भाषा

ENहिગુ
ग्रंथ पाठ

भल्लटशतक · श्लोक 41-60

41

साधूत्पातघनौग साधु सुधिया ध्येयं धरायाम् इदं को ऽन्यः कर्तुम् अलं तवैव घटते कर्मेदृशं दुष्करम्
सर्वस्यौपयिकानि यानि कतिचित् क्शेत्राणि तत्राशनिः सर्वान् औपायिकेषु दग्धसिकतारण्येष्व् अपां वृष्टयः ॥

42

लब्धायां तृषि गोमृगस्य विहगस्यान्यसय् वा कस्य चिद् वृष्ट्या स्याद् भवदीययोपकृतिर् इत्य् आस्तां दवीयस्य् अदः
अस्यात्यन्तम् अभाजनस्य जलदारण्योषरस्यापि किं जाता पश्य पुनः पुनर् एव परुषा सैवास्य दग्धा छविः ॥

43

संत्यज्य पानाचमनोचितानि तोयान्तराण्य् अस्य सिसेविषोस् त्वाम्
निर्जैन, जिह्रेषि जलैर् जनस्य जघन्यकार्यौपयिकैः पयोधे ॥

44

आस्त्रीशिशु प्रथित एष पिपासितेभ्यः संरक्ष्यते ऽम्बुधिर् अपेयतयैव दूरात्
दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्य् अपरम् ऊर्मिपरम्पराभिः ॥

45

स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिर् अभितः क्रुशित्वा क्लिश्नासि श्रुतिकुहरम् अब्धे किम् इति नः
इहैकश् चूडालो ह्य् अजनि कलशाद् यस्य सकलैः पिपासोर् अम्भोभिश् चुलुकम् अपि नो भर्तुम् अशकः ॥

46

सर्वासां त्रिजगत्य् अपाम् इयम् असाव् आधारता तावकी प्रोल्लासो ऽयम् अथाम्बुधे ऽम्बुनिलये सेयं महासत्त्वता
सेवित्वा बहुभङ्गभीषणतनुं त्वाम् एव वेलाचल ग्रावस्रोतसि पानतापकलहो यत् क्वापि निर्वाप्यते ॥

47

नोद्वेगं यदि यासि यद्य् अवहितः कर्णं ददासि क्षणं त्वां पृच्छामि यद् अम्बुधे किम् अपि तन् निश्चित्य देह्य् उत्तरम्
नैराश्यातिशयातिमात्रनिभृतैर् निःश्वस्य यद् दृश्यसे तृष्यद्भिः पथिकैः कियत् तदधिकं स्याद् और्वदाहाद् अतः ॥

48

भिद्यते ऽनुप्रविश्यान्तर् यो यथारुच्य् उपाधिना
विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥

49

चिन्तामणे भुवि न केन चिद् ईश्वरेण मूर्ध्ना धृतो ऽहम् इति मा स्म सखे विषीदः
नास्त्य् एव हि त्वदधिरोपणपुण्यबीज सौभाग्ययोग्यम् इह कस्य चिद् उत्तमाङ्गम् ॥

50

संवित्तिर् अस्त्य् अथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्तम् इह कस्य किम् उच्यतां वा
नन्व् एवम् एव सुमणे लुट यावद् आयुस् त्वं मे जगत्प्रसहने ऽत्र कथाशरीरम् ॥

51

चिन्तामणेस् तृणमणेश् च कृतं विधात्रा केनोभयोर् अपि मणित्वम् अदः समानम्
नैको ऽर्थितानि ददन्न् अर्थिजनाय खिन्नो गृह्णञ् जरत्तृणलवं तु न लज्जते ऽन्यः ॥

52

दूरे कस्य चिद् एष को ऽप्य् अकृतधीर् नैवास्य वेत्त्य् अन्तरं मानी को ऽपि न याचते मृगयते को ऽप्य् अल्पम् अल्पाशयः
इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः ॥

53

परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः
न सम्प्राप्तो वृद्धिं स यदि भृशम् अक्षेत्रपतितः किम् इक्षोर् दोषो ऽयं न पुनर् अगुणाया मरुभुवः ॥

54

आम्राः किं फलभारनम्रशिरसो रम्या किम् ऊष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश् चम्पकाः
एतास् ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥

55

आजन्मनः कुशलम् अण्व् अपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत् त्वम् एव
उत्थापितो ऽस्य् अनलसारथिना यद् अर्थं दुष्टेन तत् कुरु कलङ्कय विश्वम् एतत् ॥

56

निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिच् छुष्यन्तो ऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये
अन्तःसार[अराङ्मुखेन धिग् अहो ते मारुतेनामुना पश्यात्यन्तचलेन सद्म महताम् आकाशम् आरोपिता ॥

57

ये जात्या लघवः सदैव गणनां याता न ये कुत्र चित् पद्भ्याम् एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश् चिरम्
उत्क्षिप्ताश् चपलाशयेन मरुता पश्यान्तरिक्षे ऽधुना तुङ्गानाम् उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्य् अमी पांसवः ॥

58

रे दन्दशूक यद् अयोग्यम् अपीश्वरस् त्वां वात्सल्यतौ नयति नूपुरधाम सत्यम्
आवर्जितालिकुलझंकृतिर् मूर्च्छितानि किं शिञ्जितानि भवतः क्षयम् एव कर्तुम् ॥

59

मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वम् आत्मत्वचो निर्यत्नोपनतश् चैव वृत्तिर् अनिलैर् एकत्र चर्येदृशी
अन्यत्रानृजु वर्त्म वाग् द्विरसना दृष्टौ विषं दृश्यते या धिक् ताम् अनु दीपको ज्वलति भो भोगिन् सखे किं न्व् इदम् ॥

60

कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्य् अमूनि मकरालय मावमंस्थाः
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि ॥

मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc