भाषा

ENहिગુ
ग्रंथ पाठ

भैरवानुकरणस्तोत्र · श्लोक 41-48

41

विविधश्मशानमालावेतालावृतः प्रकाशयसे ।
संवित्तिविषयकलनामध्यश् चितिभैरवो ऽस्मीति ॥

42

त्वय्य् एवामृतलेखा परशक्तिमयी परप्रमातातः ।
नाथ त्वम् एव जगताम् जीवनम् इति भासि नो हृदये ॥

43

तव शब्दराशिवपुषः प्रत्यष्टकम् एव बाह्यपरिवारः ।
परसूक्ष्मादिविभेदाद् भैरव लोकेश्वरप्रमुखाः ॥

44

मुद्रयति निखिलम् एतन् निःशेषस्वस्वरूपसंक्रमणात् ।
मोदयति भक्तवर्गं गतिमुदं पूर्णताप्रथनात् ॥

45

मोचयति पाशजालं द्रावयति विभेदम् ईश ते मूर्तिः ।
मुद्रयति विविधसंविद्द्रविणं मुद्रा ततः कथिता ॥

46

जयति परतत्त्वभूमिप्रवरे निपायभूतैष ।
स्फुटम् अधिवसतु सतत्त्वप्रथया हृदयस्य मेयमलम् ॥

47

प्रतिकलम् उदेति संविद् या किल तत्र स्फुरत्य् अधो विश्वम् ।
शिवशक्तिविभवरूपं जानन्ति महेश यागस्थाः ॥

48

इत्थं स्फुरसि सदा मे चिद्भैरव सर्वभूतात्म ।
तद् यागादिजपान्तं सम्पन्नम् अयत्नतः सर्वम् ॥

मूल पाठ: Bhairavānukaraṇastotra · Edition: Raniero Gnoli Miscellanea Indica. 3. The Bhairavānukaraṇastotra by Kṣemarāja East and West 9.3 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc