भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.43

10.43.001

भ्प्_10.43.001।0 श्री-शुक उवाच
अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप ।
मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः

10.43.002

रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।
अपश्यत् कुवलयापीडं कृष्णो ऽम्बष्ठ-प्रचोदितम्

10.43.003

बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।
उवाच हस्तिपं वाचा मेघ-नाद-गभीरया

10.43.004

अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् ।
नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम्

10.43.005

एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् ।
चोदयाम् आस कृष्णाय कालान्तक-यमोपमम्

10.43.006

करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् ।
कराद् विगलितः सो ऽमुं निहत्याङ्घ्रिष्व् अलीयत

10.43.007

सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् ।
परामृशत् पुष्करेण स प्रसह्य विनिर्गतः

10.43.008

पुच्छे प्रगृह्याति-बलं धनुषः पञ्च-विंशतिम् ।
विचकर्ष यथा नागं सुपर्ण इव लीलया

10.43.009

स पर्यावर्तमानेन सव्य-दक्षिणतो ऽच्युतः ।
बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः

10.43.010

ततो ऽभिमखम् अभ्येत्य पाणिनाहत्य वारणम् ।
प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे

10.43.011

स धावन् कृईदया भूमौ पतित्वा सहसोत्थितः ।
तम् मत्वा पतितं क्रुद्धो दन्ताभ्यां सो ऽहनत् क्षितिम्

10.43.012

स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्य्-अमर्षितः ।
चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा

10.43.013

तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।
निगृह्य पाणिना हस्तं पातयाम् आस भू-तले

10.43.014

पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया ।
दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः

10.43.015

मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।
अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः ।
विरूढ-स्वेद-कणिका वदनाम्बुरुहो बभौ

10.43.016

वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ ।
रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ

10.43.018

मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् $ गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः &अम्प्;
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां % वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ भ्प्_10.43.017* ॥
हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ ।
कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप

10.43.019

तौ रेजतू रङ्ग-गतौ महा-भुजौ विचित्र-वेषाभरण-स्रग्-अम्बरौ ।
यथा नटाव् उत्तम-वेष-धारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम्

10.43.020

निरीक्ष्य ताव् उत्तम-पूरुषौ जना मञ्च-स्थिता नागर-राष्ट्रका नृप ।
प्रहर्ष-वेगोत्कलितेक्षणाननाः पपुर् न तृप्ता नयनैस् तद्-आननम्

10.43.021

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।
जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः

10.43.022

ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् ।
तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव

10.43.023

एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि ।
अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि

10.43.024

एष वै किल देवक्यां जातो नीतश् च गोकुलम् ।
कालम् एतं वसन् गूढो ववृधे नन्द-वेश्मनि

10.43.025

पूतनानेन नीतान्तं चक्रवातश् च दानवः ।
अर्जुनौ गुह्यकः केशी धेनुको ऽन्ये च तद्-विधाः

10.43.026

गावः स-पाला एतेन दावाग्नेः परिमोचिताः ।
कालियो दमितः सर्प इन्द्रश् च विमदः कृतः

10.43.027

सप्ताहम् एक-हस्तेन धृतो ऽद्रि-प्रवरो ऽमुना ।
वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम्

10.43.028

गोप्यो ऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् ।
पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा

10.43.029

वदन्त्य् अनेन वंशो ऽयं यदोः सु-बहु-विश्रुतः ।
श्रियं यशो महत्वं च लप्स्यते परिरक्षितः

10.43.030

अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः ।
प्रलम्बो निहतो येन वत्सको ये बकादयः

10.43.031

जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।
कृष्ण-रामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत्

10.43.032

हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ ।
नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा

10.43.033

प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः ।
मनसा कर्मणा वाचा विपरीतम् अतो ऽन्यथा

10.43.034

नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् ।
वनेषु मल्ल-युद्धेन क्रीडन्तश् चारयन्ति गाः

10.43.035

तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे ।
भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः

10.43.036

तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः ।
नियुद्धम् आत्मनो ऽभीष्टं मन्यमानो ऽभिनन्द्य च

10.43.037

प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः ।
करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः

10.43.038

बाला वयं तुल्य-बलैः क्रीडिष्यामो यथोचितम् ।
भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः

10.43.039

भ्प्_10.43.039।0 चाणूर उवाच
न बालो न किशोरस् त्वं बलश् च बलिनां वरः ।
लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत्

10.43.040

तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयो ऽत्र वै ।
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc