भाषा

ENहिગુ
ग्रंथ पाठ

भैरवानुकरणस्तोत्र · श्लोक 1-20

1

चितिभूमिसमाश्रयणाश् चितिभूतिं श्रयत मा मुधा भ्रमत ।
प्रथयन्न् इति भक्तिमतां जयति शिवो ऽनुग्रहप्रवणः ॥

2

चिद्भैरवम् एव परं परमामृतरूपम् एकम् अतिदीप्तम् ।
उल्लसितकरणचक्रग्रस्तसमस्तं शिवं वन्दे ॥

3

स्तुत्यः स्तोता स्तुतिर् इति यद् अपि विभिन्नं न किंचिद् अस्तीह ।
मृषति यथा यद् रूपं चिद्रूपतया तथा भवत्य् एतत् ॥

4

विगलितसर्वविभेदं सर्वविभेदात्म चिद्घनानन्दम् ।
यत् तव तत्त्वं भगवंस् तस्यानुकृतिं त्वदाकृतिं वन्दे ॥

5

रेखापुरुषः पुरुषं वर्णलिपिर् वर्णसंचयं यद्वत् ।
तद्वत् विचित्ररूपं त्वाम् आकारो व्यनक्ति परमात्मन् ॥

6

तत्राविकल्पम् एव त्वां चिद्रूपं समाविश्य ।
विमृशामः किम् अपि मनाङ् न हि तत्त्वं कल्पनाविषयः ॥

7

स्वात्मप्रभां विधाय वाग्देवीं विषयकुसुमकॢप्तार्चः ।
प्रथमोन्मेषं गुरुम् अथ वन्दित्वा हृदयम् आविश्य ॥

8

स्तौमि विमृशन् महेश्वरम् आत्मानं स्वं चिदेकघनम् ।
स्रावितपाशकदम्बकम् एतस्मिन् देहदेवगृहे ॥

9

चित्यानन्देच्छावित्करणाख्याः शक्तयो जयन्ति विभो ।
सूक्ष्मस्थूलभिदाप्ता वक्त्रत्वं ब्रह्ममुण्डभिधा ॥

10

सर्वज्ञतादिविषयं हृदयादिकम् अङ्गषट्कं ते ।
सकलं सदाशिवान्तं प्रेतात्मतया तवासनं स्वामिन् ॥

11

परमप्रकाशवपुषो विमर्शशक्तिः प्रभो परा देवी ।
अस्या एव प्रसरः सर्वा ब्राह्म्यादिका देव्यः ॥

12

दहनजलामृतलेखाविषादि बिभ्रत् त्वम् आदिशस्य् एतत् ।
विश्वं विरुद्धम् अपि सच्चिद्रूपे मयि विरुध्यते नैतत् ॥

13

संवित्सूत्रनिलीनो निःसारो मातृनिवहो ऽयम् ।
करणमुण्डमालभारिन् दर्शयसीतीव नः स्वामिन् ॥

14

पश्यत पश्यत पाशा विषमास् त इमे बहिष्कृताः शश्वत् ।
इत्य् अन्त्रधारणमिषत् कथयंस् त्वं नः समाभासि ॥

15

मायापटः सरागो व्योम्नि परे ऽस्मिन् स एष निक्षिप्तः ।
इति गजचर्म सरक्तं मूर्ध्नि वहन् कथयसीश ॥

16

अन्तःशक्तिकृपाणीम् व्यनक्षि संसृतिविभेदिनीम् असिना ।
निजशक्तिमहिमस्वीकृतसमस्तविश्वा हि वीरवराः ॥

17

भवभयहन्ता सो ऽहम् सानाथ्ये ऽवस्थितो ऽस्मि मा भैष्ट ।
इत्य् आस्फोटितखेटकदर्शनतो दिशसि नः स्वामिन् ॥

18

निजशक्तिपाशवलितश् चिद्वपुषा कल्यते मया कालः ।
इति पाशधारणवशात् प्रथयसि नः कालकालस् त्वम् ॥

19

भेदमयम् अखिलम् एतन् निजशक्त्यैवाक्षिपामि संहर्तुम् ।
इत्य् अङ्कुशधारणतः स्फुटयति परभैरवो ऽस्माकम् ॥

20

कोदण्डारूधशरप्रदर्शनाद् ब्रह्मविष्णुरुद्रेशान् ।
ससदाख्यशिवाञ् छक्त्या कारणहरिणं भिनत्सि मृगवत् त्वम् ॥

मूल पाठ: Bhairavānukaraṇastotra · Edition: Raniero Gnoli Miscellanea Indica. 3. The Bhairavānukaraṇastotra by Kṣemarāja East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc