भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.41

10.41.001

भ्प्_10.41.001।0 श्री-शुक उवाच
स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः ।
भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः

10.41.002

सो ऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः ।
कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत्

10.41.003

तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् ।
भूमौ वियति तोये वा तथा त्वां लक्षयामहे

10.41.004

भ्प्_10.41.004।0 श्री-अक्रूर उवाच
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः

10.41.005

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम्

10.41.006

इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः ।
मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये

10.41.007

मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः ।
वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः

10.41.008

तावद् व्रजौकसस् तत्र नन्द-गोपादयो ऽग्रतः ।
पुरोपवनम् आसाद्य प्रतीक्षन्तो ऽवतस्थिरे

10.41.009

तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः ।
गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव

10.41.010

भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् ।
वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम्

10.41.011

भ्प्_10.41.011।0 श्री-अक्रूर उवाच
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल

10.41.012

आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज ।
सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम

10.41.013

पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् ।
यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः

10.41.014

अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् ।
ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या

10.41.015

आपस् ते ऽङ्घ्र्य्-अवनेजन्यस् त्रींल् लोकान् शुचयो ऽपुनन् ।
शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः

10.41.016

देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन ।
यदूत्तमोत्तमः-श्लोक नारायण नमो ऽस्तु ते

10.41.017

भ्प्_10.41.017।0 श्री-भगवन् उवाच
आयास्ये भवतो गेहम् अहम् अर्य-समन्वितः ।
यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम्

10.41.018

भ्प्_10.41.018।0 श्री-शुक उवाच
एवम् उक्तो भगवता सो ऽक्रूरो विमना इव ।
पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ

10.41.019

अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः ।
मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः

10.41.020

ददर्श तां स्फाटिक-तुण्ग-गोपुर- द्वारां बृहद्-धेम-कपाट-तोरणाम् ।
ताम्रार-कोष्ठां परिखा-दुरासदाम् उद्यान-रम्योपवनोपशोभिताम्

10.41.021

सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः श्रेणी-सभाभिर् भवनैर् उपस्कृताम् ।
वैदूर्य-वज्रामल-नील-विद्रुमैर् मुक्ता-हरिद्भिर् वलभीषु वेदिषु

10.41.022

जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व् आविष्ट-पारावत-बर्हि-नादिताम् ।
संसिक्त-रथ्यापण-मार्ग-चत्वरां प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम्

10.41.023

आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः प्रसून-दीपावलिभिः स-पल्लवैः ।
स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः स्व्-अलङ्कृत-द्वार-गृहां स-पट्टिकैः

10.41.024

तां सम्प्रविष्टौ वसुदेव-नन्दनौ वृतौ वयस्यैर् नरदेव-वर्त्मना ।
द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः

10.41.026

काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा $ विस्मृत्य चैकं युगलेष्व् अथापराः &अम्प्;
कृतैक-पत्र-श्रवनैक-नूपुरा % नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् ॥ भ्प्_10.41.025* ॥
अश्नन्त्य एकास् तद् अपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः ।
स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो ऽर्भम् अपोह्य मातरः

10.41.027

मनांसि तासाम् अरविन्द-लोचनः प्रगल्भ-लीला-हसितावलोकैः ।
जहार मत्त-द्विरदेन्द्र-विक्रमो दृशां ददच् छ्री-रमणात्मनोत्सवम्

10.41.029

दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं $ तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः &अम्प्;
आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं % हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् ॥ भ्प्_10.41.028* ॥
प्रासाद-शिखरारूढाः प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः ।
अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ

10.41.030

दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः ।
ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः

10.41.031

ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् ।
या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ

10.41.032

रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः ।
दृष्ट्वायाचत वासांसि धौतान्य् अत्य्-उत्तमानि च

10.41.033

देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः ।
भविष्यति परं श्रेयो दातुस् ते नात्र संशयः

10.41.034

स याचितो भगवता परिपूर्णेन सर्वतः ।
साक्षेपं रुषितः प्राह भृत्यो राज्ञः सु-दुर्मदः

10.41.035

ईदृशान्य् एव वासांसी नित्यं गिरि-वने-चरः ।
परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ

10.41.036

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा ।
बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै

10.41.037

एवं विकत्थमानस्य कुपितो देवकी-सुतः ।
रजकस्य कराग्रेण शिरः कायाद् अपातयत्

10.41.038

तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।
दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे ऽच्युतः

10.41.039

वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा ।
शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित्

10.41.040

ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् ।
विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः

10.41.041

नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः ।
स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ

10.41.042

तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः ।
श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम्

10.41.043

ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि

10.41.044

तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः ।
पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः

10.41.045

प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।
पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम्

10.41.046

भवन्तौ किल विश्वस्य जगतः कारणं परम् ।
अवतीर्णाव् इहांशेन क्षेमाय च भवाय च

10.41.047

न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि

10.41.048

ताव् अज्ञापयतं भृत्यं किम् अहं करवाणि वाम् ।
पुंसो ऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते

10.41.049

इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः ।
शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ

10.41.050

ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ ।
प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान्

10.41.051

सो ऽपि वव्रे ऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि ।
तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम्

10.41.052

इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् ।
बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc