भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.18

09.18.001

भ्प्_09.18.001।0 श्रीशुक उवाच
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ।
षड् इमे नहुषस्यासन्निन्द्रियाणीव देहिनः

09.18.002

राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् ।
यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते

09.18.003

पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः ।
प्रापिते ऽजगरत्वं वै ययातिरभवन् नृपः

09.18.004

चतसृष्व् आदिशद्दिक्षु भ्रात्-न् भ्राता यवीयसः ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः

09.18.005

भ्प्_09.18.005।0 श्रीराजोवाच
ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः ।
राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः

09.18.006

भ्प्_09.18.006।0 श्रीशुक उवाच
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।
सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी

09.18.007

देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले ।
व्यचरत् कलगीतालि नलिनीपुलिने ऽबला

09.18.008

ता जलाशयमासाद्य कन्याः कमललोचनाः ।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः

09.18.009

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।
सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः

09.18.010

शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत्

09.18.011

अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे

09.18.012

यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये ।
धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः

09.18.013

यान् वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः ।
भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः

09.18.014

वयं तत्रापि भृगवः शिष्यो ऽस्या नः पितासुरः ।
अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती

09.18.015

एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत ।
रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा

09.18.016

आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।
किं न प्रतीक्षसे ऽस्माकं गृहान् बलिभुजो यथा

09.18.017

एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना

09.18.018

तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।
प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह

09.18.019

दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे ।
गृहीत्वा पाणिना पाणिमुज्जहार दयापरः

09.18.020

तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय

09.18.021

हस्तग्राहो ऽपरो मा भूद्गृहीतायास्त्वया हि मे ।
एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
यदिदं कूपमग्नाया भवतो दर्शनं मम

09.18.022

न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।
कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा

09.18.023

ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।
मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः

09.18.024

गते राजनि सा धीरे तत्र स्म रुदती पितुः ।
न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम्

09.18.025

दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात्

09.18.026

वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् ।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि

09.18.027

क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः ।
कामो ऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे

09.18.028

तथेत्यवस्थिते प्राह देवयानी मनोगतम् ।
पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु

09.18.029

पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा ।
स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् ।
देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत्

09.18.030

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।
तमाह राजन् छर्मिष्ठामाधास्तल्पे न कर्हिचित्

09.18.031

विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् ।
तमेव वव्रे रहसि सख्याः पतिमृतौ सती

09.18.032

राजपुत्र्यार्थितो ऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।
स्मरन् छुक्रवचः काले दिष्टमेवाभ्यपद्यत

09.18.033

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी

09.18.034

गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी ।
देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता

09.18.035

प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् ।
न प्रसादयितुं शेके पादसंवाहनादिभिः

09.18.036

शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष ।
त्वां जरा विशतां मन्द विरूपकरणी नृणाम्

09.18.037

भ्प्_09.18.037।0 श्रीययातिरुवाच
अतृप्तो ऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।
व्यत्यस्यतां यथाकामं वयसा यो ऽभिधास्यति

09.18.038

इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं वयः

09.18.039

मातामहकृतां वत्स न तृप्तो विषयेष्व् अहम् ।
वयसा भवदीयेन रंस्ये कतिपयाः समाः

09.18.040

भ्प्_09.18.040।0 श्रीयदुरुवाच
नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव ।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः

09.18.041

तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत ।
प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः

09.18.042

अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।
न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि

09.18.043

भ्प्_09.18.043।0 श्रीपूरुरुवाच
को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् ।
प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम्

09.18.044

उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।
अधमो ऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः

09.18.045

इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः ।
सो ऽपि तद्वयसा कामान् यथावज् जुजुषे नृप

09.18.046

सप्तद्वीपपतिः संयक् पितृवत् पालयन् प्रजाः ।
यथोपजोषं विषयाञ् जुजुषे ऽव्याहतेन्द्रियः

09.18.047

देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः ।
प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः

09.18.048

अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः ।
सर्वदेवमयं देवं सर्ववेदमयं हरिम्

09.18.049

यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।
नानेव भाति नाभाति स्वप्नमायामनोरथः

09.18.050

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुम्

09.18.051

एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् ।
विदधानो ऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc