भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.17

09.17.001

भ्प्_09.17.001।0 श्रीबादरायणिरुवाच
यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः ।
नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान्

09.17.002

अनेना इति राजेन्द्र शृणु क्षत्रवृधो ऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः

09.17.003

काश्यः कुशो गृत्समद इति गृत्समदादभूत् ।
शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः

09.17.004

काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता ।
धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः

09.17.005

यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः ।
तत्पुत्रः केतुमान् अस्य जज्ञे भीमरथस्ततः

09.17.006

दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ।
स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तो ऽलर्कादयस्ततः

09.17.007

षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
नालर्कादपरो राजन् बुभुजे मेदिनीं युवा

09.17.008

अलर्कात् सन्ततिस्तस्मात् सुनीथो ऽथ निकेतनः ।
धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत

09.17.009

धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः ।
वीतिहोत्रो ऽस्य भर्गो ऽतो भार्गभूमिरभून् नृप

09.17.010

इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।
राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः

09.17.011

तद्गोत्रं ब्रह्मविज् जज्ञे शृणु वंशमनेनसः ।
शुद्धस्ततः शुचिस्तस्माच् चित्रकृद्धर्मसारथिः

09.17.012

ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् ।
रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम्

09.17.013

देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद्दिवम् ।
इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः

09.17.014

आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः ।
पितर्युपरते पुत्रा याचमानाय नो ददुः

09.17.015

त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः ।
गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः

09.17.016

अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः ।
कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः

09.17.017

ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः ।
सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः

09.17.018

सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः ।
क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc