भाषा

ENहिગુ
ग्रंथ पाठ

भल्लटशतक · श्लोक 101-103

101

विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद् बुद्धिः फलम् अपि भवेद् अस्य सदृशम्
चिरासीनं तस्मिंश् च फलम् अपि दैवात् परिणतं विपाके तूलो ऽन्तः सपदि मरुता सो ऽप्य् अपहृतः ॥

102

सर्वप्रजाहितकृते पुरुषोत्तमस्य वासे समस्तविबुधप्रथितेष्टसिद्धौ
चन्द्रांशुवृन्दविततद्युतिम् अत्य् अमुष्मिन् हे कालकूट तव जन्म कथं पयोधौ ॥

103

फलितघनविटपविघटितपटुदिनकरमहसि लसतिकल्पतरौ ।
छायार्थी कः पशुर् अपि भवति जरद्वीरुधां प्रणयी ॥

मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc