भागवत पुराण · अध्याय 09.06
भ्प्_09.06.001।0 श्रीशुक उवाच
विरूपः केतुमान् छम्भुरम्बरीषसुतास्त्रयः ।
विरूपात् पृषदश्वो ऽभूत् तत्पुत्रस्तु रथीतरः
रथीतरस्याप्रजस्य भार्यायां तन्तवे ऽर्थितः ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्
एते क्षेत्रप्रसूता वै पुनस्त्व् आङ्गिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः
क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।
तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः
तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप ।
पञ्चविंशतिः पश्चाच् च त्रयो मध्ये ऽपरे ऽन्यतः
स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम्
तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः
शेषं निवेदयामास पित्रे तेन च तद्गुरुः ।
चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम्
ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः ।
देशान् निःसारयामास सुतं त्यक्तविधिं रुषा
स तु विप्रेण संवादं ज्ञापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम्
पितर्युपरते ऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।
ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः
कृतान्त आसीत् समरो देवानां सह दानवैः ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः
वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः
स सन्नद्धो धनुर्दिव्यमादाय विशिखान् छितान् ।
स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः
तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम्
तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् ।
यमाय भल्लैरनयद्दैत्यान् अभिययुर्मृधे
तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम्
जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः
पुरञ्जयस्य पुत्रो ऽभूदनेनास्तत्सुतः पृथुः ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः
श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः
यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद्वृतः
धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः
दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।
दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः
बहुलाश्वो निकुम्भस्य कृशाश्वो ऽथास्य सेनजित् ।
युवनाश्वो ऽभवत् तस्य सो ऽनपत्यो वनं गतः
भार्याशतेन निर्विण्ण ऋषयो ऽस्य कृपालवः ।
इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः
राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः ।
दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम्
उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम्
राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम्
ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह
कं धास्यति कुमारो ऽयं स्तन्ये रोरूयते भृशम् ।
मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्
न ममार पिता तस्य विप्रदेवप्रसादतः ।
युवनाश्वो ऽथ तत्रैव तपसा सिद्धिमन्वगात्
त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः
यौवनाश्वो ऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः ।
सप्तद्वीपवतीमेकः शशासाच्युततेजसा
ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम्
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः ।
धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम्
यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते
शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः ।
पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्
यमुनान्तर्जले मग्नस्तप्यमानः परं तपः ।
निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः
जातस्पृहो नृपं विप्रः कन्यामेकामयाचत ।
सो ऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे
स विचिन्त्याप्रियं स्त्रीणां जरठो ऽहमसन्मतः ।
वलीपलित एजत्क इत्यहं प्रत्युदाहृतः
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।
किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः
मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् ।
वृतः स राजकन्याभिरेकं पञ्चाशता वरः
तासां कलिरभूद्भूयांस्तदर्थे ऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम्
स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु
महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः ।
स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमे ऽनुगायद्द्विजभृङ्गवन्दिषु
यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः ।
विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम्
एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः
स कदाचिदुपासीन आत्मापह्नवमात्मनः ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम्
अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत्
सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः $ सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि &अम्प्;
एकश्चरन् रहसि चित्तमनन्त ईशे % युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ भ्प्_09.06.051* ॥
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् $ पञ्चाशदासमुत पञ्चसहस्रसर्गः &
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् $ पञ्चाशदासमुत पञ्चसहस्रसर्गः &
नान्तं व्रजाम्युभयकृत्यमनोरथानां % मायागुणैर्हृतमतिर्विषये ऽर्थभावः ॥ भ्प्_09.06.052* ॥
एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः ।
वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः
तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि
ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0