भैषज्यवस्तु · भाग 4146
समुद्रम् इव गम्भीरम् अप्रमेयं महोदधिम्* ।
अचिन्त्यं ध्यायिनाम् अग्र्यं बुद्धं द्रक्ष्यस्य् अनुत्तरम्* ॥
निर्यान्तं कृष्णपक्षाद् वा भानुमन्तम् इवाम्बरे ।
ध्मायन्तम् अग्निस्कन्धं वा बुद्धं द्रक्ष्यसि गौतमम्* ॥
चक्रवर्ती यथा राजा सचिवैः परिवारितः ।
अर्हद्भिर् इव संबुद्धः शोभते संपुरस्कृतः ॥
वशवर्ती च कामेषु महाब्रह्मा यथेश्वरः ।
त्रिसहस्रं लोकधातुं वशी वर्तयते मुनिः ॥
सत्यानि संप्रकाशयति मध्व् इव नीडकात् स्रवत्* ।
श्रुत्वा यद् उपशाम्यन्ति प्रतरन्ति महार्णवम्* ॥
दुःखं नैकप्रकारं च यच् च दुःखस्य संभवम्* ।
दुःखस्य च व्युपशमं मार्गं द्विचतुरंगिकम्* ॥
अधनानां धनं दाता आतुरांश् च चिकित्सति ।
उपद्रुतानां शरणं दुःखान् मोचयति प्रजाः ॥
सत्वानाम् अन्धभूतानां मूढानाम् उत्पथचारिणाम्* ।
ऋजुमार्गं प्रकाशयति क्षेमं निर्वाणगामिनम्* ॥
आदीप्तां रागद्वेषाभ्यां मोहप्रज्वलितां प्रजाम्* ।
महामेघो यथा वृष्ट्या निर्वापयति महामुनिः ॥
रूपवर्णबलोपेतः सदृशो ऽस्य न विद्यते ।
नारायणसंहननः शैलो वा सुप्रतिष्ठितः ॥
लाभालाभसुखैर् दुःखैर् निन्दयाथ प्रशंसया ।
यशो ऽयशोभ्याम् अलिप्तः पंकजं वारिणा यथा ॥
प्राणातिपाताद् विरतो नादत्तम् अभिनन्दति ।
सत्यवादी ब्रह्मचारी पैशुन्यात् स उपारतः ॥
परुषं नान्युदीरयति मंजु कालेन भाषते ।
अभिध्या नास्य कामेषु मैत्रचित्तः स जन्तुषु ॥
सत्यदर्शनसंपन्नः समाधिबलगोचरः ।
षडभिज्ञो महाध्यायो नभश् चर्या विगाहते ॥
शृणोति विविधाञ् छब्दान् ये दिव्या ये च मानुषाः ।
चित्तं परेषां जानाति क्लिष्टं वा यदि वाशुभम्* ॥
पूर्वं निवासकुशलो यत्र यत्रोषितः पुरा ।
च्युत्युपपादं जानाति सत्वानाम् आगतिं गतिम्* ॥
क्षीणास्रवो विसंयुक्त उपशान्तः सुनिर्वृतः ।
शान्तेन्द्रियः शान्तचित्तः पूर्णो वा ध्यायते हृदि ॥
नागं वा पद्मिनीमध्ये कुंजरं षष्टिहायनम्* ।
प्रेक्षमाणस् तृप्यमानः प्रीतिं ब्राह्मण लप्स्यसे ॥
ईदृशो भगवाञ् छैल वह्निस्कन्ध इव तेजसा ।
द्वात्रिंशत् तस्य गात्रेषु महापुरुषलक्षणाः ॥
यो ऽपि वर्षशतं पूर्णं वर्णं भाषेत तायिनः ।
स पर्यन्तं नाधिगच्छेद् अप्रमेयस् तथागतः ॥
एतं ब्राह्मण पश्यन्ति लाभस् तेषाम् अनुत्तरः ।
दृष्ट्वा ये शरणं यान्ति तेषां लाभभरस् ततः ॥
संविन्नो ब्राह्मणः शैलः श्रुत्वा वर्णं महामुनेः ।
विवेकचित्तसंकल्पः कैनेयम् इदम् अब्रवीत्* ॥
न मे मनुष्यभूतस्य वर्ण एतादृशः श्रुतः ।
श्रेष्ठो ऽसौ सर्वलोकस्य यथा कैनेय भाषसे ॥
मानध्वजं प्रहाय त्वं वणिजो वा धनार्थिकः ।
शुश्रूषुः पर्युपास्वैवं प्रीतिं ब्राह्मण लप्स्यसे ॥
पंचभिः शतैर् माणवानां शिष्येभिः संपुरस्कृतः ।
निर्याति ब्राह्मणः शैलो येन बुद्धाश्रमः शुभः ॥
विविक्तम् अल्पनिर्घोषं द्विजसंघनिषेवितम्* ।
पुष्पपादपसम्पन्नं देवानाम् इव नन्दनम्* ॥
किन्नरीव्यालभरतिं शाक्यपुत्रनिषेवितम्* ।
आवासं धर्मराजस्य प्राविशद् ब्राह्मणस् ततः ॥
अदान्तदमकं दृष्ट्वा सारथिं पुरुषोत्तमम्* ।
शैलो वाचम् उदीरयति भवान् कच्चिद् अनामयः ॥
नेलया पूर्णया वाचा कलविङ्करुतस्वनः ।
बुद्धः प्रत्यवदच् छैलं तत् खल्व् अहम् अनामयः ॥
अकिंचनो ऽस्म्य् अनादानो ऽथानधश् छिन्नसंशयः ।
विप्रमुक्तो विसंयुक्तो ह्य् अखिलो ऽहम् अनास्रवः ॥
चरामि विरजो लोके शुद्धः शुचि निरामयः ॥
शुचि ब्राह्मण तेनास्मि सर्ववैरभयातिगः ॥
तवापि स्वागतं शैल सन्निषीदेदम् आसनम्* ।
मा परिक्लान्तकायो ऽसि कच्चिद् ब्राह्मण ते सुखम्* ॥
सुखितो ऽहं महावीर त्वां दृष्ट्वाद्य महामुनिम्* ।
प्रतीतमानसस् तुष्टो भूषणैर् वा विभूषितः ॥
अनुपूर्वम् उदीर्याथ कथां तत्रानुपूर्विकीम्* ।
ह्रीयमानो नीचमना न्यषीदद् ब्राह्मणस् ततः ॥
अध्यापको मन्त्रधरस् त्रैविद्यो वेदपारगः ।
निषद्य ब्राह्मणः शैलो लक्षणान् ईक्षते मुनेः ॥
अद्राक्षील् लोकनाथस्य त्रिंशद् गात्रेषु लक्षणान्* ।
द्वयोः कांक्षति शैलश् च कोषोपगतजिह्वयोः ॥
कथंकथी वैमतिको ( fओल्. 236व्1 = ग्ब्म् 6.785 ) लक्षणानि महामुनेः ।
आंगिरसं सत्यनामसंबुद्धं परिपृच्छति ॥
श्रुतानि यानि द्वात्रिंशल् लक्षणानि महामुनेः ।
द्वयं तत्र न पश्यामि तव गात्रेषु गौतम ॥
कच्चित् कोषप्रतिच्छन्नवस्तिगुह्यम् इहास्ति ते ।
रसनानुत्तमा वापि कच्चिज् जिह्वा न ह्रस्विका ॥
कच्चित् प्रभूतजिह्वो ऽसि जानीयां ते महामुने ।
निर्णामयाशु तनुकां कांक्षां व्यपनयस्व मे ॥
कदाचित् कर्हिचिल् लोके उत्पद्यन्ते विनायकाः ।
उदुम्बरे वा कुसुमं दुर्लभो हि महामुनिः ॥
वारि ग्रीष्माभितप्तो वा भोजनं वा बुभुक्षितः ।
आतुरो भेषजं यद्वच् छास्तारं पर्युपास्महे ॥
नेलया पूर्णया वाचा कलविंकरुतस्वनः ।
बुद्धः प्रत्यवदच् छैलं कांक्षां ब्राह्मण निर्णुद ॥
उभे च चक्षुषी श्रोत्रे प्रच्छादयति जिह्वया ।
प्रभूतया च्छादयति जिह्वया मुकमण्डलम्* ॥
रिद्ध्या विदर्शयति चाप्य् ऋद्धिपादेषु कोविदः ।
अद्राक्षीद् ब्राह्मण शैलो गुह्यं कोषावृतं मुनिः ॥
आवृढशल्यो निष्कांक्षो लक्षणानि महामुनेः ।
प्रहृष्टचित्तसंकल्पः शैलो वाचम् उदैरयत्* ॥
मन्त्रेष्व् आप्तानि मे यानि द्वात्रिंशल् लक्षणान्य् अहम्* ।
सर्वं तत् तव गात्रेषु परिपूर्णम् अनूनकम्* ॥
कल्याणवाक् सुचरितः सुजातः प्रियदर्शनः ।
मध्ये श्रमणसंघस्य भास्करो वा विरोचसे ॥
कार्यं श्रमणभावेन किं तवोत्तमवर्णिनः ।
राजा त्वम् अर्हो भवितुं चक्रवर्ती नरर्षभः ॥
चतुरंगबलोपेतो रत्नैः सप्तभिर् एव च ।
वर्तयति क्षितौ चक्रं राजा भव महीपतिः ॥
राजाहम् अस्मि शैलेति धर्मराजो ह्य् अनुत्तरः ।
धर्मेण चक्रं वर्तये इहाहं भूमिमण्डले ॥
कल्यो ऽस्म्य् अहं कुले जातः क्षत्रियो ऽस्म्य् अभिजातितः ।
वित्रास्य सबलं मारं प्राप्तः संबोधिम् उत्तमाम्* ॥
स्मृतिर् ब्राह्मण चक्रं मे प्रज्ञा मे परिनायकः ।
वीर्यं हयः शीघ्रजवो धुरं वहति चोदितः ।
समाधिर् मे मणिश्रेष्ठो ह्य् अन्धकारो प्रभाकरः ॥
उपेक्षा हस्तिनागश् च धुरं वहति चोदितः ॥
स्त्री वै रतिः सरागाणां प्रीतिर् ब्राह्मण मे रतिः ।
प्रसृष्टं ब्राह्मण श्रेष्ठं धनं गृहगतं मया ॥
सप्त बोध्यंगरत्नानि सर्वलोकातिगानि ते ।
प्रबोधयामि यैः सुप्ताम् अन्धभूताम् इमां प्रजाम्* ॥
जिता मया दिशः सर्वाः प्रतिशत्रुर् न विद्यते ।
चतस्रो मे पर्षदश् च चतुरंगं बलं मम ॥
अध्यावसामि नगरं पूर्वबुद्धनिषेवितम्* ।
रिद्ध्यारामोपसंपन्नं मार्गनिर्मितचत्वरम्* ॥
सूत्रान्तजातकाकीर्णं महापुरुषसेवितम्* ।
त्रयो विमोक्षद्वाराणि स्मृत्यारक्षाभिगोपितम्* ॥
ह्रीव्यपत्राप्यसंपन्नः अहं राजा तथागतः ।
धर्मयुद्धं मया दत्तं धर्मभेरी पराहता ॥
चित्रास्य सबलं मारम् अभिषिक्तो ऽस्मि बोधये ।
सुभाविता अप्रमाणाः सन्ति चाभरणानि मे ॥
ब्राह्मा विहाराश् चत्वारः क्लेशानां परिवारणाः ।
परप्रवादा विहता विध्वस्ता विरूढीकृताः ॥
मम सम्यक्त्वं लोके ऽस्मिन्न् आलोकं प्राणिनां ददत्* ।
छिन्न दृग् ज्ञानशस्त्रेण विवेकश् चायुधं मम ॥
रिद्धिपादः अवस्थानं शमथो मुष्टिसंग्रहः ।
शीलरथो नन्दिघोषः ( fओल्. 237र्1 = ग्ब्म् 6.786 ) सारथिर् मे विपश्यनः ॥
सन्नाहः क्षान्तिः सौरत्यं संग्रामो मार्गभावनः ।
कलापः पंचेन्द्रियाणि येभिर् निवरणं हतम्* ॥
चत्वारः सम्यक्प्रहाणा येभिः क्लेशा निसूदिताः ।
शूरयुद्धं मया दत्तं धर्मभेरी मया हता ।
वित्रास्य सबलं मारम् अभिषिक्तो ऽस्मि बोधये ॥
अविद्यां विद्यया हत्वा स्कन्धानाम् उदयव्ययम्* ।
संग्रामशीर्षम् उत्तीर्णो बुद्धो ऽहं बोधये प्रजाम्* ॥
त्रयो लोके महाचौरा यैर् इयं बाध्यते प्रजा ।
रागो द्वेषश् च मोहश् च सर्वे ते नाशिता मया ॥
अर्हंश् च दक्षिणेयो ऽस्मि षडभिज्ञो बलोद्यतः ।
सुक्षेत्रे प्रतिपन्नानाम् आहुतीनां प्रतिग्रहः ॥
आरभ्य परमं वीर्यम् आस्रवा निहता मया ।
महान्तम् ओघम् उत्तीर्णो मुह्यमानेष्व् अवस्थितः ॥
दंष्ट्राबली यथा सिंह आसाद्य प्राणिनो वने ।
समं तेषु प्रहरति बाल्ये मध्ये महल्लके ॥
तथैव लोके संबुद्धो नरसिंहो विनायकः ।
समं धर्मं प्रकाशयति बालमध्यमहात्मसु ॥
आतुरस्य च मे ह त्वं कांक्षां विनय गौतम ।
भवान् हि शल्यहन्त्रीणां वरश् चालोकवेदिनाम्* ॥
विनय शाम्य ते कांक्षाम् अधिमुच्यस्व ब्राह्मण ।
दुर्लभं दर्शनं भवति संबुद्धानां यशस्विनाम्* ॥
यस्येह दुर्लभो भवति प्रादुर्भावः कदाचन ।
सो ऽहं ब्राह्मण संबुद्धो धर्मराजो निरुत्तरः ॥
संबुद्धो ऽस्मीति वदसि शैलोवाच तथागतम्* ।
प्रवर्तयसि केवलं चक्रं यथा गौतम भाषसे ॥
सेनापतिः को भवतः श्रावकः शास्तुर् आत्मजः ।
यत् त्वया वर्तितं चक्रम् अनुवर्तयति पण्डितः ॥
अस्ति मे श्रावको ब्रह्मन् सदृशः प्रज्ञयात्मजः ।
उपतिष्य इति ख्यातः शारिपुत्रो बहुश्रुतः ॥
सर्वग्रन्थविसंयुक्त उपशान्तो निरास्रवः ।
यन् मया वर्तितं चक्रम् अनुवर्तयति पण्डितः ॥
अहो सं बुद्ध आश्चर्यम् अहो श्रावकसंपदः ।
लोकेष्व् आश्चर्यम् उत्पन्नम् अहो रत्नत्रयं परम्* ॥
अहं वदामि भद्रं ते श्रावकत्वम् उपागतः ।
अहो धर्मरसं पीत्वा भविष्यामि सुनिर्वृतः ॥
प्रहृष्टचित्तसंकल्पः संव्यग्रो ब्राह्मणस् ततः ।
विवेकचित्तसंकल्प इदं पर्षदम् अब्रवीत्* ॥
इदं भवन्तः शृणुत चक्षुष्मान् भाषते यथा ।
शल्यहन्ता महाध्यायी वने नदति सिंहवत्* ॥
य इच्छन्त्य् अनुगच्छन्तु ये नेच्छन्ति व्रजन्तु ते ।
अद्यैव प्रव्रजिष्यामि वरप्रज्ञस्य शासने ॥
सुचीर्णे ब्रह्मचर्ये ऽस्मिन् मार्गे चैव सुभाविते ।
प्रव्रज्या सफला भवत्य् अप्रमादविहारिणः ॥
रोचते चेद् इयं तव प्रव्रज जिनशासने ।
छित्वेह ब्राह्मण जटे प्रव्रजिष्यामहे वयम्* ॥
प्रहृष्टचित्तसंकल्पो दशांगुलिकृतांजलिः ।
अवदद् ब्राह्मणः शैलो धृत्वैकांसं सचीवरम्* ॥
पंचशता माणवा एते तिष्ठन्ति प्रांजलीकृताः ।
लभेमहे साधु मुने प्रव्रज्याम् उपसंपदम्* ॥
ततः कारुणिकः शास्ता महर्षिर् अनुकम्पकः ।
एहि भिक्षवे इत्य् आह स तेषाम् उपसंपदा ॥
शारिपुत्रो महाप्रज्ञो मौद्गल्यायन ऋद्धिमान्* ।
ब्राह्मण कप्फिणस्थविरः प्र तिभानगतिं गतः ॥
नदीसुन्दरिकातीरे वनषण्डे मनोरमे ।
तांस् तत्रावदन् स्थविराः प्रतिभानेषु कोविदाः ॥
तेभ्यस् तं धर्मम् आज्ञाय कथां तत्रानुलोमिकीम्* ।
न चिरस्य विसंयुक्ता उत्तमार्थे प्रतिष्ठिताः ॥
ते दृष्टलाभाः सुखिता दृष्टधर्माभिनिर्वृताः ।
ते पश्यन्ति प्रमुदिताः संबुद्धं लोकनायकम्* ॥
सद्धर्मं च धनश्रेष्ठं शिक्षां च जिनवर्णिताम्* ।
नमस्यन्त्य् अप्रमादं च समाधिं प्रतिसंस्तरम्* ॥
तस्माद् इहात्मकामेन माहात्म्यम् अभिकांक्षताम्* ।
बुद्धं धर्मं च संघं च सत्कृतिं शरणं व्रजेत्* ॥
एतद् धि शरणं लोके वर्णितं त त् त्वदर्शिना ।
उपद्रुतानां त्रस्तानां सर्वसौख्यप्रदायकम्* ॥
आदित्यबुद्धो बुद्धस्य धर्म्यं माहात्म्यम् उत्तमम्* ।
शासनं धर्मराजस्य भजेन् मोक्षार्थिकः सदा ॥
कैनेयगाथाः समाप्ताः ॥
अथ भगवान् काशीषु जनपदेषु चारिकां चरन् काशीपट्टम् अनुप्राप्तः । तस्मिंश् च काशीपट्टे शोभितपूर्विणौ द्वौ पितापुत्रौ प्रव्रजितौ । पुत्रः कथयति । भगवान् श्रावकसंघः काशीषु जनपदे चारिकां चरन्न् इहानुप्राप्तः श्रान्तकायो भगवान् भिक्षुसंघश् च । यन् नु वयं भगवन्तं सश्रावकसंघं यवागूपानेनोपनिमन्त्रयामः । तत् किं त्वं पेयां समुदानयसि आहोस्विद् भिक्षुसंघम् उपनिमंत्रयसीति । गच्छ त्वं भिक्षुसंघम् उपनिमंत्रय । अहं पेयां समुदानयामीति । तेन भिक्षुसंघ उपनिमंत्रितः । सो ऽप्य् आदर्शं गृहीत्वा वीथीं गतः । तेन तस्यां श्रेष्ठी दृष्टो दीर्घकेशश्मश्रुः । तस्य तेनादर्श उपदर्शितः । स कथयति । आर्य एतद् अप्य् अस्ति ते कौशल्यम्* । स कथयति । अस्ति । अवतारय । सो ऽवतारयितुम् ( म्स्व् इ 281 ) आरब्धो गृहपतिर् मिद्धम् अवक्रान्तः । अवतारिते प्रतिबुद्धः । स कथयति । आर्यावतारितम्* । गृहपते अवतारितम्* । संतुष्टः कथयति । आर्य अतीव परितुष्टो ऽस्मि । वद कं ते वरम् अनुप्रयच्छामीति । स कथयति । मया बुद्धप्रमुखो भिक्षुसंघो यवागूपानेनोपनिमन्त्रितः । यवागूम् अनुप्रयच्छेति । स कथयति । आर्य किं ते यवागूपानेन । प्रणीतं खादनीयभोजनीयम् अनुप्रयच्छामि । गच्छोपनिमंत्रयस्वेति । आरोग्यम् इत्य् उक्त्वासौ प्रक्रान्तः । ततो ऽसौ गृहपतिः शुचि प्रणीतं खादनीयभोजनीयं पूर्ववद् यावत् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णस् तत्र प्रणीतं खादनीयभोजनीयं चार्यते । भिक्षवः संलक्षयन्ति । वयं लूहेनोपनिमंत्रिताः । अयं च प्रणीत आहारः । कथं वयं प्रतिगृह्णीम इति । ते न प्रतिगृह्णन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यदि लूहेनोपनिमन्त्रितः प्रणीतं लभते परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* ।
भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवो जातीयं भाण्डं धारयन्ति । तस्मान् न भिक्षुणा शिल्पम् उपदर्शयितव्यम्* । न तावज्जातीयेन तावज्जातीयं भाण्डम् उपस्थापयितव्यम्* । उपस्थापयति सातिसारो भवति स्थापयित्वा वैद्यपूर्विणां शस्त्रकोषं कायस्थपूर्विणाम् अपि भाजनं सूचिकप्रव्रजितानां सूचीगृहम् इति ।
( fओल्. 238र्1 = ग्ब्म् 6.788; म्स्व् इ 282 ) भगवान् मल्लेषु जनपदेषु चारिकां चरन् पापाम् अनुप्राप्तः । पापायां विहरति जलूकावनषण्डे । पापायां रोचो नाम मल्लमहामात्रः प्रतिवसति । आयुष्मतः आनन्दस्य मातुलः । सो ऽतीवाश्राद्धः । अश्रौषुः पापेया मल्ला भगवान् मल्लेषु जनपदेषु चारिकां चरन् पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्ड इति । श्रुत्वा च पुनः संजल्पं कुर्वन्ति । भवन्तः श्रूयते भगवान् मल्लेषु जनपदे चारिकां चरन् पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्ड इति । सचेद् अस्माकम् एकैको बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यति अपरे ऽवकासं न लप्स्यन्ते । सर्वथा क्रियाकारं व्यवस्थापयामः । न केनचिद् अस्माकम् एकाकिना बुद्धप्रमुखो भिक्षुसंघो भोजयितव्यः । समस्ता एव वयं भोजयिष्यामः । यो युष्माकम् एकाकी भोजयति स गणेन षष्टिं कार्षापणान् दण्ड्य इति । अथ पापेया मल्लाः सर्वे संभूय येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । एकान्तनिषण्णान् पापेयान् मल्लान् भगवान् धर्म्यया कथया संदर्श्य पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथ पापेया मल्ला उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् इदम् अवोचत्* । अधिवासयत्व् अस्माकं भगवन्* श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । अधिवासयति भगवान् पापेयानां मल्लानां तूष्णींभावेन । अथ पापेया मल्ला भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः । रोचो मल्लमहामात्रस् तत्रैवास्थात्* । ( म्स्व् इ 283 ) स आयुष्मता आनन्देनोक्तः । रोच किं त्वं श्राद्धः संवृत्तः । स कथयति । नाहं श्राद्धः संवृत्तः । किन् तु गणेन क्रियाकारः कृतः । पूर्ववद् यावत् षष्टिं कार्षापणान् दण्ड्य इति । त्वं नाम दण्डभयाद् भगवन्तं दर्शनायोपसंक्रान्तः । एवं भदन्तानन्द । अथायुस्मान् आनन्दो रोचं
मल्लमहामात्रम् आदाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्* । अयं भदन्त रोचो मल्लमहामात्रो न बुद्धे ऽभिप्रसन्नो न धर्मे न संघे ऽभिप्रसन्नः । साध्व् अस्य भगवांस् तथा धर्मं देशयेद् यथैष बुद्धे ऽभिप्रसीदेद् धर्मे संघे अभिप्रसीदेद् इति । अधिवासयति भगवान् आयुष्मत आनन्दस्य तूष्णींभावेन । अथ भगवता रोचस्य महामात्रस्य तादृशी धर्मदेशना कृता यां श्रुत्वा रोचो मल्लमहामात्रो बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः । अथ रोचो मल्लमहामात्रः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलीं प्रणमय्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान्* श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । निमन्त्रितो ऽस्मि रोच तत्प्रथमतः पापेयैर् मल्लैः । अधिवासयतु मे भगवान् अहं तथा करिष्यामि यथा पापेया मल्ला ( fओल्. 238व्1 = ग्ब्म् 6.789 ) अनुज्ञास्यन्ति । सचेत् ते रोच पापेया मल्ला अनुज्ञास्यन्ति एवं ते ऽहम् अधिवासयामि । अथ रोचो मल्लमहामात्रो भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तो येन पापेया मल्लास् तेनोपसंक्रान्तः । उपसंक्रम्य पापेयान् मल्लान् इदम् अवोचत्* । आगमयन्तु तावद् भवन्तो यावद् अहं तत्प्रथमतरं भगवन्तं भोजये भिक्षुसंघं च । पश्चाद् युष्माकम् अपि ( म्स्व् इ 284 ) न दुष्करं भविष्यति भगवन्तं भोजयितुं भिक्षुसंघं च । ते कथयन्ति । अस्माभिस् तत्प्रथमतरं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितो न वयम् अनुजानीम इति । स कथयति । यदि नानुजानीथ एकं खाद्यकं चारयामि पानकं चेति । तत्र ये श्राद्धास् ते कथयन्ति । भवन्त अश्राद्ध एषः । अनुजानीमः सचेत् संघगता तेन दक्षिणा प्रतिष्ठापिता भवति । तैर् अनुज्ञातम्* । ततस् तेन शिल्पिन आहूय उक्ताः । भवन्तस् तादृशं खाद्यकं सज्जीकुरुत येनैकेनैव पर्याप्तिर् भवति अहं सर्वोपकरणानि ददामीति । तेन नानासुगन्धिद्रव्यादिसंयुतान्य् उपकरणानि दत्तानि । तैर् नानासुगन्धिद्रव्यपरिपूर्णं खाद्यकं कृतम्* । येनैकेनैवैकस्य पर्याप्तिर् भवति । अथ पापेया मल्लास् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय
पूर्ववद् यावत् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णाः । ततो रोचो मल्लमहामात्रः खाद्यकं चारयितुम् आरब्धः पानकं च । भिक्षवः कौकृत्येन न परिभुंजन्ति । भगवान् आह । दानपतिर् अवलोकयितव्य इति । भिक्षुभिः पापेया मल्ला अवलोकिताः । कथयन्ति । आर्या लक्षिता वयं रोचेन मल्लमहामात्रेण । प्रतिगृह्णीध्वम् इति । ततो रोचेन मल्लमहामात्रेण खाद्यकं चारितम्* । तेनैव भिक्षूणां पर्याप्तिर् जाता । भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः । पापेयानां मल्लानाम् असाव् आहारः परिभोगं न गतः ।
अपरस्मिन् दिवसे भिक्षवः पिण्डपातं प्रविष्टाः । ब्राह्मणगृहपतिभिर् उच्यन्ते । एहि बुद्ध एहि धर्म एहि संघ इदं गृहाणेति । ( म्स्व् इ 285 ) भिक्षवः कौकृत्येन प्रतिगृह्णन्ति । भगवान् आह । प्रष्टव्यः किं ममानुप्रयच्छथ आहोस्विद् यो ऽसौ भगवान् द्विपदानाम् अग्र्य इति । यदि कथयन्ति यो ऽसौ भगवान् द्विपदानाम् अग्र्य इति । न स्वीकर्तव्यम्* । अथ कथयन्ति । त्वम् एवास्माकं बुद्ध इति प्रतिग्रहीत्व्यम्* । नात्र कौकृत्यं करणीयम्* । एवं धर्मे वक्तव्यं यो ऽसौ विरागाणाम् अग्र्य इति । संघे वक्तव्यं यो ऽसौ गणानाम् अग्र्य इति । विस्तरेण योजयितव्यम्* ।
श्रावस्त्यां निदानम्* । अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो जेन्ताकेनोपनिमन्त्रितः । तेन खलु समयेनायुष्मान् स्वातिर् नवागतस् तरुणो ऽचिरप्रव्रजितः अचिरागत इमं धर्मविनयम्* । स संलक्षयति । उक्तं भगवता यैश् चाल्पं दत्तं यैश् च प्रभूतं दत्तं यैश् च प्रणीतं दत्तं यैश् चात्तमनस्कैः परिकर्म कृतं यैश् च प्रसन्नचित्तैर् अभ्यनुमोदितं ( fओल्. 239र्1 = ग्ब्म् 6.790 ) सर्वे ते पुण्यस्य भागिनो भवन्ति । यन्व् अहं परिकर्म कुर्याम् इति । स काष्ठं पाटयितुम् आरब्धो यावद् अन्यतमस्मात् पूतिदारुसुषिरान् निष्क्रम्याशीविषेण दक्षिणे पादाङ्गुष्ठे दृष्टः । स विषेण संमूर्छितो भूमौ पतितो लाला वाहयति मुखं च विभण्डयति अक्षिणी च संपरिवर्तयति । स तथा विह्वलो ब्राह्मणगृहपतिभिर् दृष्टः । ते कथयन्ति । भवन्तः कतरस्यायं गृहपतेः पुत्र इति । अपरैः समाख्यातम्* । अमुकस्य इति । ते कथयन्ति । अनाथानां श्रमणशाक्यपुत्रीयाणां मध्ये प्रव्रजितः । यदि न प्रव्रजितो ऽभविष्यत्* ज्ञातिभिर् अस्य चिकित्सा कारिता अभविष्यद् इति । एतत् प्रकरणं भिक्षवो भगवत ( म्स्व् इ 286 ) आरोचयन्ति । भगवान् आह । वैद्यं पृष्ट्वा चिकित्सा कर्तव्येति । भिक्षुभिर् वैद्यः पृष्टः । स कथयति । आर्या विकृतभोजनम् अनुप्रयच्छतेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । दातव्यं वैद्योपदेशेनेति । भिक्षवो न जानते कीदृशं विकृतभोजनम् इति । तैर् वैद्यः पृष्टः । स कथयति । आर्या युष्माकम् एव शास्ता सर्वज्ञो भगवान् सर्वदर्शी स एव ज्ञास्यतीति । भिक्षवो भगवत आरोचयन्ति । भगवान् आह । विकृतभोजनं भिक्षव उच्चारः प्रस्रावश् छायिका मृत्तिका च । तत्र उच्चारः अचिरजातकानां वत्सकानां तेषाम् एव च प्रस्रावः । छायिका पंचानां वृक्षाणाम्* । कांचनय कमीबलस्याश्वत्थस्योदुम्बरस्य न्यग्रोधस्य । मृत्तिका पृथिव्यां चतुरंगुलम् अपनीयोद्धर्तव्या इति विकृतभोजनम् इति ।
ततो भिक्षुभिर् आयुष्मतः स्वातेर् विकृतभोजनं दत्तम्* । तथापि न स्वस्थीभवति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । शक्ष्यसि त्वम् आनन्द ममान्तिकान् महामायूरीं विद्याम् उद्गृह्य पर्यवाप्य स्वातेर् भिक्षो रक्षां कर्तुं परित्राणं परिग्रहं विषदूषणं दण्डपरिहारं विषनाशनं सीमाबन्धं धरणीबन्धं च । भाषतां भगवान् श्रोष्यामि । अथ भगवांस् तस्यां वेलायाम् इमां महामायूरीं विद्यां भाषते स्म ।
नमो बुद्धाय नमो धर्माय नमः संघाय ।
तद्यथा अमले विमले निर्मले मंगले हिरण्ये हिरण्यगर्भे भद्रे सुभद्रे समन्तभद्रे श्रीभद्रे सर्वार्थसाधनि परमार्थसाधनि सर्वानर्थप्रशमनि । सर्वमङ्गलसाधनि । मनसे । मानसे । महामानसे । अच्युते अद्भुते अत्यद्भुते मुक्ते मोचनि मोक्षणि अरजे विरजे । अमृते । अमरे अमरणि ब्रह्मे ब्रह्मस्वरे पूर्णे पूर्णमनोरथे मुक्ते जीवति रक्षा स्वातिं सर्वोपद्रवभयरोगेभ्यः स्वाहा ।
एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतो ऽन्तिकान् महामायूरीं विद्याम् उद्गृह्य पर्यवाप्य स्वातेर् भिक्षोः स्वस्त्ययनं कृतम्* । निर्विषश् च संवृत्तो यथा पौराणः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । आस्चर्यं भगवन् यावच् च भगवता महामायूरी विद्या उपकरा बहुकरा च । न भिक्षव एतर्हि यथा ममातीते ऽप्य् अध्वन्य् अक्षणप्रतिपन्नस्य ( fओल्. 239व्1 = ग्ब्म् 6.791 ) विनिपतितशरीरस्यापि महामायूरी विद्याराजा उपकरा बहुकरा च । तच् छ्रूयताम्* ।
भूतपूर्वं भिक्षवो हिमवति पर्वतराजे दक्षिणे पार्श्वे सुवर्णावभासो नाम मयूरराजः प्रतिवसति स्म । सो ऽनया महामायूर्या विद्यया काल्यं स्वस्त्ययनं कृत्वा दिवा स्वस्त्ययनेन विहरति । सो ऽयं स्वस्त्ययनं कृत्वा रात्रौ स्वस्त्ययनेन विहरति । सो ऽपरेण समयेन संबहुलाभिर् वनमयूरीभिः सार्धम् आरामेणारामम् उद्यानेनोद्यानं पर्वतपार्श्वेण पर्वतपार्श्वम् अत्यर्थं कामरागरक्तः कामे ऽनुगृद्धो ग्रथितो मूर्छितो मदमत्तः प्रमूढः प्रमूर्छितः ( म्स्व् इ 288 ) प्रविचरन् प्रसादाद् अन्यतरं पर्वतविवरम् अनुप्रविष्टः । स तत्र दीर्घरात्रं प्रत्यर्थिकैः प्रत्यमित्रैर् हिंसकैर् अवतारप्रेक्षिभिर् मयूरपाशैर् बद्धः । सो ऽप्य् अत्र मध्यगतः प्रमूढः स्मृतिं च लब्ध्वा इमाम् एव महामायूरीं विद्यां मनस्यकार्षीत्* । तद्यथा अमले विमले निर्मले मङ्गल्ये हिरण्ये हिरण्यगर्भे भद्रे सुभद्रे समन्तभद्रे श्रीभद्रे सर्वार्थसाधनि परमार्थसाधनि सर्वानर्थप्रशमनि सर्वमङ्गल्यसाधनि मनसि मानसि महामानसि अच्युते अद्भुते अत्यद्भुते मुक्ते मोचनि मोक्षणि अरजे विरजे अमरे अमृते अमरणि ब्रह्मे ब्रह्मस्वरे पूर्णे पूर्णमनोरथे विमुक्ते जीवति रक्ष मां सर्वोपद्रवेभ्यः स्वाहा ।
स मयूरपाशांश् छित्वा निष्पलानः । किं मन्यध्वे भिक्षवो यो ऽसौ सुवर्णावभासो नाम मयूरराजस् तेन कालेन तेन समयेन । तदापि मम महामायूरी विद्या उपकरा च बहुकरा च एतर्ह्य् अपि मम महामायूरी विद्या उपकरा च बहुकरा चेति । पश्य भदन्त यावच् च भगवतः स्वातेर् भिक्षोर् विद्यया स्वस्त्ययनं कृतम्* । न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि । तच् छ्रूयताम्* ।
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां नागमण्डलिको ऽन्यतमः क्षत्रियदारकः सर्पेण दृष्टः । स कालगतः । नागमण्डलिकेन विद्यया तस्य स्वास्थ्यं कृतम्* । किं मन्यध्वे भिक्षवो यो ऽसौ नागमण्डलिकः अहं स तेन कालेन तेन समयेन । यो ऽसौ दारकः स्वातिर् भिक्षुस् तेन कालेन तेन समयेन ।
भैषज्यवस्तु समाप्तम्* ॥
मूल पाठ: Bhaiṣajyavastu · Edition: N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0