भागवत पुराण · अध्याय 08.08
तन् नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम्
भ्प्_08.08.001।0 श्रीशुक उवाच
पीते गरे वृषाङ्केण प्रीतास्ते ऽमरदानवाः ।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततो ऽभवत्
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप
तत उच्चैःश्रवा नाम हयो ऽभूच् चन्द्रपाण्डुरः ।
तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम्
ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः ।
अभ्रमुप्रभृतयो ऽष्टौ च करिण्यस्त्वभवन् नृप
कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः ।
तस्मिन् मणौ स्पृहां चक्रे वक्षो ऽलङ्करणे हरिः
ततो ऽभवत् पारिजातः सुरलोकविभूषणम् ।
पूरयत्य् अर्थिनो यो ऽर्थैः शश्वद्भुवि यथा भवान्
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।
रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः
ततश्चाविरभूत् साक्षाच् छ्री रमा भगवत्परा ।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।
रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् ।
मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि
आभिषेचनिका भूमिराहरत् सकलौषधीः ।
गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ
ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि ।
जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः
मेघा मृदङ्गपणव मुरजानकगोमुखान् ।
व्यनादयन् शङ्खवेणु वीणास्तुमुलनिःस्वनान्
ततो ऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः
समुद्रः पीतकौशेय वाससी समुपाहरत् ।
वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम्
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले
ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना ।
चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम्
स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
ततस्ततो नूपुरवल्गु शिञ्जितैर् विसर्पती हेमलतेव सा बभौ
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच् च न सङ्गवर्जितम् ।
कश्चिन् महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः
धर्मः क्वचित् तत्र न भूतसौहृदं त्यागः क्वचित् तत्र न मुक्तिकारणम् ।
वीर्यं न पुंसो ऽस्त्य् अजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः
क्वचिच् चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्य् अस्ति न वेद्यमायुषः ।
यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्
एवं विमृश्याव्यभिचारिसद्गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम्
तस्यांसदेश उशतीं नवकञ्जमालां $ माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् &अम्प्;
तस्थौ निधाय निकटे तदुरः स्वधाम % सव्रीडहासविकसन्नयनेन याता ॥ भ्प्_08.08.025* ॥
तस्याः श्रियस्त्रिजगतो जनको जनन्या $ वक्षो निवासमकरोत् परमं विभूतेः &
तस्याः श्रियस्त्रिजगतो जनको जनन्या $ वक्षो निवासमकरोत् परमं विभूतेः &
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन % यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ भ्प्_08.08.026* ॥
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः ।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत्
ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् ।
ईडिरे ऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः
श्रियावलोकिता देवाः सप्रजापतयः प्रजाः ।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम्
निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः
अथासीद्वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः ।
उदतिष्ठन् महाराज पुरुषः परमाद्भुतः
दीर्घपीवरदोर्दण्डः कम्बुग्रीवो ऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः ।
स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः
अमृतापूर्णकलसं बिभ्रद्वलयभूषितः ।
स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः
धन्वन्तरिरिति ख्यात आयुर्वेददृग् इज्यभाक् ।
तमालोक्यासुराः सर्वे कलसं चामृताभृतम्
लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् ।
नीयमाने ऽसुरैस्तस्मिन् कलसे ऽमृतभाजने
विषण्णमनसो देवा हरिं शरणमाययुः ।
इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् ।
मा खिद्यत मिथो ऽर्थं वः साधयिष्ये स्वमायया
मिथः कलिरभूत् तेषां तदर्थे तर्षचेतसाम् ।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो
देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः ।
सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः
इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः ।
दुर्बलाः प्रबलान् राजन् गृहीतकलसान् मुहुः
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः ।
योषिद्रूपमनिर्देश्यं दधारपरमाद्भुतम्
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम्
नवयौवननिर्वृत्त स्तनभारकृशोदरम् ।
मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम्
बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम्
विरजाम्बरसंवीत नितम्बद्वीपशोभया ।
काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम्
सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः ।
दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0