#इति ; समर्थो हि कर्ताधिकारी नियोज्यः ; असामर्थ्ये तु न कर्तृता ; ततो नाधिकृतः, अतो न नियोज्य इत्यर्थः ।
यदि विरोधाभान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छति- #किमर्थानि#इति ।
न चानर्थकानि युक्तानि, स्वाध्यायविध्यधीनग्रहणत्वानुपपत्तेरिति भावः ।
उत्तरम्- #स्वाभाविक#इति ।
अन्यतः प्राप्ता एव हि श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते ।
न चानुवादो ऽप्यप्रयोजनः, प्रवृत्तिविशेषकरत्वात् ।
तथाहि- तत्तदिष्टानिष्टविषयेप्साजिहासापहृतहृदयतया बहिर्मुखो न प्रत्यगात्मनि मनः समाधातुमर्हति ।
आत्मश्रवणादिविधिसरूपैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्यगात्मस्रोत उद्घाट्यत इति प्रवृत्तिविशेषकरता अनुवादानामस्तीति सप्रयोजनतया स्वाध्यायविध्यधीनग्रहणत्वमुपपद्यत इति ।
यच्च चोदितमात्मज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थ इति तदयुक्तम् ; स्वतो ऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तद्भूषणं न दूषणमित्याह- #यदपि#इति ।
#अनुसंज्वरेत्#शरीरं तप्यमानमनुतप्येत ।
सुगममन्यत् ।
प्रकृतमुपसंहरति- #तस्मान्न प्रतिपत्ति#इति ।
प्रकृतिसिद्ध्यर्थमेकदेशिमतं दूषयितुमनुभाषते- #यदपि केचिदाहुः#इति ।
दूषयति- #तन्न#इति ।
इदमत्राकूतम्-
कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा ।
सिद्धबोधेर्ऽथवत्तैवं शास्त्रत्वं हितशासनात् ॥
यदि हि पदानां कार्याभिधाने तदर्थस्वार्थाभिधाने वा नियमेन वृद्धव्यवहारे सामर्थ्यमबधृतं भवेत्, न भवेदहेयानुपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् ; तत्राविदितसामर्थ्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः ।
अथ तु भूते ऽप्यर्थे पदानां लोके शक्यः संगतिग्रहः, तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपह्नुत्य न कार्यपरत्वं शक्यं कल्पयितुम्, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् ।
तत्र तावदेवमकार्येर्ऽथे न संगतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येते ।
न तावत्तत्परः प्रयोगो न दृश्यते लोके,
कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसंदर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः ।
तद्यथा- आखण्डलादिलोकपालचक्रवालाधिवसतिः सिद्धविद्याधरगन्धर्वाप्सरःपरिवारो ब्रह्मलोकावतीर्णमन्दाकिनीपाथःप्रवाहप्रपातधौतकलधौतमयशिलातलो नन्दनादिप्रमदावनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुरिति ; नैष भुजङ्गो रज्जुरियमित्यादिः ।
नापि भूतार्थबुद्धिर्व्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुम्, हर्षादेरुन्नयनहोतोः संभवात् ।
तथा हि- अविदितार्यजनभाषार्थो द्रविडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मा वार्त्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः पटवासोपायनार्पणपुरःसरं ऽदिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातःऽ इति वार्त्ताहारव्याहारश्रवणसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकसितनयनोत्पलमतिस्मेरमुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते ; प्रमोदस्य च प्रागभूतस्य तद्व्याहारश्रवणसमनन्तरं प्रभवतस्तद्धेतुताम् ; न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते ; हर्षहेत्वन्तरस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात्तदेव वार्त्ताहारेणाभ्यधायीति निश्चिनोति ।
एवं भयशोकादयो ऽप्युदाहार्याः ।
तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगो ऽप्युपपन्नः ।
एवं च ब्रह्मस्वरूपज्ञानस्य परमपुरुषार्थहेतुभावादनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ती वेदान्तानां पुरुषहितानुशासनाच्छास्त्रत्वं सिद्धं भवति ।
तत्सिद्धमेतत्- विवादाध्यासितानि वचनानि भूतार्थविषयाणि, भूतार्थविषयप्रमाजनकत्वात् ; यद्यद्विषयप्रमाजनकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि ; तथा चैतानि ; तस्मात्तथेति ।
तस्मात्सुष्ठूक्तम्- #तन्न; औपनिषदस्य पुरुषस्यानन्यशेषत्वात्#इति ।
उपनिपूर्वात्सदेर्विशरणार्थात्क्विप्युपनिषत्पदं व्युत्पादितम्, उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह ; तद्धेतुत्वाद्वेदान्ता अप्युपनिषदः ; ततो विदितः औपनिषदः पुरुषः ।
एतदेव विभजते- #यो ऽसावुपनिषत्स्वेव#इति ।
अहंप्रत्ययविषयाद्भिनत्ति- #असंसारी#इति ।
अत एव क्रियारहितत्वाच्चतुर्विधद्रव्यविलक्षणः ।
अतश्च चतुर्विधद्रव्यविलक्षणो यदन्यशेषः ।
अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदुत्पत्त्याद्याप्यं संभवति, यथा ऽयूपं तक्षतिऽ इत्यादि ।
यत्पुनरन्यशेषं भूतभाव्युपयोगरहितम्, यथा ऽसुवर्णं भार्यम्ऽ, ऽसक्तून् जुहोतिऽ इत्यादि, न तस्योत्पत्त्याद्याप्यता ।
कस्मात्पुनरस्यानन्यशेषतेत्यत आह- यतः #स्वप्रकरणस्थः# ।
उपनिषदामनारभ्याधीतानां पौर्वापर्यपर्यालोचनया पुरुषप्रतिपादनपरत्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् ।
न च जुह्वादिवदव्यभिचरितक्रतुसंबन्धः पुरुष इत्युपपादितम् ।
अतः स्वप्रकरणस्थः सो ऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।
स्यादेतत् ।
मानान्तरोगोचरत्वेनागृहीतसंगतितया अपदार्थस्य ब्रह्मणो वाक्यार्थत्वानुपपत्तेः कथमुपनिषदर्थतेत्यत आह- #स एष नेति नेत्यात्मेत्यात्मशब्दात्# ।
यद्यपि गवादिवन्मानान्तरगोचरत्वमात्मनो नास्ति, तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन निरूपणम्, हाटकस्येव कटककुण्डलादिपरिहाण्या ।
न हि प्रकाशः स्वसंवेदनो न भासते ; नापि तदवच्छेदकः कार्यकरणसंघातः ।
तेन ऽस एन नेति नेत्यात्माऽ इति तत्तदवच्छेदपरिहाण्या बृहत्त्वादापनाच्च स्वयंप्रकाशः शक्यो वाक्यात् ब्रह्मेति चात्मेति च निरूपयितुमित्यर्थः ।
अथोपाधिनिरासवदुपहितमप्यात्मरूपं कस्मान्न निरस्यत इत्यत आह- #आत्मनश्च प्रत्याख्यातुमशक्यत्वात्# ।
प्रकाशो हि सर्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविभ्रमस्य ।
न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति ; न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः ।
अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा ।
तथा च श्रुतिः ऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभातिऽ इति ।
न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता ।
तस्मादात्मनः प्रत्याख्यानायोगाद्वेदान्तेभ्यः प्रमाणान्तरागोचरसर्वोपाधिरहितब्रह्मस्वरूपावगतिसिद्धिरित्यर्थः ।
उपनिषत्स्वेवावगत इत्यवधारणममृष्यमाण आक्षिपति- #नन्वात्मा#इति ।
सर्वजनीनाहंप्रत्ययविषयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकिकपरीक्षकाणामात्मपदप्रयोगात् ।
य एव लौकिकाः शब्दाः, ते एव वैदिकाः,
ते एव च तेषामर्था इत्यौपनिषदमप्यात्मपदं तत्रैव प्रवर्तितुमर्हति, नार्थान्तरे तद्विपरीते इत्यर्थः ।
समाधत्ते- #न#अहंप्रत्ययविषय औपनिषदः पुरुषः ।
कुतः ? #तत्साक्षित्वेन#-अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मा-तत् साक्षित्वेन, परमात्मनो ऽहंप्रत्ययविषयत्वस्य #प्रत्युक्तत्वात्# ।
एतदुक्तं भवति- यद्यपि ऽअनेन जीवेनात्मनाऽ इति जीवपरमात्मनोः पारमार्थिकमैक्यम्, तथापि तस्योपहितं रूपं जीवः ; शुद्धं तु रूपं तस्य साक्षि ; तच्च मानान्तरानधिगतमुपनिषद्गोचर इति ।
एतदेव प्रपञ्चयति- #न ह्यहंप्रत्ययविषय#इति ।
#विधिशेषत्वं वा नेतुं#न शक्यः ।
कुतः ? #आत्मत्वादेव# ।
न ह्यात्मा अन्यार्थः, अन्यत्तु सर्वमात्मार्थम् ।
तथा च श्रुतिः ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवतिऽ इति ।
अपि चातः सर्वेषामात्मत्वादेव न हेयो नाप्युपादेयः ।
सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा ; न च स्वभावो हेयः, अशक्यहानत्वात् ; न चोपादेयः, उपात्तत्वात् ।
तस्माद्धेयोपादेयविषयौ विधिनिषेधौ न तद्विपरीतमात्मतत्त्वं विषयीकुरुत इति सर्वस्य प्रपञ्चजातस्यात्मैव तत्त्वमिति ।
एतदुपपादयति- #सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति# ।
अयमर्थः- पुरुषो हि श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायव्यवस्थापितत्वात्परमार्थसन् ; प्रपञ्चस्त्वनाद्यविद्योपदर्शितो ऽपरमार्थसन् ।
यश्च परमार्थासन् असौ प्रकृतिः रज्जुतत्त्वमिव सर्वविभ्रमस्य विकारस्य ।
अत एवास्यानिर्वाच्यत्वेनादृढस्वभावस्य विनाशः ।
पुरुषस्तु परमार्थसन् ; नासौ कारणसहस्रेणाप्यसन् शक्यः कर्तुम् ।
न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् ।
तस्मादविनाशिपुरुषान्तो विकारविनाशः शुक्तिरज्जुतत्त्वान्त इव रजतभुजङ्गविनाशः ।
पुरुष एव हि सर्वस्य प्रपञ्चविकारजातस्य तत्त्वम् ।
न च पुरुषस्यास्ति विनाशो यतो ऽनन्तः ।
विनाशः स्यादित्यत आह- #पुरुषो हि विनाशहेत्वभावात्#इति ।
न हि कारणानि सहस्रमप्यन्यदन्यथयितुमीशत इत्युक्तम् ।
अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा ; तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चिच्चोपादास्यत इत्यत आह- #विक्रियाहेत्वभावाच्च कूटस्थनित्यः# ।
त्रिविधो ऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् ।
अपि चात्मनः परमार्थसतो धर्मो ऽपि परमार्थसन्निति न तस्यात्मवदन्यथात्वं कारणैः शक्यं कर्तुम् ।
न च धर्मान्यथात्वादन्यो विकारः ।
तदिदमुक्तम्- #विक्रियाहोत्वभावात्#इति ।
सुगममन्यत् ।
यत्पुनरेकदेशिना शास्त्रविद्वचनं साक्षित्वेनानुक्रान्तं तदन्यथोपपादयति- #यदपि शास्त्रतात्पर्यविदामनुक्रमाणम्#इति ।
ऽदृष्टो हि तस्यार्थः प्रयोजनवदर्थावबोधनम्ऽ इति वक्तव्ये, धर्मजिज्ञासायाः प्रकृतत्वाद्धर्मस्य च कर्मत्वात् ऽकर्मावबोधनम्ऽ इत्युक्तम् ।
न तु सिद्धरूपब्रह्मावबोधनव्यापारं वेदस्य वारयति ।
न हि सोमशर्मणि प्रकृते तद्गुणाभिधानं परिसंचष्टे विष्णुशर्मणो गुणवत्ताम् ।
विधिशास्त्रं विधीयमानकर्मविषयम् ; प्रतिषेधशास्त्रं च प्रतिषिध्यमानकर्मविषयमित्युभयमपि कर्मावबोधनपरम् ।
अपि च ऽआम्नायस्य क्रियार्थत्वात्ऽ इति शास्त्रकृद्वचनम् ।
तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्यगुणकर्मणामानर्थक्यमनभिधेयत्वं प्रसज्येत ; न हि ते क्रियार्था इत्यत आह- #अपि चाम्नायस्य#इति ।
यद्युच्येत- न हि क्रियार्थत्वं क्रियाभिधेयत्वम्, अपि तु क्रियाप्रयोजनत्वम् ; द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम्, न स्वनिष्ठतया ।
यथाहुः शास्त्रविदः ऽचोदना हि भूतं भवन्तम्ऽ इत्यादि ।
एतदुक्तं भवति, कार्यमर्थमवगमयन्ती चोदना तदर्थं भूतादिकमप्यर्थं गमयतीति-तत्राह- #प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेत्#इति ।
अयमभिसंधिः-न तावत्कार्यार्था एव स्वार्थे पदानां संगतिग्रहो नान्यार्थ इत्युपपादितं भूते ऽप्यर्थे व्युत्पत्तिं दर्शयद्भिः ।
नापि स्वार्थमात्रपरतैव पदानाम् ।
तथा सति न वाक्यार्थप्रत्ययः स्यात् ।
न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा ।
तस्मात्पदानां स्वार्थमभिदधतामेकप्रयोजनवत्पदार्थपरतयैकवाक्यता ।
तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति ।
यथाहुः शास्त्रविदः-
साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
इति ।
तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययोपपत्तौ न कार्यसंसर्गपरत्वनियमः पदानाम् ।
एवं च सति कूटस्थनित्यब्रह्मरूपपरत्वे ऽप्यदोष इति ।
भव्यं कार्यम् ।
ननु यद्भव्यार्थं भूतमुपदिश्यते न तद्भूतम्, भव्यसंसर्गिणा रूपेण तस्यापि भव्यत्वादित्यत आह- #न हि भूतमुपदिश्यमानम्#इति ।
न तादात्म्यलक्षणः संसर्गः ; किं तु कार्येण सह प्रयोजनप्रयोदनिलक्षणो ऽन्वयः ।
तद्विषयेण तु भावार्थेन भूतार्थानां क्रियात्मत्वमित्यर्थः ।
शङ्कते- #अक्रियात्वे ऽपि#इति ।
एवं चाक्रियार्थकूटस्थनित्यब्रह्मोपदेशानुपपत्तिरिति भावः ।
परिहरति- #नैष दोषः ; क्रियार्थत्वे ऽपि#इति ।
न हि क्रियार्थं भूतमुपदिश्यमानमभूतं भवति, अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् ।
तथा च भूतेर्ऽथे ऽवधृतशक्तयः शब्दाः क्वचित्स्वनिष्ठभूतविषया दृश्यमाना मृत्वा शीर्त्वा वा न कथञ्चित्क्रियानिष्ठतां गमयितुमुचिताः ।
न ह्युपहितं शतशो दृष्टमप्यनुपहितं क्वचिद्दृष्टमदृष्टं भवति ।
तथा च वर्तमानापदेशा अस्तिक्रियोपहिता अकार्यार्था अप्यटवीवर्णकादयो लोके बहुलमुपलभ्यन्ते ।
एवं क्रियानिष्ठा अपि संबन्धमात्रपर्यवसायिनः ; यथा"कस्यैव पुरुषः"इति प्रश्ने उत्तरं"राज्ञः"इति ।
तथा प्रातिपदिकार्थमात्रनिष्ठाः ; यथा"कीदृशास्तरवः"इति प्रश्ने उत्तरं"फलिनः"इति ।
न हि पृच्छता पुरुषस्य वा तरूणां वास्तित्वनास्तित्वे प्रतिपित्सिते ; किं तु पुरुषस्य स्वामिभेदस्तरूणां च प्रकारभेदः ।
प्रष्टुरपेक्षितं चाचक्षाणः स्वामिभेदमेव प्रकारभेदमेव च प्रतिव्यक्ति, न पुनरस्तित्वम्, तस्य तेनाप्रतिपित्सितत्वात् ।
उपपादिता च भूते ऽप्यर्थे व्युत्पत्तिः प्रयोजनवति पदानाम् ।
चोदयति- #यदि नामोपदिष्टं#भूतङ् #किं तव,#उपदेष्टुः श्रोतुर्वा प्रयोजनं #स्यात्#? तस्माद्भूतमपि प्रयोजनवदेवोपदेष्टव्यं नाप्रयोजनम् ; अप्रयोजनं च ब्रह्म, तस्योदासीनस्य सर्वक्रियारहितत्वेनानुपकारकत्वात् इति भावः ।
परिहरति- #उच्यत#इति ।
#अनवगतात्मवस्तूपदेशश्च तथैव#प्रयोजनवानेव #भवितुमर्हति# ।
अप्यर्थश्चकारः ।
एतदुक्तं भवति-यद्यपि ब्रह्मोदासीनम्, तथापि तद्विषयं शाब्दज्ञानमवगतिपर्यन्तं विद्या स्वविरोधिनीं संसारमूलनिदानमविद्यामुच्छिन्दत्प्रयोजनवदित्यर्थः ।
अपि च ये ऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि ऽब्राह्मणो न हन्तव्यःऽ, ऽन सुरा पातव्याऽ इत्यादीनां न कार्यपरता शक्या आस्थातुम् ।
कृत्युपहितमर्यादं हि कार्यं कृत्या व्याप्तं तन्निवृत्तौ निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्तौ ।
कृतिर्हि पुरुषप्रयत्नः ; स च विषयाधीननिरूपणः ।
विषयश्चास्य साध्यस्वभावतया भावार्थ एव पूर्वापरीभूतो ऽन्योत्पादानुकूलो भवितुमर्हति, न द्रव्यगुणौ ।
साक्षात्कृतिव्याप्यो हि कृतेर्विषयः ; न च द्रव्यगुणयोः सिद्धयोरस्ति कृतिव्याप्यता ।
अत एव शास्त्रकृद्वचः- ऽभावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतऽ इति ।
द्रव्यगुणशब्दानां नैमित्तिकावस्थायां कार्यावमर्शे ऽपि, भावस्य स्वतः द्रव्यगुणशब्दानां तु भावयोगात्कार्यावमर्श इति भावार्थेभ्य एवापूर्वावगतिः, न द्रव्यगुणशब्देभ्य इति ।
न च ऽदध्ना जुहोतिऽ, ऽसंततमाघारयतिऽ इत्यादिषु दध्यादीनां कार्यविषयता ; तत्रापि हि होमघारभावार्थविषयमेव कार्यम् ।
न चैतावता ऽसोमेन यजेतऽ इतिवत् दधिसांतत्यादिविशिष्टहोमाघारविधानात्, ऽअग्निहोत्रं जुहोतिऽ, ऽआघारमाघारयतिऽ इति तदनुवादः ।
यद्यप्यत्रापि भावार्थविषयमेव कार्यम्, तथापि भावार्थानुबन्धतया द्रव्यगुणावविषयावपि विधीयेते ।
भावार्थो हि कारकव्यापारमात्रतयाविशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यत इति द्रव्यादिस्तदनुबन्धः ।
तथा च भावार्थे विधीयमाने स एव सानुबन्धो विधीयत इति द्रव्यगुणावविषयावपि तदनुबन्धतया विहितौ भवतः ।
एवं च भावार्थप्रणालिकया द्रव्यादिसंक्रान्तो विधिर्गौरवाद्बिभ्यत्स्वविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्रव्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः ।
एतेन ऽयदाग्नेयो ऽष्टाकपालो भवतिऽ इत्यत्र संबन्धविषयो विधिरिति परास्तम् ।
ननु न भवत्यर्थो विधेयः ; सिद्धे भवितरि लब्धरूपस्य भवनं प्रत्यकर्तृत्वात् ; न खलु गगनं भवति ; नाप्यसिद्धे, असिद्धस्यानियोज्यत्वात्, गगनकुसुमवत् ; तस्माद्भवनेन प्रयोज्यव्यापारेणाक्षिप्तः प्रयोजकस्य भावयितुर्व्यापारो विधेयः ; स च व्यापारो भावना, कृतिः, प्रयत्न इति ; निर्विषयश्चासावशक्यप्रतिपत्तिः ; अतो विषयापेक्षायामाग्नेयशब्दोपस्थापितो द्रव्यदेवतासंबन्ध एवास्य विषयः ।
ननु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं संबन्धं गोचरयेत् ? न हि ऽघटं कुरुऽ इत्यत्रापि साक्षान्नामार्थं घटं पुरुषप्रयत्नो गोचरयति ; अपि तु दण्डादि हस्तादिना व्यापारयति ।
तस्माद्घटार्थां कृतिं व्यापारविषयामेव प्रतिपद्यते, न तु स्वरूपतो घटविषयाम् ।
उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया ।
विषयतया तु हस्तादिव्यापार एव ।
अत एव ऽआग्नेयःऽ इत्यत्रापि द्रव्यदेवतासंबन्धाक्षिप्तो यजिरेव कार्यविषयो विधेयः ।
किमुक्तं भवति"आग्नेयो भवति"इति ? आग्नेयेन यागेन भावयेदिति ।
अत एव ऽय एवं विद्वान् पौर्णमास्यां यजतेऽ, ऽय एवं विद्वानमावास्यां यजतेऽ इत्यनुवादो भवति ऽयदाग्नेयःऽ इत्यादिविहितस्य यागषट्कस्य ।
अत एव च विहितानूदितस्य तस्यैव ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्याधिकारसंबन्धः ।
तस्मात्सर्वत्र कृतिप्रणालिकया भावार्थविषय एव विधिरित्येकान्तः ।
तथा च ऽन हन्यात्ऽ, ऽन पिबेत्ऽ इत्यादिषु यदि कार्यमभ्युपेयेत, ततस्तद्व्यापिका कृतिरभ्युपेतव्या, तद्व्यापकश्च भावार्थो विषयः ।
एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्याहननापानसंकल्पलक्षणया तद्विषयो विधिः स्यात् ।
तथा च प्रसज्यप्रतिषेधो दत्तजलाञ्जलिः प्रसज्येत ।
न च सति संभवे लक्षणा न्याय्या ।
ऽनेक्षेतोद्यन्तम्ऽ इत्यादौ तु ऽतस्य व्रतम्ऽ इत्यधिकारात्प्रसज्यप्रतिषेधासंभवेन पर्युदासवृत्त्यानीक्षणसंकल्पलक्षणा युक्ता ।
तस्मात् ऽन हन्यात्ऽ, ऽन पिबेत्ऽ इत्यादिषु प्रसज्यप्रतिषेधेषु भावार्थाभावात्तद्व्याप्तायाः कृतेरभावः ; तदभावे च तद्व्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वत्र वाक्ये इत्याह- #ब्रह्मणो न हन्तव्य इत्येवमाद्या#इति ।
ननु कस्मान्निवृत्तिरेव कार्यं न भवति, तत्साधनं वेत्यत आह- #न च सा क्रिया#इति ।
क्रियाशब्दः कार्यवचनः ।
एतदेव विभजते- #अक्रियार्थानाम्#इति ।
स्यादेतत् ।
विधिविभक्तिश्रवणात्कार्यं तावदत्र प्रतीयते ; तच्च न भावार्थमन्तरेण ; न च रागतः प्रवृत्तस्य हननपानादावकस्मादौदासीन्यमुपपद्यते विना विधारकप्रयत्नम् ; तस्मात्स एव प्रवृत्त्युन्मुखानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीति आह- #न च हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम्# ।
केन हेतुना न शक्यमित्यत आह- #स्वभावप्राप्तहन्त्यर्थानुरागेण#नञः ।
अयमर्थः- हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्ते इत्युत्सर्गः ।
न चैते शक्ये विधातुम्, रागतः प्राप्तत्वात् ।
न चात्र नञः प्रसज्यप्रतिषेधो विधेयः. तस्याप्यौदासीन्यरूपस्य सिद्धतया प्राप्तत्वात् ।
न च विधारकः प्रयत्नः, तस्याश्रुतत्वेन लक्ष्यमाणत्वात्, सति संभवे च लक्षणाया अन्याय्यत्वात्, विधिविभक्तेश्च रागतः प्राप्तप्रवृत्त्यनुवादकत्वेन विधिविषयत्वायोगात् ।
तस्माद्यत्पिबेद्धन्याद्वेत्यनूद्य तन्नेति निषिध्यते, तदभावो ज्ञाप्यते ; न तु नञर्थो विधीयते ।
अभावश्च स्वविरोधिभावनिरूपणतया भावच्छायानुपातीति सिद्धे सिद्धवत्, साध्ये च साध्यवद्भासत इति साध्यविषयो नञर्थः साध्यवद्भासत इति नञर्थः कार्य इति भ्रमः ।
तदिदमाह- #नञश्चैष स्वभाव#इति ।
ननु बोधयतु स्वसंबन्धिनो ऽभावं नञ् ; प्रवृत्त्युन्मुखानां तु मनोवाग्देहानां कुतो ऽकस्मान्निवृत्तिरित्यत आह- #अभावबुद्धिश्चौदासीन्य#परिपालन #कारणम्# ।
अयमभिप्रायः- ऽज्वरितः पथ्यमश्नीयात्ऽ, ऽन सर्पायाङ्गुलिं दद्यात्ऽ
इत्यादिवचनश्रवणसमनन्तरं प्रयोज्यवृद्धस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गुलिदानोन्मुखस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयोज्यवृद्धस्य प्रवृत्तिनिवृत्तिहेतू इच्छाद्वेषावनुमिमीते ।
तथा हि- इच्छाद्वेषहेतुके वृद्धस्य प्रवृत्तिनिवृत्ती, स्वतन्त्रप्रवृत्तिनिवृत्तित्वात्, मदीयस्वतन्त्रप्रवृत्तिनिवृत्तिवत् ।
कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वकौ चास्येच्छाद्वेषौ, प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषत्वात्, मत्प्रवृत्तिहेतुभूतेच्छाद्वेषवत् ।
न जातु मम शब्दतद्व्यापारपुरुषाशयत्रैकाल्यानविच्छन्नभावनापूर्वप्रत्ययपूर्वाविच्छाद्वेषावभूताम् ; अपि तु भूयो भूयः स्वगतमालोचयत उक्तकारणपूर्वावेव प्रत्यवभासेते ।
तस्माद्वृद्धस्य स्वतन्त्रप्रवृत्तिनिवृत्ती इच्छाद्वेषभेदौ च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वावित्यानुपूर्व्या सिद्धः कार्यकारणाभाव इतीष्टानिष्टसाधनतावगमात्प्रयोज्यवृद्धप्रवृत्तिनिवृत्ती इति सिद्धम् ।
स चावगमः प्रागभूतः शब्दश्रवणानन्तरमुपजायमानः शब्दश्रवणहेतुक इति प्रवर्तकेषु वाक्येषु ऽयजेतऽ इत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंस्तस्येष्टसाधनतां कर्तव्यतां चावगमयति ; अनन्यलभ्यत्वादुभयोः, अनन्त्यलभ्यस्य च शब्दार्थत्वात् ।
यत्र तु कर्तव्यतान्यत एव लभ्यते, यथा ऽहन्यात्ऽ, ऽन पिबेत्ऽ इत्यादिषु, हननपानप्रवृत्त्यो रागतः प्रतिलम्भात्, तत्र तदनुवादेन नञ्समभिव्याहृता लिङादिविभक्तिरन्यतो ऽप्राप्तमनयोरनर्थहेतुभावमात्रमवगमयति ।
प्रत्यक्षं हि तयोरिष्टसाधनभावो ऽवगम्यते, अन्यथा रागविषयत्वायोगात् ।
तस्माद्रागादिप्राप्तकर्तव्यतानुवादेनानर्थसाधनताप्रज्ञापनपरम् ऽन हन्यात्ऽ, ऽन पिबेत्ऽ इत्यादिवाक्यम्, न तु कर्तव्यतापरमिति सुष्ठूक्तमकार्यनिष्ठत्वं निषेधानाम् ।
निषेध्यानां चानर्थसाधनताबुद्धिरेव निषेध्याभावबुद्धिः ।
तया खल्वयं चेतन आपाततो रमणीयतां पश्यन्नप्यायतिमालोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते ।
औदासीन्यमात्मनो ऽवस्थापयतीति यावत् ।
स्यादेतत् ।
अभावबुद्धिश्चेदौदासीन्यस्थापनाकारणम्, यावदौदासीन्यमनुवर्तेत ; न चानुवर्तते ; न ह्युदासीनो ऽपि विषयान्तरव्यासक्तचित्तस्तदभावबुद्धिमान् ; न चावस्थापककारणाभावे कार्यावस्थानं दृष्टम् ; न हि स्तम्भावपाते प्रासादो ऽवतिष्ठते ।
अत आह- #सा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति# ।
तावदेव खल्वयं प्रवृत्त्युन्मुखो न यावदस्यानर्थहेतुभावमधिगच्छति ।
अनर्थहेतुत्वाधिगमो ऽस्य समूलोद्धारं प्रवृत्तिमुद्धृत्य दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति ।
एतदुक्तं भवति- यथा प्रासादावस्थानकारणं स्तम्भो नैवमौदासीन्यावस्थानकारणमभावबुद्धिः ; अपि त्वागन्तुकाद्विनाशहेतोस्त्राणेनावस्थानकारणम्, यथा कमठपृष्ठनिष्ठुरः कवचः शास्त्रप्रहारत्राणेन राजन्यजीवावस्थानहेतुः ।
न च कवचापगमे च असति च शस्त्रप्रहारे, राजन्यजीवनाश इति ।
उपसंहरति- #तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव#इति ।
औदासीन्यमजानतो ऽप्यस्तीति प्रसक्तक्रियानिवृत्त्योपलक्ष्य विशिनष्टि ।
तत्किमक्रियार्थत्वेनानर्थक्यमाशङ्क्य क्रियार्थत्वोपवर्णनं जैमिनीयमसमञ्जसमेवेत्युपसंहारव्याजेन परिहरति- #तस्मात्पुरुषार्थ#इति ।
पुरुषार्थानुपयोग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपक्षौ ; न तूपनिषद्विषयौ, उपनिषदां स्वयं पुरुषार्थरूपब्रह्मावगतमपर्यनसानादित्यर्थः ।
#यदपि#औपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेन #उक्तम्-कर्तव्यविध्यनुप्रवेशमन्तरेण#इति, अत्र निगूढाभिसंधिः पूर्वोक्तं परिहारं स्मारयति- #तत्परिहृतम्#इति ।
अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति- #ननु श्रुतब्रह्मणो ऽपि#इति ।
निगूढमभिसंधिं समाधातोद्घाटयति- #अत्रोच्यते-नावगतब्रह्मात्मभावस्य#इति ।
सत्यं न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम्, अपि तु साक्षात्कारपर्यन्तम् ।
ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः ।
स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् ।
तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।
अत्र च वेदप्रमाणमूलतया #वेदप्रमाणजनित#इत्युक्तम् ।
अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाह- #न हि धनिन#इति ।
श्रुतिमत्रोदाहरति- #तदुक्तम्#इति ।
चोदयति- #शरीरे पतिते#इति ।
परिहरति- #न; सशरीरत्वस्य#इति ।
यदि वास्तवं सशरीरत्वं भवेत्, न जीवतस्तन्निवर्तेत ; मिथ्याज्ञाननिमित्तं तु तत् ; तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।
यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम्, स्वभावहानेन भावविनाशप्रसङ्गादित्याह- #नित्यमशरीरत्वम्#इति ।
स्यादेतत् ।
न मिथ्याज्ञाननिमित्तं सशरीरत्वम् अपि तु धर्माधर्मनिमित्तम् ; तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते ; तन्निवृत्तौ च प्रायणमेवेति न जीवतो ऽशरीरत्वमिति शङ्कते- #तत्कृत#इति ।
तत् इत्यात्मानं परामृशति ।
निराकरोति- #न ; शरीरसंबन्धस्य#इति ।
न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसंबन्धे भवतः ; ताभ्यां तु शरीरसंबन्धं रोचयमानो व्यक्तं परस्पराश्रयत्वं दोषमावहति ; तदिदमाह- #शरीरसंबन्धस्य#इति ।
यद्युच्येत सत्यमस्ति परस्पराश्रयत्वम्, न त्वेष दोषः, अनादित्वात्, बीजाङ्कुरवत् इत्यत आह- #अन्धपरम्परैषानादित्वकल्पना# ।
यत्तु मन्यते-नेयमन्धपरम्परातुल्या अनादिता ; न हि यतो धर्माधर्मभेदाद्य आत्मशरीरसंबन्धभेदस्तत एव शरीरसंबन्धात् स धर्माधर्मभेदः ; किं त्वेष पूर्वस्मादात्मशरीरसंबन्धात्पूर्वधर्माधर्मभेदजन्मनः ; एव त्वात्मशरीरसंबन्धो ऽन्यस्माद्धर्माधर्मभेदात् -इति, तं प्रत्याह- #क्रियासमवायाभावात्#इति ।
शङ्कते- #संनिधानमात्रेण#इति ।
परिहरति- #न#इति ।
#उपार्जनं#स्वीकरणम् ।
न त्वियं विधात्मनीत्याह- #न#
#त्वात्मन#इति ।
ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति- #अत्राहुः#इति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः ।
उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते ।
यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात् सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ ; तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।
एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरति- #यथा वा शुक्तिकायाम्#इति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति ? संशयो वा द्वेधा युक्तः ; समानधर्मधर्मिणो दर्शनात् उपलब्घ्यनुपलब्ध्यव्यवस्थातः ; विशेषद्वयस्मृतेश्च संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदिति ।
अत उक्तम्- #अकस्मात्#इति ।
अनेन दृष्टस्य हेतोः समानत्वे ऽप्यदृष्टं हेतुरुक्तम् ; तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।
#आत्मानात्मविवेकिनाम्#इति ।
श्रवणमननकुशलतामात्रेण पण्डितानाम् ; अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् ।
तदुक्तम्- #पश्वादिभिश्चाविशेषात्#इति ।
शेषमतिरोहितार्थम् ।
जीवतो विदुषो ऽशरीरत्वे च श्रुतिस्मृती उदाहरति- #तथा च#इति ।
सुबोधम् ।
प्रकृतमुपसंहरति- #तस्मान्नावगतब्रह्मात्मभावस्य#इति ।
ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम् ; तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयति- #यत्पुनरुक्तं श्रवणात्पराचीनयोः#इति ।
मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् ; तदिदमुक्तम्- #अवगत्यर्थत्वात्#इति ।
ब्रह्मसाक्षात्कारो ऽवगतिः ; तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।
अथ कस्मान्मननादिविधिरेव न भवतीत्यत आह- #यदि ह्यवगतम्#इति ।
न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् ।
अतो गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते ; तदप्ययुक्तम्, अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः ; विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधात्- इत्यर्थः ।
प्रकृतमुपसंहरति- #तस्मात्#इति ।
एवं च सिद्धरूपब्रह्मपरत्वे उपनिषदाम्, ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात्, भिन्नविषयत्वेन शास्त्रभेदात्, ऽअथातो ब्रह्मजिज्ञासाऽ इत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याह- #एवं च सति#इति ।
इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रान्तरारम्भत्वं स्यादित्याह- #प्रतिपत्तिविधिपरत्व#इति ।
न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वम्, अपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह- #तस्मादहं ब्रह्मास्मि#इति ।
#इति#करणेन ज्ञानं परामृशति ।
विधयो हि धर्मे प्रमाणम् ।
ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधात् इत्यर्थः ।
न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याह- #सर्वाणि चेतराणि प्रमाणानि#इति ।
कुतः ? #न हि#इति ।
अद्वैते हि विषयविषयिभावो नास्ति ; न च कर्तृत्वम्, कार्याभावात् ; न च कारणत्वम्, अत एव ।
तदिदमुक्तम्- #अप्रमातृकाणि च#इति चकारेण ।
अत्रैव ब्रह्मविदां गाथा उदाहरति- #अपि चाहुः#इति ।
पुत्रदारादिष्वात्माभिमानो गौणः ।
यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सो ऽयं गौणः ।
न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् ।
तस्मात् ऽगौर्वाहीकःऽ इतिवद्गौणः ।
देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः ; किं तु शुक्तौ रजतज्ञानवन्मिथ्या ।
तदेवं द्विविधो ऽयमात्माभिमानो लोकयात्रां वहति ।
तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् ।
तदिदमाह- #पुत्रदेहादिबाधनात्# ।
गौणात्मनो ऽसत्त्वे पुत्रकलत्रादिबाधनम् ; ममकाराभाव इति यावत् ।
मिथ्यात्मनो ऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च ।
ततश्च न केवलं लोकयात्रासमुच्छेदः ; #सद्ब्रह्माहमित्येवं बोधि#बोधशीलं यत् #कार्यम्#, अद्वैतसाक्षात्कार इति यावत्, तदपि #कथं भवेत् ?#कुतस्तदसंभव इत्यत आह- #अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः# ।
उपलक्षणं चैतत् ; प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् ।
एतदुक्तं भवति- एष हि विभागो ऽद्वैतसाक्षात्कारकारणम्, ततो नियमेन प्राग्भावात् ; तेन तदभावे कार्यं नोत्पद्यत इति ।
न च प्रमातुरात्मनो ऽन्वेष्टव्य आत्मान्य इत्याह- #अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः# ।
उक्तं हि ग्रीवास्थग्रैवेयकनिदर्शनम् ।
स्यादेतत् ।
अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आह- #देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं तु# ।
अस्यावधिमाह- #आ आत्मनिश्चयात्#; आ ब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।
एतदुक्तं भवति- पारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम्, प्रमाणबाधितत्वात् ।
तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् ।
सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति ।
न चायमद्वैतसाक्षात्कारो ऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः ।
यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् ।
अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः ।
तथा च श्रुतिः-
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥
इति ।
तस्मात्सर्वमवदातम् ॥
#इति चतुःसूत्री समाप्ता# ।
एवं ऽकार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता ।
पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता ॥
ऽ ब्रह्मजिज्ञासां प्रतिज्ञाय ऽजन्माद्यस्य यतःऽ इत्यादिना ऽतत्तु समन्वयात्ऽ इत्यन्तेन सूत्रसंदर्भेण सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् ।
तच्च ब्रह्मणीति परमार्थतः ।
त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् ।
तद्त्र संदिह्यते- तज्जगदुपादानकारणं किं चेतनमुताचेतनमिति ।
अत्र च विप्रतिपत्तेः प्रवादीनां विशेषानुपलम्भे सति संशयः ।
तत्र च प्रधानमचेतनं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति सांख्याः ।
जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः ।
आदिग्रहणेनाभावोपादानत्वादि ग्रहीतव्यम् ।
अनिर्वचनीयानाद्यविद्याशक्तिमञ्चेतनोपादानं जगदागमिकमिति ब्रह्मविदः ।
एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्यतदाभासा बीजम् ।
तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् ।
तत्र ज्ञानक्रियाशक्त्यभावद्ब्रह्मणो ऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति संभवः ॥
ज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे ।
न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च ।
त्रिगुणे तु प्रधाने परिणामिनि संभवतः ।
यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण संभवत एव ।
तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च ।
न तु ब्रह्म ।
स्वरूपचैतन्यं त्वस्यावृत्तितमनुपयोगि जीवात्मनामिवास्माकम् ।
न च स्वरूपचैतन्ये कर्तृत्वम्, अकार्यत्वात्तस्य ।
कार्यत्वे वा न सर्वदा सर्वज्ञता ।
भोगापर्गलक्षणपुरुषार्थद्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः ।
दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् ।
यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते ।
ऽतदैक्षत बहु स्यां प्रजायेयऽ इत्याद्याश्च श्रुतयो ऽचेतने ऽपि चेतनवदुपचारात्स्वकार्योन्मुखमादर्शयन्ति, यथा कूलं पिपतिषतीति ।
ऽयत्प्राये श्रूयते यच्च तत्तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमतो भीक्तं प्रतीयते ॥
ऽ अपि चाहुर्वृद्धाः- यथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः इति, तथेदपि ऽता आप ऐक्षन्तऽ तत्तेज ऐक्षत इत्याद्युपचारप्राये क्षुतम् तदैक्षत इत्यौपचारिकमेव विज्ञेयम् ।
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह ।
यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्यते, एवं तत्त्वमसि इत्याद्याः श्रुतयो भाक्ताः संपत्त्यर्था वा द्रष्टव्याः ।
स्वमपीतो भवति इति च निरुक्तं जीवस्य प्रधाने स्वकीये ऽप्ययं सुषुप्तावस्थायां ब्रूते ।
प्रधानांशतमःसमुद्रके हि जीवोनिद्राणस्तमसीव मग्नो भवति ।
यथाहुः- अभावप्रत्ययालम्बना वृत्तिर्निद्रा इति ।
वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययकारणं तमस्तदालम्बमा निद्रा जीवस्य वृत्तिरित्यर्थः ।
तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्र्रो ऽपि - सकाराणां करणाधिपाधिप- इति प्राधानाभिप्रायः ।
प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमदस्तात् ।
तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः ।
एवं काणादादिमते ऽपि कथञ्चिद्योजननीयाः श्रुतयः ।
अक्षरार्थस्तु #प्रधानकारणपक्षे ऽपीति प्रधानस्यापीति# ।
अपिकारावेवकारार्थौ ।
स्यादेतत् ।
सत्त्वसंपत्त्या चेदस्य सर्वज्ञताथ तमःसंपत्त्यासर्वज्ञतैवास्य कस्मान्न भवतीत्याह- #तेन च सत्त्वधर्मेण ज्ञानेनेति# ।
सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् ।
तथाहुः निरतिशयं सर्वज्ञताबीजं इति ।
यत्खलु सातिशयं तत्क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् ।
एवं ज्ञानमप्येकद्विबहुविषयतया सातिशयमित्यनेनापि क्वचिन्निरतिशयेन भवितव्यम् ।
इदमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यम् ।
तदिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयोत्कर्षत्वे संभवति ।
एतदुक्तं भवति- यद्यपि रजस्तमसी अपि स्तः तथापि पुरुषार्तप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधानवस्थायामपि तन्मात्रं विवक्षित्वाविवक्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।
अपिभ्यामवधारणस्य व्यवच्छेद्यमाह- #न केवलस्येति# ।
नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि ।
चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्यमुत्पत्तिमर्हति, न चिदीत्मन इत्यर्थः ।
तवापि च योग्यतामात्रेणैव चिदात्मनः र्वज्ञताभ्युपगमो न कार्ययोगादित्याह- #त्वयापीति# ।
न केवलस्याकार्यकारणस्येत्येतत्सिहावलोकेन प्रपञ्चयति- #प्रागुत्पत्तेरिति ।
अपि च प्रधानस्येति# ।
चस्त्वर्थः ।
एवं प्राप्त उच्यते- #ईक्षतेर्नाशब्दम्# ।
नामरूपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सामान्यकल्पमायामिति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामस्त्यनुमानमित्युपरिष्टात्प्रवेदयिष्यते ।
तस्मान्नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपासनीयः ।
तदेवमाम्नायैकसमधिगमनीये जगत्कारणं ऽपौर्वापर्यपरामर्शाद्यदाम्नायो ऽञ्जसा वदेत् ।
जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः ॥
तेषु तेषु खल्वाम्नायप्रदेशेषु तदैक्षत इत्येवञ्जातीयकैर्वाक्यैरीक्षितुः कारणज्जगज्जन्माख्यायत इति ।
न च प्रधानपरमाण्वादेरचेतनस्येक्षितृत्वमाञ्जसम् ।
सत्त्वांशेनेक्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न ।
तस्य जाड्येन तत्त्वानुपपत्तेः ।
कस्तर्हि रजतस्तमोभ्यां सत्त्वस्य विशेषः ।
स्वच्छताष ।
स्वच्छं हि सत्त्वम् ।
अस्वच्छे च रजस्तमसी ।
स्वच्छस्य च चैतन्यबिम्बोद्ग्रहितया प्रकाशकत्वव्यपदेशे नेतरयोः, अस्वच्छतया तद्ग्राहिकत्वाबावात् ।
पार्थिवत्वे तुल्य इव मणेर्बिम्बोद्ग्राहिता न लोष्टादीनाम् ।
ब्रह्मणस्त्वीक्षितृत्वमाञ्जसं, तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चात् ।
नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञानस्वभावभूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् ।
अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः ।
सत्यं, ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्विषयोपधानमेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कीर्यत्वं चोपपद्यते ।
तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् ।
यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयविद्यावच्छिन्नस्य व्यापारवत्त्वभवभासत इति कर्तृत्वोपपत्तिः ।
परैरपि च चिच्छेक्ते- कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयं, चैतन्यसामान्याधिकरण्येन ज्ञातृत्वोपलब्धेः ।
नहि प्राधानिकान्यन्तर्बहिःकरणानि त्रयोदश सत्त्वगुणप्रधानान्यपि स्वयमेवाचेतनानि, तद्वृत्तया स्वं वा परं वा वेदितुमुत्सहन्ते ।
नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति ।
चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् ।
एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चितिबिम्बसंक्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिष्करणान्यन्धसहस्रप्रतिमान्यस्वसन्त्राणि ।
न चास्यश्चितेः अस्ति व्यापारयोगः ।
न च तदयोगे ऽप्यज्ञातृत्वं, व्यापारवतामपि जडानामज्ञत्वात् ।
तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः ।
अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः ।
सर्वथा भवन्मतेषडपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्यवहारारिकमेवेति परमार्थः ।
नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षमपाकुर्वद्भिरपास्तम् ।
कूटस्थस्य नित्यस्यात्मनो ऽव्यापारवत एव भिन्नं ज्ञानं धर्म इति चोपरिष्टादपाकरिष्यते ।
तस्माद्वस्तुतो ऽनवच्छिन्नं चैतन्यं तत्त्वान्यत्वाभ्यामनिर्वचनीयाव्याकृतव्याचिकीर्षितनामरूपविषयावच्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् ।
तथा च श्रुतिः- तपसा चीयते ब्रह्म ततो ऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥
इति ।
तपसा ज्ञानेन अव्याकृतनामरूपविषयेण चीयते तद्व्याचिकीर्षवद्भवति, यथा कुविन्दादिरव्याकृतं पटादि बुद्धावालिख्य चिकीर्षति ।
एकधर्मवान् द्वितीयधर्मोपजननेन उपचित उच्यते ।
व्याचिकीर्षायां चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते ।
तस्मादव्याकृताद्व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणे जायते, यथाव्याकृतात् व्यचिकीर्षितात्पटादवान्तरकार्यं द्वितन्तुकादि ।
तस्माच्च प्राणान्मन आख्यं संकल्पविकल्पादिव्याकरणात्मकं जायते ।
ततो व्याकरणात्मकान्मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते ।
तेभ्यश्च सत्याख्येभ्यो ऽनुक्रमेण लोकाः भूरादयः तेषु मनुष्टादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते ।
कर्मसु चामृतं फलं स्वर्गनरकादि ।
तच्च स्वनिनित्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतम् ।
यावद्धर्माधर्मभावीति यावत् ।
यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः ।
यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम्, तस्माद्ब्रह्ममः पूर्वस्मादेतत्परं कार्यं ब्रह्म ।
किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति ।
तस्मात्प्रधानस्य साम्यावस्थायामनीक्षितृत्वात्, क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात्, मुख्यसंभवे चोपचारस्यान्याय्यत्वात्, मुमुक्षोश्चायथार्थोपदेशानुपपत्तेः, मुक्तिविरोधित्वात्, तेजःप्रभृतीनां च मुख्यासंभवेनोपचाराश्रयणस्य युक्तिसिद्धत्वात्, संशये च तत्प्रायपाठस्य निश्चायकत्वात्, इह तु मुख्यस्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात्, अन्यथा किरातशतसंकीर्णदेशनिवासिनो ब्राह्मणायनस्यापि किरातत्वापत्तेः, ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एवश्चद्रमा इव द्वतीयस्य चद्रमसः ।
न त्वचेतनं प्रधानपरमाणत्वादि ।
अशब्दं हि तत् ।
न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति सांप्रतं कार्यत्वात् ।
कारणात्कार्याणां भेदाभावात् कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधित्वात्, भेदे च तदनुपपत्तेः ।
साक्षाच्च ऽएकमेवाद्वितीयम्ऽ ऽनेह नानास्ति किञ्चनऽ मृत्योः , मृत्युमाप्नोतिऽ इत्यादिभिर्ब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधाचेतनोपादानमेव जगत्, भुजङ्ग इवारोपिति गज्जूपादान इति सिद्धान्तः ।
सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत ।
अद्यापि तु सदुपादानत्वमसिद्धमित्यत आह- #तत्रेदंशब्दवाच्यम्#इत्यादि #दर्शयति#इत्यन्तेन ।
तथापीक्षिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भविष्यति; यथाहुर्हैरण्यगर्भा इत्यतः श्रुतिः पतिता- ऽएकमेवाद्वितीयंऽ इति ।
बहु स्याम्ऽ इति चाचेतनं कारणमात्मन एव बहुभावमाह ।
तेनापि कारणच्चेतनाभिन्नं कार्यमभ्युपगम्यते ।
यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजो ऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् ।
एकमद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठति- #तथान्यत्रेति# ।
ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् ।
तद्यथा- प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः ।
तदर्धं शफः ।
तथा पृथिव्यन्तरीक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादो ऽनन्तवान्नाम ।
तथाग्निः सूर्यचद्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः ।
प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतुर्थं आयतनवान्नाम ब्रह्मणः पादः ।
तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् ।
स्यादेतत् ।
ईक्षतेरिति तिपा धातुस्वरूपमुच्यते ।
न चाविवक्षितार्थस्य धातुस्वरूपस्य चेतनोपादानसाधनत्वसंभव इत्यत आह- #ईक्षतेरिति#धात्वर्थनिर्देशो ऽभिमतः, विषयिणं निषयलक्षणात् ।
प्रसिद्धा चेयं लक्षणेत्याह- #यजतरितिवदिति# ।
ऽयः सर्वज्ञः इति सामान्यतः; सर्ववित् इति विशेषतः ।
सांख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति- #यत्तूक्तं सत्त्वधर्मेणेति# ।
पुनः सांख्यमुत्थापयति- #ननूक्तमिति# ।
परिहरति- #तदपीति# ।
सामुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यं साम्यानुपपत्तेः ।
न चाव्यक्तेन रूपेण ज्ञानमपपयुज्यते, रजतस्तमसोस्तत्प्रतिबन्धस्यापि सूक्ष्मेण रूपेण सद्भावादित्यर्थः ।
अपिच चैतन्यप्रधानवृत्तिवचनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याह- #अपिच नासाक्षिकेति# ।
कथं तर्हि योगिनां सत्त्वाशोत्कर्षहेतुकं सर्वज्ञत्वमित्यत आह- #योगिनां त्विति# ।
सत्त्वांशोत्कर्षो हि योगिनां चेतन्यचक्षुष्मतामुपकरोति, नान्धस्य प्रधानस्येत्यर्थः ।
यदि तु कापिलमतमपहाय हैरण्यगर्भमास्थीयेत तत्राप्याह- #अथ पुनः साक्षिनिमित्तमिति# ।
तेषामपि हि प्रकृष्टसत्त्वोपादानं पुरुषविशेषस्यैव क्लेशकर्मविपाकाशयापराभृष्टस्य सर्वज्ञत्वं, न तु प्रधानस्याचेतनस्य ।
तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः ।
पूर्वपक्षबीजमनुभाषते- #यत्पुनरुक्तं ब्रह्मणो ऽपीति# ।
चेतन्यस्य शुद्धस्य नित्यत्वे ऽप्युपहितं सदनित्यं कार्यं, आकाशमिव घटावच्छिन्नमित्यभिसंधाय परिहरति- #इदं तावद्भवानिति ।
प्रततौष्ण्यप्रकाशे सवितरि#इत्येतदपि विषयावच्छिन्नप्रकाशः कार्यमित्येतदभैप्रायम् ।
वैषम्यं चोदयति- #ननु सवितुरिति# ।
किं वास्तवं कर्माभावमभिप्रेत्य वैषम्यमाह भवान् उत तद्विवक्षाभावम् ।
तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति ।
नह्यत्र कर्म विवक्षैतम् ।
अथ च प्रकाशस्वभाव प्रत्यास्त स्वातन्त्र्यं सवितुरिति परिहरति- #न ।
असत्यपि कर्मणीति# ।
असत्यपीत्यविवक्षिते ऽपीत्यर्थः ।
अथ वास्तवं कर्माभावमभिसंधाय वैषम्यमुच्येत, तन्न, असिद्धत्वात्कर्माभावस्य, विविक्षितत्वाच्चात्र कर्मण इति परिहरति- #कर्मापेक्षायां त्विति# ।
यासां सति कर्मण्यविवक्षिते श्रुतीनामुपपत्तिस्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।
#यत्प्रसादादिति# ।
यस्य भगवत ईश्वरस्य प्रसादात् तस्य नित्यसिद्धस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना ।
यथादुर्योगशास्त्रकाराः- ऽततः प्रत्यक्चेतनाधिगमो ऽप्यन्तरायाभाश्चऽ इति ।
तद्भाष्यकाराश्च भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्यादिना इति ।
#सवितृप्रकाशवदिति# ।
वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यतिरेकमुखेनाप्याह- #अपि चाविद्यादिमत इत्यादि# ।
आदिग्रहणेन कामकर्मादयः संगृह्यन्ते ।
#न ज्ञानप्रतिबन्धकारणरहितस्येति# ।
संसारिणां वस्तुतो नित्यज्ञानत्वे ऽप्यविद्यायाः प्रतिबन्धकारणानि सन्ति, नतु ईश्वरस्याविद्यारहितस्य ज्ञानप्रतिबन्धकारणसंभव इति भावः ।
न तस्य कार्यमावरणाद्यपगमो विद्यते, अनावृत्तत्वादिति भावः ।
ज्ञानबलेन क्रिया ।
प्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगतो न क्रियेत्यर्थः ।
अपाणिर्गृहीता, अपादो वेगवान् विहरणवान् ।
अतिरोहितार्थमन्यत् ।
स्यादेतेत् ।
अनात्मनि व्योम्नि घटाद्युपाधिकृतो भवत्ववच्छेदकविभ्रमः, न तु आत्मनि स्वभावसिद्धप्रकाशे स घटत इत्यत आह- #दृश्यते चात्मन एव सत# #इति ।
अभिनिवेशः#मिथ्याभिमानः ।
#मिथ्याबुद्धिमात्रेण पूर्वेणेति# ।
अनेनानादिता दर्शिता ।
मात्रग्रहणेन विचरसहत्वेन निर्वचनीयता निरस्ता ।
परिशिष्टम्
#तन्निष्ठस्य मोक्षोपदेशादिति# ।
शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् ।
शङ्का च भाष्ये उक्ता
स्यादेतत् ।
ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्संबद्धं प्रधानमेव स्थूलतयात्मत्वेन ग्राह्यते श्वेतकेतुररुन्धतीमिवातीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति ।
अस्यां शङ्कायामुत्तरम्- #हेयत्वावचनाच्च#इति सूत्रम् ।
चकारो ऽनुक्तसमुच्चयार्थः ।
तच्चानुक्तं भाष्य उक्तम्
अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कर्विती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते ।
यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः ।
अथात्मीयवचनस्थथाप्यचेतने पुरुषार्थतयात्मीये ऽपि चेतनस्य प्रलयानुपपत्तिः ।
नहि मृदात्मा घट आत्मीये ऽपि पाथसि प्रलीयते ऽपि त्वात्मभूतायां मृद्येव ।
नच गजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह- #स्वाप्ययात्#
#गतिसामान्यात्# ।
गतिरवगतिः ।
#तार्किकसमय इवेति# ।
यथा हि तार्किकाणां समयभेदेषु परस्पराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचेतन्यावगतिः समानेति ।
#चक्षुरादीनामिव रूपादिष्विति# ।
यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् ।
एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम्
#श्रुतत्वाच्च# ।
ऽतदैक्षत इत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् ।
जगत्कारणसंबन्धितया तु तदर्थात्सर्वविषयमवगतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः
उत्तरसूत्रसंदर्भमाक्षिपति- #जन्माद्यस्य यत इत्यारभ्येति# ।
ब्रह्म जिज्ञासितव्यमिति हि प्रतिज्ञातं, तच्च शास्त्रैकसमधिगम्यं, शस्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणं ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् ।
न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति च गतिसामान्यात् इत्युक्तम् ।
तत्किमपरमवशिष्यते, यदर्थान्तरसूत्रसंदर्भस्यावतारः स्यादिति ।
#किमुत्थानमिति# ।
किमाक्षेपे ।
समाधत्ते-
#उच्यते-द्विरूपं हीति# ।
यद्यपि तत्वतो निरस्तसमस्तोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमित्युपहितेन रूपेणोपदेष्टव्यमिति ।
तत्र च क्वचिदुपाधिर्विवक्षितः ।
तदुपासनानि #कानिचित् अभ्युदयार्थानि#मनोमात्रसाधनतयात्र पठितानि ।
#कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि# ।
क्वचित्पुनरुक्तो ऽप्युपाधिपविवक्षितः, यथात्रैवान्नमयादय आनन्दमयान्ताः पञ्च कोशाः ।
तदत्र कस्मिन्नुपाधिर्विवक्षितः कस्मिन्नेति नाद्यापि विवेचितम् ।
तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति तदर्थमुत्तरग्रन्थसंदर्भारम्भ इत्यर्थः ।
स्यादेतत् ।
परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यभेदात्कथमुपासनाभेदः, कथं च फलभेद इत्यत आह- #एक एव त्विति# ।
रूपाभेदे ऽप्युपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलमेव इत्यर्थः ।
क्रतुः संकल्पः ।
ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः, कथमेतस्मिन् भूताश्रये तारतम्यश्रुतया इत्यत आह- #यद्यप्येयक आत्मेति# ।
यद्यपि निरतिशयकमेव रूपमात्मन एश्वर्यं च ज्ञानं चानन्दश्च, तथाप्यनाद्यातमः समावृतां तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव, क्वचित्सदिव, क्वचिदपकृष्टमिव, क्वचित्प्रकर्षवत्, क्वचिदत्यन्तप्रकर्षवदिव भासते, तत्कस्य हेतोः, अविद्यतमसः प्रकर्षनिकर्षतारतम्यादिति ।
तथोत्तमप्रकाशः सविता दिह्मण्डलमोकरूपेणैव प्रकाशेनापूरयन्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति ।
#अपेक्षितोपाधिसंबन्धं#उपास्यत्वेन ।
#निरस्तोपाधिसंबन्धं#ज्ञेयत्वेनेति
#आनन्दमयो ऽभ्यासात्# ।
तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति- #तैत्तिरीयके ऽन्नमयमित्यादि# ।
ऽगौणप्रवाहपाते ऽपि युज्यते मुख्यमीक्षणम् ।
मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका ॥
ऽ आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् ।
न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयङिति युक्तम् ।
प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः ।
न च सत्यर्थे स्वार्थिकत्वमुचितम् ।
ऽचतु ऋकोशान्तरत्वे तु न सर्वान्तरतोच्यते ।
प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते ॥
ऽ न च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति सांप्रतम् ।
नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्ठयान्तरतामानन्दमयकोशस्य ।
न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् ।
यदपेक्षं सस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति ।
नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति हलवानप्रतीयते ऽपि तु समानजातीयनरान्तरनपेक्ष्य ।
एवमानन्दमयो ऽप्यन्नमयादिभ्यो ऽन्तरो न तु सर्वस्मात् ।
न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः ।
तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः ।
अपि च यदि प्राचुर्यार्थो ऽपि मयट्, तथापि संसार्येवानन्दमयः, न तु ब्रह्म ।
आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसंभवे भवति न तु तदत्यन्तासंभवे ।
न च परमात्मनो मनागपि दुःखलवसंभवः, आनन्दैकरसत्वादित्याह- #न च सशरीरस्य सत इति# ।
अशरीरस्य पुनरप्रियसंबन्धो मनागपि नास्तीति प्राचुर्यार्थो ऽपि मयङ् नोपपद्ययत इत्यर्थः ।
#उच्यते# ।
आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् ।
तथाच तधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् ।
ज्योतिष्टोमाधिकारे ऽवसन्ते वसन्ते ज्योतिषा यजेतऽ इति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः ।
अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते- ऽएतमानन्दमयमात्मानमुपसंक्रामतिऽ इति ।
पूर्वपक्षबीजमनुभाष्यं दूषयति- #यत्तूक्तमन्नमयादिति# ।
न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति ।
तादर्थ्यात्पूर्वदर्शनानामन्यदर्शनानुगुण्यं नतु तद्विरोधितेति चेत्, इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात्, तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवासानात्तादर्थ्यं तुल्यम् ।
प्रियाद्यवयवयोगशरीरत्वे च भाष्येण समाहिते ।
प्रियाद्यवयवयोगाच्च दुःखलवयोगे ऽपि परमात्मन औपाधिक उपपादितः ।
तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति
अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः संप्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः ।
मन्त्रे हि पुनः ऽअन्यो ऽन्तर आत्माऽ इति परब्रह्मण्यान्तरत्वश्रवणात्, तस्यैव च ऽअन्यो ऽन्तर आत्मानन्दमयःऽ इति ब्राह्मणे प्रत्यभिज्ञानात्, परब्रह्मैवानन्दमयमित्याह सूत्रकारः- #मान्त्रवर्णिकमेव च गीयते# ।
मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणे ऽप्यानन्दमय इति गीयत इति
अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक्स्रष्टृत्वश्रवणात्, ऽबहु स्याम्ऽ इति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणात्, आनन्दमयः पर एवेत्याह ।
सूत्रम्- #नेतरो ऽनुपपत्तेः# ।
नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति
#भेदव्यपदेशाच्च# ।
रसः सारो ह्ययमानन्दमय आत्मा ऽरसं ह्येवायं लब्ध्वाऽनन्दी भवतिऽ इति ।
सो ऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते ।
तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।
चोदयति- #कथं तर्हीति# ।
यदि लब्ध्वा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतो ऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।
परिहरति- #बाढम् ।
तथापीति# ।
सत्यम्, परमार्थयो ऽभेदे ऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते ।
जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि ।
तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः ।
भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।
स्यादेतत् ।
यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनो ऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरो ऽप्यनिर्वाच्यः स्यात् ।
तथा च वस्तुसन्नित्यत आह- #परमेश्वरस्त्वविद्याकल्पितादिति# ।
रजतं हि रामारोपितं न शुक्तितो भिद्यते ।
न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् ।
शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।
अत्रैव सरूपमात्रं दृष्टान्तमाह- #यथा मायाविन इति# ।
एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाह- #यथा वा घटाकाशादिति# ।
शेषमतिरोहितार्थम् ॥17 ः ः18 ॥
स्वमतपरिग्रहार्थमेकदेशिमतं दूषयति- #इदं त्विह वक्तव्यमिति# ।
एष तावदुत्सर्गो यत्- ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते ।
विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः ॥
ऽ तत्र किं पुच्छपदसमभिव्याहारात् अन्नमयादिषु चास्यावयवपरत्वेन प्रयोगात्, इहाप्यवयवपरत्वात्पुच्छपदस्य तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायाताम् ।
आनन्दमयपदं चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित्प्रचुरानन्दवाचि वा, ब्रह्मण्यप्रसिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायाताम् ।
आनन्दपदाभ्यासेन च ज्योतिः पदेनेव ज्योतिष्टोम अनन्दमयो लक्ष्यतां, उतानन्दमयं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थे ऽस्तु, आनन्दमपदाभ्यासश्च स्वार्थे, पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्ध्य एव विदाङ्कुर्वन्तु ।
तत्र ऽप्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ।
पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनमवयवपरतायामङिकरणपरतायां च तुल्यम् ।
अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः ।
ब्रह्मपदमानन्दमयपदमानन्दपदमिति त्रितयलङ्घनं त्वधिकम् ।
तस्मान्मुख्यत्रितयलङ्घनादसाधीयान्पूर्वः पक्षः ।
मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः ।
अपि चानन्दमयपदस्य ब्रह्मार्थत्वे, ब्रह्म पुच्छम् इति न समञ्जसम् ।
न हि तदेवावयव्यवयवश्चेति युक्तम् ।
आधारपरत्वे च पुच्छशब्दस्य, प्रतिष्ठेत्येतदप्युपपन्नतरं भवति ।
आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया ।
ब्रह्मणास्त्वान्तरत्वमानन्दमयादर्थाद्गम्यत इति न श्रुत्योक्तम् ।
एवं चान्नमयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः ।
वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः, प्राचुर्यः च, क्लेशेन व्याख्यायेयाताम् ।
तथा च मान्त्रवर्णिकस्य ब्रह्मणा एव ब्रह्म पुच्छं प्रतिष्ठा इति स्वप्रधानस्याभिधानात्, तस्यैवाधिकारो नानन्दमयस्येति ।
सो ऽकामयेतऽ इत्याद्या अपि श्रुतयो ब्रह्मविषया इत्यर्थसंक्षेपः ।
सुगममन्यत् ।
#सूत्राणि त्वेवं व्याख्येयानीति# ।
वेदसूत्रयोर्विरोधे ऽगुणे त्वन्याय्यकल्पनाऽ इति सूत्राण्यन्यथा नेतव्यानि ।
आनन्दमयशब्देन तद्वाक्यस्य ब्रह्म पुच्छं प्रतिष्ठा इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते ।
एतदुक्तं भवति- आनन्दमय इत्यादिवाक्ये यत् ब्रह्म पुच्छं प्रतिष्ठा इति ब्रह्मपदं तत्स्वप्रधानमेवेति ।
यत्तु ब्रह्माधिकरणमेवेति वक्तव्ये ब्रह्म पुच्छम् इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात् तेनापि चाधिररणलक्षणोपपत्तेरिति ।
#मान्त्रवर्णिकमेव च#
#गीयते# ॥ 1.9 ॥
यत् सत्यं ज्ञानम्ऽ इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते- ब्रह्म पुच्छं प्रतिष्ठा इति ।
अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे प्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।
#नेतरो ऽनुपपत्तेः#
अत्र ऽइतश्चानन्दमयः इति भाष्यस्य स्थाने इतश्च ब्रह्म पुच्छं प्रतिष्ठा इति पठितव्यम् ।
#भेदव्यपदेशाच्च#
अत्रापि इतश्चानन्दमयः इत्यस्य च आनन्दमयाधिकारे इत्यस्य च भाष्यस्य स्थाने ब्रह्म पुच्छं प्रतिष्ठा इति ब्रह्मपुच्छाधिकारे इति च पठितवयम् ।
#कामाच्च नानुमानापेक्षा# ॥ 1.8 ॥
#अस्मिन्नस्य च तद्योगं शास्ति# ॥ 1.9 ॥
इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ब्रह्म पुच्छं प्रतिष्ठा इति पाठो द्रष्टव्यः ।
#तद्धेतुव्यपदेशाच्च#
विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत इदं सर्वमसृजत ।
यदिदं किञ्च इति श्रुत्या ।
नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते ।
तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितःस किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ 1.9 ॥
#अन्तकरस्तद्धर्मोपदेशात्# ।
पूर्वस्मिन्नधिकरणे ऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षैताः ।
ब्रह्मैव तु प्रधानं ब्रह्म पुच्छं प्रतिष्ठा इति ज्ञेयत्वेनोपक्षिप्तमिति निर्णीतम् ।
संप्रति तु ब्रह्म विवक्षितोपाधिमुपस्यत्वेनोपक्षिप्यते, नतु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति निर्णीयते ।
तत्र मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपास्यः संसारि कर्मानधिकृतो रविः ॥
पिरण्यश्मश्रुः इत्यादिरूपश्रवणात्, य एषो ऽन्तरादित्ये, य एषो ऽन्तरक्षिणी इति चाधारभेहश्रवणात्, ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च इत्यैश्वर्यादाश्रुतेश्च संसार्येव कार्यकारणसंघातात्मको रूपादिसंपन्न इहोपास्यः, नतु परमात्मा अशब्दमस्पर्शम् इत्यादिश्रुतिभिः अपास्तसमस्तरूपाश्च, स्वे महिम्नि इत्यादिश्रुतिभिरपाकृताधारश्च, एष सर्वेश्वरः इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् ।
सर्वपाप्मविरहश्चादित्यपुरुषे संभवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्युपापयोरनधिकारात् ।
रूपादिमत्त्वान्यानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्तावदृगाद्यात्मकतयास्य सर्वात्मकत्वं श्रूयते तत्कथञ्चिदादित्यपुरुषस्यैव स्तुतुरिति आदित्यपुरुष एवोपास्यो न परमात्मत्येवं प्राप्तम् ।
अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः ।
अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्यमप्यसर्वगतं च यत्तस्मादधरभावेनास्थितं तदेव तस्योत्तरस्याधार इति नानाधारं, तस्मादुभयमुक्तम् ।
एवं प्राप्ते ऽभिधीयते-ऽअन्तस्तद्धर्मोपदेशात्ऽ ।
ऽसार्वात्म्यसर्वदुरितविरहाभ्यामिहोच्यते ।
ब्रह्मैवाव्यभिचारिभ्यां सर्वहेतुर्विकारवत् ॥
ऽ नामनिरुक्तेन हि सर्वपाप्मापादानतयस्योदय उच्यते ।
न चादित्यस्य देवतायाः कर्मानधिकारे ऽपि सर्वपाप्मविरहः प्राग्भवीयधर्मरूपपाप्मसंभवे सति ।
न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति सांप्रतम् ।
विद्याकर्मातिशयसमुदाचारे ऽप्यनादिभवपरंपरोपार्जितानां पाप्मनामपि प्रसुप्तानां संभवात् ।
नच श्रुतिप्रामाण्यादिदात्यशरीराभिमानिनः सर्वपाप्मविरह इति युक्तं, ब्रह्मविषयत्वेनाप्यस्याः प्रामाण्योपपत्तेः ।
नच विनिगमनाहेत्वभावः, तत्र तत्र सर्वपाप्मविरहस्य भूयोभूयो ब्रह्मण्येव श्रवणात् ।
तस्यैव चेह प्रत्यभिज्ञायमानस्य विनिगमनाहेतोर्विद्यमानत्वात् ।
अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कारणादभेदात्कार्यजातस्य, ब्रह्मणश्च जगत्कारणत्वात् ।
आदित्यशरीराभिमानिनस्तु जीवात्मनो न जगत्कारणत्वम् ।
नच मुख्यार्थसंभवे प्राशस्त्यलक्षणया स्तुत्यर्थता युक्ता ।
रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवतो ऽनन्यत्वात्तादृशरूपभेदेनोपदिश्यते, यथा ऽ---गन्धः सः इति ।
नच ब्रह्मनिर्मितं मायारूपमनुवदच्छास्त्रमशास्त्रं भवति, अपितु तां कुर्वत् इति माशास्त्रत्वप्रसङ्गः ।
यत्र तु निरस्तसमस्तोपाधिभेदं ज्ञेयत्वेनोपक्षिप्यते, तत्र शास्त्रम्-ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ इति प्रवर्तते ।
तस्माद्रूपवत्त्वमपि परमात्मन्युपपद्यते ।
एतेनैव मर्यादाधारभेदावपि व्याख्यातौ ।
अपि चादित्यदेहाभिमानिनः संसारिणो ऽन्तर्यामी भेदेनोक्तः, स एवान्तरादित्य इत्यन्तः श्रुतिसाम्येन प्रत्यभिज्ञायमानो भवितुमर्हति ।
#तस्माते धनसनय इति# ।
धनवन्तो विभूतिमन्त इति यावत् ।
कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रहे घटत इत्यत आह- #यद्यद्विभूतिमदिति# ।
सवात्मकत्वे ऽपि विभूतिमत्स्वेव परमेश्वरस्वरूपाभिव्यक्तिः, न त्वविद्यातमः पिहितपरमेश्वरस्वरूपेष्वविभूतिमत्स्वित्यर्थः ।
#लोककामेशितृत्वमपीति# ।
अतो ऽत्यन्तापारार्थ्यन्यायेन निराङ्कुशमैश्वर्यमित्यर्थः
1.1.7.21.
1.1.8.22.
#आकाशस्तल्लिङ्गात्# ।
पूर्वस्मिन्नधिकरणे ब्रह्मणो ऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनो ऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् ।
इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे संपाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते ।
तत्र ऽआकाश इति होवाचऽ इति किं मुख्यकाशपादानुरोधेन ऽअस्य लोकस्य का गितःऽ इति, ऽसर्वाणि ह वा इमानि भूतानिऽ इति ऽज्यायाऽ इतिच ऽपरायणम्ऽ इति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति ।
पत्रप्रथ्वी त्वात्प्रधानत्वादाकाशं मुख्यमेव नः ।
तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः ॥
ऽ ऽअस्य लोकस्य का गतिःऽ इति प्रश्नोत्तरे ऽआकाश इति होवाचऽ इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात्, ऽसर्वाणि ह वाऽ इत्यादीनां तु तद्विशेषणतया गुणत्वात्, ऽगुणे त्वन्याट्यकल्पनाऽ इति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि ।
अपिच ऽआकाश इति होवाचऽ इत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसंजातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति ।
नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् ।
नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् ।
संभवश्चोभयत्र तुल्यः ।
नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याट्यत्वात्, भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः ।
लोके चास्य नभसि निरूढत्वात्, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः ।
तदानुगुण्येन च ऽसर्वाणि ह वाऽ इत्यादीनि भाष्यकृता स्वयमेव नीतानि ।
तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते- #आकाशशब्देन ब्रह्मणो ग्रहणम्# ।
कुतः, #तल्लिङ्गात्# ।
तथाहि-ऽसामानधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः ।
पौर्वापर्यपरामर्शात्प्रधानत्वे ऽपि गौणता ॥
ऽ यद्यप्याकाशपदं प्रधानार्थं तथापि यत्पृष्टं तदेव प्रतिवक्तव्यम् ।
न खल्वनुन्मत्त आम्नान्पृष्टः कोविदासनाचष्टे ।
तदिह, ऽअस्य लोकस्य का गतिःऽ इति प्रश्नो दृश्यमाननामरूपप्रपञ्चमात्रगतिविषय इति तदनुरोधाद्य एव सर्वस्य लोकस्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः ।
नच भूताकाशः सर्वस्य लोकस्य गतिः, तस्यापि लोकमध्यपातित्वात् ।
तदेव तस्य मतिरित्यनुपपत्तेः ।
न चोत्तरे भूताकाशश्रवणाद्भूताकाशकार्यमेव पृष्टमिति युक्तं, प्रश्नस्य प्रथमावगतो ऽनुपजातविरोधिनो लोकसामान्यविषयस्योपजातविरोधिनोत्तरेण संकोचानुपपत्तेस्तदनुरोधेनोत्तरव्याख्यानात् ।
नच प्रश्नेन पूर्वपक्षरूपेणानवस्थितार्थेनोत्तरं व्यवस्थितार्थं न शक्यं नियन्तुमिति युक्तं, तन्निमित्तानामज्ञानसंशयविपर्यसानामनवस्थाने ऽपि तस्य स्वविषये व्यवस्थानात् ।
अन्यथोत्तरस्यानालम्बनत्वात्तेर्वैयधिकरण्यापत्तेर्वा ।
अपि चोत्तरे ऽपि बह्वसमञ्जसम् ।
तथाहि-ऽसर्वाणि ह वा इमानि भूतान्यकाशादेव समुत्पद्यन्तेऽ इति सर्वशब्दः कथञ्चिदल्पविषयो व्याख्येयः ।
एवमेवकारो ऽप्यसमञ्जसः ।
न खल्वपामाकाश एव कारणमपि तु तेजो ऽपि ।
एवमन्नस्यापि नाकाशमेव कारणमपि तु पावकपाथसी अपि ।
मूलकारणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् ।
असमढ्जसं तु भूताकाशे ।
एवं सर्वेषां भूतानां लयो ब्रह्मण्येव ।
एवं सर्वेभ्यो ज्यायस्त्वं ब्रह्मण एव ।
एवं परमयनं ब्रह्मैव ।
तस्मात्सर्वेषां लोकानामिति प्रश्नोपक्रमात्, उत्तरे च तत्तदसाधारणब्रह्मगुणपरामर्शात् पृष्टायाश्च गतेः परमयनमित्यासाधारणब्रह्मगुणोपसंहारात्, भूयसीनां श्रुतीनामनुग्रहाय ऽत्यजेदेकं कुलस्यार्थेऽ इतिवद्वरमाकाशपदमात्रमसमञ्जसमस्तु ।
एतावता हि बहु समञ्जसं स्यात् ।
न चाकाशस्य प्राधान्यमुत्तरे, किन्तु पृष्टार्थत्वादुत्तरस्य, लोकसामान्यगतेश्च पृष्टत्वात्, ऽपरायणम्ऽ इति च तस्यैवोपसंहाराब्रह्मैव प्रधानम् ।
तथाच तदर्थं सत् आकाशपदं प्रधानार्थं भवति, नान्यथा ।
तस्माद्ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षितं, न भूताकाशमिति सिद्धम् ।
#अपि च# ।
अस्यैवोपक्रमे ऽअन्तवत्किल ते सामऽ इति #अन्तवत्त्वदोषेण शालावत्यस्येति# ।
न चाकाशशब्दो गौणो ऽपि विलम्बितप्रतिपत्तिः, तत्र तत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयोगप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत्प्रतिपत्तेरविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयोगप्राचुर्यं वैदिकं निदर्शितं भाष्यकृता ।
तत्रैव च प्रथमावगतानुगुण्येनोत्तरं नीयते, यत्र तदन्यथा कर्तुं शक्यम् ।
यत्र तु न शक्यं तत्रोत्तरानुगुण्येनैव प्रथमं नीयत इत्याह- #वाक्योपक्रमे ऽपीति#
1.1.8.23.
#अत एव प्राणः# ।
उद्गीथे-ऽया देवता प्रस्तावमन्वायत्ताऽ इत्युक्रम्य श्रूयते-ऽकतमा सा देवतेति प्राण इति होवाचऽ उषस्तिश्क्रायणः ।
उद्गीथोपासनप्रसङ्गेन प्रस्तावोपासनमप्युद्गीथ इत्युक्तं बाष्यकृता ।
प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ता अनुगता प्राणो देवता ।
अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयः-किमयं ब्रह्मवचन उत वायुविकारवचन इति ।
तत्र अत एव ब्रह्मलिङ्गादेव प्राणो ऽपि ब्रह्मैव न वायुविकार इति युक्तम् ।
यद्येवं तेनैव गतार्थमेतदिति को ऽधिकरणान्तरस्यारम्भार्थः ।
तत्रोच्यते-ऽअर्थे श्रुत्यैकगम्ये हि श्रुतिमेवाद्रियामहे ।
मानान्तरावगम्ये तु तद्वशात्तद्व्यवस्थितिः ॥
ऽ ब्रह्मणो वासर्वभूतकारणत्वं, आकाशस्य वा वाट्वादिभूतकारणत्वं प्रति नागमादृते मानान्तरं प्रभवति ।
तत्र पौर्वापर्यपर्यालोचनया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः ।
इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्यते आहो वायुविकारं प्रतीति विशये ऽयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येतिऽ इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनोद्गमनप्रतिपादनद्वारा सर्वभूतसंवेशनोद्गमनप्रतिपादिकाया मानान्तरानुग्रहलब्धसामर्थ्याया बलात्संवेशनोद्गमने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः ।
अपि चात्रोद्गीथप्रतिहारयोः सामभक्त्योर्ब्रह्मणो ऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसंघातरूपे, तत्साहचर्यात्प्राणो ऽपि कार्यकारणसंघातरूप एव देवता भवितुमर्हति ।
निस्तो ऽप्ययमर्थ ईक्षत्यधिकरणे, पूर्वोक्तपूर्वपक्षहेतूपोद्बलाय पुनरुपन्यस्तः ।
तस्माद्वायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते-ऽपुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् ।
अपौरुषेये वाक्ये तत्संगतिः किं करिष्यति ॥
ऽ नो खलु स्वतःसिद्धप्रमाणभावमपौरुषेयं वचः स्वविषयज्ञानोत्पादे वा तद्व्यवहारे वा मानान्तरमपेक्षते, तस्यापौरुषेयस्य निरस्तसमस्तदोषाशङ्क्य स्वत एव निश्चायकत्वात्, निश्चायकत्वात्,
निश्चयपूर्वकत्वाद्व्यवहारप्रवृत्तेः ।
तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगिन्द्रियसंवादिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा ।
तेन स्तामिन्द्रियमात्रसंवेशनोद्गमने वायुविकारे प्राणे ।
सर्वभूतसंवेशनोद्गमने तु न ततो वाक्यात्प्रतीयते ।
प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः ।
ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ इत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः ।
न चास्मिन्वायुविकारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते ।
नच मानान्तरसिद्धसंवादेन्द्रियसंवेशनोद्गमनवाक्यदार्ढ्यात्सर्वभूतसंवेशनोद्गमनवाक्यं कथञ्चिदिन्द्रिविषयतया व्याख्यानमर्हति, स्वतः-सिद्धप्रमाणभावस्य स्वभावदृढस्य मानान्तरानुपयोगात् ।
न चास्य तेनैकवाक्यता ।
एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् ।
इन्द्रियसंवेशनोद्गमनं त्ववयुत्यानुवादेनापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् ।
नतु सर्वशब्दार्थः संकोचमर्हति ।
तस्मात्प्रस्तावभक्तिं प्राणशब्दाभिधेयब्रह्मादृष्ट्योपासीत्, न वायुविकारदृष्ट्येति सिद्धम् ।
तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।
#वाक्यशेषबलेनेति# ।
वाक्यात्संनिधानं दुर्बलमित्यर्थः ।
उदाहरणान्तरं तु निगदव्याख्यातेन भाष्येण दूषितम्
1.1.10.24.
#ज्योतिश्चरणाभिधानात्# ।
इदमामनन्ति-ऽअथ यदतः परो दिवो ज्योतिर्दीप्यते निश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिःऽ इति ।
यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि ।
असंकुचद्वृत्तिरयं विश्वशब्दो ऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह- #सर्वतःपृष्ठेषूत्तमेषु# ।
न चेदमुत्तममात्रं अपितु सर्वोत्तममित्याह- #अनुत्तमेषु#नास्त्येभ्यो ऽन्य उत्तम इत्यर्थः ।
ऽइदं वाव तद्यदिदमस्मिन्पुरुषे ऽन्तर्ज्योतिःऽ त्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते ।
तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति ।
अत्र संशयः-किं ज्योतिःशब्दः तेज उत ब्रह्मेति ।
किं तावत्प्राप्तं, तेज इति ।
कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्य ऽऔत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् ।
वाक्यान्तरेणानियमात्तदर्थाप्रतिसंधितः ॥
ऽ बलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्यान्यत्र प्रतिष्ठापितौ ।
तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति ।
प्रत्युत तेजोलिङ्गमेव ऽदीप्यतेऽ इति ।
कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते ।
न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि संभवति ।
न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति ।
न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसो ऽन्यत्र ब्रह्मण्युपपद्यते ।
नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते ।
औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत् फलानुरूपं युज्यते ।
तदेतत्तेजोलिङ्गम् ।
एतदुपोद्बलाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् ।
नच मर्यादावत्त्वं तेजोराशेर्न संभवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासंभवात् तस्य चोपास्यत्वेन विधानात्, ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् ।
नच ऽपादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ इति ब्रह्मप्रतिपादकं वाक्यान्तरं, ऽयदतः परो दिवो ज्योतिःशब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् ।
नहि संनिधानमात्रद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थान्त्र्यावयितुम् ।
नच वाक्यान्तरे ऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् ।
अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया ऽयदतः परःऽ इति वाक्यं शक्यम् ।
तस्मात्तेज एव ज्योति4न ब्रह्मेति प्राप्तम् ।
तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।
#चक्षुर्वृत्तेर्निरोधकमिति# ।
अर्तावरकत्वेन ।
आक्षेप्ताह- #ननु कार्यस्यापीति# ।
समाधातैकदेशी ब्रूते- #अस्तु तर्हीति# ।
यत्तु तेजो ऽबन्नाभ्यामसंपृक्तं तदत्रिवृत्कृतमुच्यते ।
आक्षेप्ता दूषयति- #नेति# ।
नहि तत्कक्कचिदप्युपयुज्यतेच सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।
एकदेशिनः शङ्कामाह- #इदमेवेति# ।
आक्षेप्ता निराकरोति- #न ।
प्रयोजनान्तरेति# ।
ऽएकैकां त्रिवृतं त्रिवृतं करवाणिऽ इति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न संकोचयितुं युक्तेत्यर्थः ।
एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते- #अस्तु तर्हि त्रिवृत्कृतमेवेति# ।
भागिनी युक्ता ।
यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तम्- #उपपद्येततरामिति ।
प्राकृतं#प्रकृतेर्जातं, कार्यमिति यावत् ।
एवं प्राप्त उच्यते-ऽसर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् ।
प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षेति ॥
तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि द्रुवम् ।
ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु ॥
ऽ औत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति ।
यथा ऽयस्याहिताग्नेरग्निर्गृहान्दहेत्ऽ ऽयस्योभयं हविरार्तिमार्च्छेत्ऽ इति ।
यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते ।
यथा ऽयदाग्नेयो ऽष्टाकपालो भवतिऽ इति ।
तदिह ऽयदतः परो दिवो ज्योतिःऽ इति यच्छब्दसामर्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् ।
नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति ।
पूर्ववाक्ये च द्युसंबन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव संबध्यते ।
नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता ।
एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता ।
तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते ।
अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशस्य ब्रह्मेति ब्रह्मणि मुक्य इति ज्योतिर्बह्मेति सिद्धम् ।
#प्रकृतहानाप्रकृतप्रक्रिये इति# ।
प्रसिद्ध्यपेक्षायां पूर्ववाक्यगतं प्रकृतं संनिहितं, अप्रसिद्धं तु कल्प्यं न प्रकृतम् ।
अत एवोक्तम्- #कल्प्यत इति# ।
संदंशन्यामाह- #न केवलमिति ।
परस्यापि ब्रह्मणो नामादिप्रतीकत्ववदिति# ।
कौक्षेयं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः, जीवभावे देहस्य शैत्यात्, जीवतश्चौष्ण्याज्ज्ञायते ।
तस्मात्तत्प्रतीकस्योपासनमुपपन्नम् ।
शेषं निगदव्याख्यातं भाष्यम्
1.1.10.25.
#छन्दोभिधानान्नेति चेत् न तथा चेतोर्पणनिगदात्तथाहि दर्शनम्# ।
पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् ।
ऽगायत्री वा इदं सर्वं भूतं यदिदं किञ्चऽ इति गायत्रीं प्रकृत्येदं श्रूयते-ऽत्रिपादस्यामृतं दिविऽ इति ।
ननु ऽआकाशस्तल्लिङ्गात्ऽ इत्यनेनैव गतार्थमेतत् ।
तथाहि-ऽतावानस्य महिमाऽ इत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् ।
सैव च ऽतदेतदृचाभ्यनूक्तम्ऽ इत्यनेन संगमितार्था ब्रह्मलिङ्गम् ।
एवं ऽगायत्री वा इदं सर्वम्ऽ इत्यक्षरसंनिवेशमात्रस्य गायत्र्या न सर्वत्वमुपपद्यते ।
नच भूतपृथिवीशरीरहृदयवाक्प्राणात्मत्वं गायत्र्याः स्वरूपेण संभवति ।
नच ब्रह्मपुरुषसंबन्धित्वमस्ति गायत्र्याः ।
तस्माद्गीयत्रीद्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गतार्थत्वादनारम्भणीयमेतत् ।
नच पूर्वन्यायस्मारणे सूत्रसंदर्भ एतावान्युक्तः ।
अत्रोच्यते-अस्त्यधिका शङ्का ।
तथाहि-गायत्रीद्वारा ब्रह्मोपासनेति कोर्ऽथः, गायत्रीविकारोपाधिनो ब्रह्मण उपासनेति ।
नच तदुपाधिनस्तदवच्थछिन्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् ।
नहि घटावच्छिन्नं नभो ऽनवच्छिन्नं भवति ।
तस्मादस्य सर्वात्मत्वादिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कथाचित्प्रणाड्या ।
ऽवाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते चऽ इत्यादिश्रितिभ्यः ।
तथाच ऽगायत्री वा इदं सर्वम्ऽ इत्युपक्रम्य गायत्र्या एव हृदयादिभिर्व्याख्याय च ऽसैषा चतुष्पदा षड्विधा गायत्रीऽ इत्युपसंहारो गायत्र्यामेव समञ्जसो भवति ।
ब्रह्मणि तु सर्वमतदसमञ्जसमिति ।
ऽयद्वै तद्ब्रह्मऽ इति ब्रह्मशब्दश्छन्दोविषय एव, यथा ऽएतां ब्रह्मोपनिषदम्ऽ इत्यत्र वेदोपनिषदुच्यते ।
तस्माद्गायत्रिछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते- #न# ।
कुतः, #तथा चेतोर्पणनिगदात्# ।
गायत्र्याख्यच्छन्दोद्वारेण गायत्रीरूपविकारानुगते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्रह्मणवाक्येन निगद्यते ।
एतदुक्तं भवति ।
न गायत्री ब्रह्मणो ऽवच्छेदिका, उत्पलस्येव नीलत्वं, येन तदवच्छिन्नत्वमनय्त्र न स्यादवच्छेदकविरहात् ।
किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं सत्स्वरूपेणाशक्योपदेशमिति तद्विकारगायत्रीद्वारेणोपलक्ष्यते ।
गायत्र्याः सर्वच्छन्दोव्याप्त्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्मजननीयतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः ।
न चान्यत्रोपलक्षणाभावेन नोपलक्ष्यं प्रतीयते ।
नहि कुण्डलेनोपलक्षितं कण्ठरूपं कुण्डलवियोगे ऽपि पश्चात्प्रतीयमानमप्रतीयमानं भवति ।
तद्रूपप्रत्यायनमात्रोपयोगित्वादुपलक्षणानामनवच्छेदकत्वात् ।
तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् ।
संप्रति ति गायत्रिशब्दः संख्यासामान्याद्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयति- #अपर आहेति# ।
तथाहि-षडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् ।
सर्वाणि हि भूतानि स्थावरजङ्गमान्यस्यैकः पादः ।
अथवा दिव्याकाशे त्रयः पादाः ।
तथाहि श्रुतिः-ऽइदं वाव तद्यो ऽयं पुरुषादाकाशःऽ
तद्धि तस्य जगरितस्थानम् ।
जाग्रत्वखल्वयं बाह्यान्पदार्थान्वेद ।
तथा-ऽअयं वाव स यो ऽयमन्तः पुरुष आकाशःऽ ।
शरीरमध्य इत्यर्थः ।
तद्धि तस्य स्वप्नस्थानम् ।
तथा-ऽअयं वाव स यो ऽयमन्तर्हृदय आकाशःऽ ।
हृदयपुण्डरीक इत्यर्थः ।
तद्धि तस्य सुषुप्तिस्थानम् ।
तदेतत् ऽत्रिपादस्यामृतं दिविऽ इत्युक्तम् ।
तदेवं चतुष्पात्त्वसामान्याद्गायत्रीशब्देन ब्रह्मोच्यत इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितिमिति ।
ब्रह्मपरत्वादभिहितमित्युक्तम्
1.1.10.26.
#षड्विधेति# ।
भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट् प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।
#पञ्च ब्रह्मपुरुषा इति च, हृदययसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति# ।
अस्यार्थः-हृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि ।
तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्गप्राप्तिद्वाराणीति देवसुषयः ।
तथाहि-हृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले संचरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः ।
ऽआदित्यो ह वै बाह्यः प्राणःऽ इति श्रुतेः ।
अथ यो ऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः ।
तत्संबद्धं श्रोत्र तच्चन्द्रमाः, ऽश्रोत्रेण सृष्टा विशश्चन्द्रमाश्चऽ इति श्रुतेः ।
अथ यो ऽस्य प्रत्यङ्मुखः सुषिस्ततत्स्थो वायुविशेषो ऽपानः स च वाक्संबन्धाद्वाक्, ऽवाग्वा अग्निःऽ इति श्रुतेः ।
अथ यो ऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स उदानः, पादतलादारभ्योर्ध्वं नयनात् ।
स वायुस्तदाधारश्चाकाशो देवता ।
ते वा एते पञ्च सुषयः ।
तत्संबद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसंनिवेशमात्रे संभवन्ति, किन्तु ब्रह्मण्येवेति
1.1.10.27.
#यथा सोक इति# ।
यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया ।
यो हि श्येनो वृक्षाग्रे वस्तुतो ऽस्ति स च ततः परो ऽप्यस्त्येव ।
अर्वाग्भागातिरिक्तमप्यपरभागस्थस्य तस्यैव वृक्षात्परतो ऽवस्थानात् ।
एवं च बाह्यद्युभागातिरिक्तशारीरहार्दद्युभागस्थस्य ब्रह्मणो बाह्यात् द्युभागात्परतो ऽवस्थानमुपपन्नम् ।
यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् ।
यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।
तदिदमुक्तम्- #अपर आहेति# ।
अत एव दिवः परमपीत्युक्तम्
1.1.11.28.
#प्राणस्तथानुगमात्# ।
ऽअनेकलिङ्गसंदोहे बलव्तकस्य किं भवेत् ।
लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम् ॥
ऽ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि संप्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते ।
न चायमर्थः ऽअत एव प्राणःऽ इत्यत्र विचारितः ।
स्यादेतत् ।
हिततमपुरुषार्थसिद्धिश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे संभवन्ति ।
तथा ऽएष साधु कर्म कारयतिऽ ऽएष लोकाधिपतिःऽ इत्याद्यपि ।
जीवे तु प्रज्ञात्मत्वं कथञ्चिद्भवेदितरेषां त्वसंभवः ।
वक्तृत्वं च वाक्करणव्यापारवत्त्वं यद्यपि परमात्मनि स्वरूपेण न संभवति तथाप्यनन्यथासिद्धबहुब्रह्मलिङ्गविरोधपरिहाराय जीवद्वारेण ब्रह्मण्येव कथञ्चिद्व्याख्येयं जीवस्य ब्रह्मणो ऽभेदात् ।
तथाच श्रुतिः-ऽयद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धिऽ इति वाग्वदनस्य ब्रह्म कारणमित्याह-शरीरधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य परमात्मायत्तत्वात्परमात्मन एव ।
यद्यपि चात्रेन्द्रदेवताया विग्रहवत्या लिङ्गमस्ति, तथाहि-इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, ऽमामेव विजानीहिऽ इत्युपक्रम्य, ऽप्राणो ऽस्मिप्रज्ञात्माऽ इत्यात्मनि प्राणशब्दमुच्चचार ।
प्रज्ञात्मत्वं चास्योपपद्यते, देवतानामप्रतिहतज्ञानशक्तित्वात् ।
सामर्थ्यातिशयाच्चेन्द्रस्य हिततमपुरुषार्थहेतुत्वमपि ।
मनुष्याधिकारत्वाच्छास्त्रस्य देवान्प्रत्यप्रवृत्तेर्भ्रूणहत्यादिपापापरामर्शस्योपपत्तेः ।
लोकाधपत्यं चेन्द्रस्यलोकपालत्वात् ।
आनन्दादिरूपत्वं च स्वर्गस्यैवानन्दत्वात् ।
ऽआभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽ इति स्मृतेश्चामृतत्वमिन्द्रस्य ।
ऽत्वाष्ट्रमहनम्ऽ इत्याद्या च विग्रहवत्त्वेन स्तुतिस्तत्रैवोपपद्यते ।
तथापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यतो ऽनवाप्तेः, परमानन्दरूपस्य मुख्यस्यामृतत्वस्याजरत्वस्य च ब्रह्मरूपाव्यभिचारात्, अध्यात्मसंबन्धभूम्नश्च पराचीन्द्रे ऽनुपपत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्ररब्धविपाककर्माशयमात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्रहवदिन्द्रिजीवप्राणवायुपरित्यागेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्वपक्षाभावादनारभ्यमेतदिति ।
अत्रोच्यते-ऽयो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणैः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतःऽ इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते ।
नच ब्रह्मण्यबेदे द्विचनं, न सहभावः न चोत्क्रमणम् ।
तस्माद्वायुरेव प्राणः ।
जीवश्च प्रज्ञात्मा ।
सह प्रवृत्तिनिवृत्त्या भक्त्यैकत्वमनयोरुपचरितं ऽयो वै प्राणःऽ इत्यादिन ।
आनन्दामराजरापहतपाप्मत्वादयश्च ब्रह्मणि प्राणे भविष्यन्ति ।
तस्माद्यथायोगं त्रय एवात्रोपास्याः ।
न चैष वाक्यभेदो दोषमावहति ।
वाक्यार्थावगमस्य पदार्थावगमपूर्वकत्वात् ।
पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् ।
तस्मादुपास्यभेदादुपासात्रैविध्यमिति पूर्वः पक्षः ।
सिद्धान्तस्तु-सत्यं पदार्थावगमोपपायो वाक्यार्थवगमः, नतु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यार्थावगमपराणि ।
तमेव त्वेकं वाक्यार्थं पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिष्टैकार्थावबोधनस्वरसान्येव बलबद्बाधकोपनितान्नानार्थबोधपरतां नीयन्ते ।
यथाहुः-ऽसंभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यतेऽ इति ।
तेन यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे चैकवाक्यत्वाय ऽप्रजापतुरुपांशु यष्टव्यःऽ इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहामामेवि विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्माऽ इत्युक्त्वान्ते ऽस प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्युपसंहाराद्ब्रह्मण्येकवाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये ।
अन्यथा वाक्यभेदप्रसङ्गात् ।
यत्पुनर्भेददर्शनं ऽसह ह्येतौऽ इति, तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्यगात्मानमेवोपलक्षयितुम् ।
अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमुपलक्षणं भेदेनोपलक्षयति-ऽप्राण एव प्रज्ञात्माऽ इति ।
ऽतस्मादनन्यथासिद्धिब्रह्मलिङ्गानुसारातः ।
एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम्ऽ इति संग्रहः
1.1.11.29.
1.1.11.30.
1.1.11.31.
#न ब्रह्मवाक्यं भवितुमर्हतीति# ।
नैष संदर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चिन्मुख्यप्राणवाक्यं, किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
#प्रज्ञासाधनप्राणान्तराश्रयत्वादिति# ।
प्राणान्तराणीन्द्रियाणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि ।
जीवमुख्यप्राणयोरन्यतर इत्युपक्रममात्रम् ।
उभाविति तु पूर्वपक्षतत्त्वम् ।
ब्रह्म तु ध्रुवम् ।
#न ब्रह्मेति# ।
न ब्रह्मैवेत्यर्थः ।
#दशानां बूतमात्राणामिति# ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः ।
पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धस्य इति दश प्रज्ञामात्राः ।
तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे- #अथवेति# ।
पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् ।
इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यबेद इत्यभिमानः प्राचां वृत्तिकृताम् ।
तदेतदालोचनीयं कथं न वाक्यभेद इति ।
युक्तं ऽसोमेन यजेतऽ इत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य विधिविषयत्वात् ।
इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् ।
भावार्थस्य विधिविषयत्वनियमात् ।
वाक्यान्तरेभ्यश्च ब्रह्मवगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थः विधेयस्तस्य च बेदाद्विध्यावृत्तिलक्षणो वाक्यबेदो ऽतिस्फुट इति बाष्यकृता नोद्घाटितः, स्वव्याख्यानेनैवोक्तप्रयत्वादिति सर्वंवदातम्
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0