भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.23

09.23.001

भ्प्_09.23.001।0 श्रीशुक उवाच
अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः ।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः

09.23.002

जनमेजयस्तस्य पुत्रो महाशालो महामनाः ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ

09.23.003

शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः ।
वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान्

09.23.004

शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः ।
ततो होमो ऽथ सुतपा बलिः सुतपसो ऽभवत्

09.23.005

अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः ।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः

09.23.006

चक्रुः स्वनाम्ना विषयान् षड् इमान् प्राच्यकांश्च ते ।
खलपानो ऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः

09.23.007

सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः ।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा

09.23.008

शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् ।
देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम्

09.23.009

नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः ।
स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते

09.23.010

प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः ।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः

09.23.011

बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः ।
आद्याद्बृहन्मनास्तस्माज् जयद्रथ उदाहृतः

09.23.012

विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः

09.23.013

यो ऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।
कुन्त्यापविद्धं कानीनमनपत्यो ऽकरोत् सुतम्

09.23.014

वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः

09.23.015

आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः ।
धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम्

09.23.016

म्लेच्छाधिपतयो ऽभूवन्नुदीचीं दिशमाश्रिताः ।
तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गो ऽथ भानुमान्

09.23.017

त्रिभानुस्तत्सुतो ऽस्यापि करन्धम उदारधीः ।
मरुतस्तत्सुतो ऽपुत्रः पुत्रं पौरवमन्वभूत्

09.23.018

दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ

09.23.019

वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते

09.23.020

यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ।
यदोः सहस्रजित् क्रोष्टा नलो रिपुरिति श्रुताः

09.23.021

चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः ।
महाहयो रेणुहयो हैहयश्चेति तत्सुताः

09.23.022

धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः

09.23.023

दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।
कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः

09.23.024

अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो ऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः

09.23.025

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः

09.23.026

पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः ।
अनष्टवित्तस्मरणो बुभुजे ऽक्षय्यषड्वसु

09.23.027

तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वजः शूरसेनो वृषभो मधुरूर्जितः

09.23.028

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्व् अभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम्

09.23.029

तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ।
तस्य पुत्रशतं त्व् आसीद्वृष्णिज्येष्ठं यतः कुलम्

09.23.030

माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः ।
यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः

09.23.031

स्वाहितो ऽतो विषद्गुर्वै तस्य चित्ररथस्ततः ।
शशबिन्दुर्महायोगी महाभागो महान् अभूत्

09.23.032

चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः ।
तस्य पत्नीसहस्राणां दशानां सुमहायशाः

09.23.033

दशलक्षसहस्राणि पुत्राणां तास्व् अजीजनत् ।
तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः

09.23.034

धर्मो नामोशना तस्य हयमेधशतस्य याट् ।
तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु

09.23.035

पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः ।
ज्यामघस्त्व् अप्रजो ऽप्यन्यां भार्यां शैब्यापतिर्भयात्

09.23.036

नाविन्दच् छत्रुभवनाद्भोज्यां कन्यामहारषीत् ।
रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता

09.23.037

केयं कुहक मत्स्थानं रथमारोपितेति वै ।
स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत्

09.23.038

अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् ।
जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते

09.23.039

अन्वमोदन्त तद्विश्वे देवाः पितर एव च ।
शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् ।
स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc