भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 14

14.1

#इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पाजः#
#प्रथमाध्याये चतुर्थः पादः# ।
1.4.1.1.
#आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च# ।
स्यादेतत् ।
ब्रह्मजीज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्-ऽजन्माद्यस्य यतःऽ इति ।
तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात्, किन्तु ब्रह्मण्येवेति ऽईक्षतेर्नाशब्दम्ऽ इति प्रतिपादितम् ।
गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकरणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसंदर्भेण ।
तत्किमवशिष्यते तदर्थमुत्तरः संदर्भ आरभ्यते ।
नच ऽमहतः परमव्यक्तम्ऽ इत्यादीनां प्रधाने समन्वये ऽपि व्यभाचिरः ।
नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् ।
नच तत्सद्भावमात्रेण ऽजन्माद्यस्य यतःऽ इति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।
तस्मादनर्थक उत्तरः संदर्भ इत्यत आह- #ब्रह्मजिज्ञासां प्रतिज्ञायेति# ।
न प्रधानसद्भावमात्रं प्रतिपादयन्ति ऽमहतः परमव्यक्तम्ऽ ऽअजामेकाम्ऽ इत्यादयः, किन्तु जगत्कारणं प्रधानमिति ।
ऽमहतः परम्ऽ इत्यत्र हि परशब्दो ऽविप्रकृष्टपूर्वकालत्वमाह ।
तथा च कारणत्वम् ।
ऽअजामेकाम्ऽ इत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् ।
एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसंदर्भारम्भ इति ।
पूर्वपक्षयति- #तत्र य एवेति# ।
सांख्यप्रवादरूढिमाह- #तत्राव्यक्तमिति# ।
सांख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थो ऽवगम्यत इत्याह- #न व्यक्तमिति# ।
शान्यघोरमूढशब्दादिहीनत्वाच्चेति ।
श्रुतिरुक्ता ।
स्मृतिश्च सांखीया ।
न्यायश्च-ऽभेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
कारणमस्त्यव्यक्तम्ऽ इति ।
नच ऽमहतः परमव्यक्तम्ऽ इति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् ।
शरीरस्य शान्तघोरमूढपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते- #नैतदेवम् ।
न ह्येतत्काठकं वाक्यमिति# ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् ।
यथाहुः-ऽय एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाःऽ इति ।
नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो?) षधादिप्रसिद्धिवत् ।
तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते ।
योगस्त्वन्यत्रापि तुल्यः ।
तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरो ऽयमव्यक्तशब्दः ।
यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति ।
तेषु शरीरादिषु मध्ये विषयांस्तद्गेचरान् विद्धि ।
यथाश्वो ऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति ।
आत्मा भोक्तेत्याहुर्मनीषिणः ।
कथम्, इन्द्रियमनोयुक्तं योगो यथा भवति ।
इन्द्रियार्थमनः संनिकर्षेण ह्यत्मा गन्धादीनां भोक्ता ।
प्रधास्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयति- #तैश्चेन्द्रियादिभिरसंयतैरिति# ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् ।
परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाहिभ्यः श्रेष्ठत्वं स्यादित्यत आह- #अर्था ये शब्दादय इति# ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्यो ऽतिग्रहयार्थानां प्रधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योर्ऽथानां प्राधान्यात्परत्वं भवति ।
घ्राणजिह्वावाक्चक्षुः श्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः ।
गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति ।
न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति ।
अत एव गन्धादयो ऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तम्- #इन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति# ।
ग्रहत्वेनेन्द्रियैः साम्ये ऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह #-विषयेब्यश्च मनसः परत्वमिति# ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आह- #आत्मशब्दादिति# ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाह- #भोक्तुश्चेति# ।
तदनेन जीवात्मा स्वामितया महानुक्तः ।
अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह #-अथवेति ।
पूरिति# ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः ।
तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपनादाना?)त्मत्वं च ।
अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथित आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यते ऽपि तु रथवानपीत्यत आह- #एतस्मिंस्तु पक्ष इति# ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिसिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आह #-शरीरेन्द्रियमनोबुद्धिविषयवदेनासंयुक्तस्य हीति# ।
वेदना सुखाद्यनुभावः ।
प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवो ऽभिमतस्तस्य ब्रह्मावगतिः ।
नच जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमो ऽपेक्ष्येत्याह- #तथाचेति# ।
वागिति छान्दसो द्वितीयालोपः ।
शेषमतिरोहितार्थम्

14.2

1.4.1.2.
पूर्वपक्षिणो ऽनुशयबीजनिराकरणपरं सूत्रम्-सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकारणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते ।
यथा ऽगोभिः श्रीमितऽ इति गौशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह- #तथाच श्रुतिरिति# ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् ।
नन्वेवं सति प्रधानमेवाब्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य ।
यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् ।
यच्च तस्य दुःखात्मकत्वं तद्गजः ।
यच्च तस्य मोहात्मकत्वं तत्तमः ।
तथा चाव्यक्तं पधानमेवाभ्युपेतमिति

14.3

1.4.1.3.
शङ्कानिराकरणार्थं सूत्रम्- #तदधीनत्वादर्थवत्# ।
प्रधानं हि सांख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् ।
ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् ।
इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम ।
सो ऽयमव्याकृतवादस्य प्रधानवादाद्भेदः ।
अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् ।
नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तम्- #अर्थवदिति# ।
स्यादेतत् ।
यदि ब्रह्मणो ऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् ।
तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आह- #मुक्तानां च पुनः# ।
बन्धस्य अनुत्पत्तिः ।
#कुतः ।
विद्यया तस्या बीजशक्तेर्दाहात्# ।
अयमभिसंधिः-न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालमेमहि, किन्त्वियं प्रतिजीवं भिद्यते ।
तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः ।
पधानवादिनां त्वेष दोषः ।
प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदो ऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः. प्रधानभेदे ऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः ।
न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति सांप्रतम् ।
अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः ।
अविद्यात्वमात्रेण चैकत्वोपचारो ऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह- #परमेश्वराश्रयेति# ।
नह्यचेतनं चैतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रयते, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम्, तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाह- #यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति# ।
यस्यामविद्यायां सत्यां शरते जीवाः ।
जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः ।
संसारिण इति विक्षेप उक्तः ।
#अव्यक्ताधीनत्वाज्जीवभावस्येति# ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
#सत्यपि शरीरवदिन्द्रियादीनामिति# ।
गौबलीवर्दपदवेतद्द्रष्टव्यम् ।
आचार्यदेशीयमतमाह #-अन्ये त्विति# ।
एतद्दूषयति- #तैस्त्विति# ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते #-आम्नात्यार्थमिति# ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोति-न ।
#एकवाक्यताधीनत्वादिति# ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे संभवति न वाक्यभेदो युज्यते ।
न चाकाह्क्षां विनैकवाक्यत्वम्, उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वपरम् ।
नच मुख्यया वृत्त्यातत्परमित्यौपचारिकतं न भवति ।
यथोपहन्तृमात्रनिराकाह्क्षायां ककपदं प्रयुज्यमानं श्वादिसर्वहन्तृपदं विज्ञायते ।
यथाहुः ऽकाकेभ्यो रक्ष्यतामन्नमिति बाले ऽपि नोदितः ।
उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥
ऽ इति ।
ननु न शरीरद्वयस्यात्राकाह्क्षा ।
किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्यष एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह- #न चैवं#
#मन्तव्यमिति# ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह- #सर्वथापि त्विति#

14.4

1.4.1.4.
#ज्ञेयत्वावचनाच्च# ।
इतो ऽपि नायमव्यक्तशब्दः सांख्याभिमतप्रधानपरः ।
सांख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते ।
न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् ।
न चैतावता सांख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः

14.5

1.4.1.5.
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम्- #वदतीति चेन्न प्राज्ञो हि प्रकरणात्# ।
निगदव्याख्यातमस्य भाष्यम्

14.6

1.4.1.6.
#त्रयाणामेव चैवमुपन्यासः प्रश्नश्च# ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतः संवादवाक्यप्रवृत्तिरामाप्तेः कठवल्लीनां लक्ष्यते ।
मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ ।
नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् ।
ऽवरणामेष वरस्तृतीयःऽ इति वचनात् ।
ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नपर्तिवचने ।
तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याह- #इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति# ।
ऽहन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्ऽ इत्यनेन व्यवहितं जीवविषयं ऽयथा तु मरणं प्राप्यात्मा भवति गौतमऽ इत्यादिप्रतिवचनमिति योजना ।
अत्राह चोदकः-किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य ऽयेयं प्रेतेऽ मनुष्य इति प्रशान्तः, अन्यश्च परमात्मनः ऽअन्यत्र धर्मात्ऽ इत्यादिः ।
एकत्वे सूत्रविरोधस्त्रयाणमिति ।
भेदे तु सौमनस्यावाप्त्यग्न्यात्मज्ञानविषयवरत्रयप्रदानानन्तभावो ऽन्यत्र धर्मादित्यादेः प्रश्नस्य ।
तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः ।
वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदाने ऽस्तु ऽमहतः परमव्यक्तऽमित्याक्षेपः ।
परिहरति- #अत्रोच्यते, नैवं वयमिहेति# ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः ।
अत एव प्रतिवचनमप्येकम् ।
सूत्रं त्ववास्तभेदाभिप्रायम् ।
वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः ।
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
ऽयेयं प्रेतेऽ इति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः ऽविद्याभीप्सिनं नचिकेतसं मन्येऽ इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच- #तं दुर्दर्शमिति# ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन संगच्छेत ।
अपिच यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात् ततः प्रशंसा दृष्टार्था स्यात्, प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह- #यत्प्रश्नेति# ।
यस्मिन् प्रश्नो यत्प्रश्नः ।
शेषमतिरोहितार्थम्

14.7

1.4.1.7.
#महद्वच्च# ।
अनेन सांख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न सांख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् ।
सांख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति ।
या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति

14.8

1.4.2.8.
#चमसवदविशेषात्# ।
अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र कर्तितुमर्हति ।
तस्माद्रूढेरसंभवाद्योगेन वर्तयितव्यः ।
तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजो ऽबन्नव्याक्रियाकारणमुच्यताम् किं तावत्प्राप्तं, प्रधानमेवेति ।
तथाहि-यादृशं प्रधानं सांख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते ।
सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च ।
यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति,
रजो ऽपि रञ्जयतीति लोहितम् ।
एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् ।
एवमावरकं मेघादि कृष्णं, तमो ऽप्यावरकमिति कृष्णम् ।
परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजो ऽबन्नस्य रोहित्वादिकारण उपचरणीयम् ।
कार्यसारूपेण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् ।
ऽअजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽ इति त्वात्मभेदश्रवणात् सांख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः ।
तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् ।
तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।
#तेषां साम्यावस्थावयवधर्मैरिति# ।
अवयवाः प्रधानस्मैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।
#प्रजास्त्रैगुण्यान्विता इति# ।
सुखदुःखमोहात्मिकाः ।
तथाहि-मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत् कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् ।
तथाच तत्सपत्नीनां दुःखं, तत् कस्य हेतोः, ताः प्रति रजऋसमुद्भवात्, तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् ।
नर्मदया च सर्वे भावा व्याख्याताः ।
तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।
अनुशेत इति व्याचष्टे- #तामेवाविद्ययेति# ।
विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनो ऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसंक्रामन्ति ।
तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते ।
चितिशक्तिस्त्वपरिणामिन्यप्रतिसंक्रमापि बुद्धिसत्त्वादात्मनो विवेकबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।
तदिदमुक्तम्- #सुखी दुःखी मूढो ऽहमित्यविवेकतया संसरति# ।
एकः ।
सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।
तदिदमुक्तम्- #अन्यः पुनरिति# ।
भुक्तभोगामिति व्याचष्टे- #कृतभोगापवर्गाम्# ।
शब्दाद्यापलब्धिर्भोगः ।
गुणपुरुषान्यताख्यातिरपवर्गः ।
अपवृज्यते हि तया पुरुष इति ।
एवं प्राप्ते ऽभिधीयते-न तावत् ऽअजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगमजो ऽन्यःऽ इत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदंनूद्य बन्धमोक्षौ प्रतिपादयतीति ।
स चानूदितो भेदः ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिको ऽवतिष्ठते ।
तथाच न सांख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् ।
तदिदमुक्तं सूत्रकृता-ऽचमसवदविशेषात्ऽ इति

14.9

1.4.2.9.
उत्तरसूत्रमवतारयितुं शङ्कते- #तत्र त्विदं तच्छिर इति# ।
सूत्रमवतारयति- #अत्र ब्रूमः ।
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके# ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थैतौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजो ऽबन्नलक्षणा जरायुजाण्डस्वेदजद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या, ऽरोहितशुक्लकृष्णाम्ऽ इति रोहितादिरुपतया तस्या एव प्रत्यभिज्ञानात् ।
न तु सांख्यपरिकल्पिता प्रकृतिः ।
तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसंभवे ऽयोगात् ।
तदिदमुक्तम्- #रोहितादीनां शब्दानामिति# ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् ।
अत्र तु रूपकक्लपनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापो ऽस्मद्दर्शनानुगुणो न सांख्यस्मृत्यनुगुण इत्याह #-तथेहापीति ।
किं कारणं ब्रह्मेत्युपक्रम्येति# ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य ।
यथाहुः-ऽपुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्बवेत्ऽ इत्याशयवतीव श्रुतिः पृच्छति ।
किङ्कारणम् ।
यस्य ब्रह्मणो जगदुत्पत्तिस्तत् किङ्कारणं ब्रह्मेत्यर्थः ।
ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
#यो योनिं योनिमिति# ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना ।
शेषमतिरोहितार्थम्

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc