भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 1

1.1

____________________________अध्याय 1____________________________
#भामती#
अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजो ऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तह्ब्रह्मापरिमितसुखज्ञानममृतम्

1.2

निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः

1.3

षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च

1.4

मार्तण्डतिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः

1.5

ब्रह्मसूत्रकृते तस्मै व्यासायापरवेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः

1.6

नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते

1.7

आचार्यकृतिनिवेशनमप्यवधूतं वचो ऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc