भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.36

10.36.001

भ्प्_10.36.001।0 श्री बादरायणिर् उवाच
अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः ।
महीम् महा-ककुत्-कायः कम्पयन् खुर-विक्षताम्

10.36.002

रम्भमाणः खरतरं पदा च विलिखन् महीम् ।
उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ।
किञ्चित् किञ्चिच् छकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः

10.36.003

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ।
पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै

10.36.004

निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया ।
तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः

10.36.005

पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् ।
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः

10.36.006

भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् ।
मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत्

10.36.007

गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम ।
मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम्

10.36.008

इत्य् आस्फोत्याच्युतो ऽरिष्टं तल-शब्देन कोपयन् ।
सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः

10.36.009

सो ऽप्य् एवं कोपितो ऽरिष्टः खुरेणावनिम् उल्लिखन् ।
उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत्

10.36.010

अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनो ऽच्युतम् ।
कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तो ऽशनिर् यथा

10.36.011

गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा

10.36.012

सो ऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् ।
आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः

10.36.013

तम् आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले ।
निष्पीडयाम् आस यथार्द्रम् अम्बरं कृत्वा विषाणेन जघान सो ऽपतत्

10.36.014

असृग् वमन् मूत्र-शकृत् समुत्सृजन् क्षिपंश् च पादान् अनवस्थितेक्षणः ।
जगाम कृच्छ्रं निरृतेर् अथ क्षयं पुष्पैः किरन्तो हरिम् ईडिरे सुराः

10.36.015

एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः

10.36.016

अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा ।
कंसायाथाह भगवान् नारदो देव-दर्शनः

10.36.017

यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च ।
रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता ।
न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः

10.36.018

निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः ।
निशातम् असिम् आदत्त वसुदेव-जिघांसया

10.36.019

निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः ।
ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया

10.36.020

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ।
प्रेषयाम् आस हन्येतां भवता राम-केशवौ

10.36.021

ततो मुष्टिक-चाणूर शल-तोशलकादिकान् ।
अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-राट्

10.36.022

भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ ।
नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः

10.36.023

राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ।
भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया

10.36.024

मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः ।
पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम्

10.36.025

महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् ।
द्विपः कुवलयापीडो जहि तेन ममाहितौ

10.36.026

आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे

10.36.027

इत्य् आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिं ततो ऽक्रूरम् उवाच ह

10.36.028

भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः ।
नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु

10.36.029

अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः

10.36.030

गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः ।
आसाते ताव् इहानेन रथेनानय मा चिरम्

10.36.031

निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः ।
ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः

10.36.032

घातयिष्य इहानीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः

10.36.033

तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् ।
तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान्

10.36.034

उग्रसेनं च पितरं स्थविरं राज्य-कामुकं ।
तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम

10.36.035

ततश् चैषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धो मम गुरुर् द्विविदो दयितः सखा

10.36.036

शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः ।
तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान्

10.36.037

एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ ।
धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम्

10.36.038

भ्प्_10.36.038।0 श्री-अक्रूर उवाच
राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् ।
सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम्

10.36.039

मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि ।
युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते

10.36.040

भ्प्_10.36.040।0 श्री-शुक उवाच
एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विषृज्य सः ।
प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc