भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.14

08.14.001

भ्प्_08.14.001।0 श्रीराजोवाच
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।
यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे

08.14.002

भ्प्_08.14.002।0 श्रीऋषिरुवाच
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः

08.14.003

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।
मन्वादयो जगद्यात्रां नयन्त्य् आभिः प्रचोदिताः

08.14.004

चतुर्युगान्ते कालेन ग्रस्तान् छ्रुतिगणान् यथा ।
तपसा ऋषयो ऽपश्यन् यतो धर्मः सनातनः

08.14.005

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।
युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप

08.14.006

पालयन्ति प्रजापाला यावदन्तं विभागशः ।
यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः

08.14.007

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति

08.14.008

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।
ऋषिरूपधरः कर्म योगं योगेशरूपधृक्

08.14.009

सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः ।
कालरूपेण सर्वेषामभावाय पृथग् गुणः

08.14.010

स्तूयमानो जनैरेभिर्मायया नामरूपया ।
विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते

08.14.011

एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्य् आहुश्चतुर्दश पुराविदः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc