भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.42

10.42.001

भ्प्_10.42.001।0 श्री-शुक उवाच
अथ व्रजन् राज-पथेन माधवः स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् ।
विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रस-प्रदः

10.42.002

का त्वं वरोर्व् एतद् उ हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः ।
देह्य् आवयोर् अङ्ग-विलेपम् उत्तमं श्रेयस् ततस् ते न चिराद् भविष्यति

10.42.004

भ्प्_10.42.003।0 सैरन्ध्र्य् उवाच
दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता $ त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि &
दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता $ त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि &
मद्-भावितं भोज-पतेर् अति-प्रियं % विना युवां को ऽन्यतमस् तद् अर्हति ॥ भ्प्_10.42.003* ॥
रूप-पेशल-माधुर्य हसितालाप-वीक्षितैः ।
धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम्

10.42.005

ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना ।
सम्प्राप्त-पर-भागेन शुशुभाते ऽनुरञ्जितौ

10.42.006

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।
ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम्

10.42.007

पद्भ्याम् आक्रम्य प्रपदे द्र्य्-अङ्गुल्य्-उत्तान-पाणिना ।
प्रगृह्य चिबुके ऽध्यात्मम् उदनीनमद् अच्युतः

10.42.008

सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा ।
मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा

10.42.009

ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् ।
उत्तरीयान्तम् अकृष्य स्मयन्ती जात-हृच्-छया

10.42.010

एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे ।
त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ

10.42.011

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।
मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह

10.42.012

एष्यामि ते गृहं सु-भ्रु पुंसाम् आधि-विकर्शनम् ।
साधितार्थो ऽगृहाणां नः पान्थानां त्वं परायणम्

10.42.013

विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।
नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजो ऽर्चितः

10.42.014

तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः ।
विस्रस्त-वासः-कवर वलया लेख्य-मूर्तयः

10.42.015

ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः ।
तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम्

10.42.016

पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् ।
वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे

10.42.017

करेण वामेन स-लीलम् उद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् ।
नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षु-दण्डं मद-कर्य् उरुक्रमः

10.42.018

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।
पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत्

10.42.019

तद्-रक्षिणः सानुचरं कुपिता आततायिनः ।
गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति

10.42.020

अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ ।
क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः

10.42.021

बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः ।
निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः

10.42.022

तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः ।
तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ

10.42.023

तयोर् विचरतोः स्वैरम् आदित्यो ऽस्तम् उपेयिवान् ।
कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः

10.42.024

गोप्यो मुकुन्द-विगमे विरहातुरा या आशासताशिष ऋता मधु-पुर्य् अभूवन् ।
सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं हित्वेतरान् नु भजतश् चकमे ऽयनं श्रीः

10.42.025

अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् ।
ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम्

10.42.026

कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च ।
वधं निशम्य गोविन्द- राम-विक्रीडितं परम्

10.42.027

दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।
बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च

10.42.028

अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि ।
असत्य् अपि द्वितीये च द्वै-रूप्यं ज्योतिषां तथा

10.42.029

छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः ।
स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम्

10.42.030

स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् ।
यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः

10.42.031

अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च ।
पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया

10.42.032

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।
कारयाम् आस वै कंसो मल्ल-क्रीडा-महोत्सवम्

10.42.033

आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे ।
मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः

10.42.034

तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः ।
यथोपजोषं विविशू राजानश् च कृतासनाः

10.42.035

कंसः परिवृतो ऽमात्यै राज-मञ्च उपाविशत् ।
मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता

10.42.036

वाद्यमानेसु तूर्येषु मल्ल-तालोत्तरेषु च ।
मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत

10.42.037

चाणूरो मुष्टिकः कूतः शलस् तोशल एव च ।
त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः

10.42.038

नन्द-गोपादयो गोपा भोज-राज-समाहुताः ।
निवेदितोपायनास् त एकस्मिन् मञ्च आविशन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc