भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 15

15.1

1.4.2.10.
सूत्रान्तरमवतारयितुं शङ्कते- #कथं पुनरिति# ।
अजाकृतिर्जातिस्तेजो ऽबन्नेषु नास्ति ।
नच तेजो ऽबन्नानां जन्मश्रवणादजन्मनिमित्तो ऽप्यजाशब्दः संभवतीत्याह- #नच तेजो ऽबन्नानामिति# ।
सूत्रमवतारयति- #अत उत्तरं पठति ।
कल्पनोपदेशाच्च मध्वादिवदविरोधः# ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आह- #यदृच्छयेति# ।
बहुबर्करा बहुशावा ।
शेषं निगदव्याख्यातम्

15.11

#न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च# ।
अवान्तरसंगतिमाह- #एवं परिहृते ऽपीति# ।
पञ्चजना इति हि समासार्थः पञ्चसंख्यया संबध्यते ।
नच ऽदिक्संख्ये संज्ञायाम्ऽ इति समासविधानान्मनुजेषु निरूढो ऽयं पञ्चजनशब्द इति वाच्यम् ।
तथाहि सति पञ्चमनुजा इति स्यात् ।
एवं चात्मनि प्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् ।
तस्माद्रूढेरसंभवात्तत्त्यागोनात्र योग आस्थेयः ।
जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः ।
तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् ।
तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् ।
एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र ।
नच षोडशिग्रहणवद्विकल्पसंभवः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् ।
तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसंख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति ।
सांख्यैश्च प्रकृत्यादीनि ।
पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि ।
न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात्, त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् ।
सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसंख्योपपत्तेः ।
तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसंख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत्, न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः ।
हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः ।
तस्मान्नाशाब्दी सांख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् ।
नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम्- #मूलेति# ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च ।
तथाहि-महत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः ।
एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्चतन्मात्राणाम् ।
तदेव सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणाम् ।
पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम्- #महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारः# ।
षोडशसंख्यावच्छिन्नो गणो विकार एव ।
पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः ।
यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः ।
तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः ।
पुरुषस्तु कूटस्थनित्यो ऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्ते ऽभिधीयते #-न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या ।
कस्मात् नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि ।
नैषां पञ्चशः पञ्चशः साधारणधर्मो ऽस्ति# ।
न खलु सत्त्वरजस्तमोहदहङ्काराणामेकः क्रिया दा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति ।
नापि पृथिव्यप्तेजोवायुघ्राणानाम् ।
नापि रसनवक्षुस्त्वक्श्रोत्रवाचाम् ।
नापि पाणापादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हति ।
पूर्वपक्षैकदेशिनमुत्थापयति- #अथोच्येत पञ्चविंशसंख्यैवेयमिति# ।
यद्यपि परस्यां संख्यायामवान्तरसंख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः संभवात् पौर्वापर्यलक्षणया प्रत्यासत्त्या परसंख्योपलक्षणार्थं पूर्वसंख्योपन्यस्यत इति दूषयति- #अयमेवास्मिन्पक्षे दोष इति# ।
नच पञ्चशब्दो जनशब्देन समस्तो ऽसमस्तः शक्यो वक्तुमित्याह- #परश्चात्र पञ्चशब्द इति# ।
ननु भवतु समासस्तथापि किमित्यत आह- #समस्तत्वाच्चेति# ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न सांख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याह- #न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति# ।
न चैका पञ्चसंख्या पञ्चसंख्यान्तरेण शक्या विशेष्टुम् ।
पञ्चशब्दस्य संख्योपसर्जनद्रव्यवचनत्वेन संख्याया उपसर्जनतया विशेषणेनासंयोगादित्याह- #एकस्याः पञ्चसंख्याया इति# ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति #-नन्वापन्नपञ्चसंख्याका जना एवेति# ।
अत्र तावद्रूढौ सत्यां न योगः संभवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयति- #युक्तं यत्पञ्चपूलीशब्दस्येति# ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसंख्यावच्छेदिकास्ति तथापीह समुदायिनो ऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसंख्या संबध्यते पञ्चेति ।
पञ्चजना इत्यत्र तु पञ्चसंख्ययोत्पत्तिशिष्टतया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता संख्या संबध्यते ।
स्यादेतत् ।
संख्येयानां जनानां मा भूच्छब्दान्तरवाव्यसंख्यावच्छेदः ।
पञ्चसंख्यायास्तु तयावच्छेदो भविष्यति ।
नहि साप्यवच्छिन्नेत्यत आह- #भवदपीदं विशेषणमिति# ।
उक्तो ऽत्र दोषः ।
नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्संख्येयोपसर्जनसंख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे ।
विशेषणापेक्षायां तु न समासः स्यात्, असामर्थ्यात् ।
नहि भवति ऋद्धस्य राजपुरुष इति समासो ऽपि तु (पद) वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति ।
सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
#अतिरेकाच्चेति# ।
अभ्युच्चयमात्रम् ।
यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः ।
अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् ।
आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
#कथं च संख्यामात्रश्रवणे सतीति# ।
ऽदिक्संख्ये संज्ञायाम्ऽ इति संज्ञायां समासस्मरणात् पञ्चजनशब्दस्तावदयं क्कचिन्निरूढः ।
नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः ।
तद्यदि रूढौ मुख्योर्ऽथः प्राप्यते ततः स एव ग्रहीतव्यो ऽथ त्वसौ न वाक्ये संबन्धार्हः पूर्वापरवाक्यविरोधी वा ।
ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् ।
यथा ऽश्येनेनाभिचरन् यजेतऽ इति श्येनशब्द शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दो ऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते ।
यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते ।
न चैष तत्त्वेषु रूढः ।
पञ्चविंशतिसंख्यानुरोधेन तत्त्वेषु वर्तयितव्यः ।

रूढौ सत्यां प्चविंशतेरेव संख्याया अभावात्कथं तत्त्वेषु वर्तते

15.12

1.4.3.12.
एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात्, प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः ।
नच काण्डवमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति सांप्रतम्, विरोधे ऽपि तुल्यबलतया षोडशिग्रहणवद्विकल्पोपपत्तेः ।
न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, ऽमनसैवानुद्रष्टव्यम्ऽ इति विधिश्रवणात् ।
#कथं पुनः प्रणादिषु जनशब्दप्रयोग इति# ।
जनवाचकः शब्दो जनशब्दः ।
पञ्चजनशब्द इति यावत् ।
तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् ।
अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति- #जनसंबन्धाच्चेति# ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, संभवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह- #समासबलाच्चेति# ।
स्यादेतत् ।
समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगो ऽश्वकर्णादिवद्वृक्षादिषु ।
तथाच लोकप्रसिद्ध्यभावान्न रूढित्याक्षिपति- #कथं पुनरसतीति# ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते-शक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह #-कैश्चित्त्विति# ।
शेषमतिरोहितार्थम्

15.13

1.4.3.13.

15.14

1.4.4.14.
#कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः# ।
अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह- #प्रतिपादितं ब्रह्मण इति# ।
अयमर्थः नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थागतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः ।
प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः ।
तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते ।
इह तु-वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति ।
तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाब्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे संगतमिदमधिकरणम् ।
ऽवाक्यानां कारणे कार्ये परस्परविरोधतः ।
समन्वयो जगद्योनौ न सिध्यति परात्मनि ॥
ऽ ऽसदेव सोम्येदमग्र आसीत्ऽ इत्यादीनां कारणविषयाणां, ऽअसद्वा इदमत्र आसीत्ऽ इत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः ।
कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः ।
तथाहि-कानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यनि ।
कानिचित्स्वयङ्कर्तृकाम् ।
सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् ।
सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्ति ।
तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म ।
वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।
क्रमादीति ।
आदिग्रहणेनाक्रमो गृह्यते ।
एवं प्राप्त उच्यते-ऽसर्गक्रमविवादे ऽपि न स सृष्टरि विद्यते ।
सतस्त्वसद्वचो भक्त्या निराकार्यतया क्कचित् ॥
ऽ न तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् ।
तथाहि-अनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पटति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतास्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि संभूतं तस्माच्चक्रादेः कुम्भादीति ।
शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि ।
नह्यस्त्यसंभवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् ।
तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानकालानिलादौ तत्र तत्र साक्षात् परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः संभूत इति ।
शक्यं च वक्तुं परमेश्वरादनलः संभूत इत्यादि ।
यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः ।
न चैतदस्ति ।
तस्मादमूषामविवादः श्रुतीनाम् ।
एवं ऽस इमांल्लोकानसृजतऽ इत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा ।
एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणाद्धि ।
ते तु यथाक्रमास्थिता एवाक्रमेणोच्यन्ते-यथा क्रमवन्ति ज्ञानानि जानातीति ।
तदेवमविगानम् ।
अभ्युपेत्य तु विगानमुच्यते-सृष्टौ खल्वेतद्विगानम् ।
स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते ।
नात्र श्रुतिविगानं मात्रयाप्यस्ति ।
नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् ।
नह्येष स्रष्टृत्वमात्रेणोच्यते ऽपि तु ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इत्यादिना रूपेणोच्यते स्रष्टा ।
तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् ।
तज्ज्ञानं च फलवत् ।
ऽब्रह्मविदाप्नोति परम्ऽ ऽतरति शोकमात्मवित्ऽ इत्यादि श्रुतेः ।
सृष्टिज्ञानस्य तु न फलं श्रूयते ।
तेन ऽफलवत्संनिधावफलं तदङ्गम्ऽ इति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् ।
तथाच श्रुतिः-ऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छऽ इत्यादिका ।
शुङ्गेनाग्रेण ।
कार्येणेति यावत् ।
तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति ।
अपि तु ऽगुणे त्वन्यायकल्पनाऽ इति तदनुगुणतया व्याख्येया ।
यच्च कारणे विगानम्ऽअसद्वा इदमत्र असीत्ऽ इति, तदपि ऽतदप्येष श्लोको भवतिऽ इति पूर्वप्रकृतं सद्ब्रह्मणाकृष्य ऽअसदेवेदमत्र आसीत्ऽ इत्युच्यमानं त्वसतो ऽभिधाने ऽसंबद्धं स्यात् ।
श्रुत्यन्तरेण च मानान्तरेण च विरोधः ।
तस्मादौपचारिकं व्याख्येयम् ।
ऽतद्धैक आहुरसदेवेदमत्र आसीत्ऽ इति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः ।
पूर्वपक्षं निवर्तयति ।
आकाशादिषु सृज्यमानेषु क्रमविगाने ऽपि न स्रष्टरि विगानम् ।
कुतः ।
यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, ऽआत्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निरग्नेरापो ऽद्भ्यः पृथिवीऽ इति, तस्यैव क्रमस्यानपबाधनेन ऽतत्तेजो ऽसृजतऽ इत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम्

15.15

1.4.4.15.
नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति ।
अत आह- #कारणत्वेति# ।
हेतौ तृतीया ।
सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः ।
प्रपञ्चितं चैतदधस्तात् ।
व्यक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति ।
नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति ।
अपि तूपस्थापयत्येव ।
तस्मात्सर्वमवदातम्

15.16

1.4.5.16.
#जगद्वाचित्वात्# ।
ननु ऽब्रह्म ते ब्रवाणिऽ इति ब्रह्माभिधानप्रकरणात्, उपसंहारे च ऽसर्वान् पाप्मनो ऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेदऽ इति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसंभवात्, आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च ऽयस्य वैतत्कर्मऽ इति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परमार्शेन, जगत्कर्तृत्वस्य च ब्रह्मणो ऽन्यत्रासंभवात्कथं जीवमुख्यप्राणाशङ्का ।
उच्यते-ब्रह्म ते ब्रवणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् ।
यस्य चाजातशत्रोः ऽयो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मऽ इति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् ।
न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् ।
तस्मादजातशत्रोर्वाक्यसंदर्भपौर्वापर्यपर्यालोचनया यो ऽस्यार्थः प्रतिभाति स एव ग्राह्यः ।
अत्र च कर्मशब्दस्तावद्व्यापारे नेरूढवृत्तिः ।
कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते ।
नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् ।
नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता ।
वाक्यशेषे च ऽअथास्मिन् प्राण एवैकधा भवतिऽ इति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते ।
आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् ।
ऽकतम एको देवः प्राणःऽ इति श्रुतेः ।
उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्वहून् पाप्मनो बहूनां भूतानामित्येवंपरो द्रष्टव्यः ।
एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः ।
यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसंबद्धं स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात् प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध यष्टिघातोत्थानात् प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति ।
परस्तादपि ऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्तिऽ इति श्रवणात् ।
यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति ।
ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति ।
एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगैतरात्मभिर्विषयान् भुङ्क्ते ।
ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणो ऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
#यस्य वैतत्कर्म इति# ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां क4म जीवस्य भवति ।
कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् ।
तौ च धर्माधर्मौ जीवस्य ।
धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् ।
उपपन्नं च प्राणसृत्त्वाज्जीवस्य प्राणशब्दत्वम् ।
ये च प्रश्नप्रतिवचने-ऽक्कैष एतद् बालाके पुरुषो ऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यतिऽ इति ।
अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते ।
जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते ।
तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न रपरमेश्वर इति प्राप्तम् ।
#एवं प्राप्ते#उच्यते-ऽमृष्टावादिनमापोद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसंबद्धं मिथ्या वा वक्तुमर्हति ॥
ऽ यथा हि केनचिन्मणिलक्षणज्ञममानिना काचे मणिरेव वेदितव्य इत्यक्ते परस्य काचो ऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं जिज्ञापयिषोस्तत्त्वाभिधानमसंबद्धम् ।
अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् ।
तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादसता मणितत्त्वमेव वक्तव्यम् ।
एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असंबद्धमुक्तं स्यात् ।
तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् ।
तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् ।
तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् ।
तथा सत्यस्य न मिथ्यावद्यम् ।
तस्मात् ऽब्रह्म ते ब्रवाणिऽ इति ब्रह्मणोपक्रमात्, सर्वान् पाप्मनो ऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽ इति च सति संभवे सर्वश्रुतेरसंकोचान्निरतिशयेन फलेनोपसंहारात्, ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य ब्रह्मण्येव संभवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात्, ऽक्कैष एतद्बालाकेऽ इत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्य ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवतिऽ इत्यादेरुत्तस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते ।
अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे,
तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठति-एतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति ।
एतदुक्तं भवति-आत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति ।
यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः ।
एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसंदर्भस्य ब्रह्मपरत्वे स्थिते #यस्य वैतत्कर्म#इति व्यापाराभिधाने न संगच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् ।
न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात् पुंलिङ्गत्वाच्च ।
एतदिति चैकस्य नपुंसकस्याभिधानात् ऽएतेषां पुरुषाणां कर्ताऽ इत्यनेनैव गतार्थत्वाच्च ।
तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं संबन्धार्हं जगदेव पराम्रष्टव्यम् ।
#एतदुक्तं भवति# ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते ।
जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् ।
न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः ।
तथा सति हि वह्नसमञ्जनं स्यादित्युक्तम् ।
न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतवोधनं युक्तम् ।

नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् ।
नच संभवत्येकवाक्यत्वे वाक्यभेदो न्याट्यः ।
वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् ।
पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव ।
तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् ।
निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्त यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आह- #नापि पुरुषविषयस्येति# ।
एतदुक्तं भवति-कर्तृशब्देनैव कर्तारमभिदधत्ता तयोरुपात्तत्वादाक्षिप्तत्वात् ।
नहि कृतिं विना कर्ता भवति ।
नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह- #एतदुक्तं भवति ।
य एषां पुरुषाणामिति#

15.17

1.4.5.17.

15.18

1.4.5.18.
ननु ऽप्राण एवैकधा भवतिऽ इत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति- #एतस्मादात्मनः प्राणा इति# ।
अपि च सर्ववेदान्तसिद्धमेतदित्याह- #सुषुप्तिकाले चेति# ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाह- #तस्माद्यत्रास्य#आत्मनो यतो निःसंबोधो ऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव ।
लयविक्षेपसंस्कारयोस्तत्र भावात् ।
समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् ।
एतदेव विभजते-उपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रिहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम्- #विशेषेति# ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेये ऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमानमनन्ति परमात्मानमित्याह- #अपिचैवमेक इति# ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह- #आकाशशब्दश्चेति# ।
न तावन्मुख्यस्याकाशस्यात्माधाग्तवसंभवः ।
यदपि च द्वासप्ततिसहस्रहिताभिधानाडीसंचारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य ।
तस्मात् ऽदहरो ऽस्मिन्नन्तराकाशःऽ इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् ।
तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाह- #प्राणनिराकरणस्यापीति# ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः ।
तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे ऽबृहत् पाण्डुरवासः सोमराजन्ऽ इति ।
स अमन्त्र्यमाणो नोत्तस्थौ ।
तं पाणिनापेषं बोधयाञ्चकार ।
स होत्तस्थौ ।
ऽस होवाचजातशत्रुर्यत्रैष एतत्सुप्तो ऽभूत्ऽ इत्यादि ।
सो ऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति

15.19

1.4.6.19.
#वाक्यान्वयात्# ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैट्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं प्रतिममृतत्वार्थिनी प्रपच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तनामृता स्यामुत नेति ।
तत्र नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन ।
एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् ।
तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः ।
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि ।
अमृतत्वसाधनमिति शेषः ।
तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो ऽन वा अरे पत्युः कामायऽ इत्यादिवाक्यसंदर्भमुवाच ।
आत्मैपाधिकं हि प्रियत्वमेषां न तु साक्षात् प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एव #आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः# ।
वाशब्दो ऽवधारणे ।
वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वं विदितं भवतीति वाक्यशेषः ।
यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः ।
तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् ।
कुतः ।
यतो ऽब्रह्म तं परादात्ऽ ब्राह्मणजातिर्ब्रह्मणो ऽहमित्येवमभिमान इति यावत् ।
परादात् पराकुर्यादमृतत्वपदात् ।
कं, यो ऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद ।
एवं क्षत्रियादिष्वपि द्रष्टव्यम् ।
आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति ।
अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह ।
यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते ।
यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः, दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदः ।
न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि ।
तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम् #-स यथा दुन्दुभेर्हन्यमानस्येति# ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति ।
न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहणाच्चिदात्मनो न व्यतिरिच्यते ऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्वृष्टान्तेन साधयति भगवती श्रुतिः-ऽस यथार्द्रैधो ऽग्रेरभ्याहितस्य पृथग्धूना विनिश्चरन्त्येवं वा अरे ऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ इत्यादिना चतुर्विधो मन्त्र उक्तः ।
इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् ।
एतदुक्तं भवति-यथाग्निमात्रं प्रथममवगम्यते श्रुद्राणां विस्फुलिङ्गानामुपादानाम् ।
अथ ततो विस्फुलिङ्गा व्युच्चरन्ति ।
न चैते ऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्तं निर्वुक्तम् ।
एवमृग्वेदादयो ऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते ।
ऋगादिभिर्नामोपलक्ष्यते ।
यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः ।
न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते ।
यथा सामुद्रमेवाम्भः पृथिवीतेजः संपर्कात् काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकारे समुद्रे क्षिप्तो ऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्छिदेव भवति न तु ततो ऽतिरिच्यत इति ।
एतद्दृष्टान्तप्रबन्धेनाह- #स यथा सर्वासामपामित्यादि# ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति- #एवं वा अरे इदं महदिति# ।
बहुत्त्वेन ब्रह्मोक्तम् ।
इदं ब्रह्मेत्यर्थः ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतम् ।
#विज्ञानघनः# ।
विज्ञानैकरस इति यावत् ।
एतेभ्यः कार्यकारणभावेन व्यवस्थैतेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय ।
कार्यकारणसंघातस्य ह्यवच्छेदाद्दुः खित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीते ऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः ।
तदिदं साम्येनोत्थानम् ।
यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजो ऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलवासनाविद्यामलस्य कार्यकारणसंघातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनि तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति ।
ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति ।
न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान् न प्रेत्य संज्ञास्तीति ।
स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः ।
आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत् केन कं पश्येत्, ब्रह्म वा केन विजानीयात् ।
नहि तदास्य कर्भावो ऽस्ति स्वप्रकाशत्वात् ।
एतदुक्तं भवति-न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति ।
तदेवममृतत्वफलेनोपक्रमात्, मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात्, उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपभिधानात्, द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्रह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् ।
अत्रोच्यते-भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्रह्मणे पूर्वपक्षेणोपक्रमः कृतः ।
पतिजायादिभोग्यसंबन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्तानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह ।
अन्यथा ब्रह्मणो द्रष्टव्यत्वपरे ऽस्मिन् ब्राह्मणो तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।
#भोक्त्रर्थत्वाच्च भोग्यजातस्येति#तदुपोद्बलमात्रम् ।
सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः

15.20

1.4.6.20.
तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः- #प्रतिज्ञासिद्धेर्लिङ्गमाश्मरध्यः# ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात्, नापि ततो ऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मनो ऽपि ब्रह्मविकार न ब्रह्मणो ऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् ।
नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात्, सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च ।
तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च ।
तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरध्य आचार्यो मेने

15.21

1.4.6.21.
आचार्यदेशीयान्तरमतेन समाधत्ते- #उत्क्रमिष्यत एवंभावादिस्यौडुलोमिः# ।
जीवो हि परमात्मनो ऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसंपर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहेन्द्रियादिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् ।
एतदुक्तं भवति-भविष्यन्तमभेदमुपादाय भेदकाले ऽप्यभेद उक्तः ।
यथाहुः पाञ्चरात्रिकाः-ऽआमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
भुक्तस्य तु न भेदो ऽस्ति भेदहेतोरभावतः ॥
ऽ इति ।
अत्रैव श्रुतिमुपन्यस्यति- #श्रुतिश्चैवमिति# ।
पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् ।
संप्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।
ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याह- #क्कचिच्च जीवाक्षयमपीति# ।
नदीनिदर्शनम् ऽयथा सोम्येमा नद्यःऽ इति

15.22

1.4.6.22.
तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः #-अविस्थितेरिति काशकृत्स्नः# ।
एतद्व्याचष्टे- #अस्यैव परमात्मन इति# ।
न जीव आत्मनो ऽन्यः ।
नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः ।
आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा ।
ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततो ऽभेदात् ।
स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।
अत्रैव श्रुतिं प्रमाणयति- #तथाचेति# ।
अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह- #नच तेजःप्रभृतीनामिति# ।
नहि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।
आचार्यत्रयमतं विभजते- #काशकृत्स्नस्याचार्यस्येति# ।
आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिको ऽभेद आस्थेयः, तथाच कथञ्चिद्भेदो ऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति- #तत्र तेषु#मध्ये ।
#काशकृत्स्नीयं मतमिति# ।
आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विके ऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्मना साक्षात्कारणे विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव व म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रो ऽसीति आप्तोपदेशेन ।
न तु मृद्विकारः शरावादिः शतशो ऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात्, वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात्, सो ऽयं प्रतिपादयिषितार्थानुसारः ।
अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात् स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्रापिश्रुतिविरोधश्च ।
काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह- #एवं च सतीति# ।
ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्च ऽयथाग्नेः श्रुद्रा विस्फुलिङ्गाऽ इति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोति- #अतश्च स्वाश्रयस्येति# ।
यतः प्रतिपादयिषितारानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न संभवतः, अतश्चेति योजना ।
द्वितीयपूर्वपक्षबीजमनयैव त्रिसूत्र्यापाकरोति- #यदप्युक्तमिति# ।
शेषमतिरोहितार्थं व्याख्यातार्थं च ।
तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् ।
ऐकान्तिके ह्याद्वैते आत्मनो ऽन्यकर्मकरणे ऽकेन कं पश्येत्ऽ इति आत्मनश्च कर्मत्वं ऽविज्ञातारमरे केन विजानीयात्ऽ इति शक्यं निषेद्धुम् ।
भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।
न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह- #अपि च यत्र हीति# ।
कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह- #दर्शितं तु पुरस्तादिति# ।
काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाह- #अतश्चेति# ।
क्कचित्पाठ आतश्चेति ।
तस्यावश्यं चेत्यर्थः ।
जननजरामरणभीतयो विक्रियास्तासां सर्वासां ऽमहानजःऽ इत्यादिना प्रतिषेधः ।
परिणामपक्षे ऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराः ऽएकमेवाद्वितीयम्ऽ इत्यादयः, द्वैतदर्शननिन्दापराश्च ऽअन्यो ऽसावन्यो ऽहमस्मिऽ इत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्च ऽएष महानजःऽ इत्यादयः श्रुतय उपरुध्येरन् ।
अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् ।
अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं,ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् ।
सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते-ऽवेदान्तविज्ञानसुनिश्चितार्थाःऽ इति ।
तदेतदाह- #अन्यथा मुमुक्षूणामिति# ।
ऽएकत्वमनुपश्यतःऽ इति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।
ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता ।
अविद्याकृतनामरूपोपाधिवशादिति चेत् ।
कस्येयमविद्या ।
न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् ।
नापि परमात्मनः, तस्य विद्यैकरस्याविद्याश्रयत्वानुपपत्तेः ।
तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धयधर्मसंसर्गुद्बुद्धिव्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदो ऽपि भाविक इत्यत आह- #स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति# ।
न तावद्भेददाभेदावेकात्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे ।
द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्तः प्रतीयन्ते ।
तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदे ऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलाशशयामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिके ऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति ।
अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते ।
न चैवमन्योन्याश्रयो जीवविभागाश्रयाविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् ।
अत एव कानुद्दिश्यैव ईश्वरो मायामारचयत्यनार्थिकां, उद्देश्यनां सर्गादौ जीवानामभावात्, कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः ।
न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति ।
अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।
स्यादेतत् ।
यदि न जीवान् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्, तथा च ऽनिहितं गुहायाम्ऽ इति नोपपद्यत इत्यत आह- #नहि सत्यमिति# ।
यथाहि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणो ऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति ।
यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।
अस्तु तर्हि ब्रह्मणो ऽन्यद्गुह्यमित्यत आह- #नच ब्रह्मणो ऽन्य इति ।

ये तु#आशमरथ्यप्रभृतयः #निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति# ।
ब्रह्मणः सर्वात्मना भगशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदश्रितो मोक्षो ऽपि तथा स्यात् ।
यदि त्वेवमपि मोक्षं नित्यङ्कृतकं ब्रूयुस्तत्राह #-न्यायेनेति# ।
एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासंगतिः ।
नो जातु घटः पटो भवति ।
ननूक्तं यथा नदी समुद्रो भवतीति ।
का पुनर्नद्यभिमता आयुष्मतः ।
किं पाथः परमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धो ऽवयवी ।
तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता ।
नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः ।
एवं समुद्रादपि तेषां भेद एव ।
ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथं ऽनिष्फलं निष्क्रियं शान्तम्ऽ इति न श्रुतिविरोधः ।
निष्फलमिति सावयवत्वं व्यासेधि न तु सांशत्वम्, अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् ।
न तावन्नभो नभसोंशः, तस्य तत्त्वात् ।
कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति ।
नच कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति ।
नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् ।
तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् ।
न ।
अनुपपत्तेः ।
नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्र प्रथेत ।
नह्यस्ति संभवो ऽनवयवमव्याप्यवर्तत इति ।
तस्मात्तत्रास्ति चेद्व्याप्यैव ।
न चेद्व्यापनोति तत्र नास्त्येव ।
व्याप्यैवास्ति केवलं प्रतिसंबन्ध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत्, न नाम निरूप्यताम् ।
तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः ।
नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुम् न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् ।
तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् ।
नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानो ऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् ।
अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य ।
कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् ।
न ।
पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य ।
अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् ।
अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्यमायायाः ।
अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् ।
तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् ।
एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम्

15.23

1.4.7.23.
#प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्# ।
स्यादेतत् ।
वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं संगतिं दर्शयन्नवशेषमाह- #यथाभ्युदयेति# ।
अत्र च लक्षणस्य संगतिमुक्त्वा लक्षणेनास्याधिकरणस्य संगतिरुक्ता ।
एतदुक्तं भवति-सत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।
तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि ।
तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसारणे सांख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् ।
तथा च ऽजन्माद्यस्य यतःऽ इति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधाने ऽपि गतत्वात् ।
असंभवाद्वा ।
यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् ।
सो ऽयमवशेषः ।
तत्र ऽईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्हिचित् ॥
ऽ तदिदमाह- #तत्र निमित्तकारणमेव तावदिति# ।
आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह- #पारिशेष्याद्ब्रह्मणो ऽन्यदिति# ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधे ऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् ऽउत तमादेशम्ऽ इत्यादिना, ऽयथा सोम्यैकेन मृत्पिण्डेनऽ इति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः ।
यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।
एवं प्राप्त उच्यते #-प्रकृतिश्च# ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् ।
निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् ।
तथाहिः-ऽन मुख्ये संभवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः ॥
ऽ तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु ऽयजमानः प्रस्तरःऽ इतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् ।
प्रतिज्ञादृष्टन्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः ।
निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति ।
अतो ब्रह्मोपादानकारणं जगतः ।
नच ब्रह्मणो ऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् ।
प्रतिज्ञादृष्टान्तोपरोधादेव ।
नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति ।
जगन्निमित्तकारणस्य ब्रह्मणो ऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् ।
यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, ऽजनिकर्तुः प्रकृतिःऽ इति ।
ततो ऽपि प्रकृतित्वमवगच्छामः ।
दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम्

15.24

1.4.7.24.
अनागतेच्छासंकल्पो ऽभिध्या ।
एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् ।
ऽबहु स्याम्ऽ इति च स्वविषयतयोपादानत्वमुक्तम्

15.25

1.4.7.25.
#आकाशादेव# ।
ब्रह्मण एवेत्यर्थः ।
साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे- #आकाशादेवेति# ।
श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति #साक्षादिति#सूत्रावयवेन दर्शितमिति योजना

15.26

1.4.7.26.
#आत्मकृतेः परिणामात्# ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
#कथं पुनरिति# ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
#परिणामादिति ब्रूम इति# ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामो ऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिन्न व्याचष्टे- #परिणामादिति वेति# ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे ।
सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् ।
त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाट्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति

15.27

1.4.7.27.
पूर्वपक्षिणो ऽनुमानमनुभाष्यागमविरोधेन दूषयति #-यत्पुनरिति# ।
एतदुक्तं भवति-ईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वजगत्कर्तृत्वात्, कुम्भकर्तुकुलालवत् ।
अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः ।
यथाहुः-ऽनानुपलब्धे न्यायः प्रवर्ततेऽ इति ।
आगमात्तत्सिद्धिरिति चेत्, हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशो ऽभ्युपगतव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति ।
विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतमुर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः ।
इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् ।
न खलु नित्यस्य निष्फलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः संभवति, नित्यत्वादनेकदेशत्वादित्युक्तम् ।
नच मृदः शरवादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव ।
यथाह श्रुतिः-ऽमृत्तिकेत्येव सत्यम्ऽ इति ।
तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्कचिदद्वैतमाहुः, क्कचिद्द्वैतनिषेधेन, क्कचिद्ब्रह्मोपादानत्वेन जगतः ।
एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः ।
नहि वाक्यैकदेशस्यार्थो ऽस्तीति

15.28

1.4.8.28.
स्यादेतत् ।
मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाणवादीनामपि तदुपादानानामुपप्लवमानत्वात्, तेषामपि हि किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारः- #एतेन सर्वे व्याख्याता व्याख्याताः# ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् ।
ऽप्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम्

15.4

ऽ इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc