भाषा

ENहिગુ
ग्रंथ पाठ

भल्लटशतक · श्लोक 81-100

81

अहो स्त्रीणां क्रौर्यं हतरजनि धिक् त्वाम् अतिशठे वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः
अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितम् उदधिमुख्यैर् ननु जडैः ॥

82

अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपो ऽयं स्थाने ग्लपयति मृषामून् अवयवान्
उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखम् अपि च किं सोढम् अमुना ॥

83

नामाप्य् अन्यतरोर् निमीलितम् अभूत् तत् तावद् उन्मीलितं प्रस्थाने स्खलतः स्ववर्त्मनि विधेर् अप्य् उद्गृहीतः करः
लोकश् चायम् अनिष्टदर्शनकृताद् दृग्वैशसान् मोचितो युक्तं काष्ठिक लूनवान् यद् असि ताम् आम्रालिम् आकालिकीम् ॥

84

वाताहारतया जगद्विषधरैर् आश्वास्य निःशेषितं ते ग्रस्ताः पुनर् अभ्रतोयकणिकातीव्रव्रतैर् बर्हिभिः
ते ऽपि क्रूरचमूरुचर्मवसनैर् नीताः क्षयं लुब्धकैर् दम्भस्य स्फुरितं विदन्न् अपि जनो जाल्मो गुणनीहते ॥

85

ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना सोढो येन कदा चिद् एव न निजे गोष्ठे ऽन्यशौण्डध्वनिः
आसीद् यस् तु गवां गणस्य तिलकस् तस्यैव सम्प्रत्य् अहो धिक् कष्टं धवलस्य जातजरसो गोः पण्यम् उद्घोष्यते ॥

86

अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम्
ते देवस्याप्य् अचिन्त्याश् चटुलितभुवनाभोगहेलावहेला मूलोत्खातानुमार्गागतगिरिगुरवस् तार्क्ष्यपक्षाग्रवाताः ॥

87

चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो दद्युर् जीवितम् एव किं गिरिसरित्स्रोतांसि यद्य् अम्बुधेः
तेष्व् एव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्व् इव द्राग् दर्पोद्धुरम् आगतेष्व् अपि न स क्षीयेत यद्य् अन्यथा ॥

88

किलैकचुलुकेन यो मुनिर् अपारम् अब्धिं पपौ सहस्रम् अपि घस्मरो ऽविकृतम् एष तेषां पिबेत्
न सम्भवति किं त्व् इदं बत विकासिधाम्ना विना सद् अप्य् असद् इव स्थितं स्फुरितम् अन्त ओजस्विनाम् ॥

89

ग्रावाणो ऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्व् अत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः
शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवाद् एति जडः स्वकुक्षिभ्र्तये सो ऽप्य् अम्बुधिर् निम्नताम् ॥

90

अनीर्ष्या श्रोतारो मम वचसि चेद् वच्मि तद् अहं स्वपक्षाद् भेतव्यं न तु बहु विपक्षात् प्रभवतः
तमस्य् आक्रान्ताशे कियद् अपि हि तेजो ऽवयविनः स्वशक्त्या भान्त्य् एते दिवसकृति सत्य् एव न पुनः ॥

91

एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन् मुक्तामणिर् इत्य् अमंस्त स जडः शृण्वन् यद् अस्माद् अपि
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्य् आदीयमाने शनैः कुत्रोड्डीयगतो ममेत्य् अनुदिनं निद्राति नान्तःशुचा ॥

92

आस्ते ऽत्रैव सरस्य् अहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ् न धावति मनः श्रीधाम्नि पद्मे क्व चित्
सुप्तो ऽद्यापि न बुध्यते तद् इतरांस् तावत् प्रतीक्षामहे वेलाम् इत्य् उदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥

93

भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने दातुं गण्डचपेतम् उज्झितभिया हस्तः समुल्लासितः
यच् चाधोमुखम् अक्षिणी पिदधता नागेन तत्र स्थितं तत् सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥

94

मृत्योर् आस्यम् इवाततं धनुर् इदं चाशीविषाभाः शराः शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः
अन्तः क्रौर्यम् अहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगम् ॥

95

को ऽयं भ्रान्तिप्रकारस् तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत् पांसुपूरं प्रतिष्ठाम्
यस्मिन्न् उत्थाप्यमाने जननयनपथोपद्रवस् तावद् आस्तां केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥

96

एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर् वेत्रिभिः
अर्थेभ्यो विषयोपभोगविरसैर् नाकारि यैर् आदरस् ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥

97

वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः
मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत् किं स्फुरसि त्वम् अप्य् अकरुणे स्त्रीत्वे ऽपि तुल्ये सति ॥

98

प्राणा येन समर्पितास् तव बलाद् येनैवम् उत्थापितः स्कन्धे येन चिरं धृतो ऽसि विदधे यस् ते सपर्याम् अपि
तस्यान्तह् स्मितमात्रकेण जनयञ् जीवापहारं क्षणाद् भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥

99

रज्ज्वा दिशः प्रवितताः सलिलं विषेण खाता मही हुतभुजा ज्वलिता वनान्ताः
व्याधा पदान्य् अनुसरन्ति गृहीतचापाः कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥

100

अयं वाराम् एको निलय इति रत्नाकर इति श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः
क एवं जानीते निजकरपुटीकोटरगतं क्षणाद् एनं ताम्यत्तिमिनिकरम् आपास्यति मुनिः ॥

मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc