भागवत पुराण · अध्याय 09.13
भ्प्_09.13.001।0 श्रीशुक उवाच
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।
आरभ्य सत्रं सो ऽप्याह शक्रेण प्राग् वृतो ऽस्मि भोः
तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय ।
तूष्णीमासीद्गृहपतिः सो ऽपीन्द्रस्याकरोन् मखम्
निमित्तश्चलमिदं विद्वान् सत्रमारभतामात्मवान् ।
ऋत्विग्भिरपरैस्तावन् नागमद्यावता गुरुः
शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः ।
अशपत् पतताद्देहो निमेः पण्डितमानिनः
निमिः प्रतिददौ शापं गुरवे ऽधर्मवर्तिने ।
तवापि पतताद्देहो लोभाद्धर्ममजानतः
इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः ।
मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः
गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः ।
समाप्ते सत्रयागे च देवान् ऊचुः समागतान्
राज्ञो जीवतु देहो ऽयं प्रसन्नाः प्रभवो यदि ।
तथेत्युक्ते निमिः प्राह मा भून् मे देहबन्धनम्
यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।
भजन्ति चरणाम्भोजं मुनयो हरिमेधसः
देहं नावरुरुत्से ऽहं दुःखशोकभयावहम् ।
सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा
भ्प्_09.13.011।0 देवा ऊचुः
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।
उन्मेषणनिमेषाभ्यां लक्षितो ऽध्यात्मसंस्थितः
अराजकभयं न्-णां मन्यमाना महर्षयः ।
देहं ममन्थुः स्म निमेः कुमारः समजायत
जन्मना जनकः सो ऽभूद्वैदेहस्तु विदेहजः ।
मिथिलो मथनाज् जातो मिथिला येन निर्मिता
तस्मादुदावसुस्तस्य पुत्रो ऽभून् नन्दिवर्धनः ।
ततः सुकेतुस्तस्यापि देवरातो महीपते
तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वो ऽथ मरुस्ततः
मरोः प्रतीपकस्तस्माज् जातः कृतरथो यतः ।
देवमीढस्तस्य पुत्रो विश्रुतो ऽथ महाधृतिः
कृतिरातस्ततस्तस्मान् महारोमा च तत्सुतः ।
स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत
ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।
सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः
कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः ।
धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ
कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।
कृतध्वजसुतो राजन्नात्मविद्याविशारदः
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः ।
भानुमांस्तस्य पुत्रो ऽभूच् छतद्युम्नस्तु तत्सुतः
शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतो ऽभवत् ।
ऊर्जकेतुः सनद्वाजादजो ऽथ पुरुजित् सुतः
अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः ।
ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः
तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः ।
आसीदुपगुरुस्तस्मादुपगुप्तो ऽग्निसम्भवः
वस्वनन्तो ऽथ तत्पुत्रो युयुधो यत् सुभाषणः ।
श्रुतस्ततो जयस्तस्माद्विजयो ऽस्मादृतः सुतः
शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ।
बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी
एते वै मैथिला राजन्नात्मविद्याविशारदाः ।
योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्व् अपि
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0