भागवत पुराण · अध्याय 08.15
भ्प्_08.15.001।0 श्रीराजोवाच
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत ।
भूतेश्वरः कृपणवल् लब्धार्थो ऽपि बबन्ध तम्
एतद्वेदितुमिच्छामो महत् कौतूहलं हि नः ।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः
भ्प्_08.15.003।0 श्रीशुक उवाच
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः ।
सर्वात्मना तान् अभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः
ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः ।
ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात्
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च मालाम् अम्लानपुष्पां जलजं च शुक्रः
एवं स विप्रार्जितयोधनार्थस् तैः कल्पितस्वस्त्ययनो ऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।
सुस्रग्धरो ऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः ।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट्
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः ।
पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीन् इव
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः ।
ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः ।
हंससारसचक्राह्व कारण्डवकुलाकुलाः ।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः
आकाशगङ्गया देव्या वृतां परिखभूतया ।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम्
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः
यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।
भ्राजन्ते रूपवन्नार्यो ह्य् अर्चिर्भिरिव वह्नयः
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् ।
यत्रामोदमुपादाय मार्ग आवाति मारुतः
हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना ।
पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः
मुक्तावितानैर्मणिहेमकेतुभिर् नानापताकावलभीभिरावृताम् ।
शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम्
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः ।
नृत्यैः सवाद्यैरुपदेवगीतकैर् मनोरमां स्वप्रभया जितप्रभाम्
यां न व्रजन्त्य् अधर्मिष्ठाः खला भूतद्रुहः शठाः ।
मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत्
तां देवधानीं स वरूथिनीपतिर् बहिः समन्ताद्रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम्
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् ।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह
भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।
अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः
नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः ।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।
ओजः सहो बलं तेजो यत एतत् समुद्यमः
भ्प्_08.15.028।0 श्रीगुरुरुवाच
जानामि मघवन् छत्रोरुन्नतेरस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः
ओजस्विनं बलिं जेतुं न समर्थो ऽस्ति कश्चन ।
भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम्
विजेष्यति न को ऽप्य् एनं ब्रह्मतेजःसमेधितम् ।
नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः
तस्मान् निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः
एष विप्रबलोदर्कः सम्प्रत्य् ऊर्जितविक्रमः ।
तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् ।
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम्
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।
शतेन हयमेधानामनुव्रतमयाजयन्
ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
कीर्तिं दिक्षुवितन्वानः स रेज उडुराड् इव
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
कृतकृत्यमिवात्मानं मन्यमानो महामनाः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0