भागवत पुराण · अध्याय 10.01
भ्प्_10.01.001।0 श्री-राजोवाच
कथितो वंश-विस्तारो भवता सोम-सूर्ययोः ।
राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम्
यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम ।
तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः
अवतीर्य यदोर् वंशे भगवान् भूत-भावनः ।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्
निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-ऽभिरामात् ।
क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात्
पितामहा मे समरे ऽमरञ्जयैर् देवव्रताद्यातिरथैस् तिमिङ्गिलैः ।
दुरत्ययं कौरव-सैन्य-सागरं कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः
द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं सन्तान-बीजं कुरु-पाण्डवानाम् ।
जुगोप कुक्षिं गत आत्त-चक्रो मातुश् च मे यः शरणं गतायाः
वीर्याणि तस्याखिल-देह-भाजाम् अन्तर् बहिः पूरुष-काल-रूपैः ।
प्रयच्छतो मृत्युम् उतामृतं च माया-मनुष्यस्य वदस्व विद्वन्
रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया ।
देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना
कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः ।
क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः
व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः ।
भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम्
देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः ।
यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः
एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् ।
वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम्
नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।
पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम्
भ्प्_10.01.014।0 सूत उवाच
एवं निशम्य भृगु-नन्दन साधु-वादं $ वैयासकिः स भगवान् अथ विष्णु-रातम् &
एवं निशम्य भृगु-नन्दन साधु-वादं $ वैयासकिः स भगवान् अथ विष्णु-रातम् &
प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं % व्याहर्तुम् आरभत भागवत-प्रधानः ॥ भ्प्_10.01.014*
0 श्री-शुक उवाच
सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम ।
वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः
वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि ।
वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा
भूमिर् दृप्त-नृप-व्याज- दैत्यानीक-शतायुतैः ।
आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ
गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः ।
उपस्थितान्तिके तस्मै व्यसनं समवोचत
ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह ।
जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः
तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् ।
पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः
गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम्
पुरैव पुंसावधृतो धरा-ज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् ।
स यावद् उर्व्या भरम् ईश्वरेश्वरः स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः
वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् ।
अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया
विष्णोर् माया भगवती यया सम्मोहितं जगत् ।
आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति
भ्प्_10.01.026।0 श्री-शुक उवाच
इत्य् आदिश्यामर-गणान् प्रजापति-पतिर् विभुः ।
आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ
शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् ।
माथुराञ् छूरसेनांश् च विषयान् बुभुजे पुरा
राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः
तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः ।
देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत्
उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया ।
रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः
चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् ।
अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम्
दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।
दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः
शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् ।
प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम्
पथि प्रग्रहिणं कंसम् आभाष्याहाशरीर-वाक् ।
अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसे ऽबुध
इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः ।
भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचे ऽग्रहीत्
तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् ।
वसुदेवो महा-भाग उवाच परिसान्त्वयन्
भ्प्_10.01.037।0 श्री-वसुदेव उवाच
श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः ।
स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि
मृत्युर् जन्मवतां वीर देहेन सह जायते ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः
देहे पञ्चत्वम् आपन्ने देही कर्मानुगो ऽवशः ।
देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः
व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति ।
यथा तृण-जलौकैवं देही कर्म-गतिं गतः
स्वप्ने यथा पश्यति देहम् ईदृशं मनोरथेनाभिनिविष्ट-चेतनः ।
दृष्ट-श्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः
यतो यतो धावति दैव-चोदितं मनो विकारात्मकम् आप पञ्चसु ।
गुणेषु माया-रोचितेषु देह्य् असौ प्रपद्यमानः सह तेन जायते
ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः $ समीर-वेगानुगतं विभाव्यते &अम्प्;
एवं स्व-माया-रचितेष्व् असौ पुमान् % गुणेषु रागानुगतो विमुह्यति ॥ भ्प्_10.01.043* ॥
तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः ।
आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम्
एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।
हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः
भ्प्_10.01.046।0 श्री-शुक उवाच
एवं स सामभिर् भेदैर् बोध्यमानो ऽपि दारुणः ।
न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः
निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।
प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत
मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् ।
यद्य् असौ न निवर्तेत नापराधो ऽस्ति देहिनः
प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् ।
सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत्
विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया ।
उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत्
अग्नेर् यथा दारु-वियोग-योगयोर् अदृष्टतो ऽन्यन् न निमित्तम् अस्ति ।
एवं हि जन्तोर् अपि दुर्विभाव्यः शरीर-संयोग-वियोग-हेतुः
एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् ।
पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम्
प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् ।
मनसा दूयमानेन विहसन्न् इदम् अब्रवीत्
भ्प्_10.01.054।0 श्री-वसुदेव उवाच
न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् ।
पुत्रान् समर्पयिष्ये ऽस्या यतस् ते भयम् उत्थितम्
भ्प्_10.01.055।0 श्री-शुक उवाच
स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् ।
वसुदेवो ऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम्
अथ काल उपावृत्ते देवकी सर्व-देवता ।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम्
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।
अर्पयाम् आस कृच्छ्रेण सो ऽनृताद् अतिविह्वलः
किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् ।
किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम्
दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् ।
कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत्
प्रतियातु कुमारो ऽयं न ह्य् अस्माद् अस्ति मे भयम् ।
अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल
तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः ।
नाभ्यनन्दत तद्-वाक्यम् असतो ऽविजितात्मनः
नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः
सर्वे वै देवता-प्राया उभयोर् अपि भारत ।
ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः
एतत् कंसाय भगवाञ् छशंसाभ्येत्य नारदः ।
भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम्
ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति ।
देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति
देवकीं वसुदेवं च निगृह्य निगडैर् गृहे ।
जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया
मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा ।
घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि
आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् ।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत
उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् ।
स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0