भल्लटशतक · श्लोक 1-20
तां भवानीं भवानीत क्लेशनाशविशारदाम्
शारदां शारदाम्भोद सितसिंहासनां नमः ॥
युष्माकम् अम्बरमणेः प्रथमे मयूखास् ते मङ्गलं विदधतूदयरागभाजः
कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीर् इव दिक्पुरन्ध्रीः ॥
बद्धा यद् अर्पणरसेण विमर्दपूर्वम् अर्थान् कथं झटिति तान् प्रकृतान् न दद्युः
चौरा इवातिमृदवो महतां कवीनाम् अर्थान्तराण्य् अपि हठाद् वितरन्ति शब्दाः ॥
काचो मणिर् मणिः काचो येषां ते ऽन्ये हि देहिनः
सन्ति ते सुधियो येषां काचः काचो मणिर् मणिः ॥
नन्व् आश्रयस्थितिर् इयं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा
प्राग् अर्णवस्य हृदये वृषलक्ष्मणो ऽथ कण्ठे ऽधुना वससि वाचि पुनः खलानाम् ॥
द्रविणम् आपदि भूषणम् उत्सवे शरणम् आत्मभये निशि दीपकः
बहुविधाभ्युपकारभरक्षमो भवति को ऽपि भवान् इव सन्मणिः ॥
श्रीर् विशृङ्खलखलाभिसारिका वर्त्मभिर् घनतमोमलीमसैः
शब्दमात्रम् अपि सोढुम् अक्षमा भूषणस्य गुणिनः समुत्थितम् ॥
माने नेच्छति वारयत्य् उपशमे क्ष्माम् आलिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते
तृष्णे त्वाम् अनुबध्नता फलम् इयत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥
पततु वारिणि यातु दिगन्तरं विशतु वह्निम् अथ व्रजतु क्षितिम्
रविर् असाव् इयतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः ॥
सद्वृत्तयः सदसदर्थविवेकिनो ये ते पश्य कीदृशम् अमुं समुदाहरन्ति
चौरासतीप्रभृतयो ब्रुवते यद् अस्य तद् गृह्यते यदि कृतं तद् अहस्करेण ॥
पातः पूष्णो भवति महते नोपतापाय यस्मात् काले प्राप्ते क इह न ययुर् यान्ति यास्यन्ति वास्तम्*
एतावत् तु व्यथयतितरां लोकबाह्यैस् तमोभिस् तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ॥
पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुर् इयताप्य् अथवा त्रपेरन्
सन्तो ऽप्य् असन्त इव चेत् प्रतिभान्ति भानोर् भासावृते नभसि शीतमयूखमुख्याः ॥
गते तस्मिन् भनौ त्रिभुवनसमुन्मेषविरह व्यथां चन्द्रो नेष्यत्य् अनुचितम् अतो नास्त्य् असदृशम्
इदं चेतस्तापं जनयतितराम् अत्र यद् अमी प्रदीपाः संजातास् तिमिरहतिबद्धोधुरशिखाः ॥
सूर्याद् अन्यत्र यच् चन्द्रे ऽप्य् अर्थासंस्पर्शि तत् कृतम्
खद्योत इति कीतस्य नाम तुष्टेन केन चित् ॥
कीटमणे दिनम् अधुना तरणिकरान्तरितचारुसितकिरणम्
घनसन्तमसमलीमस दशदिशि निशि यद् विराजसि तद् अन्यत् ॥
सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत्
यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्नामुना कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥
दन्तान्तकुन्तमुखसन्ततपातघात सन्ताडितोन्नतगिरिर् गज एव वेत्ति
पञ्चास्यपाणिपविपञ्जरपातपीडां न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः ॥
अत्युन्नतिव्यसनिनः शिरसो ऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्ताम्
अस्यैतद् इच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥
सो ऽपूर्वः रसनाविपर्ययविधिस् तत् कर्णयोश् चापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा
इत्थं निश्चितवान् असि भ्रमर हे यद् वारणो ऽद्याप्य् असा* अन्तःशून्यकरो निषेयत इति भ्रातः क एष ग्रहः ॥
तद् वैदग्ध्यं समुचितपयस्तोयतत्त्वं विवेक्तुं संलापास् ते स च मृदुपदन्यासहृद्यो विलासः
आस्तां तावद् बक यदि तथा वेत्थि किं चिच् छ्लथांसस् तूष्णीम् एवासितुम् अपि सखे त्वं कथं मे न हंसः ॥
मूल पाठ: Bhallaṭaśataka · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0