भागवत पुराण · अध्याय 09.22
भ्प्_09.22.001।0 श्रीशुक उवाच
मित्रायुश्च दिवोदासाच् च्यवनस्तत्सुतो नृप ।
सुदासः सहदेवो ऽथ सोमको जन्तुजन्मकृत्
तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः ।
स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः ।
द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः
धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः पाञ्चालका इमे ।
यो ऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः ।
परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः
सुहोत्रो ऽभूत् सुधनुषश्च्यवनो ऽथ ततः कृती ।
वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः
कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः ।
बृहद्रथात् कुशाग्रो ऽभूदृषभस्तस्य तत्सुतः
जज्ञे सत्यहितो ऽपत्यं पुष्पवांस्तत्सुतो जहुः ।
अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात्
ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।
जीव जीवेति क्रीडन्त्या जरासन्धो ऽभवत् सुतः
ततश्च सहदेवो ऽभूत् सोमापिर्यच् छ्रुतश्रवाः ।
परीक्षिरनपत्यो ऽभूत् सुरथो नाम जाह्नवः
ततो विदूरथस्तस्मात् सार्वभौमस्ततो ऽभवत् ।
जयसेनस्तत्तनयो राधिको ऽतो ऽयुताय्व् अभूत्
ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च ।
ऋक्षस्तस्य दिलीपो ऽभूत् प्रतीपस्तस्य चात्मजः
देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गतः
अभवच् छान्तनू राजा प्राङ् महाभिषसंज्ञितः ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः ।
समा द्वादश तद्राज्ये न ववर्ष यदा विभुः
शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् ।
राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सो ऽब्रवीत् ।
तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा
वेदवादातिवादान् वै तदा देवो ववर्ष ह ।
देवापिर्योगमास्थाय कलापग्राममाश्रितः
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।
बाह्लीकात् सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः
शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् ।
सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः
वीरयूथाग्रणीर्येन रामो ऽपि युधि तोषितः ।
शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः
विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः ।
यस्यां पराशरात् साक्षादवतीर्णो हरेः कला
वेदगुप्तो मुनिः कृष्णो यतो ऽहमिदमध्यगाम् ।
हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।
विचित्रवीर्यो ऽथोवाह काशीराजसुते बलात्
स्वयंवरादुपानीते अम्बिकाम्बालिके उभे ।
तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः
क्षेत्रे ऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका
शापान् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः ।
जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः
नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः ।
द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरो ऽभवन्
युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् ।
अर्जुनाच् छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
सहदेवसुतो राजन् छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवको ऽथ घटोत्कचः
भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती
करेणुमत्यां नकुलो नरमित्रं तथार्जुनः ।
इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् ।
मणिपुरपतेः सो ऽपि तत्पुत्रः पुत्रिकासुतः
तव तातः सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद्वीर उत्तरायां ततो भवान्
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ।
त्वं च कृष्णानुभावेन सजीवो मोचितो ऽन्तकात्
तवेमे तनयास्तात जनमेजयपूर्वकाः ।
श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान्
जनमेजयस्त्वां विदित्वा तक्षकान् निधनं गतम् ।
सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः
कालषेयं पुरोधाय तुरं तुरगमेधषाट् ।
समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः
तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् ।
अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति
सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः ।
असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।
उक्तस्ततश्चित्ररथस्तस्माच् छुचिरथः सुतः
तस्माच् च वृष्टिमांस्तस्य सुषेणो ऽथ महीपतिः ।
सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः
परिप्लवः सुतस्तस्मान् मेधावी सुनयात्मजः ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज् जनिष्यति
तिमेर्बृहद्रथस्तस्माच् छतानीकः सुदासजः ।
शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः ।
ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भाविनो ये वदामि ते
भविता सहदेवस्य मार्जारिर्यच् छ्रुतश्रवाः ।
ततो युतायुस्तस्यापि निरमित्रो ऽथ तत्सुतः
सुनक्षत्रः सुनक्षत्राद्बृहत्सेनो ऽथ कर्मजित् ।
ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति
क्षेमो ऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः ।
द्युमत्सेनो ऽथ सुमतिः सुबलो जनिता ततः
सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः ।
बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0