भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.37

10.37.004

भ्प्_10.37.001।0 श्री-शुक उवाच
केशी तु कंस-प्रहितः खुरैर् महीं $ महा-हयो निर्जरयन् मनो-जवः &
केशी तु कंस-प्रहितः खुरैर् महीं $ महा-हयो निर्जरयन् मनो-जवः &
सटावधूताभ्र-विमान-सङ्कुलं % कुर्वन् नभो हेषित-भीषिताखिलः ॥ भ्प्_10.37.001* ॥
तं त्रासयन्तं भगवान् स्व-गोकुलं $ तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् &
तं त्रासयन्तं भगवान् स्व-गोकुलं $ तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् &
आत्मानम् आजौ मृगयन्तम् अग्र-णीर् % उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् ॥ भ्प्_10.37.002* ॥
स तं निशाम्याभिमुखो मखेन खं $ पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः &
स तं निशाम्याभिमुखो मखेन खं $ पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः &
जघान पद्भ्याम् अरविन्द-लोचनं % दुरासदश् चण्ड-जवो दुरत्ययः ॥ भ्प्_10.37.003* ॥
तद् वञ्चयित्वा तम् अधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शतान्तरे यथोरगं तार्क्ष्य-सुतो व्यवस्थितः

10.37.007

सः लब्ध-संज्ञः पुनर् उत्थितो रुषा $ व्यादाय केशी तरसापतद् धरिम् &अम्प्;
सो ऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् % प्रवेशयाम् आस यथोरगं बिले ॥ भ्प्_10.37.005* ॥
दन्ता निपेतुर् भगवद्-भुज-स्पृशस् $ ते केशिनस् तप्त-मय-स्पृशो यथा &
दन्ता निपेतुर् भगवद्-भुज-स्पृशस् $ ते केशिनस् तप्त-मय-स्पृशो यथा &
बाहुश् च तद्-देह-गतो महात्मनो % यथामयः संववृधे उपेक्षितः ॥ भ्प्_10.37.006* ॥
समेधमानेन स कृष्ण-बाहुना निरुद्ध-वायुश् चरणांश् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः

10.37.008

तद्-देहतः कर्कटिका-फलोपमाद् व्यसोर् अपाकृष्य भुजं महा-भुजः ।
अविस्मितो ऽयत्न-हतारिकः सुरैः प्रसून-वर्षैर् वर्षद्भिर् ईडितः

10.37.009

देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप ।
कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् अभाषत

10.37.010

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर ।
वासुदेवाखिलावास सात्वतां प्रवर प्रभो

10.37.011

त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् ।
गूढो गुहा-शयः साक्षी महा-पुरुष ईश्वरः

10.37.012

आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् ।
तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः

10.37.013

स त्वं भूधर-भूतानां दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णो विनाशाय साधुनां रक्षणाय च

10.37.014

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।
यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम्

10.37.015

चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् ।
कंसं च निहतं द्रक्ष्ये परश्वो ऽहनि ते विभो

10.37.016

तस्यानु शङ्ख-यवन- मुराणां नरकस्य च ।
पारिजातापहरणम् इन्द्रस्य च पराजयम्

10.37.017

उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् ।
नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते

10.37.018

स्यमन्तकस्य च मणेर् आदानं सह भार्यया ।
मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः

10.37.019

पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् ।
दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ

10.37.020

यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् ।
कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि

10.37.021

अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै ।
अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः

10.37.023

विशुद्ध-विज्ञान-घनं स्व-संस्थया $ समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् &अम्प्;
स्व-तेजसा नित्य-निवृत्त-माया- % गुण-प्रवाहं भगवन्तम् ईमहि ॥ भ्प्_10.37.022* ॥
त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया विनिर्मिताशेष-विशेष-कल्पनम् ।
क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं नतो ऽस्मि धुर्यं यदु-वृष्णि-सात्वताम्

10.37.024

भ्प्_10.37.024।0 श्री-शुक उवाच
एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः ।
प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः

10.37.025

भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे ।
पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः

10.37.026

एकदा ते पशून् पालाश् चारयन्तो ऽद्रि-सानुषु ।
चक्रुर् निलायन-क्रीडाश् चोर-पालापदेशतः

10.37.027

तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप ।
मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः

10.37.028

मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायश् चोरायितो बहून्

10.37.029

गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः ।
शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः

10.37.030

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा

10.37.031

स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः

10.37.032

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले ।
पश्यतां दिवि देवानां पशु-मारम् अमारयत्

10.37.033

गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc