भल्लटशतक · श्लोक 21-40
पथि निपतितां शून्ये दृष्ट्वा निरावरणानां नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः*
निजसमुचितास् तास् ताश् चेष्टा विकारशताकुलो यदि न कुरुते काकः काणः कदा नु करिष्यति ॥
नृत्यन्तः शिखिनो मनोहरम् अमी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एव खल्व् इह रुषा वार्यन्त एवाथवा
पान्थस्त्रीगृहम् इष्टलाभकथनाल् लब्धान्वयेनामुना सम्प्रत्य् एतद् अनर्गलं बलिभुजा मायाविना भुज्यते ॥
करभ रसभात् क्रोष्टुं वाञ्च्छस्य् अहो श्रवणज्वरः शरणम् अथवानृज्वी दीर्घा तवैव शिरोधरा
पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक् चिरा दियति, समये को जानीते भविष्यति कस्य किम् ॥
अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥
किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्व् अवच्छादनकारणं ते
अस्त्य् एव तान् पश्यति चेद् अनार्या त्रस्तेव लक्ष्मीर् न पदं विधत्ते ॥
न पङ्काद् उद्भूतिर् न जलसहवासव्यसनिता वपुर् दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा
व्यधास्यद् दुर्वेधा हृदयलघिमानं यदि न ते त्वम् एवैको लक्ष्म्याः परमम् अभविष्यः पदम् इह ॥
उच्चैर् उच्चरतु चिरं चिरी वर्त्मनि तरुं समारुह्य
दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः ॥
शङ्खो ऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यते ऽन्यश्वसितेन सत्यम्
किं तूच्चरत्य् एव हि सो ऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥
यथापल्लवपुष्पास् ते यथापुष्पफलर्द्धयः
यथाफलर्द्धिस्वारोहा हा मातः क्वागमन् द्रुमाः ॥
साध्व् एव तविधाव् अस्य वेधा क्लिष्टो न यद् वृथा
स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥
ग्रथितः एष मिथः कृतशृङ्खलैर् विषधरैर् अधिरुह्य महाजडः ।
मलयजः सुमनोभिर् अनाश्रितो यद् अत एव फलेन वियुज्यते ॥
चन्दने विषधरान् सहामहे वस्तु सुन्दरम् अगुप्तिमत्कृतः
रक्षितुं वद किम् आत्मगौरवं सञ्चिताः खदिर कण्टकास् त्वया ॥
यत् किञ् चनानुचितम् अप्य् उचितानुवृत्ति किं चन्दनस्य न कृतं कुसुमं फलं वा
लज्जामहे वयम् उपक्रम एव यान्तस् तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥
लब्धं चिराद् अमृतवत् किम् अमृत्यवे स्याद् दीर्घं रसायनवद् आयुर् अपि प्रदद्यात्
एतत् फलं यद् अयम् अध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः ॥
छिन्नस् तृप्तसुहृत् स चन्दनतरुर् यूयं पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास् तत्र वः
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर् न चेत् किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः ॥
संतोषः किम् अशक्तता किम् अथवा तस्मिन्न् असम्भावना लोभो वायम् उतानवस्थितिर् इयं प्रद्वेष एवाथवा
आस्तां खल्व् अनुरूपया सफलया पुष्पश्रिया दुर्विधे सम्बन्धो ऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥
किं जातो ऽसि चतुष्पथे घनतरछायो ऽसि किं छायया संयुक्तफलितो ऽसि किं फलभरैः पूर्णो ऽसि किं सन्नतः
हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण क्षोभामोटनभञ्जनानि जनतः स्वरैर् एव दुश्चेष्टितैः ॥
सन्मूलः प्रथितोन्नतिर् घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिर् इतीदम् आकलयता तालो ऽध्वगेनाश्रितः
पुंसः शक्तिर् इयत्य् असौ तु फलेद् अद्याथवा श्वो ऽथवा काले क्वाप्य् अथवा कदाचिद् अथवा न त्व् एव वेधाः प्रभुः ॥
त्वन्मूले पुरुषायुषं गतम् इदं देहेन संशुष्यता क्षोदीयंसम् अपि क्षणं परम् अतह् शक्तिः कुतः प्राणितुम्
तत् स्वस्त्य् अस्तु विवृद्द्धिम् एहि महतीम् अद्यापि का नस् त्वरा कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा ॥
पश्यामः किम् अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् दर्पाद् दूरम् उपेक्षितेन बलवत् कर्मेरितैर् मन्त्रिभिः
लब्धात्मप्रसरेण रक्षितुम् अथाशक्येन मुक्त्वाशानिं स्फीतस् तादृग् अहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥
मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0