भाषा

ENहिગુ
ग्रंथ पाठ

भल्लटशतक · श्लोक 61-80

61

भूयांस्य् अस्य मुखानि नाम विदितैवास्ते महाप्राणता कद्रवाः सत्प्रसवो ऽयम् अत्र कुपिते चिन्त्यं यथेदं जगत्
त्रैलोक्याद्भुतम् ईदृशं तु चरितं शेषस्य येनापि सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता ॥

62

वर्षे समस्त एकैकः श्लाघ्यः को ऽप्य् एष वासरः
जनैर् महत्तया नीतो यो न पूर्वैर् न चापरः ॥

63

आबद्धकृत्रिमसटाजटिलांसभित्तिर् आरोपितो मृगपतेः पदवीं यदि श्वा
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥

64

किम् इदम् उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः फलपरिणतेर् युक्तं प्राप्तं गुणप्रणयस्य वा
क्षणम् उपगतः कर्णोपान्तं परस्य पुरः स्थितान् विशिख निपतन् क्रूरं दूरान् नृशंस निहंसि यत् ॥

65

अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम्
निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥

66

आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मधेवारिधि वा वसंस् तृणमणिर् धत्ते मणीनां रुचम्
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक् सामान्यम् अचेतनं प्रभुम् इवानामृष्टतत्त्वान्तरम् ॥

67

हेमकार सुधिये नमो ऽस्तु ते दुस्तरेषु बहुशः परीक्षितुम्
काञ्चनाभरणम् अश्मना समं यत् त्वयैवम् अधिरोप्यते तुलाम् ॥

68

वृत्त एव स घटो ऽन्धकूप यस् त्वत्प्रसादम् अपि नेतुम् अक्षमह्
मुद्रितं त्व् अधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः प्रतीच्छता ॥

69

तृणमणेर् मनुजस्य च तत्त्वतः किम् उभयोर् विपुलाशयतोच्यते
तनुतृणाग्रलवावयवैर् ययोर् अवसिते ग्रहणप्रतिपादने ॥

70

शतपदी सति पादशते क्षमा यदि न गोष्पदम् अप्य् अतिवर्तितुम्
किम् इयता द्विपदस्य हनुमतो जलनिधिक्रमणे विवदामहे ॥

71

न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः
फलविधानकथापि न मार्गणे किम् इह लुब्धकबालगृहे ऽधुना ॥

72

तनुतृणाग्रधृतेन हृतश् चिरं क इव तेन न मौक्तिकशङ्कया
स जलबिन्दुर् अहो विपरीतदृग् जगद् इदं वयम् अत्र सचेतनाः ॥

73

बुध्यामहे न बहुधापि विकल्पयन्तः कैर् नामभिर् व्यपदिशेम महामतींस् तान् \तेस्तिम्{\चित् सुभाषितावली 982}*
येषाम् अशेषभुवनाभरणस्य हेम्नस् तत्त्वं विवेक्तुम् उपलाः परमं प्रमाणम् ॥

74

संरक्षितुं कृषिम् अकारि कृषीवलेन पश्यात्मनः प्रतिकृतिस् तृणपूरुषो ऽयम्
स्तब्धस्य निष्क्रियतयास्तभियो ऽस्य नूनम् अश्नन्ति गोमृगगणाः पुर एव सस्यम् ॥

75

कस्यानिमेषनयने विदिते दिवौको लोकाद् ऋते जगति ते अपि वै गृहीत्वा
पिण्डप्रसारितमुखेन तिमे किम् एतद् दृष्टं न बालिश विशद् बडिशं त्वयान्तः ॥

76

पुंस्त्वाद् अपि प्रविचलेद् यदि यद्य् अधो ऽपि यायाद् यदि प्रणयने न महान् अपि स्यात्
अभ्युद्धरेत् तद् अपि विश्वम् इतीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥

77

स्वाल्पाशयः स्वकुलशिल्पविकल्पम् एव यः कल्पयन् स्खलति काचवणिक् पिशाचः
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥

78

तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक् स्वतन्त्रो भयात् स्वस्थस् तान् न निपातयेद् इति यथाकामं न सम्पोषितः*
संशुष्यन् पृषदंश एष कुरुतां मूकः स्थितो ऽप्य् अत्र किं गेहे किं बहुना ऽधुना गृहपतेश् चौर्राश् चरन्त्य् आखवः ॥

79

एवं चेत् सरसस्वभावमहिमा जाड्यं किम् एतादृशं यद्य् एषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी
मूलं चेच् छुचिपङ्कजश्रुतिर् इयं कस्माद् गुणा यद्य् अमी किं छिद्राणिमृणाल भवतस् तत्त्वं न मन्यामहे ॥

80

ये दिग्ध्वेव कृता विषेण कुसृतिर् येषां कियद् भण्यते लोकं हन्तुम् अनागसं द्विरसना रन्ध्रेषु ये जाग्रति
व्यालास् ते ऽपि दधत्य् अमी सदसतोर् मूढा मणीन् मूर्धभिर् नौचित्याद् गुणशलिनां क्व चिद् अपि भ्रंशो ऽस्त्य् अलं चिन्तया ॥

मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc