भैरवानुकरणस्तोत्र · श्लोक 21-40
वरदेन पाणिना त्वं विश्वविभूतिप्रदत्वम् अभिनयसि ।
न खलु परतत्त्वनिष्ठो विभवमलैः स्पृश्यते जातु ॥
अभयेन च भवभयानि उन्मूलयता प्रकाश्यते सततम् ।
विश्वानुग्रहकारणस्वभावता तव करतलेन ॥
अख्यातिरूपम् असमं मायायाः शकलितं शिरो ऽत्रैतत् ।
परबोधमयेन मया मुण्डं बिभ्रत् प्रकाशयस्य् एवम् ॥
निःशेषहृतसारा मय्य् एव जगत्स्थितिश् चिदेकघने ।
इति खट्वाङ्गकरङ्कोद्वहनच्छलतो ददास्य् आज्ञाम् ॥
वीणाघण्ताडमरून् उड्डामर वादयन्न् इदं दिशसि ।
वृत्तित्रिभेदभिन्नं नादं शृण्वन् स्थितो ऽस्मीति ॥
किं च परादिकशक्तित्रितयारासुन्दराम् महाशक्तिम् ।
देवानुकरोषि बहिस् त्रिशूलधारणमिषेण नित्यं त्वम् ॥
इच्छादिकनिजशक्तिप्रकाशिताधःस्थगोचरत्रितयाम् ।
स्वाम् एव परां शक्तिं वज्रमयीं वहसि षडरां त्वम् ॥
जगद् अखिलं मच्छक्त्या दमितं सर्वव्यावस्थितीर् धत्ते ।
इति दण्डधारणवशाद् व्यनक्षि चिद्भैरवास्माकम् ॥
मुद्गरपरशू बिभ्रद् बैन्दवनादानुकाररूपौ त्वम् ।
भेदविभेदनशकलनपरत्वम् ईशान निर्दिशसि ॥
दर्शनभेदात् स्वामिन्न् अन्यान्याम् आहृतिं दधानस् त्वम् ।
भैरवपरबोधमयं प्रथयसि निजधाम सर्वत्र ॥
शाक्ताण्डखण्डमध्ये विश्वरसाः सर्वम् अहं पिबामि सदा ।
व्यञ्जयसि नरकपालगरुधिरमिषाद् एतद् इव मे ऽन्तः ॥
अभिमानहृदयबन्धानुत्खातौ ताव् इमौ सशिखौ ।
मूर्ताव् इव मुण्दाब्जौ प्रथयन् धत्से महाकालः ॥
अखिलजगद्बीजभुवं प्रथमस्थाम् अनुकरोषि बोधनिधे ।
करतलगबीजपूरकदर्शनलीलायिताद् देव ॥
भैरवरूपो ऽप्य् असि यत् तत्रापि करे ऽक्षमालिकां धत्से ।
तत् सर्वाक्षविकासाद् विश्वं परिवर्तयस्य् अन्तः ॥
अस्थिकरमुण्डमालाभस्माभरणो नृरक्तरुचिः ।
विश्वं ब्रह्ममयत्वाच् छुद्धम् इतीशः समादिशसि ॥
स्वात्माराममयानां विषमा अपि विषयबुद्बुधाः किम् अमी ।
स्मरदहनम् अलिकनयनम् प्रथयन् परमाग्निरूपम् आदिशसि ॥
अन्तर्निबद्धलक्ष्यः प्रविकासिकरणो ऽपि यत् सदा भवसि ।
तत् प्रथयसि सर्वदशं गतमोहकलङ्कम् आत्मानम् ॥
देव दिगम्बरता ते वदति निरावरणम् आत्मनो रूपम् ।
परमब्रह्ममयार्कान् मायावरणम् कथं वृणुयात् ॥
संहर्ता सर्वेषाम् अर्कादीनाम् अहं तमोभूमिः ।
निर्मलशारदगगनप्रभेण वपुषेति दर्शयसि ॥
परमब्रह्ममयस् त्वं देव यदाश्रयसि भैरवाकारम् ।
तत् प्रथयसि तत्त्वज्ञः सत्य् अपि भेदे विमुक्त इति ॥
मूल पाठ: Bhairavānukaraṇastotra · Edition: Raniero Gnoli Miscellanea Indica. 3. The Bhairavānukaraṇastotra by Kṣemarāja East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0